स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीक्षेत्रमाहात्म्यम्/अध्यायः ५८

विकिस्रोतः तः
Jump to navigation Jump to search


।। व्यास उवाच ।। ।।
विचित्रमिदमाख्यातं गयामाहात्म्यमुत्तमम् ।।
भगवन्भवता सर्वं विदितं विश्वमूर्तिना ।। १ ।।
तत्सर्वं श्रोतुमिच्छामि श्राद्धस्य फलमुत्तमम् ।।
क्षेत्रस्य च द्विजश्रेष्ठ विस्तरेण तपोधन ।। २ ।।
कियंतः पितरो नित्यं तृप्ता यांति सुरालयम् ।।
केषां के पितरः प्रोक्ताः किमुद्देश्याः पुराऽनघ ।। ३ ।।
।। सनत्कुमार उवाच ।। ।।
धन्योऽसि कृतकृत्योऽसि यस्य ते नैष्ठिकी मतिः ।।
तथापि शृणु वै वत्स श्राद्धस्य विधिमुत्तमम् ।। ४ ।।
श्राद्धे प्रकल्पिता लोकाः श्राद्धे धर्मः प्रतिष्ठितः ।।
श्राद्धे यज्ञा हि तिष्ठंति सर्वकर्मफलप्रदाः ।। ५ ।।
श्रद्धया दीयते किंचिद्दैवं ब्रह्माग्नितर्पणम् ।।
श्राद्धं तु तद्विजानीयात्पुरा प्रोक्तं मह र्षिणा ।। ६ ।।
मनुष्या ऋषयः सर्वे सुरसिद्धाश्च राक्षसाः ।।
गंधर्वाः किन्नरा नागा ब्रह्मेशानसुरेश्वराः ।। ७ ।।
त्रीन्पितॄंश्च समुद्दिश्य श्राद्धं दद्युः समाहिताः ।।
प्राप्नुवन्त्यखिलान्कामान्सर्वान्व्यास मनोगतान् ।। ८ ।।
एवं परंपरामार्गं प्रवर्तंते सनातनम् ।।
तथापि पितरो ह्येते समाख्याततमा भुवि ।। ९ ।।
तत्सर्वं संप्रवक्ष्यामि यथा श्रुतं तथा शृणु ।।
त एते पितरो देवा देवाश्च पितरस्तथा ।। 5.1.58.१० ।।
अन्योन्यं पितरो ह्येते देवाः पितृगणैः सह ।।
मार्कंडेन पुरा पृष्टं प्रश्नमेतद्द्विजोत्तम ।। ११ ।।
निबोध त्वं मतं सर्वं यदुक्तं तत्समाहितः ।।
यावंतस्ते पितृगणास्तस्मिँल्लोके च ये गताः ।। १२ ।।
।। सनत्कुमार उवाच ।। ।।
सप्तैते यजतां श्रेष्ठाः सर्वे पितृगणाः स्मृताः ।।
चत्वारो मूर्तिमंतो वै त्रयस्तेषां च मूर्तयः ।। ।। १३ ।।
तेषां लोकं विसर्गं च कीर्तयिष्यामि तच्छणु ।।
प्रभावं त्वं महत्त्वं च विस्तरेण तपोधन ।। १४ ।।
धर्ममूर्तिधरास्तेषां तपो ये परमं गताः।।
तेषां नामानि लोकांश्च कीर्तयिष्यामि तच्छृणु।। १५ ।।
लोकाः सनातना नाम यत्र तिष्ठंति भास्वराः ।।
अमूर्तयः पितृगणास्ते वै पुत्राः प्रजापतेः ।। १६ ।।
विराजस्य द्विजश्रेष्ठ वैराजा इति नः श्रुतम् ।।
यजन्ते तान्देवगणा विधिदृष्टेन कर्मणा ।। १७ ।।
एते वै योगविभ्रष्टा लोकान्प्राप्य सनातनान् ।।
पुनर्युगसहस्रांति जायंते ब्रह्मवादिनः ।। १८ ।।
ते प्राप्य तां स्मृतिं भूयः सांख्ययोगमनुत्तमम् ।।
यांति योगगतिं सिद्धाः पुनरावृत्तिदुर्लभाम् ।। १९ ।।
एते स्युः पितरस्तात योगिनां योगवर्धनाः ।।
आप्याययन्ति ये पूर्वं सोमं योगबलेन वै ।। 5.1.58.२० ।।
तस्माच्छ्राद्धानि देयानि योगिनां द्विजसत्तम ।।
एष वै प्रथमः कल्पः सोमपानामनुत्तमः ।। २१ ।।
एतेषां मानसी कन्या मेना नाम महागिरेः ।।
पत्नी हिमवतः श्रेष्ठा यस्यां मैनाक उच्यते ।। २२ ।।
मैनाकस्य सुतः श्रीमान्क्रौंचो नाम महागिरिः ।।
अग्निष्वात्ताः पितृगणास्तत्र तिष्ठंति भास्वराः ।। २३ ।।
याम्यां बर्हिषदश्चासन्यमाश्च पश्चिमां दिशम् ।।
सोमपाश्चोत्तरां प्राप्ता दिशं धनदपालिताम्।। २४ ।।
अमूर्तिमंतावाकाशे कव्यवाडनलौ क्षितौ ।। ।। २५ ।।
यक्षरक्षःपिशाचाश्च यजंते भावितात्मनः ।।
साध्या देवान्यजन्ति स्म विश्वेदेवा ऋषींस्तथा ।। २६ ।।
मानवाः श्राद्धदेवं च ऋषयो ब्रह्म सनातनम् ।।
एवं परंपराप्राप्तः श्राद्धधर्मः सनातनः ।। २७ ।।
देवकार्यात्परं कार्यं पितृकार्यं विशिष्यते ।।
भरद्वाजात्मजाः सप्त श्राद्धधर्मपराय णाः ।। २८ ।।
जातिस्मरत्वमापन्ना निर्वाणपदवीं गताः।।
गुरोश्च दोग्ध्रीं गां हत्वा सप्तैते वै द्विजाधमाः ।। २९ ।।
पितॄनुद्दिश्य ते सर्वे भक्षयंतः क्षुधा र्दिताः ।।
तेन पुण्यप्रभावेन योगभ्रष्टा दिवं गताः ।। 5.1.58.३० ।।
सप्त जातिस्मरास्ते वै योगयुक्ता बभूविरे ।।
तस्माच्छ्राद्धं परं प्रोक्तं सूरिभिः परमात्मभिः ।। ३१ ।।
श्राद्धे प्रतिष्ठिता लोकाः श्राद्धे योगः परंतप ।।
एवं ते पितरः प्रोक्ताः श्राद्धस्य च विधिं शृणु ।। ३२ ।।
ब्रह्मचर्यरतो दांतो न क्रोधी न च मत्सरी ।।
शौचाचारपरो धीरः शास्त्रदृष्टिर्जितेंद्रियः ।।३३ ।।
एवं यः कुरुते श्राद्धं तीर्थे चैव विशेषतः ।।
ततोऽधिकतरा प्रोक्ता तृप्तिर्व्यास क्षयेऽहनि ।। ३४ ।।
वृद्धिश्राद्धे तथा प्रोक्ता महालये शताधिका ।।
ततो दशगुणा प्रोक्ता प्रयागे द्विजसत्तम ।। ३५ ।।
प्रयागाद्दशगुणा तृप्तिः कुरुक्षेत्रे च सत्तम ।।
कुरुक्षेत्रात्ततो व्यास दशाधिका गया स्मृता ।। ३६ ।।
ततो दशाधिका व्यास महाकालवने शुभे ।।
अवंत्यां सर्वतः पुण्यं गयातीर्थे च सर्वदा ।। ३७ ।।
येषां निरयमापन्नाः पितरो जन्मजन्मनि ।।
तेषामुद्धरणार्थाय तीर्थमेतत्सुदुर्लभम्।।३८।।
सकृत्स्मरणमात्रेण पितॄणा दत्तमक्षयम् ।।
ये नरा रणमध्यस्थाः पितृवंशविवर्जिताः ।। ३९ ।।
गर्भपाते मृता ये च नामगोत्रच्युतास्तथा ।।
स्वगोत्रे परगोत्रे वा आत्मघातमृताः परे ।। 5.1.58.४० ।।
तेषामुद्धरणार्थाय तत्र श्राद्धं विधीयताम् ।।
उद्बंधनमृता ये च विषशस्त्रैर्मृताश्च ये।। ४१ ।।
दष्ट्रिभिर्व्यंगतो वापि दौर्ब्राह्मण्ये मृताश्च ये।।
तेषामुद्धर णार्थाय अत्र श्राद्धं विधीयते ।। ४२ ।।
अग्निदग्धाश्च ये जीवा नाग्निदग्धास्तथा परे ।। ४३ ।।
विद्युद्धातेन ये केचिन्मुद्गराभिहताः परे ।।
तेषामुद्धरणार्थाय अत्र श्राद्धं विधीयते ।। ४४ ।।
रौरवे चांधतामिस्रे कालसूत्रे च ये गताः ।।
अनेकयातनासंस्थाः प्रेतलोके च ये गताः ।। ४५ ।।
असिपत्रवने घोरे कुंभीपाके च ये गताः ।।
पशुयोनिगता ये च पक्षिकीटसरीसृपाः ।।
तेषामुद्धरणार्थाय अत्र श्राद्धं विधीयते ।। ४६ ।।
उदकेषु मृता ये च नारीसूतीमृतास्तथा ।। ४७ ।।
अश्वसूकूरकृमिदंष्ट्रिश्वशृंगिशकटाहताः ।।
तेषामुद्धरणार्थाय अत्र श्राद्धं विधीयते ।। ४८ ।।
भग्नदंष्ट्राश्च शस्त्रास्त्रैर्व्याघ्राहिगजभूमिपैः ।।
शलभैर्वृश्चिकैर्दंष्ट्रिचोरैर्ये चापि घातिताः ।।
तेषामुद्धरणार्थाय अत्र श्राद्धं विधीयते ।। ४९ ।।
अष्टशल्यैर्मृता ये च शौचाचारविवर्जिताः ।।
विषूचिकामृता ये च ये चातीसारतो मृताः ।।
तेषामुद्धरणार्थाय अत्र श्राद्धं विधीयते ।। 5.1.58.५० ।।
शाकिन्यादि ग्रहग्रस्तजलमध्ये च ये मृताः ।।
अस्पृश्यस्पर्शसंस्पृष्टाः पापा अपत्यवर्जिताः ।।
तेषामुद्धरणार्थाय अत्र श्राद्धं विधीयते ।। ५१ ।।
जन्मांतरसहस्राणि भ्रमंति स्वेन कर्मणा ।।
मानुषं दुर्लभं येषां तेभ्यः श्राद्धं विधीयताम् ।।५२।।
येऽन्यजन्मन्यबांधवा येऽन्यजन्मनि बांधवाः।।
येऽन्यजन्मनि संबद्धा मित्रामित्रे तथा परे ।।
तेषामुद्धरणार्थाय अत्र श्राद्धं विधीयते ।। ५३ ।।
पितृवंशे मृता ये च मातृवंशे तथैव च ।।
गुरुश्वशुरबंधूनां ये चान्ये बांधवा मृताः ।।
तेषामुद्धरणार्थाय अत्र श्राद्धं विधीयते ।। ५४ ।।
ये मे कुले लुप्तर्पिडाः पुत्रदारादिवर्जिताः ।।
क्रियालोपगता ये च तेभ्यः श्राद्धं विधीयते।। ५५ ।।
पंगुकुब्जा विरूपाश्च आमगर्भाश्च ये मृताः।।
ज्ञाताऽज्ञाताः कुले ये च तेभ्यः श्राद्धं विधीयते।।५६।।
आब्रह्मभुवनाद्ये च अन्यैर्दुर्मरणैर्मृताः।।
तेषामुद्धरणार्थाय अत्र श्राद्धं विधीयते।।५७।।
तृषार्ताः क्षुधिताश्चैव हापिताश्चैव ये मृताः।।
प्रेतयोनिं गताश्चैव म्लेच्छयोनिं गताश्च ये।।
तेषामुद्धरणार्थाय अत्र श्राद्धं विधीयते ।। ५८ ।।
एवं श्राद्धविधिं व्यास तस्मिंस्तीर्थे समाचरेत् ।।
ऋणत्रयविनिर्मुक्तो वांछितार्थं लभेत सः ।।
गयायां च समासाद्य सुरा इंद्रपुरोगमाः ।।
चक्रुश्च विधिवत्सर्वे यदुक्तं देवभाषया ।। ५९ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये गयामाहात्म्ये श्राद्धविधिवर्णनंनामाष्टापञ्चाशत्तमोऽध्यायः ।।५८ ।। ।। छ ।।