स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीक्षेत्रमाहात्म्यम्/अध्यायः ५५

विकिस्रोतः तः
Jump to navigation Jump to search


।। व्यास उवाच ।। ।।
कोऽसौ विंध्यगिरिर्ब्रह्मन्कदा काले समागतः ।।
महाकालवने रम्ये केन वा प्रेषितः पुरा ।। १ ।।
।। सनत्कुमार उवाच ।। ।।
पुरा रेवाजलैर्व्यास प्लावितेयं वसुंधरा ।।
तदा सर्वसुरैरेवमगस्तिर्मुनिसत्तमः।।२।।
आराधितो महाभागो धरणीत्राणकारणात्।।
तदागत्य गिरौ रम्ये विंध्ये स मुनिसत्तम ।। ३ ।।
एकाग्रमानसो भूत्वा भवानीं विंध्यवासिनीम् ।।
आराधयामास तदा तां च देवीं वरेप्सया ।। ४ ।।
कंसविद्रावणकरीमसुराणां क्षयंकरीम्।।
भारावतारणीं पुण्यां बलदेवानुजां शुभाम् ।। ५ ।।
यशोदागर्भसंभूतां चाणूरबलमर्दिनीम्।।
विद्युदाभां नभःस्थां च कृष्णां कृष्णाहिमर्दिनीम्।।६।।
जननीं देवसेनस्य कवीनां वाचमीश्वरीम् ।।
गायत्रीं द्विजमुख्यानां व्याहृतिश्छंदसां वराम् ।। ७ ।।
सहस्राक्षीं तथेंद्रस्य ऋषेश्चारुंधतीं पराम् ।।
गवां कामदुघां श्यामां लतां मधुतमप्रियाम् ।।८।।
अदितिं सर्वमातॄणां पार्वतीं सर्वयोषिताम् ।।
ज्योत्स्नां चांद्रमसीं बालां सर्वकामवरप्रदाम् ।। ९ ।।
शारदीमृतुवेलायां वृंदावनचरीं वराम् ।।
मायिनां वैष्णवीं मायां सर्वदैत्यविमोहिनीम् ।। 5.1.55.१० ।।
लक्ष्मीं च श्रीमतामिष्टां यक्षिणीं धनदार्चिताम् ।।
महोदधीप्सितां वेलां राज्ञां च राजसंपदम् ।। ।।११।।
वेदिकां यज्ञशालानां हविराहवनीं शुभाम् ।
दक्षिणां सर्वदीक्षाणां सर्वकामफलप्रदाम् ।।१२।।
एवं स्तुता तदा देवी प्रत्यक्षा विंध्यवासिनी ।।
प्राह प्रसादसुमुखी ऋषीणां प्रवरं ह्यृषिम् ।। १३ ।।
वियतां भो द्विजश्रेष्ठ यदस्मत्तोऽभिवांछितम्।।
यदीप्सिता त्वया वत्स स्तुतिर्मे शुचिना कृता।। ।। १४ ।।
।। अगस्तिरुवाच ।। ।।
यदि मातर्वरो देयो देवानामुपकारिणि ।।
रेवेयं वर्द्धिता लोके सर्वलोकभयप्रदा ।।१५।।
तयेदं प्लावितं विश्वं तस्यास्तु ग्रहणं कुरु ।।
इति सा प्रार्थिता तेन तदा काले महर्षिणा ।। १६ ।।
आगात्साध्वी तदा व्यास महाकालवनं शुभम्।।
सांत्वपूर्वं वचस्तथ्यमगस्ति मिदमब्रवीत् ।। १७ ।।
वारयिष्ये परां देवीं वर्धमानां द्रुतं ह्यृषे ।।
तावत्कालं न चोत्तिष्ठेद्विंध्यो नाम महागिरिः ।। १८ ।।
यावत्त्रिकूटे द्वारे त्वं स्थास्य सि ऋषिसत्तम ।।
देवकार्योद्यतो नित्यं दक्षिणां दिशमुत्तमाम् ।।१९।।
कुशस्थली महापुण्या पवित्रा पापहारिणी ।।
पुरी ह्येषा मुनिश्रेष्ठ त्रिषु लोकेषु विश्रुता ।।
तत्रैवाहं चिरं कालं मातृभिर्निवसामि वै ।। 5.1.55.२० ।।
तत्रापि त्वं सदा सिद्धक्षेत्राधिपत्यमाप्नुयाः ।।
मत्सरो निर्मलं पुण्यं विमलोदं च विश्रु तम् ।। २१ ।।
यत्र पुण्यवतां वासो देव्यस्तिष्ठंति कोटिशः ।।
तस्मिंस्तीर्थे नराः स्नात्वा शुचीभूय समाहिताः ।। २२ ।।
यजंति चैव मां भक्त्या धूपदीपाग्नितर्पणैः ।।
क्षीरखंडाज्यभोज्यैश्च भोजयेद्विधिवद्द्विजान् ।।२३।।
न तेषां दुर्लभं किंचित्त्रिषु लोकेषु विद्यते ।।
धनधान्यधरैश्वर्यपुत्रदारादिसं पदाम् ।। २४ ।।
प्राप्यंते विविधा भोगा देवानामपि दुर्लभाः ।।
शत्रुतो न भयं तेषां दस्युभ्यो वा न राजतः ।। २५ ।।
न शस्त्रानलतोयौघात्कदा चित्संभविष्यति ।।
दीर्घायुर्बुद्धिमाँल्लोके उषित्वा शाश्वतीः समाः ।। २६ ।।
सर्वपापविशुद्धात्मा मृतः शिवपुरं व्रजेत् ।।
एवं व्यास पुरीं प्राप्य रम्यां चोज्जयिनीं शुभाम् २७।।
समाश्रिता तदा देवी सततं विंध्यवासिनी ।।
तस्मिंस्तीर्थे नरः स्नात्वा सर्वपापैः प्रमुच्यते ।। २८ ।।
स्त्रियो वा रजो दोषार्ता वंध्याः काकबकादिकाः।।
दुर्भगाः शीलहीनाश्च सर्वकामविवर्जिताः।।२९।।
विमलोदेऽपि ताः स्नात्वा दृष्ट्वा वै विंध्यवासिनीम्।।
मुच्यंते सर्वदो षैस्ता नात्र कार्या विचारणा ।। 5.1.55.३० ।।
अपुत्रा प्राप्नुयुः पुत्रान्कन्या वीरपतिं वरम् ।।
प्राप्यते सर्वसौभाग्यं सर्वकामवरप्रदम् ।। ३१ ।।
विद्यावाञ्जायते विप्रः क्षत्रियो विजयी भवेत् ।।
वैश्यश्च बहुलाभाढ्यः शूद्रः सुखमथाश्नुते ।। ३२ ।।
कथां पुण्यवतीमेतां सर्वकामवरप्रदाम्।।
पठन्वाप्यथवा शृण्वन्गोसहस्रफलं लभेत् ।। ३३ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये विंध्यवासिनी विमलोदतीर्थमाहात्म्यवर्णनंनाम पञ्चपञ्चाशत्तमोऽध्यायः ।। ५५ ।। ।। छ ।।