स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीक्षेत्रमाहात्म्यम्/अध्यायः ४८

विकिस्रोतः तः
Jump to navigation Jump to search


।। सनत्कुमार उवाच ।। ।।
शृणुष्वावहितो व्यास स्थितिमेकाग्रमानसः ।।
मया व्यासमुखात्प्राप्ता कल्पभेदे कथा शुभा ।। १ ।।
गुह्याद्गुह्यतरा श्रेष्ठा न देया यस्य कस्यचित् ।।
नास्तिकाय कृतघ्नाय नाशिष्याय कदाचन ।। ।। २ ।।
एषा पुण्यतमा व्यास कथा पापहरा परा ।।
यस्याः श्रवणमात्रेण कल्पदोषो न बाधते ।। ३ ।।
प्रमाणं कल्पपर्यंतं ब्रह्मणः परमेष्ठिनः ।।
मन्वंतरेषु सर्वेषु कल्पकल्पांतरेषु च ।। ४ ।।
यावत्संख्या परिमिता तावती शृणु सत्तम ।।
अहोरात्रं च भजते सूर्यो मानुषदैवतम् ।। ५ ।।
तामुपादाय गणनां शृणु संख्या द्विजोत्तम ।।
निमेषैः पंचदशभिः काष्ठा त्रिंशत्तु ताः कला ।। ६ ।।
त्रिंशत्कला मुहूर्तस्तु त्रिंशता तैर्मनीषिणः ।।
अहोरात्र मिति प्राहुश्चंद्रादित्यगतिस्तदा ।।७।।
रविर्गतिविशेषेण सन्ध्यायां याति नित्यशः ।।
तदहस्तु मनुष्याणां रात्रिश्चैव तु तादृशी ।। ८ ।।
पक्षौ मासा ऋतुश्चाब्दमयने च प्रकीर्तिते ।।
पितॄणां चैव देवानां ब्रह्मणश्च यथातथम् ।। ९ ।।
यावत्संख्या समाख्याता आयुरंतश्च तादृशः ।।
अहोरात्राः पंचदश पक्ष इत्यभिशब्दितः ।। 5.1.48.१० ।।
पक्षौ द्वौ तौ कृतौ मासौ मासौ द्वावृतुरुच्यते ।।
अयनं चर्तुभिस्त्रिभिरब्दं द्वे अयने स्मृतम् ।। ११ ।।
दक्षिणं चोत्तरं चैव संख्यातत्त्वविशारदैः ।।
मानेनानेन यो मासः पक्षद्वयसमन्वितः ।। १२ ।।
पितॄणां तदहोरात्रमिति कालविदो विदुः ।।
शुक्ल पक्षस्त्वहस्तेषां कृष्णपक्षस्तु शर्वरी ।। १३ ।।
कृष्णपक्षे त्विह श्राद्धं पितॄणां वर्तते द्विज ।।
मानुषेण तु मानेन यो वै संवत्सरः स्मृतः।।१४।।
देवानां तदहोरात्रं दिवा चैवोत्तरायणम्।।
दक्षिणायनं स्मृता रात्रिः प्राज्ञैस्तत्त्वार्थकोविदैः।।१५।।
दिव्यमब्दं शतगुणं दिव्यमब्दसहस्रकम् ।।
मुनिभिश्चैव तत्त्वज्ञैरहोरात्रं मनोः स्मृतम् ।। १६ ।।
अहोरात्रं दशगुणं मानवः पक्ष उच्यते ।।
पक्षाद्दशगुणो मासो मासा द्वादशभिर्गुणैः ।। १७ ।।
ऋतुर्मनूनां संप्रोक्तः प्राज्ञैस्तत्त्वार्थदर्शिभिः ।।
षड्भिस्तैर्वर्षं संप्रोक्तं तेन संख्या निबध्यते ।। १८ ।।
चत्वार्येव सहस्राणि वर्षाणां तु कृतं युगम् ।।
तावती तु भवेत्संध्या संध्यांशश्च तथाविधः ।। १९ ।।
त्रीणि वर्षसहस्राणि त्रेता तत्परिमाणतः ।।
तस्याश्च त्रिशती संध्या संध्यांशश्च तथा परः ।। 5.1.48.२० ।।
तथा वर्षसहस्रे द्वे द्वापरं परिकीर्तितम् ।।
तस्य च द्विशती संध्या संध्यांशश्च तथा। परः ।। २१ ।।
कलिर्वर्षसहस्रं तु संख्या चोक्ता मनीषिभिः ।।
तस्य चैकशती संध्या संध्यांशश्च तथाविधः ।। २२ ।। ( ४८०० कृतं, ३६०० त्रेता, २४०० द्वापरम्, १२०० कलिः)
एषा द्वादशसाहस्री युगसंख्या प्रकीर्तिता ।।
दिव्येनानेन मानेन युगसंख्यां निबोध मे ।। २३ ।।
ससर्ज स पुनस्तात जगत्सर्वमिदं ततः ।।
कृतं त्रेता द्वापरं च कलिश्चैव चतुर्युगम् ।। २४ ।।
युगं तदेकसप्तत्या गुणितं द्विजसत्तम ।।
मन्वंतरमिति प्रोक्तं संख्यानार्थविशारदैः ।। २५ ।।
अयनं चापि तत्प्रोक्तं द्वेऽयने दक्षिणोत्तरे ।।
मनुः प्रलीयते ह्यत्र संप्राप्ते जगतः प्रभौ ।। २६ ।।
ततोऽपरो मनुः कालमेतावन्तं भवेत्पुनः ।।
समतीते तु राजेंद्र प्रोक्तः संवत्सरस्य वै ।। २७ ।।
तदैव चायनं प्रोक्तं मुनिना तत्त्वदर्शिना ।।
ब्रह्मणस्तदहः प्रोक्तं कल्प श्चेति स उच्यते ।। २८ ।।
सहस्रयुगपर्यंतं सा निशा प्रोच्यते बुधैः ।।
निमज्जत्यत्र चोर्वी सा सशैलवनकानना ।। २९ ।।
तस्मिन्युगसहस्रे तु पूर्णे वै द्विजसत्तम ।।
ब्राह्मे दिवसपर्यंते कल्पो निःशेष उच्यते ।। 5.1.48.३० ।।
युगानि सप्ततिं तानि साग्राणि कथितानि ते ।।
कृतत्रेतादियुक्तानि मनोरंतर मुच्यते ।। ३१ ।।
चतुर्दशैते मनवः कथिताः कीर्तिवर्धनाः ।।
वेदेषु सपुराणेषु सर्वेषु प्रभविष्णवः ।। ३२ ।।
प्रजानां पतयो व्यास धन्यमेषां प्रकीर्त नम् ।। ३३ ।।
मन्वंतरेषु संहाराः संहारांतेषु संभवाः ।
न शक्यमंतस्तेषां वै वक्तुं वर्षशतैरपि ।। ३४ ।।
विसर्गश्च प्रजानां वै संहारस्य च भारत ।।।
मन्वंतरेषु संहारः श्रूयते भरतर्षभ ।। ३५ ।।
यत्र तिष्ठंति वै देवाः सर्वे सप्तर्षिभिः सह ।।
तपसा ब्रह्मचर्येण श्रुतेन च समन्विताः ।। ३६ ।।
पूर्णे युगसहस्रे तु कल्पो निःशेष उच्यते ।।
तत्र सर्वाणि भूतानि दग्धान्यादित्यरश्मिभिः ।। ३७ ।।
ब्रह्माणमग्रतः कृत्वा सहादित्यैर्गणैर्द्विज ।।
प्रविशंति सुरश्रेष्ठं हरिं नारायणं प्रभुम् ।। ३८ ।।
स स्रष्टा सर्वभूतानां कल्पांते तु पुनःपुनः ।।
अव्यक्तः शाश्वतो देवस्तस्य सर्वमिदं जगत् ।। ३९ ।।
स एव विद्यते व्यास महेशा सह संयुतः ।।
महाकालवने वासं चकार जगदीश्वरः ।। 5.1.48.४० ।।
प्रलयो न बाधते व्यास महाकालवनोत्तमे ।।
कल्पे कल्पे च वै रम्या पुरी ह्येषा कुशस्थली ।। ४१ ।।
निरामया निरातंका निर्विकारा युगेयुगे ।।
मार्कण्डेयोपदिष्टानि कल्पानि संभवंति च ।। ४२ ।।
अत्रैव च वने रम्ये ब्रह्मा लोकपितामहः ।।
प्रजानां पतयो ये ते दक्षः प्राचेतसस्तथा।। ४३ ।।
मरीचिः कश्यपो रुद्रो येऽन्ये भृग्वादयस्तथा ।।
कल्पादौ ससृजे लोकांश्चराचरान्यथा तथा ।। ४४ ।।
एवमादौ पुरा व्यास कल्पं कल्पायते तदा ।।
वाराहवामनविष्णुपितॄणां वै तथैव च ।।४५।।
कल्पभेदाः समाख्याता महाकालवने शुभे ।।
चतुराशीतिकल्पानि संजातानि द्विजोत्तम ।। ४६ ।।
तावंति योगलिंगानि वने तिष्ठन्ति सत्तम।।
पुनर्जाता पुनः र्नष्टा महीसागरपर्वताः ।।४७।।
पुनःपुनर्भविष्यंति पुरी ह्येषाऽचला स्मृता ।।
तस्मात्सर्वेषु कालेषु सर्वलोकेषु गीयते ।।४८।।
प्रतिकल्पेति विख्याता भुवि व्यास भविष्यति ।।
येऽस्यां वै मानवा दांताः स्नानदानादिकं तथा ।। ४९ ।।
जपं होमं तथा श्राद्धं पितॄनुद्दिश्य देवताः ।।
न तेषां पुनरा वृत्तिः कोटिकल्पशतैरपि ।। 5.1.48.५० ।।
प्रतिकल्पामनुप्राप्य दृष्ट्वा देवं महेश्वरम् ।।
वैशाखे पौर्णमास्यां वै स्नापयंत्येकवासरम् ।। ५१ ।।
प्रसंगतो रजः क्लांतः शिप्रांभसि च मानवाः ।।
न तेषां दुष्कृतं किंचिद्विष्णुलोके वसंति ते ।।५२।।
मन्वंतरसहस्रेषु काशिवासेषु यत्फलम् ।।
तत्फलं प्राप्नुयाज्जंतुः प्रतिकल्पं क्षणादपि ।। ५३ ।।
प्रतिकल्पे च कल्पांते सैवासीच्च पुरी शुभा ।।
तस्मात्सर्वजनैः ख्याता प्रतिकल्पा द्विजोत्तम ।। ५४ ।।
ये चैतस्य महाभागाः प्रीतिं कुर्वंति मानवाः ।।
न तेषां कल्पभेदोऽयं स्वप्नवज्जायते क्षणात् ।। ५५ ।।
यः शृणोति कथां पुण्यां प्रतिकल्पोद्भवां शुभाम् ।।
श्रावयेद्वा प्रयत्नेन ब्रह्महत्यां व्यपोहति ।। ५६ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये प्रतिकल्पाभिधानकथनंनामाष्टाचत्वारिंशोऽध्यायः ।। ४८ ।।