स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीक्षेत्रमाहात्म्यम्/अध्यायः ४१

विकिस्रोतः तः
Jump to navigation Jump to search


।। सनत्कुमार उवाच ।। ।।
शृणु व्यास यथेयं तु प्रोच्यते हि कुशस्थली ।।
कल्पे तत्पुरुषे पूर्वं वेदविद्भिर्मनीषिभिः ।। १ ।।
वेधसा सृजितं विश्वं दैत्यदानवरा क्षसम् ।।
अन्योन्यमदसंमत्तमन्योन्यद्वेषि वै रणे ।। २ ।।
देवाश्च दानवाः संख्ये नित्यं स्पर्धासमन्विताः ।।
मनुष्या मनुजैः सार्धं सिद्धविद्याधरैः सह ।। ३ ।।
चारणाः किंनरैः सार्धमेवं ते द्वेषतत्पराः ।।
युद्धं कुर्वंति सततमविस्पष्टार्थया गिरा ।। ४ ।।
सर्वे चैव च बलिनो दुर्बलैर्मनुजैः सह ।।
पशवः पशुभिः सार्धं पक्षिणः सह पक्षिभिः ।। ५ ।।
एवमन्योन्यमन्यैश्च निर्मर्यादमिदं जगत् ।।
दृष्ट्वा विश्वस्य कर्तारं विष्णुं विश्वेश्वरं परम् ।। ६ ।।
व्रजामि शरणं देवं शरणार्त्तिहरं हरिम् ।।
एवं मनसि संधाय दध्यौ ध्यानेन माधवम् ।। ७ ।।
ततो ध्यातो महायोगी विश्वरूपधरो हरिः ।।
लोहदण्डधरः श्रीमानिदमाह पितामहम् ।। ८ ।।
ब्रह्मन्ध्यातस्त्वया सम्यग्ध्यानयोगेन पश्य माम् ।।
समायांतं तथा ध्यातं जगतां पातुमुद्यतम् ।। ९ ।।
ततो धाता निशम्यैतत्त्यक्त्वा ध्यानमवेक्ष्य तम् ।।
समुत्थायैकमनसा नमश्चक्रेऽर्चयत्पुनः ।। 5.1.41.१० ।।
पाद्येनाचमनीयेन मधुपर्केण केशवम् ।।
पूजयित्वा पुनर्वाक्यमुवाचाच्युतमब्जजः ।। ११ ।।
।। ब्रह्मोवाच ।। ।।
देवदेव जगन्नाथ जगत्सृष्टमिदं त्वया ।।
ऋते त्वया जगद्विष्णो नैवावस्थातु मर्हति ।। १२ ।।
शास्ता त्वमस्य विश्वस्य विशुद्धस्य च नापरः ।।
त्वत्तोस्तीदं जगत्सर्वं तस्मात्त्वमनुशासय ।। १३ ।।
देवदानवगंधर्वाः सयक्षो रगराक्षसाः ।।
त्वामृते पुण्डरीकाक्षं व्यापिताशेषविग्रहाः ।।
परस्परं विनिघ्नंति तांश्च त्वं रक्षितुं क्षमः ।। १४ ।।
त्वमस्य विश्वस्य चराचरस्य स्थितेः सदा प्राणभृदात्मरूपिणी ।। १५ ।।
त्वया धृतं सर्वमिदं जगद्वै यतस्ततोऽसि त्वमुपेन्द्रसंज्ञः ।।
प्रवेशनं व्याप्तमिदं स्वधाम यत्त्वमुच्यसे विष्णुरतो मुनींद्रैः ।। १६ ।।
निवासितं विश्वमिदं त्वयाद्य वासश्च धातोरिति वासुदेवः ।।
तवानुगं विश्वमिदं विभुस्त्वमशेषविश्वस्य विभासि राजा ।। १७ ।।
सेनानुरूपं जगदेव यस्मादतः स्मृतस्त्वं किल विश्वसेनः ।।
विलेखनादस्य चराचरस्य कृतेश्च धातोस्त्वमतोऽसि कृष्णः ।। १८ ।।
जितं त्वया देव जगत्त्रयं यज्जितेश्च धातोस्त्वमतोऽसि जिष्णुः ।।
तस्मात्समस्तग्रहलोकपालं जगद्विभो पालय सर्वकालम् ।।१९।।
त्वमस्य सर्वस्य भवादिराजस्तवास्तु भद्रासनमद्वितीयम।।
प्रदक्षिणावर्तनकस्तु शंखः करस्थितः शोभति पूरुषस्य ।। 5.1.41.२० ।।
सुदर्शनं नाम तवास्ति चक्रमतो हि गीतः कविभि स्तु चक्री ।।
ध्वजोऽस्ति ते देव सुपर्णसेवितस्तथासुपर्णश्च तवास्ति वाहनम् ।।२१।।
तुरंगमाः संतु तवारिसंहरे तथा हृषीकेश सुदन्तदन्तिनः।।
किरीटनिष्कांगदकर्णपूरकेयूरहारोत्तमहेमसूत्रैः ।। २२ ।।
विचित्रवस्त्रोत्तमरक्तमाल्यैर्विभूषितस्त्वं भव भीमसेनः ।।
श्रिया कदाचिच्च न मुच्यते भवान्भवं ति ते नित्यमनंतसंपदः ।। २३ ।।
तवानुगा भक्तिरिहास्तु वै सती मुकुन्द भक्ते त्वमतः प्रसीद मे ।। २४ ।।
।। सनत्कुमार उवाच ।। ।।
स एवमुक्तस्तु पुरो दिवौकसां विभुः प्रसन्नस्त्विदमब्रवीद्धरः ।।
विरिंच मे दर्शय तस्य मंडलं त्वया विमुक्तं च सदाशिवं विभो ।। २५ ।।
स्थिरं स्थि यत्र जगत्करोम्यहं ततो विरंचिः कुशमुष्टिमाददे ।।
पवित्रदेशस्य निदर्शनाय जगाम पुण्यं च्यवनाश्रमं तदा ।। २६ ।।
ततः स्थलीमुच्चतरामवाप्य पितामहः केशवमाह चादरात् ।।
त्वदुद्भवं चात्र पवित्रमंडलं त्वया विमुक्तं च सदा शिवं विभो ।। २७ ।।
त्वमेव विष्णुर्विबुधार्चितः सदा स्मृतो मुनींद्रैः स च विष्टरश्रवाः ।।
निषीद विश्वेश कुशस्थलं यदा तदाश्रितो माधवमासरूपवान् ।। २८ ।।
कुशस्थलीं संस्थित एव देव इत्थं विधात्रा पुरुषोत्तमः स्तुतः ।।
स्थलीं कुशैरास्तरितामुपाविशत्कुशस्थलीं देवमुनीन्द्रसेविताम् ।। २९ ।।
समंततो योजनसं ख्ययावृतां ततो विधाता पुरुषोत्तमस्तथा ।।
कुशस्थलीति प्रथितं जगत्त्रये प्रचक्रतुर्नाम च तावुभावपि ।। 5.1.41.३० ।।
तत्र विश्वपतिः श्रीमान्विश्वेशो विश्वकृद्विभुः ।।
विश्वं शशास विश्वात्मा सर्वविश्वस्य नायकः ।। ३१ ।।
एवं कुशस्थली ख्याता हेमशृङ्गेति या पुरा ।।
स्तीर्णा कुशैर्यतो धात्रा कुशस्थली ततः स्मृता ।। ३२ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये व्याससनत्कुमारसंवादे कुशस्थलीनामहेतुकथावर्णनंनामैकचत्वारिंशोऽध्यायः ।। ४१ ।। ।।. छ ।। ।।