स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीक्षेत्रमाहात्म्यम्/अध्यायः ३६

विकिस्रोतः तः
Jump to navigation Jump to search


।। व्यास उवाच ।। ।।
महाकालं किमर्थं तु किं वा शिवपदं स्मृतम् ।।
कोटीश्वरं किमर्थं तु पावकं तत्किमुच्यते ।। १ ।।
नरदीपं किमर्थं तु द्वितीया वटमातरः ।।
अभयेश्वरं किमर्थं तु शंखोद्धा रणमेव च ।। २ ।।
शूलेश्वरं किमर्थं तु किमोंकारस्तु कथ्यते ।।
धूतपापं किमर्थं तु किमंगारेश्वरं तथा ।। ३ ।।
पुरी चोज्जयिनी दिव्या सप्तकल्पा कथं स्मृता ।।
कथयस्व मुनिश्रेष्ठ तस्या नामानि यानि च ।। ४ ।।
।। सनत्कुमार उवाच ।। ।।
शृणु व्यास यथा ख्याता पुरी दिव्या कुश स्थली ।।
नामतः कर्मतः श्रेष्ठा सप्तकल्पानुवासिनी ।। ५ ।।
प्राक्कल्पे स्वर्णशृंगाख्या द्वितीये तु कुशस्थली ।।
तृतीयेऽवंतिका प्रोक्ता चतुर्थेत्वमरा वती ।। ६ ।।
विख्याता पञ्चमे कल्पे पुरी चूडामणीति च ।।
षष्ठे पद्मावती ज्ञेया सप्तमे चोज्जयिनी पुरी ।। ७ ।।
पुनरंते तु कल्पस्य स्वर्णशृङ्गादि का स्मृता ।।
एतानि सप्त नामानि प्रातरुत्थाय यः पठेत् ।। ८ ।।
सप्तजन्मकृतात्पापान्मुच्यते नात्र संशयः ।।
उज्जयिन्यां पुरा राजा बभूव किल चांधकः ।। ९ ।।
तस्य पुत्रो महावीर्यो नाम्ना कनकदानवः ।।
युद्धार्थं स महावीर्यः शक्रं युद्धे समाह्वयत् ।। 5.1.36.१० ।।
क्रोधादिंद्रेण संग्रामे युध्य मानो निपातितः ।।
निहत्य दानवं शक्रो भयादंधासुरस्य तु ।। ११ ।।
जगाम शंकरान्वेषी कैलासं शंकरालयम् ।।
दृष्ट्वा प्रणम्य देवेशं चंद्रार्धकृत शेखरम् ।। १२ ।।
भीतो विज्ञापयामास स चाश्र्वाकुललोचनः ।।
अभयं देहि मे देव दानवादंधकाच्च वै ।। १३ ।।
शक्रस्येत्थं वचः श्रुत्वा शरणा गतवत्सलः ।।
ददावभयमेवासौ मा भैस्त्वमंधकाद्धि वै ।। १४ ।।
कृत्वा रूपं महादेवो विश्वरूपं सुभैरवम् ।।
सर्पैर्ललद्भिरत्युग्रैस्तीक्ष्णदंष्ट्रैर्विषोल्बणैः ।। १५ ।।
पातालोदररूपैश्च भैरवारावनादिभिः ।।
भुजैरनेकसाहस्रैर्बहुशस्त्रधृतैस्तथा ।। १६ ।।
सिंहचर्मपरीधानं व्याघ्रत्वगुत्तरीयकम् ।।
गवाजिन कृताटोपं चंद्राग्निरविलोचनम् ।। १७ ।।
महामहीध्रतुल्याभ्यां जंघाभ्यां भूषितं सदा ।।
क्षोभयंश्चालयन्सर्वान्पातालस्य तलावधि ।। १८ ।।
ईदृग्रूपं विधायेशो दनुदैत्यभयावहम् ।।
अवातरन्महीं भीमः पादेनैकेन शंकरः ।। १९ ।।
तत्रैव हि ह्रदो जातः सर्वदैवतवंदितः ।।
ख्यातं शिवपदं तद्धि यत्पदाऽऽक्रांतवान्विभुः ।। 5.1.36.२० ।।
पापानां च पुरा कोटिः पादांगुष्ठेन दारिता ।।
कोटितीर्थमतः ख्यातं सर्वपापप्रणाशनम् ।। २१ ।।
अगस्त्येन तथा कोटिस्तीर्थानामवधारिता ।।
अतोऽपीदं शुभं लोके कोटितीर्थं सदा स्मृतम् ।। २२ ।।
दृष्ट्वा तु त्रिदशाः सर्वे स्नाता वै हितकाम्यया ।।
महा कालकृतं रूपं महाकालस्ततः स्मृतः ।। २३ ।।
अंधासुरोऽपि दनुजः पुत्रं श्रुत्वा हतं युधि ।।
क्रोधेन तमसाविष्टो रणतूर्याण्यवादयत ।। २४ ।।
ससैन्यो निर्गतः प्राप्तो यत्र ते त्रिदशाः स्थिताः ।।
महत्या सेनया सार्धं रथवारणयुक्तया ।। २५ ।।
तदैव दानवान्वीक्ष्य महाहवकृतोद्यमान् ।।
वेपंतस्ते सुसंनद्धा शंभुं शरणमाययुः ।। २६ ।।
मा भैरिति महाकालो देवानुक्त्वा त्रिलोचनः ।।
गृहीत्वा शूलमातिष्ठद्दष्टादंष्ट्राधरो रुषा ।। २७ ।।
कोपयुक्ते विरूपाक्षे ज्वालाभिः पूरितं नभः ।।
अंधकेनाथ रुष्टेन शरकोटिस्तु दुःसहा ।। २८ ।।
मुक्ता जगाम देवानां ननाश शलभाकृति ।।
विस्फुलिंगार्चिषं वह्निं मुंचमानः पिनाकधृक् ।। २९ ।।
शतशः शकलीचक्रे तं च बाणैरताडयत् ।।
अंधकोऽपि हि युद्धस्थः शिथिलः शिथिला युधः ।। 5.1.36.३० ।।
निरुद्धः शंभुना बाणैरलिभिः पंकजं यथा ।।
तस्य सैन्यं प्रविद्धं च तद्गणैर्युधि योधिभिः ।। ३१ ।।
योधवरैर्हता दिव्यैः स्थाणु सान्निध्यमाश्रितैः ।।
ततोंऽधकेन सैन्यं स्वं भिन्नं दृष्ट्वा तथासुरैः ।। ३२ ।।
आत्मानं च महेशेन विद्धं च बाणकोटिभिः ।।
विदलीकृतदेहोऽसौ भय माश्रित्य वेगतः ।। ३३ ।।
चकार तामसीं मायां मायाशतविशारदः ।।
तयांतर्हितदेवेशो जगाम दिशमुत्तराम् ।। ३४ ।।
शंभुर्भीतिभरं बिभ्रद्बभ्राम भुवि भिन्नहृत् ।।
यस्मिन्मार्गे गतो देवस्तेन दैत्यो जगाम ह ।। ३५ ।।
वदन्न दृश्यते क्वासौ गतो दुष्टः पुनःपुनः ।।
उवाच चांधकः शब्दं तथोवा च महेश्वरः ।। ३६ ।।
तत्र तीर्थमथोत्पन्नं वागंधकमभिश्रुतम् ।।
तत्र स्नात्वा शुचिर्भूत्वा यो वै दद्यात्सशर्करम् ।। ३७ ।।
नवम्यां मार्गशीर्षस्य शुक्लायां श्रद्धयान्वितः ।।
अक्षयं तद्भवेद्दत्तं दाता शिवपुरं व्रजेत् ।। ३८ ।।
पितृनुद्दिश्य यत्किंचिद्दीयते भक्तितः शिवे ।।
तृप्तास्तिष्ठंति ते तावद्यावदाभूत संप्लवम् ।। ३९ ।।
तमसा च्छादिता देवाः संबभूवुः समाकुलाः ।।
संभ्रांतमनसः सर्वे न किंचिदपि मेनिरे ।। 5.1.36.४० ।।
एतस्मिन्नंतरे व्यास नरादित्यः स्वतेजसा ।।
उत्तस्थौ नररूपेण कुर्वन्वितिमिरा दिशः ।। ४१ ।।
नष्टे तमसि दैत्येपि प्रकाश प्रकटे सति ।।
देवा मुदमवापुस्ते दृष्ट्वा नरं विलोचनैः ।। ४२ ।।
स्तुवंतो विविधैः स्तोत्रैर्नररूपं दिवाकरम् ।।
उत्तस्थौ नररूपेण दीप्तो यस्माद्दिवाकरः ।। ४३ ।।
तेनास्य नाम ते चकुर्नरदीप इतीश्वराः ।।
यः पश्यति नरो भक्त्या नरदीपं दिवाकरम् ।। ४४ ।।
मुच्यते सर्वपापेभ्यो यद्यपि ब्रह्महा भवेत् ।।
षष्ठ्यामर्कदिने विप्र सप्तम्यामुप वासयेत् ।। ४५ ।।
दिनच्छिद्रेथ संक्रांतौ ग्रहणे विषुवत्यथ ।।
कुंडे स्नात्वा शुचिर्भूत्वा जपन्नियतमानसः ।। ४६ ।।
नरदीपं नरः पश्येत्स्तोत्रवा दित्रमंगलैः ।।
गंधैर्धूपैस्तथा दीपैर्नैवेद्यैः पूजयेत्तथा ।। ४७ ।।
गीतं वाद्यं पुरस्कृत्य प्रणम्याष्टांगमेव च ।।
प्रातर्मध्यापराह्ने वा कृत्वार्कस्य प्रदक्षिणा म् ।। ४८ ।।
स मुक्तः सर्वपापैस्तु सप्तजन्मकृतैरपि ।।
सूर्यकोटिप्रतीकाशैर्विमानैः सार्वकामिकैः ।।४९।।
सूर्यलोकं प्रयात्याशु यत्सुरैरपि दुर्लभम् ।।
शक्रात्प्राप्य पुरा यस्माद्भानुरत्र प्रतिष्ठितः ।। 5.1.36.५० ।।
नरेणैव प्रसादेन नरदीपस्ततो ह्ययम् ।।
तदैवास्य पुरा व्यास यात्रा शक्रेण निर्मिता ।। ५१ ।।
आगमिष्याम्यहं पार्थ सार्धं देवैः समाहितः ।।
ज्येष्ठे सिते द्वितीयायां नरदीपे तु सर्वदा ।।५२।।
तत्राहमागतो ज्ञेयो लोके देवस्य वर्षणात् ।।
ततोऽनंतरमागत्य देवा ये त्रिदशालयात् ।। ५३ ।।
दृष्ट्वा देवं तथारूढं नरदीपं सुदीपितम् ।।
कृत्वा यात्रां च ते यांति देवयानैरितस्ततः ।। ५४ ।।
यः पश्येन्मानवो भक्त्या नरदीपं रथस्थितम् ।।
सर्वपापविनिर्मुक्तः सूर्यलोके महीयते ।। ५५ ।।
रथयात्रामथो वक्ष्ये नरदीपस्य या मुने ।।
तां कृत्वा चैव यत्पुण्यं मुनिभिः परिकीर्तितम् ।। ५६ ।।
ज्येष्ठे सिते द्वितीयायां रथस्थो हि दिवाकरः ।।
कुशस्थल्यां द्विजैः श्रेष्ठैर्बाहुक्षेपैः प्रणीयते ।। ५७ ।।
उत्तरां दिशमायांतं यः पश्यति दिवस्पतिम् ।।
अग्निष्टोमस्य यज्ञस्य लभते सोऽखिलं फलम् ।।५८।।
निवृत्य केशवार्काद्यो रथं पश्यति मानवः।।
शुंडीरस्वामिनो यात्रा कृता तेन न संशयः ।। ५९ ।।
रथमाकर्षते यस्तु रज्ज्वाकर्षेण वै मुने ।।
कुलमुद्धरते सोऽपि पूर्वान्पितृपितामहान् ।। 5.1.36.६० ।।
दक्षिणाभिमुखं यांतं नरदीपं द्विजोत्तम ।।
ये संयताः प्रपश्यंति ते यांति च त्रिविष्टपम् ।। ६१ ।।
सूत्रेण वेष्टयेत्क्षेत्रं रथं देवमथापि वा ।।
सर्वान्कामानवाप्नोति कृतपुण्यश्च जायते ।। ६२ ।।
प्रदक्षिणां तु सूर्यस्य भक्त्या कुर्वंति ये नराः ।।
प्रदक्षिणीकृता तैस्तु सप्तद्वीपा वसुंधरा ।। ६३ ।।
प्रातरुत्थाय यो भक्त्या मौनी याति दिवाकरम्।।
दृष्ट्वा तु पूर्वद्वारेण नमस्कृत्य द्विजोत्तम ।। ६४ ।।
प्रविश्य दक्षिणेनैव रथचक्रं प्रपूजयेत् ।।
तेन द्वारेण निष्क्रम्य प्रणिपत्य व्रजेत्ततः ।।६५।।
पश्चिमं द्वारमाश्रित्य रथस्थं सूर्यमर्चयेत् ।।
चामरं च वितानं च घंटादीनि निवेदयेत् ।।६६।।
पूर्वद्वारे तु गौर्दे या तथाश्वश्चैव दक्षिणे ।।
पश्चिमे च गजः प्रोक्त उत्तरे रथ एव च ।।६७।।
कुर्यादेव तु यो यात्रां नरदीपस्य मानवः।।
सर्वान्कामानवाप्नोति कृतपुण्यश्च जायते ।।६८।।
गोसूर्यशिवशक्राणां स्वर्लोकं लभते शुभम् ।।
प्रदक्षिणा महामेरोः कृता तेन भवेन्मुने।।६९।।
दद्याद्गवां सहस्रं यो व्यतीपातशते नरः।।
अश्वानां च सहस्रेण यद्यायात्तत्फलं लभेत् ।।5.1.36.७०।।
नरदीपे रथारूढे वपनं कारयेत्तु यः।।
श्रिया न विच्युतिस्तस्य सूर्यलोके महीयते।।७१।।
सूर्यस्य पुरतो वाप्यां मासं नित्यं सरस्वती।।
यस्तामालोकते मर्त्यो दुःस्वप्नं तस्य नश्यति।।७२।।
भक्त्या योऽनुदिनं व्यास नरदीपं प्रपश्यति।।
उत्तमं स्थान मासाद्य पुत्रपौत्रसमन्वितः।।७३।।
प्रक्रीड्य बंधुभिः सार्धं मृतः सूर्यपुरं व्रजेत्।।
प्रनष्टे तिमिरे विप्र जाते सर्वत्र सुप्रभे ।।७४।।
हतेंऽधके महेशेन शूलेन त्रिशिखेन वै ।।
प्रहृष्टाश्च सुराः सर्वे ब्रह्मेंद्रप्रमुखास्तदा ।।७५।।
शंखं दध्मौ तदा विष्णुः सुराणां हितकाम्यया ।।
 तत्र तीर्थमथोत्पन्नं शंखोद्धारणसंज्ञ कम् ।।७६।।
तत्र संनिहितो विष्णुर्लिंगं चैव चतुर्मुखम् ।।
अनाद्यं चैव विप्रेंद्र लिंगस्यैव समीपतः ।।७७।।
देवस्य दक्षिणे भागे शूलेनाधिष्ठितः स्थितः ।।
चतुर्दश्यां तथाष्टम्यां ये पश्यंति जितेंद्रियाः ।। ७८ ।।
ते क्षीणाशेषपापौघाः प्राप्स्यंति परमां गतिम् ।।
योगिनीनां बलिं यस्तु यथावत्संप्रदा स्यति ।। ७९ ।।
भूतप्रेतपिशाचाद्यैर्नासौ केनापि बाध्यते ।।
द्वादशीं समुपोष्यैव स्नात्वा देवं जनार्दनम् ।। 5.1.36.८० ।।
यः पश्येच्छंखिनं देवं सोऽच्युतं स्थानमाप्नुयात् ।। ८१ ।।
यः स्थूलसूक्ष्मप्रकटप्रकाशो यः सर्वभूतो न च सर्वभूतः ।।
विश्व यतश्चैव हि विश्वहेतुर्नमोस्तु तस्मै पुरुषोत्तमाय ।। ८२ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखंडेऽवन्तीक्षेत्रमाहात्म्ये नरदीपमाहात्म्यवर्णनंनाम षट्त्रिशोऽध्यायः ।।३६।। ।। छ ।।