स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीक्षेत्रमाहात्म्यम्/अध्यायः ४२

विकिस्रोतः तः
Jump to navigation Jump to search


।। सनत्कुमार उवाच ।। ।।
पुरा चैशानकल्पे तु स्मृतावंती यथा पुरी ।।
तथा शृणु सुरैः पूर्वं दैत्यसैन्यपराजितैः ।। १ ।।
आश्रितं मेरुशिखरं वनकंदगुहावृतम्।।
तत्र गत्वा द्विजश्रेष्ठ मंत्रं च चक्रुरुद्यताः।।२।।
अन्योन्यं च समासाद्य समभ्यर्च्य परस्परम्।।
जग्मुः सर्वे सुरगणा यत्र ब्रह्मा प्रजापतिः।।३।।
निवेदयांचक्रिरे सर्वं तत्रागमनकारणम्।।
तेषां तद्वचनं श्रुत्वा देवानां स प्रजेश्वरः।।४।।
जगाम त्रिदशैः साकं देवदेवं महेश्वरम्।।
स चापि ह्यगमत्तत्र वैकुठं धाम यत्र वै ।। ५ ।।
ऋद्धिसिद्धिप्रदं नित्यं मुनिचारणसेवितम् ।।
किन्नरैर्गीयमानं च अप्सरोगणसेवितम् ।। ६ ।।
ऋषिभिर्भार्गवादिभिर्देवर्षिनारदोत्तमैः ।।
सिद्धगंधर्वमुख्यैश्च कुमारैः सनकादिभिः ।। ७ ।।
प्रजापतिगणाकीर्णं मानवैश्च चतुर्दशैः ।।
वसुभिर्विश्वेदेवैश्च पितॄणामुत्तमैर्गणैः ।। ८ ।।
संसेव्यं च सदाचारैः पुण्यवद्भिर्जनैस्तथा ।।
दिव्यं दिव्यैश्च प्रासादैर्दिव्यपादपशोभितम् ।। ९ ।।
मणिरत्नैश्च सोपानै र्दिव्यं सरसशोभितम् ।।
हंसकारंडवाकीर्णं मणिभाभिः सुभास्वरम् ।। 5.1.42.१० ।।
षडूर्मिरहितं स्थानं यत्र तिष्ठन्ति पक्षिणः ।।
तत्र गत्वा सुराः सर्वे वासु देवदिदृक्षया ।।
स्तुतिमारेभिरे कर्तुं देवदेवजगत्पतेः ।।११ ।।
।। देवा ऊचुः ।। ।।
नमोऽनंताय बृहते कूर्माय वै नमोनमः ।। १२ ।।
नृसिंहरूपायोग्राय नमो वाराहरूपिणे ।।
राघवाय च रामाय ब्रह्मणेऽनंतशक्तये ।। १३ ।।
वासुदेवाय शांताय यदूनां पतये नमः ।।
नमो बुद्धाय शुद्धाय कल्कये म्लेच्छनाशिने ।। १४ ।।
इति स्तवाभियुक्तानां वागुवाचाशरीरिणी ।।
शृणुध्वं भोः सुराः सर्वे भूत्वा चैकाग्रमानसाः ।। १५ ।।
महाकालवने रम्ये ब्रह्मर्षिगणसेविते ।।
तत्र पुण्या पुरी ह्येका सर्वकामफलप्रदा ।। १६ ।।
नाम्ना कुशस्थली रम्या सिद्धगंधर्वसेविता ।।
कल्पादौ कल्पमध्ये वा यत्र संनिहितो हरः ।। १७ ।।
कल्पक्षये क्षयं यांति स्थावराणि चराणि च ।।
तीर्थानि चैव सर्वाणि पुण्यान्यायतनानि च ।। १८ ।।
सरितः सागराः सर्वे सरांस्युपवनानि च ।।
औषधीर्वृक्षवल्लीश्च यंत्रं मंत्रं शुभाशुभम् ।। १९ ।।
ज्योतींषि चंद्रसूर्यौ च सर्वं विष्णुमयं जगत् ।।
तेषां बीजं च पुण्यं च जीवकर्माशय तथा ।। 5.1.42.२० ।।
सर्वमादाय भगवाञ्छंकरस्तत्र तिष्ठति ।।
सर्वतीर्थमयी गंगा सर्वदेवमयो हरिः ।। २१ ।।
सर्वयज्ञमयो वेदः सर्वधर्ममयी दया ।।
रेवा च सरितां श्रेष्ठा भुवि पुण्यकृताधिका ।। २२ ।।
तस्माद्धितकरं क्षेत्रं कुरूणां वै सुरोत्तमाः ।।
तस्माद्दशगुणं मन्ये प्रयागं तीर्थमुत्तमम् ।। २३ ।।
तस्माद्दशगुणा काशी काश्या दशगुणा गया ।।
ततो दशगुणा प्रोक्ता कुशस्थली च पुण्यदा ।। २४ ।।
उपरागसहस्राणि व्यतिपातायुतानि च ।।
अमालक्षं तु एतस्याः कलां नार्हंति षोडशीम् ।। २५ ।।
लक्षमिंदुक्षये दानं सहस्रं चायनद्वये ।।
व्यतीपाते च कोटिः स्याद्रा कायां च ह्यनंतकम् ।। २६ ।।
तस्माद्धितकरा देवा पुरी ह्येषा कुशस्थली ।।
अनंताऽनंतसंख्यातं दानं किंचित्कृतं नरैः ।। २७ ।।
तत्सर्वं भोः सुरश्रेष्ठाः सर्वं तच्चाक्षयं भवेत् ।।
तस्मात्सर्वप्रयत्नेन यूयं यात हि मा चिरम् ।। २८ ।।
क्षीणपुण्या भवंतो वै बाधंते तेन वः सुराः ।।
महाकालवने रम्ये पुरी ह्येषा कुशस्थली ।। २९ ।।
तत्र गत्वा भवंतो वै स्नानदानादिकं भुवि ।।
आचरध्वं सुविधिना पुण्यात्स्वर्गमवाप्स्यथ ।। 5.1.42.३० ।।
एतच्छुत्वा वचस्तस्या वाण्याश्चाकाशगं तदा ।।
प्रणम्य शिरसा तस्यै ब्रह्मेशानपुरोगमाः ।। ३१ ।।
पुनर्जग्मुः सुराः सर्वे यत्र माहेश्वरं वनम् ।।
पुरीं चैव द्विजश्रेष्ठ सर्वकामफलप्रदाम् ।। ३२ ।।
चातुर्वर्ण्यसमाकीर्णामृषिगंधर्वसेविताम् ।।
पुण्यवद्भिर्जनैः पूर्णां सिद्धचारणसेविताम् ।। ३३ ।।
दरिद्रो न जडो मूर्खो न रोगी न च मत्सरी ।।
न व्याधितो नापकारी जनः क्वचित्प्रदृश्यते ।। ३४ ।।
दाता शांताः सुशीलाश्च जरारोगविवर्जिंताः ।।
स्वधर्मनिरता नित्यं सदाचारातिथिप्रियाः ।। ३५ ।।
नरा यत्र निवसंति नार्यश्चैव पतिव्रताः ।।
महोत्सवाः सुगीतानि हव्यं कव्यं गृहेगृहे ।। ३६ ।।
ईदृशीं च पुरीं दृष्ट्वा देवा हर्षं परं गताः ।।
तत्र तीर्थं समाख्यातं नाम्ना पैशाचमोचनम् ।। ३७ ।।
पुण्यवद्भिः सदा सेव्यं सर्वतीर्थनिषे वितम् ।।
तस्मिन्स्नात्वा च जप्त्वा च हुत्वा दत्त्वा च देवताः ।। ३८ ।।
पुण्यं चाथाक्षयं लब्ध्वा पुनर्याताः सुरालयम् ।।
जित्वाऽसुरान्महादुष्टान्स्थानं प्राप्ताः स्वकंस्वकम्।। ३९ ।।
येऽस्यां कुर्युर्महाभागाः स्नानं दानं तथार्चनम् ।।
हवनं तर्पणं पितॄंस्तत्सर्वं स्याद्ध्यनंतकम् ।। 5.1.42.४० ।।
तस्मात्सर्वप्रयत्नेन एतत्कार्यं सदा बुधैः।।
देवतीर्थोषधीबीजभूतानां चैव पालनम् ।। ४१ ।।
कल्पेकल्पे च यस्यां वै तेनावंती पुरी स्मृता ।।
अद्यप्रभृति पुरी ह्येषा नाम्नावंती कुशस्थली ।।४२ ।।
इत्युक्त्वा वै तदा देवाः स्वधाम परमं गताः ।।
तदारभ्य द्विजश्रेष्ठ ह्यवंती भुवि विश्रुता ।। ४३ ।।
य एतां सुकथां दिव्यां पुण्यां च पापहारिणीम्।।
शृणुयाच्छ्रावयेद्यो वै सर्वपापैः स मुच्यते ।। ४४ ।।
अपुत्रो लभते पुत्रमधनो धनमाप्नुयात् ।।
वाजपेयसहस्राणां राजसूयशताधिकम् ।। ४५ ।।
पुण्यं लब्ध्वा नरो नित्यं शिवलोके महीयते ।। ४६ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्येऽवंत्यभिधानकथावर्णनंनाम द्विचत्वारिंशोऽध्यायः ।। ४२ ।। ।। छ ।।