स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीक्षेत्रमाहात्म्यम्/अध्यायः ४०

विकिस्रोतः तः
Jump to navigation Jump to search


।। व्यास उवाच ।। ।।
भगवन्भवता सर्वं भवभीतिविनाशकम् ।।
ईश्वरस्थानमाख्यातं समंतात्साग्रयोजनम् ।। १ ।।
यत्र क्षेत्रे मृता मर्त्याः सदाचारास्तथोत्तमाः ।।
विमानस्था पुरे नूनमैश्वरे ते वसंति च ।। २ ।।
यत्र कीटपतंगाद्या मृता यांति परां गतिम् ।।
किं तीर्थं पुण्यमन्यच्च महाकालवनादृते ।। ३ ।।
तस्माद्ब्रूहि ममैकं तु प्रश्नं तथ्येन सांप्रतम् ।।
कथं कनकशृंगेति ख्याता ह्येषा पुरा मुने ।। ४ ।।
कुशस्थली कथं नाम तथावंती कथं स्मृता ।।
पद्मावती कथं साधो कथमुज्जयिनी तथा ।। ५ ।।
नाम्नां हेतुमथो तेषां ब्रूहि त्वं मुनिसत्तम ।। ६ ।।
।। सनत्कुमार उवाच ।। ।।
शृणु व्यास प्रवक्ष्यामि यथा पूर्वं विरंचिना ।।
कथितं वामदेवाय गौरकल्पे पुरातने ।। ७ ।।
महेशेन भगवता विधिश्चैवात्र हेतुतः ।।
पृष्टस्तु स्वश्च्युतानां च कुतो निवसतां सुखम् ।। ८ ।।
स्वर्गप्राप्तिश्च भवति स्वेच्छाचारविहारिणाम् ।।
कोऽतिपुण्यतमः श्रेष्ठः प्रदेशः पापदारकः ।। ९ ।।
कुतो निवर्तितं चित्तं जायते वसतां क्वचित् ।।
वसतामपि लोके शमैहिकं पारलौकिकम् ।।
एतन्मे भगवन्ब्रूहि हितार्थं सर्वदेहिनाम् ।। ।। 5.1.40.१० ।।
।। सनत्कुमार उवाच ।। ।।
एवमादौ पुरा कल्पे प्रोक्तः श्रेष्ठः स शंभुना ।। ११ ।।
प्रोवाच पार्वतीकांतं प्रभुः प्रीतः पितामहः ।।
भगवन्सर्वकर्ता त्वं सर्वदर्शी सदाशिवः ।। १२ ।।
अजानन्निव त्वं सर्वं मां पृच्छसि सनातन ।।
यत्र कल्पांतको वह्निरधिज्वालः प्रतिष्ठितः ।। ।। १३ ।।
त्वमेव च महाकालः सर्वं वै ज्ञायते त्वया ।।
नाथ ये मानवास्तत्र सदाचारास्तथा परे ।। १४ ।।
निवसंति न ते मर्त्याः सुरास्ते वै न संशयः ।।
लभंते च पुनः स्वर्गं मृता वै कालपर्यये ।। १५ ।।
वर्तते च पुरी तत्र रम्यहर्म्या सुशोभना ।।
यस्यां भांति विचित्राणि हर्म्याणि विविधानि च ।। १६ ।।
स्वर्णशृङ्गाश्च प्रासादा विहिता विश्वकर्मणा ।।
देवाः संति सदा तत्र तीर्थानि विविधानि च ।। १७ ।।
पूर्वकल्पे स्थितोऽहं च यत्र त्वं केशवस्तथा ।।
तामेव च पुरीं द्रष्टुं सर्वे लोका ह्यवंतिकाम् ।। १८ ।।
तथा देवर्षयः सिद्धा यक्षकिंनरदानवाः ।।
आजग्मुः स्थाणुना सार्धं वेधसा ब्रह्मयोनिना ।। १९ ।।
तथैव च वरा नार्यो देवानामतिवल्लभाः ।।
समापेतुः सहस्राणि द्रष्टुमत्यद्भुतां पुरीम् ।। 5.1.40.२० ।।
आगत्य च यदा देवः सह देवैर्महेश्वरः ।।
वीक्षते नगरीं रम्यामपश्यदावृतां तथा ।। २१ ।।
प्रासादैः स्वर्णशृंगाढ्यैर्मणिरत्नविभूषितैः ।।
विश्वरूपो हि भगवान्राजा विश्वैक नायकः ।। २२ ।।
तत्रास्ते शोभने दिव्ये प्रासादे मणिभूषिते ।।
सेव्यमानः सुरैः सिद्धैर्मुनिविद्याधरोरगैः ।। २३ ।।
ततो महेशश्च पितामहश्च समेत्य तं विश्वपतिं ननंदतुः ।।
समर्चितौ तेन यथार्हमादरात्सहानुगावागमनं त्वपृच्छत् ।। २४ ।।
किमागतौ वा त्रिदिवान्महीतलं सहानुगावाश यकश्च कथ्यताम् ।।
ततस्तु तावूचतुरब्जजेश्वरौ भवान्तरे यत्र च तत्र नौ रतिः ।। २५ ।।
त्वया विना नैव सुरालये सुखं महीतले वाथ रसातलेऽ स्ति नः ।।
कदा त्वया कांचनशेखरा पुरी निवेशिता वेश्मवती विचित्रिता ।। २६ ।।
।। हरिरुवाच ।। ।।
त्वदर्थमेवेश विशेषशालिनी सृष्टा हि वै सर्वगुणाकरा मया ।।
प्रयच्छ विश्वेश्वर चावयोरिह स्थानं च तीर्थं प्रलयेऽक्षयं च ।। २७ ।।
ददाम्यभीष्टं युवयोरिहालयं प्रजापते ह्युत्तरतस्तव स्थितिः ।।
महेश्वर त्वं व्रज दक्षिणालयं स्थानं सुदत्तं युवयोः सुशोभनम् ।। २८ ।।
महाकालो ह्यधोज्वालो जगदात्मा प्रभुः स्थितः ।।
गणैरनेक साहस्रैरादृतः परमेश्वरः ।। २९ ।।
क्रीडार्थं नगरी सृष्टा सर्वभूतहितैषिणा ।।
मयाद्य युवयोर्दत्ता विहायाऽचलमात्मनः ।। 5.1.40.३० ।।
भवद्भ्यां हेमशृं गेति यस्माच्च समुदीरिता ।।
पुरी कनकशृंगेति लोके ख्याता भविष्यति ।। ३१ ।।
एवं कनकशृङ्गेति प्रथमं नाम कथ्यते ।। ३२ ।।
जपंतश्च स्थिता यत्र ब्रह्मविष्णुमहेश्वराः ।।
नित्यं रमंति भक्तानां सर्वाभीष्टफलप्रदाः ।। ३३ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये कनकशृङ्गाभिधानवृत्तांतवर्णनंनाम चत्वारिंशोऽध्यायः ।। ४० ।। ।। छ ।।