स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीक्षेत्रमाहात्म्यम्/अध्यायः ५२

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

।। सनत्कुमार उवाच ।। ।।।
भूयः शृणु महाभाग शिप्रामाहात्म्यमुत्तमम् ।।
यस्य श्रवणमात्रेण हयमेधफलं भवेत् ।। १ ।।
शिप्रा च सर्वतः पुण्या पवित्रा पापहारिणी ।।
अवंत्यां च विशेषेण शिप्रा चोत्तरवाहिनी ।। २ ।।
तथापि तत्समुत्पत्तिं विस्तराद्गदतो मम ।।
यथा वाराहतनया विष्णुदेहोद्भवा शिवा ।।
शृणु व्यास महापुण्यां कथां पौराणिकीं शुभाम् ।।९३ ।।
पुरा महासुरो जातो हिरण्याक्षो महाबलः ।। ४ ।।
स चेमां सकलां पृथ्वीं वशीकृत्वा चकार ह ।।
राज्यं च सार्वभौमानां दानवैश्च दुरात्मभिः ।। ५ ।।
जित्वा च सकलाँल्लोकान्सुरानिंद्रपुरोगमान् ।।
दिक्पालान्वसुपालांश्च तिरस्कृत्यसुरा धिपः ।। ६ ।।
स सर्वान्सर्वलोकेभ्यः स्वयमेवाधितिष्ठति ।।
स्वर्गान्निराकृताः सर्वे तेन देवगणा भुवि ।। ७ ।।
विचरंति यथा मर्त्या भ्रष्टराज्याः पराजिताः ।।
अलब्धशरणाः सर्वे ब्रह्माणं शरणं ययुः ।। ८ ।।
तत्र गत्वा नमस्कृत्य दैत्यकृत्यं न्यवेदयन् ।।
भगवन्किमिदं कार्यं भवता परमेष्ठिना ।। ।। ९ ।।
येन देवगणाः सर्वे नष्टप्रायाश्च तत्क्षणात् ।।
हिरण्याक्षेण दैत्येन हृतं स्वर्गमकण्टकम् ।। 5.1.52.१० ।।
यज्ञभागांश्च वै सर्वानुपाश्नाति पृथक्पृथक् ।।
केनोपायेन जीवाम कथं तिष्ठाम भूतले ।। ११ ।।
इति विक्लवितं तेषां देवानां स पितामहः ।।
उवाच वचनं रम्यं तत्कालसमयोचितम् ।। १२ ।।
।। ।। ब्रह्मोवाच ।। ।।
शृणुध्वं भोः सुरश्रेष्ठा यूयं सर्वे समाहिताः ।।
पुरायं पार्षदश्रेष्ठो द्वारपालः समाहितः ।। १३ ।।
वैकुण्ठभवने रम्ये विष्णोरतुलतेजसः ।
जयोनाम महाबाहुर्विजयेन समन्वितत।। १० ।।
द्वावेव सचिवौ दांतौ विष्णुवेषधरावुभौ।।
आत्तयष्टी च विक्रांतौ द्वारे संतिष्ठतः सदा ।। ।।१५।।
एकदा वै मुनिश्रेष्ठ ब्रह्मणो मानसात्मजाः।।
स्वैरं चरंतो लोकानां विष्णोर्भवनमागताः ।।१६।।
सनकादयो महाभागा भगवद्दर्शनलालसाः।।
ताभ्यां निवारिताः सर्वे पेतुर्वै धरणीतले ।। १७ ।।
मुमुहुश्च तदा व्यास कुमारा भृशदुःखिताः ।।
ततोऽगात्स महाबाहुर्भगवान्कमलेक्षणः ।। १८ ।।
ददर्श सहसा विष्णुः कुमारान्भुवि दुःखितान् ।।
उत्थाप्यांकं समारोप्य सस्वजे मधुसूदनः ।। १९ ।।
मूर्ध्नि चाघ्राय बाहुभ्यां परिष्वज्य ह्युवाच ह।।
कस्माद्वः कश्मलमिदं केनापि दुःखिता भृशम् ।। 5.1.52.२० ।।
सर्वं तत्कारणं बाला ब्रूत नो धर्मवित्तमाः ।। २१ ।।
।। कुमारा ऊचुः ।। ।।
श्रूयतां भो महाराज अस्माकं दुःखमीदृशम् ।।
येन प्राप्ता वयं ब्रह्मन्दशामेतां शृणुष्व ह ।। २२ ।।
आयाता भ्रातरो ह्येते चत्वारो लोकपर्यटाः ।।
दर्शनार्थं रमानाथ साभिलाषाः शुचार्दिताः ।। २३ ।।
निवारिताश्च सहसा ताभ्यां वै द्वारपालनात् ।।
तेनैवेयं दशा प्राप्ता भवता परिपालिताः ।। २४ ।। ।।
।। भगवानुवाच ।। ।।
अतः प्रभृति स्थानेस्मिन्स्थितिर्नास्ति च शाश्वती ।।
एतयोरासुरी योनिः प्राप्स्यते यन्ममाहितौ ।। २५ ।।
सद्यः प्राप्तौ तदा व्यास आसुरीं योनिमेव तौ ।।
जयविजयनामाख्यौ दुष्टभावसमाश्रितौ ।। २६ ।।
जन्मांतरसहस्रेण तपोदानसमाधिभिः ।।
नराणां क्षीणपापानां कृष्णे भक्तिः प्रजायते ।। २७ ।।
दुष्टभावेन सद्यो वै जन्मभिर्जायते त्रिभिः ।।
भविष्यति च तस्माद्वो विष्णुभक्तिः परा स्मृता ।।२८।।
जन्मजन्मांतरे जातौ तामसीं योनिमुद्धतौ ।।
हिरण्यकशिपुश्चैव हिरण्याक्षो महाबलः ।। २९ ।।
तथैव कुंभकर्णाख्यो रावणो लोकरावणः ।।
दंत वक्त्रः शिशुपालश्च जन्मत्रयमिति स्मृतम् ।। 5.1.52.३० ।।
योऽसौ महाबली दैत्यो हिरण्याक्ष इति स्मृतः ।।
दुष्टभावसमापन्नो देवब्राह्मणनिंदकः ।। ।। ३१ ।।
जित्वा च सकलान्देवान्स्वयमेवाधितिष्ठति ।। ३२ ।।
स्वर्गान्निराकृताः सर्वे भ्रष्टराज्याः पराजिताः ।।
विचरंति यथा मर्त्यास्तेन देव गणा भुवि ।। ३३ ।।
स्वधाकारो वषट्कारः स्वाहाकारो न दृश्यते ।।
देवपूजार्चनं नास्ति ब्राह्मणानां विशेषतः ।। ३४ ।।
नैव तीर्थं प्रकाशेत पुण्यान्यायतनानि च ।।
आश्रमेषु च सर्वेषु ऋषीणां च महात्मनाम् ।। ३५ ।।
उद्वृत्तं च प्रकुर्वंति दुष्टदैत्याः प्रहारिणः ।।
वर्णाश्रमवतां धर्माः स्त्रीणां चैव सुशीलता।। १८ ।।
उच्छिन्ना हि तदा जातास्तस्मिन्राज्ञि दुरात्मनि ।।
दुष्टाचारा दुरात्मानो मायिनो बहुमानिनः ।। ३७ ।।
पाखंडिनोऽपरा क्रांताः सर्वे धर्मबहिर्मुखाः ।।
पशुधर्मरताः सर्वे सर्वे ब्रह्मेतिशंसिनः ।। ३८ ।।
बहुम्लेच्छा बहुक्लेशा बह्वाबाधावनी कृता ।।
को वेदः का स्मृतिः को यज्ञः का च दक्षिणा ।। ३९ ।।
तमीभूतं जगत्सर्वं दृश्यते वसुधातले ।।
एवं व्यास यदा जातं दुष्टं सर्वं जगत्त्रयम् ।। 5.1.52.४० ।।
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ।।
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ।। ४१ ।।
इति ज्ञात्वा महाविष्णुर्वाराहं वपुरात्मवान् ।।
दधार लीलया दिव्यं श्वेतद्वीपोपमं शुभम् ।। ४२ ।।
यूपदंष्ट्रो हविर्गंधो बीजौषधितनूरुहः ।।
वेदपादः शुचिर्दंडी जिह्वाग्निस्तालुकाहुतिः ।। ४३ ।।
अंतरास्यरुचादार्ढो यज्ञकायः सुदक्षिणः ।।
उद्गानघुर्घुरोन्नादो विहार ऋत्विजाकृतिः ।। ४४ ।।
हौत्रश्वासपरो दक्षसदस्यावयवः स्मृतः ।।
पुच्छ कर्माशनो नित्यं यजमानसुमानदः ।। ४५ ।।
वेदिपल्वलसंस्तारो ब्रह्माध्वर्युर्वनाकरः ।।
लोककल्पो लोकसाक्षी परावरवहः शुचिः ।। ४६ ।।
आद्यः पुरुष ईशानः पुरुहूतः पुरुष्टुतः ।।
तेनासौ निहतो दैत्यो हिरण्याक्षो दुरासदः ।। ४७ ।।
संग्रामान्सुबहून्कृत्वा बहुकष्टेन विष्णुना ।।
दैत्येन पीडिता पृथ्वी रसातलतलंगता ।। ४८ ।।
उद्धृता च वराहेण दंष्ट्रया चंद्ररेखया ।।
हतास्ते दानवाः सर्वे शेषाः पातालमाययुः ।। ४९ ।।
ववुः पुण्यास्तथा वाताः सुप्रभोऽभूद्दिवाकरः ।।
जज्वलुश्चाग्नयः शांताः शांता दिग्जनितस्वनाः ।। 5.1.52.५० ।।
सरितो मार्गवाहिन्यः सागराः प्रकृतिं गतः ।।
दृष्ट्वा देवोऽखिलं व्यास प्रसन्नात्मा बभूव ह ।। ५१ ।।
वाराहमूर्तिर्भगवान्सर्वकामफलप्रदः ।।
आनंदनिर्भरो देवो हतदैत्यो वरप्रदः ।। ५२ ।।
तस्यापि हृदयाज्जाता नदी ह्येषा सनातनी ।।
आनंदजलसंपूर्णा सर्वानंदवरप्रदा ।।५३।।
बहुयोजनविस्तारा बहुला कामचारिणी ।।
पद्माकरसमाकीर्णा हंसकारण्डसंकुला ।।५४।।
सरला तरलच्छाया यक्षगंधर्वसेविता ।।
किन्नरीगीयमाना च गीयमाना खगालिभिः ।।५५।।
अप्सरोभिर्नृत्यमाना स्तूयमाना महर्षिभिः।।
हूयमाना हुताग्निभी राजर्षिभिः समाश्रिता ।। ५६ ।।
तुंगस्तनभराक्रांतयोषिद्भिः क्रीडितान्तरा ।।
क्वचित्कीरवरांदोलै रम्यमाणा विराजिता ।।५७।।।
वेदविद्भिर्द्विजैः सेव्या ऋषिभिस्संशितात्मभिः ।।
सर्वदा सर्वकाले च सिद्धैः सिद्धिप्रदा नृणाम् ।। ५८ ।।
महाकालवने रम्ये रम्या पद्मावती पुरी ।।
सुन्दरं कुण्डमपरं रम्यं प्राचीनकं शुभम् ।। ५९ ।।
यत्र स्नात्वा नरा यांति शिवलोकं सनातनम् ।।
यत्र नीला परा व्यास शिप्रा वै लोकपावनी ।। 5.1.52.६० ।।
वाराहेण कृतं सर्वं दुष्टदैत्यनिबर्हणम् ।।
तेन देवा निरातंकाः कृता वाराहमूर्तिना ।। ६१ ।।
कृतप्रांजलयः सर्वे देवा इंद्रपुरोगमाः ।।
स्तुतिं कृत्वा महाविष्णोः सततं पुरतः स्थिताः ।। ६२ ।।
देवदेव जगन्नाथ पुण्यश्रवणकीर्तन ।।
किं दानं किं तपः पुण्यं किं तीर्थं का च देवता ।। ।। ६३ ।।
येन पुण्यप्रभावेन पुनः स्वर्गो ह्यवाप्स्यते ।।
एतन्निश्चित्य नो ब्रूहि सर्वं गुह्यतरं विभो ।। ६४ ।।
।। विष्णुरुवाच ।। ।।
शृणुध्वं भोः सुराः सर्वे युष्माकं सिद्धिकारणम् ।।
गुह्याद्गुह्यतरं पुण्यं महाकालवनं शुभम् ।। ६५ ।।
मम देहोद्भवा शिप्रा यत्र लीना पयस्विनी ।।
नीलगंगा सरिच्छ्रेष्ठा यत्र प्राची सरस्वती ।। ६६ ।।
पुष्करं च गयातीर्थं पुरुषोत्तमसरः शुभम् ।।
तत्रैव गच्छत क्षिप्र पुनर्लोकानवाप्स्यथ ।। ६७ ।।
इति श्रुत्वा परं वाक्यं देवदेवजगद्गुरोः ।।
तत्र देवगणाः सर्वे ब्रह्मशक्रपुरोगमाः ।। ६८ ।।
महाकालवने रम्ये यत्र शिप्रा सरिद्वरा ।।
स्नानदानादिकं कृत्वा श्राद्धं कृत्वा यथोचितम् ।। ६९ ।।
तेन पुण्यप्रभावेन स्वकाँल्लोकान्गताः सुराः ।।
एवं व्यास समाख्याता शिप्रा वै लोकपावनी ।। 5.1.52.७० ।।
जातं सरो वराहस्य विष्णोरतुलतेजसः ।।
यस्य दर्शनमात्रेण ब्रह्महत्यां व्यपोहति ।। ७१ ।।
अत्र स्नात्वा पयः पीत्वा श्राद्धं कृत्वा यथोचितम् ।।
पयस्विनीं च गां दत्त्वा विष्णुलोके महीयते ।। ७२ ।। ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डेऽवन्ती क्षेत्रमाहात्म्ये शिप्रामाहात्म्यवर्णनंनाम द्विपञ्चाशत्तमोऽध्यायः ।। ५२ ।। ।। छ ।।