स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीक्षेत्रमाहात्म्यम्/अध्यायः ४४

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

।। सनत्कुमार उवाच ।। ।।
अथातः संप्रवक्ष्यामि पद्मावती यथाऽभवत् ।।
शृणुष्व चादृतो व्यास बहुपुण्यकृतां कथाम् ।। १ ।।
एकदा सर्वरत्नानां हानिर्जाता दुरात्मभिः।।
धर्मग्लानिर्निरोधश्च जातो वै दुष्टदानवैः ।। २ ।।
तदा सुरासुरैः सर्वैर्मिलित्वा मथितोंऽबु धिः ।।
मेरुर्वंशोदधिः पात्रं रज्जुर्वासुकिपन्नगः ।। ३ ।।
कूर्मपृष्ठे विधिं कृत्वा रत्नानि दुदुहुस्तदा ।।
आदौ लक्ष्मीर्विनिर्याता कृष्णाय प्रतिपादिता ।। ।। ४ ।।
तेन कृत्वा विषादोऽभूद्देवदानवयोस्तदा ।।
एतस्मिन्नंतरे प्राप्तो नारदो देवदर्शनः।।। ५ ।।
वारितः कलहस्तेन देवदैत्यसमुद्भवः ।।
महाकालवने साऽस्तु पद्मा सिंधुसमुद्भवा ।। ६ ।।
सागरांते च रत्नानि तिष्ठंति विविधानि च ।।
तानि सर्वाणि चादाय भवतां वै ददाम्यहम् ।। ७ ।।
मथ्यतामुदधिः शीघ्रं नात्र कार्या विचारणा।।
पुनस्ते तूद्यमं चक्रुरमृतार्थं सुरासुराः ।। ८ ।।
मथ्यमानेंऽबुधौ तेषां मणिः प्राप्तश्च कौस्तुभः ।।
परिजाततरुः पश्चात्सुरा जाता ततः परम् ।। ९ ।।
धन्वंतरिरथोत्पन्नश्चंद्रो जातोऽपि वै ततः ।।
कामधेनुस्ततो जाता गजरत्नं ततः परम् ।। 5.1.44.१० ।।
उच्चैःश्रवा हयश्रेष्ठः सुधा रंभा ततस्ततः ।।
ततः परं च सारंगं धनुः सर्वास्त्रसंभवम् ।। ११ ।।
पांचजन्यस्तथा शंखः करे तिष्ठति मुरद्विषः ।।
निधिरेष महापद्मो विषं हालाहलं ततः ।। १२ ।।
चतुर्दशापि रत्नानि प्राप्तानि विविधानि च ।।
समादाय गतास्तत्र यत्र माहेश्वरं वनम् ।। १३ ।।
गत्वा ते च समासीना मंत्रं चक्रुः परस्परम् ।।
अहंपूर्वमहंपूर्वमिति ते समयंत्रिताः ।। १४ ।।
कोलाहलस्तथोत्पन्नो नारदः पुनरभ्यगात् ।।
तेषां कलिमलं दृष्ट्वा विष्णुमाराधयत्ततः ।। १५ ।।
मोहनीरूपमास्थाय नारीभूत्वाभ्यगाद्धरिः ।।
अतिरूपवती तन्वी तामालोक्य महासुराः ।। १६ ।।
विह्वलांगाश्च ते सर्वे कामबाणवशंगताः ।।
एतस्मिन्नंतरे तेषां सुरां प्रादात्सुरेश्वरः ।। १७ ।।
हस्तलाघवयोगेन देवानाममृतं ददौ ।।
एतस्मिन्नंतरे व्यास राहुस्तद्रू पधारकः ।। १८ ।।
तेषामंतरगो भूत्वा पपौ चामृतमुत्तमम् ।।
तज्ज्ञात्वा च द्रुतं विष्णुः शिरश्चक्रेण चाच्छिनत् ।।१९।।
सुधास्पर्शप्रसंगेन न ममारासुरस्तदा ।।
राहुः केतुरिति ख्यातौ क्षेत्रेऽस्मिन्मुनिसत्तम ।। 5.1.44.२० ।।
राहुकायात्समुद्भूतं बहु सुस्राव शोणितम् ।।
तस्मिन्क्षेत्रे महत्तीर्थं जातं तद्दोष नाशनम् ।। २१ ।।
तत्र स्नात्वा शुचिर्भूत्वा राहोर्दर्शनतत्पराः ।।
न तेषां जायते किंचिद्राहुपीडा कदाचन ।। २२ ।।
वांछितार्थमवाप्नोति गोसहस्र फलं भवेत् ।।
ततस्तानि च रत्नानि महाकालवने सुराः।। २३ ।।
विभज्य भागांस्ते सर्वे प्राप्य रत्नभुजोऽभवन् ।।
मणिं पद्मां धनुः शंखं विष्णवे नार दो ददौ ।। २४ ।।
सूर्याय च ददौ ह्यश्वं सप्तास्यं चाब्धिसंभवम् ।।
ऐरावतं गजश्रेष्ठं वासवाय समर्पयत् ।। २५ ।।
पीयूषं दिविषद्गणान्ददौ चंद्रं च शंभवे ।।
पारिजातं तरुश्रेष्ठं रंभां चैव वरांगनाम् ।। २६ ।।
इंद्रक्रीडावने रम्ये नंदने च समर्पयत् ।।
ऋषीणां समदाद्धेनुं कामदोग्ध्रीं यज्ञसिद्धये ।। २७ ।।
निधिरेष महापद्मः कुबेरभवनं गतः ।।
यत्तद्धालाहलं प्रोक्तं विषं केनापि नादृतम् ।। २८ ।।
यतोयतः प्रसरति प्रलयं यांति जंतवः ।।
दधार तद्विषं शंभुर्जगतां हितकाम्यया ।। २९ ।।
तदाप्रभृति महादेवो नीलकंठ इति स्मृतः ।।
रत्नकुंडे नरः स्नात्वा नीलग्रीवं च पश्यति ।। 5.1.44.३० ।।
मुक्त्वा स सर्वपापेभ्यः सर्वरत्नभुजो भवेत् ।।
शताश्वमेधिकं पुण्यं लब्ध्वा शिवपुरं व्रजेत् ।। ३१ ।।
तदादाय सुराः सर्वे ब्रह्मविष्णुपुरोगमाः ।।
ऊचुश्च ते तदा व्यास हर्षनिर्भरमानसाः ।। ३२ ।।
उज्जयिनीं समासाद्य जाता रत्नभुजो वयम् ।।
पद्मायाश्च निवासेन यस्मात्सर्वसुखावहा ।। ३३ ।।
तस्मात्सर्वेषु कालेषु पद्मा वसतु निश्चला ।।
अद्यप्रभृति पूरेषा पद्मावतीति च स्मृता ।। ३४ ।।
य एतस्यां महाभागाः स्नानं दानं तथार्चनम् ।।
तर्पणं चैव देवानां पितॄणां च विशेषतः ।। ३५ ।।
न तेषां दुष्कृतं किंचिन्न दारिद्र्यं न दुर्गतिः ।।
शतं कुलानि सर्वाणि तारयेन्निरयात्तदा ।। ३६ ।।
धनार्थी चैव पुत्रार्थो विद्यार्थो बहुकामुकः ।।
यत्रकुत्र स्थितो भूत्वा पद्मावतीति च स्मरेत् ।। ३७ ।।
सर्वान्कामानवाप्नोति शिवः साक्षाद्भवेन्नरः ।।
एतद्व्यास फलं नाम्नः किं चिरं सेवनेन वै ।। ३८ ।।
ये शृण्वंति कथां पुण्यां ये श्रावयंति नित्यशः ।।
न तेषां पातकं किंचिदश्वमेधफलं लभेत् ।। ।। ३९ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखंडेऽवन्तीक्षेत्रमाहात्म्ये पद्मावतीनामकथावर्णनंनाम चतुश्चत्वारिं शोऽध्यायः ।। ४४ ।। छ ।।