स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीक्षेत्रमाहात्म्यम्/अध्यायः ४५

विकिस्रोतः तः
Jump to navigation Jump to search


।। सनत्कुमार उवाच ।। ।।
शृणुष्वावहितो व्यास कथां पापहरां पराम् ।।
एषा कुमुद्वती जाता यथा पद्मावती पुरी ।।
तथाहं संप्रवक्ष्यामि यथा मे लोमशोऽब्रवीत् ।। १ ।।
।। लोमश उवाच ।। ।।
शृणु वत्स मया दृष्टा बहुपुण्यतमा पुरी ।।
एकदा तीर्थयात्रायां गतोऽहं वै कुशस्थलीम् ।।
गुह्याद्गुह्यतरं स्थानं यत्र संनिहितो हरः ।। २ ।।
यस्य दर्शनमात्रेण ब्रह्महत्यां व्यपोहति ।।
यत्र तत्र स्थिता विप्रा ब्रह्मघोषमकुर्वत ।। ३ ।।
यज्ञांश्चैव तथा चित्रानृत्विजोदारकर्मणः ।।
ऋषयश्च महाभागाः प्रकुर्वंति समाहिताः ।। ४ ।।
ऋषिपत्न्यस्तथा साध्व्यः परिचर्यां प्रकुर्वते ।।
दश विष्णुसमाः ख्यातास्तत्रैव निवसंति ते ।। ५ ।।
रुद्रा ह्येकादश प्रोक्ता द्वादशार्कास्तथैव च ।।
अष्टौ च वसवः ख्याता विश्वे देवास्त्रयोदश ।। ६ ।।
अष्टौ च दिग्गजाश्चैव मनवश्च चतुर्दश ।।
मरुद्गणाश्च ते सर्वे तत्रैवेंद्रपुरोगमाः ।। ७ ।।
गंधर्वासरसश्चैव किंनरोरगराक्षसाः ।
सिद्धास्तपस्विनो वत्स तत्रैव समुपस्थिताः ।।८।।
अष्टौ वै भैरवाः ख्याताश्चत्वारः पवनात्मजाः ।।
विनायकाश्च षट् प्रोक्ता देव्यश्च चतुर्विंशतिः ।। ।। ९ ।।
एते देवगणाः प्रोक्ता रौद्राश्चैव तथा गणाः ।।
ब्रह्मा वेदविदां श्रेष्ठो मरिचिकश्यपादयः ।। 5.1.45.१० ।।
दक्षः प्रजापतिश्रेष्ठो दितिर्वै देवमातरः ।
सुरभीप्रमुखा गावः स्थावराणि चराणि च ।। ११ ।।
तीर्थानि यानि सर्वाणि नद्यः प्रस्रवणानि च ।।
क्षेत्राणि चैव सर्वाणि भुवि पुण्यतमानि वै ।। १२ ।।
सप्त पुर्यस्त्रयो ग्रामा नवारण्या नवोषराः ।।
चतुर्दशानि गुह्यानि मुक्तिद्वाराणि भूतले ।। १३ ।।
समुद्राश्चैव चत्वारो रत्नानि विविधानि च ।।
सती पतिव्रताः साध्व्यस्तथा ब्रह्मर्षयोऽमलाः ।।
राजर्षयस्तथा शांता ब्राह्मणा वेदपारगाः ।। १४ ।।
वेदाः पुराणस्मृतयो गाथा गीतिप्रहे लिकाः ।।
उपासांचक्रिरे तस्य देवदेवेडुमापतेः ।। १५ ।।
तस्य दर्शनमात्रेण जातोऽहं विज्वरोऽमलः ।।
दीर्घायुर्दीर्घतपसा जरारोगविवर्जितः ।।१६।।
स्नातोऽहं सर्वतीर्थेषु शुचिर्भूत्वा समाहितः ।।
प्रसन्नमानसो जातः सर्वपापपराङ्मुखः ।। १७ ।।
दृष्ट्वा पद्मावतीं शुद्धां सर्वकामवरप्रदाम् ।।
न यत्र दृश्यते कश्चिच्छोकरोगपरो जनः ।। १८ ।।
न दुःखी न च दारिद्रो न मूर्खो नाजितेंद्रियः ।।
परस्परविरोधी न नृतिर्य्यक्षु च दृश्यते ।। १९ ।।
अन्योन्यं सर्वमित्राणि अन्योन्यं चोपकारिणः ।।
सर्वे दांताश्च शांताश्च सर्वे विद्योपदेशिनः ।। 5.1.45.२० ।।
उद्यानानि च रम्याणि वनान्युपवनानि च ।।
हर्म्याणि च सुशुभ्राणि श्रेणीबद्धानि भांति वै ।।२१ ।।
नानारत्नसमाकीर्णैर्हेमकुंभैः सुशोभनैः ।।
विराजंते विचित्राणि गीतवाद्यमहोत्सवैः।।२२ ।।
सदैव वसते यत्र उमया सह शंकरः ।।
चंद्रचूडः कृत्तिवासाश्चिताभस्मांगलेपनः ।। २३ ।।
चंद्रज्योत्स्नाकलापूर्णमरीचिभिः सदा बभौ ।।
यत्र नो कृष्णपक्षोऽभून्नामावास्या न वै तमः ।। २४ ।।
सदैव पुष्पिता श्यामा बाल्यरूपवती यथा ।।
हर्म्यपृष्ठे गवाक्षे च द्वाराजिरगृहांतरे ।। २५ ।।
गिरिगह्वरकुंजेषु गुहाध्वांतांतरेषु च ।।
आश्रमेषु च रम्येषु वनेषूपवनेषु च ।। २६ ।।
गृहदीर्घिकासु रम्यासु शालामालासु सर्वतः ।।
चंद्रज्योत्स्नासमापूर्णा दृश्यंते धवला दिशः ।। २७ ।।
कुमुद्वतीप्रफुल्लानि विराजंते सरांसि च ।।
ज्योतिर्गणसमाकीर्णं शरदीव नभःस्थलम् ।। २८ ।।
नद्यः सरांसि सर्वाणि वापीकूपसुपल्वलाः ।।
कुमुद्वत्या समाकीर्णा आसीच्चांद्रमसी मही ।। २९ ।।
यस्मात्सर्वेषु कालेषु प्रफुल्ला च कुमुद्वती ।।
तस्मात्पद्मावती ह्येषा जाता कुमुद्वती पुरी ।। 5.1.45.३० ।।
कुमुद्वत्यां नरा ये तु श्राद्धं कुर्युः समाहिताः ।।
न तेषां पितरः स्वर्गाच्च्यवंते हि कदाचन ।। ३१ ।।
अक्षयं लभते श्राद्धं पितॄणां दत्तमक्षयम् ।।
स्नानं दानं तथा होमो देवताराधनं तथा ।। ३२ ।।
यत्किंचित्क्रियते कर्म तत्सर्वं चाक्षयं भवेत् ।।
एवं कुमुद्वती जाता पुरी व्यास सनातनी ।। ३३ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये कुमुद्वतीप्रभावकथनंनाम पञ्चचत्वारिंशोऽध्यायः ।। ४५ ।। ।। छ ।।