स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीक्षेत्रमाहात्म्यम्/अध्यायः ५०

विकिस्रोतः तः
Jump to navigation Jump to search


।। सनत्कुमार उवाच ।। ।।
पापनाशिनी विख्याता यथा शिप्रा पयस्विनी ।।
तथाहं संप्रवक्ष्यामि समासेन परंतप।।१।।
पुरा कृतयुगे व्यास दमनोनाम वै नृपः ।।
कीकटेषु समाख्यातो राजा परमकोपनः ।।२।।
उत्पथी सर्वधर्माणां गोब्राह्मणविनिंदकः ।।
सुरापी हेमहारी मत्सरी गुरुतल्पगः ।। ३ ।।
प्रजासर्वस्वहर्ता च परदाराभिमर्शकः ।।
धूर्तको धूर्तंसंगी च पिशुनस्तस्कराकृतिः ।।४।।
गोग्रहः पुरभेदी च बंदी बंदिजनप्रियः ।।
कुत्सितः कोपपूर्णश्च वेदशास्त्रविवर्जितः ।।५ ।।
साधुसंगपरित्यागी दुष्टो दुष्टजनप्रियः ।।
कुलांगनापरित्यागी पण्यस्त्रीवृषलीपतिः ।। ६ ।।
धर्मनिंदाकरो नित्यमधर्मे रमते मतिः ।।
न हूयंते न पूज्यंते न श्रूयंते कथा बुधैः ।। ७ ।।
वेदा यज्ञाश्च देवानां मूर्तिः पद्भ्यां च ताड्यते ।।
एवं दुष्टतरो राजा न भूतो न भविष्यति ।। ८ ।।
स एकदा वने घोरे मृगयावनगोचरः ।।
इतस्ततो भ्रममाणो व्याधैः परिवृतः खलः ।। ।। ९ ।।
न लब्ध्वा खेटकं किंचित्क्षुधार्तस्तृषितः खलः ।।
एकाकी विगतोऽसंगो महाकालवनांतिके ।। 5.1.50.१० ।।
रात्रिः समागता तत्र घोरा घोरनि षेविता ।।
वृक्षमूलमुपावृत्य शयनार्थी क्षुधार्दितः ।। ११ ।।
तत्राश्वं विटपे बद्ध्वा स्वयमेव न्यषीदत ।।
तदैव काले वृक्षाद्वै सर्पः पपात मस्तके ।।१२।।
किमिदं कुत आश्चर्यं कृत्वा हस्तेन वारितः ।।
तेन वारयिता राजा दष्टोंऽगुष्ठे तदाऽहिना ।। १३ ।।
दष्टमात्रे च नृपतिर्व्यथितः क्षितिमागतः ।।
कियत्काले व्यथाविष्टो मुमोह क्षीणमंगलः ।। १४।।
एतत्क्षणात्प्रेतभूतो घोरे नरकसंचये ।।
यमदूतैस्ताड्यमानो विविधास्त्रैः स्वकर्मजैः ।। १५ ।।
हर्षिताश्च गणाः सर्वे यमराजस्य किंकराः ।।
बद्ध्वा पाशैश्च तं निन्युः पापिष्ठं यममंदिरे ।। १६ ।।
एतस्मिन्नंतरे व्यास क्रव्यादैः खादितं शवम् ।।
किंचिच्छेषतरं प्रातर्वायसेनाभिलक्षितम् ।। १७ ।।
तत्र गत्वानयन्मांसं तुंडेन वियदुद्गतः ।।
ततोऽन्यैर्वायसैर्भग्नो भ्राम्यमाण इतस्ततः ।। १८ ।।
तत्राटतो हि यत्रास्ते दिव्या शिप्रा पयस्विनी ।।
किंचित्कर्मविपाकेन वायसास्यगतं पलम् ।। १९।।
पतितं वै जले तस्याः शिप्रायास्तस्य काय जम्।।
तेन पुण्यप्रभावेन शिवोऽजायत तत्क्षणात् ।। 5.1.50.२० ।।
त्रिनेत्रोथ जटाजृटी व्याघ्रांबरपरीवृतः ।।
शूलहस्तो वृषारूढो भालचंद्रो ह्युमापतिः ।। २१ ।।
इत्याश्चर्यमयं रूपं दृष्ट्वा दूताश्च धर्षिताः ।।
तद्गणैस्ताडिता भग्ना धर्मराज्ञे शशंसिरे ।। २२ ।।
श्रूयतां भो महाराज धर्मराज नमोस्तु ते ।।
दूतानां यद्वचो रम्यं बह्वाश्चर्यमयं परम् ।।२३।।
कीकटाधिमतिर्मंदः पापिष्ठो वृषलीपतिः ।।
दमनो नाम राजाभूत्समस्ते क्षितिमंडले ।।२४।।
यानि कानि च पापानि ब्रह्महत्यासमानि च ।।
तानि सर्वाणि तेनापि कृतानि भुवि सत्तम ।। २५ ।।
मर्यादाभेदको मूढो वर्णाश्रमसुधर्मिणाम् ।।
कुसंगी द्यूतकोन्मादी बहुव्यंगभरः खलः ।। २६ ।।
यमदंडपरः पापी अस्माकं हर्षवर्धनः ।।
स कथं शिवरूपी स्यात्किमाश्चर्यमतः परम् ।। २७ ।।
यावंतः पतिताः पूर्वे पापिनः सर्व एव हि ।।
कृष्णेन तारिताः सर्वे ब्रह्मपुत्रार्थिना तदा ।। २८ ।।
तदाप्रभृति सर्वाणि कुंडानि नरकस्य वै ।।
शुष्काणि चैव दृश्यंते ग्रीष्मांते वै ह्रदा यथा।।२९।।
न चैवार्तरवं किंचिच्छ्रूयते तव मंदिरे ।।
अस्माकं जीवनं नास्ति किमुपायं वदस्व नः ।।5.1.50.३०।।
एक एवागतो लोके वृत्तिदो नो यमाधिप ।।
सोऽपि शिवत्वमापन्नः कस्मान्नो जीव्यते कथम् ।। ३१ ।।
 धर्मराजस्तदाश्रुत्य किंकराणां परं वचः ।।
चिरं ध्यात्वा स्वकानूचे देशकालोचितं वचः ।। ३२ ।।
।। धर्मराज उवाच ।। ।।
श्रूयतां भो गणाः सर्वैः श्रुतिरेकाग्रमानसैः ।।
येन पुण्यप्रभावेन पापिष्ठः शिवतां गतः ।। ३३ ।।
भुवि पुण्यतमे देशे महाकालवने शुभे ।।
शिप्रानाम सरिच्छ्रेष्ठा सर्वपापहरा परा ।।३४ ।।
येषां शिप्रोदक स्पर्शो जायते भुवि किंकराः ।।
न तेषां पातकं किंचिन्मृतः शिवपुरं व्रजेत् ।। ३५ ।।
मनसा वपुषा वाचा पापानि विविधानि च ।।
तत्क्षणात्प्रलयं यांति शिप्रासरिन्निषेवणात् ।। ३६ ।।
शिप्राशिप्रेति यो ब्रूते यत्र कुत्रापि मानवः ।।
स एव शिवतां याति न जाने स्नानजं फलम् ।।३७।।
यत्र कीटपतंगाश्च शिप्रावारिचराश्च ये ।।
मृताः शिवपुरं यान्ति शिप्रानीरनिषेवणात् ।। ३८ ।।
कृत्वान्यत्र महापापं येऽन्ते शिप्रातटं श्रिताः ।।
महापातकिनोऽप्येते मृता यांति शिवालयम् ।। ३९ ।।
माधवे मासि संप्राप्ते निमज्जंति नरोत्तमाः ।।
न तेषां निरयं किंचिच्छिवरूपाश्चरंति ते ।। 5.1.50.४० ।।
वायसेनाहृतं मांसं तस्य राज्ञः कृतागसः ।।
शिप्रागाधजले क्षिप्तं का तत्र परिदेवना ।। ४१ ।।
वापीकूपतडागादि अधिकाधिकसत्फलम् ।।
तस्माद्दशगुणं पुण्यं नदीषु उपजायते ।। ४२ ।।
तस्माद्दशगुणा तापी गोदा पुण्या ततोधिका ।।
तस्माद्दशगुणा रेवा गंगा पुण्या ततोऽधिका ।।
तस्माद्दशगुणा शिप्रा पवित्रा पापनाशिनी ।। ४३ ।।
दमनस्य शरीरस्य मांसं शिप्रासमागतम् ।।
तेन पुण्यप्रभावेन शिवरूपधरोऽभ वत् ।। ४४ ।।
ईदृशा च नदी रम्या अवन्त्यां भुवि वर्तते ।।
वांछंति देवताः सर्वास्तस्या दुर्लभदर्शनम् ।। ४५।।
धर्मराजवचः श्रुत्वा गणा विस्मय मागताः ।।
मनसा च निरातंकाः शिप्रां शरणमागताः ।। ४६ ।।
।। सनत्कुमार उवाच ।। ।।
तदाप्रभृति विख्याता शिप्रेयं पापनाशिनी ।।
गीयते च पुराणेषु यस्या माहात्म्यमुत्तमम् ।। ४७ ।।
दमनस्य च निर्मुक्तिः शिप्रामाहात्म्यमुत्तमम् ।।
यमदूतानां संवादं श्रुत्वा मुक्तिर्न संशयः ।। ।। ४८ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये शिप्रामाहात्म्ये पञ्चाशत्तमो ऽध्यायः ।। ५० ।।