स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीक्षेत्रमाहात्म्यम्/अध्यायः ४९
।। सनत्कुमार उवाच ।। ।।
एवं व्यास पुरी रम्या नामभूता सनातनी ।।
युगेयुगे यथा जाता तथा ख्याता मयाऽनघ ।। १ ।।
।। व्यास उवाच ।। ।।
भूयोऽहं श्रोतुमिच्छामि त्वत्तो ब्रह्मविदां वर ।।
शिप्रायाश्च कथां पुण्यां पवित्रां पापहारिणीम् ।। २ ।।
सुन्दरं कुंडमाख्यातं पिशाचमोचनं तथा ।।
नीलगंगा इति प्रोक्ता कर्कराजमतः परम् ।। ३ ।।
पुष्कराणि च सर्वाणि गयातीर्थमनुत्तमम् ।।
गोमतीकुण्डमाख्यातं नाम्ना धर्मसरस्तथा ।। ४ ।।
ख्यातं संगमजं तीर्थं शनेर्जन्मकथां शुभाम् ।।
च्यवनाश्रमे च या वार्ता तथा नागालये शुभे ।। ५ ।।
पुरुषोत्तममहिमानं काले केन कथं भवेत् ।।
एतद्वेदितुमिच्छामि यत्ते मनसि वर्तते ।। ६ ।।
।। सनत्कुमार उवाच।। ।।
शृणु व्यास महाभाग कथां पापहरां पराम्।।
यस्मिन्काले यदा जाता महाकालवने शुभे।।७।।
नास्ति वत्स महीपृष्ठे शिप्रायाः सदृशी नदी ।।
यस्यास्तीरे क्षणान्मुक्तिः किं चिरात्सेवनेन वै ।। ८ ।।
वैकुण्ठे जायते शिप्रा ज्वरघ्नी च सुरालये ।।
महाद्वारे च पापघ्नी पातालेऽमृतसंभवा ।। ९ ।।
वाराहकल्पे वै प्रोक्ता विष्णुदेहेति नामतः ।।
शिप्रावंत्यां समाख्याता कामधेनुसमुद्भवा ।। 5.1.49.१० ।।
।। व्यास उवाच ।। ।।
विचित्रमिदमाख्यातं भवता ऋषिसत्तम ।।
वक्तुमर्हसि शिप्रायाः समासेन कथां शुभाम् ।। ११ ।।
।। सनत्कुमार उवाच ।। ।।
ब्राह्मं कपालमादाय भिक्षार्थं संचरन्महीम् ।।
महादेवो विशुद्धात्मा सर्वलोकेषु सर्वतः ।।१२।।
अप्राप्तभिक्षो भिक्षार्थी वैकुण्ठमगमद्विभुः ।।
गतश्चातिथ्यवेलायां भ्रममाणो यतस्ततः।।१३।।
लोकनिंदापरः क्रुद्धः क्षुधितो बहुवासरैः ।।
भिक्षां देहीति भो ब्रह्मन्क्षुधितोऽहं समाहितः ।।१४।।
कपालं च करे कृत्वा इत्यु वाच पुनः पुनः ।।
गृह्यतां हर भिक्षां ते ददामीति हरिस्तदा ।।१५।।
इत्युक्त्वा करमुद्यम्य तर्जन्यगुंलिमादधत् ।।
तदा रुद्रः समाध्मातस्त्रिशूलेनाहन द्रुषा ।।१६।।
तदांगुलिसमुद्भूतं बहु सुस्रावशोणितम् ।।
तेनाशु पात्रं तत्पूर्णं शंकरस्य करे स्थितम् ।।१७।।
तदा उद्वेलिता सा वै धारा जाता समं ततः ।।
तत्र स्थाने समुद्भूता शिप्राऽसृग्धारसंभवा ।। १८ ।।
वैकुंठे चाभवत्सद्यो नदी त्रैलोक्यपावनी ।।
एवं शिप्रा सरिच्छ्रेष्ठा त्रिषु लोकेषु विश्रुता ।। १९ ।।
ज्वरघ्नी च यथा प्रोक्ता तथा व्यास ब्रवीम्यहम् ।।
यदा बाणासुरो दैत्यः कृष्णेन सह संयुगे ।। 5.1.49.२० ।।
योधयामास दैत्येंद्रो ह्यनिरुद्धप्र हेलनः ।।
सहस्रबाहुभिर्वीरो नानाप्रहरणोद्यतः ।। २१ ।।
तस्मात्क्रुद्धो वासुदेवश्चक्रमादाय सत्वरः ।।
चिच्छेद बाहुसाहस्रं क्षुरप्रेणाशुगामिना ।। २२ ।।
स तदा भग्नसंकल्पश्छिन्नदोश्च व्रणार्दितः ।।
पराङ्मुखपरो भूत्वा शंकरं शरणं ययौ ।। २३ ।।
तदागतं महादैत्यं समीपे भयविह्वलम् ।।
विलोक्य कृपयाविष्टो गते संग्राममूर्धनि ।। २४ ।।
छित्त्वा बाहुसहस्रं वै दैत्यराजस्य चाहवे ।।
क्रुद्धः कृष्णो महाबाहुः परसेनांतको वरः ।। २५ ।।
स्थितो यत्राचलो व्यास तत्रागतो महेश्वरः ।।
वारयामास कृष्णं वै शरोघैश्च समाकिरन्।।२६।।
अन्योन्यं च समासाद्य कृत्वा युद्धं तु दारुणम् ।।
शस्त्रास्त्रैश्च महाघोरैः सर्वप्राणिभयंकरैः ।। २७ ।।
वैष्णवास्त्रं तदा कृष्णः संदधे हरजिघांसया ।।
पाशुपतं च नामास्त्रं सर्वसंहारकारकम् ।। २८ ।। ।
संदधे वै तदा शंभुः कृष्णप्राणहरोत्सुकः ।।
हाहाकारस्तदा जातः सर्वलोकेषु श्रूयते ।। २९ ।।
मोहनास्त्रं पुनः कृष्णः शिवोपरि मुमोच ह ।।
तेनास्त्रेण तदा शंभुर्मोहितो देवमायया ।। 5.1.49.३० ।।
जृंभमाणः स्थितः संख्ये किंचित्कालं मुहुर्मुहुः ।।
लब्धसंज्ञः पुनर्जातो यदा रुद्रो महाहवे ।। ३१ ।।
तदा क्रोधाभिभूतेन कृतो माहेश्वरो ज्वरः ।।
ललाटफलकात्सद्यो वीरभद्रो महाबलः ।। ३२ ।।
त्रिनेत्रस्त्रिशिरा ह्रस्वस्त्रिपादो बर्कराकृतिः ।।
क्षुद्रो जटिलभस्मांगो महाव्याधिर्दुरत्ययः ।। ३३ ।।
कृष्णसेनां समासाद्य महादेवेन प्रेरितः ।।
प्राणिनां कदनं चक्रे सर्वेषां कृष्णसंगिनाम् ।। ३४ ।।
पराङ्मुख्यपरा भग्ना ज्वराभिघातपीडिता ।।
बभूव सहसा व्यास सेना कृष्णेन पालिता ।।३५।।
तथाभूतां समालोक्य जृंभमाणा रुजार्दिताम् ।।
स्वसेनां भग्नसंकल्पां माहेशज्वरपीडिताम् ।। ३६ ।।
ससर्ज वैष्णवं तापं कृष्णः परमकोपनः।।
तेन सह वैष्णवेन माहेश्वरेण ज्वरेण च ।। ३७ ।।
अन्योन्यमभवद्युद्धं घोरं घोरतरं महत् ।।
संग्रामं बहुलं कृत्वा भग्नो माहेश्वरो ज्वरः ।।३८।।
सर्वलोकेषु गत्वा वै न शांतिं प्रतिजग्मिवान् ।।
महाकालवने रम्ये प्राप्तस्तेनाभिपीडितः ।। ३९ ।।
निमग्नोऽथ वै शिप्रायां ततः शांतिं परां ययौ ।।
दृष्ट्वा माहेश्वरं शांतं ज्वरं परमकोपनम् ।। 5.1.49.४० ।।
वैष्णवो ऽपि समासाद्य तस्यां मज्जनमाचरत् ।।
तस्याः प्रभावसन्नष्टौ ज्वरो हरिहरोद्भवौ ।। ४१ ।।
तस्मात्सर्वेषु कालेषु ज्वरघ्नी साऽभवत्क्षणात् ।।
ज्वराभिभूतास्तां प्राप्य जनाः परमदुःखिताः ।। ४२ ।।
निमज्जंति च शिप्रायां व्यासोषसि समाहिताः ।।
न तेषां बाधते पीडा ज्वरोद्भूता कदाचन ।। ।। ४३ ।।
सत्यमुक्तं तदा व्यास ब्रह्महरिहरेण च ।।४४।।
ये शृण्वंति कथां दिव्यां नराश्चैकाग्रमानसाः ।।
न तेषां जायते किंचिज्जवरसंतापजं भयम् ।। ।। ४५ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पंचम आवंत्यखंडेऽवन्तीक्षेत्रमाहात्म्ये शिप्राया माहात्म्ये ज्वरानुग्रहोनामैकोन पंचाशत्तमोऽध्यायः ।।४९।।