स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीक्षेत्रमाहात्म्यम्/अध्यायः ३४

विकिस्रोतः तः
Jump to navigation Jump to search


।। सनत्कुमार उवाच ।। ।।
तीर्थमन्यत्तथा वक्ष्ये शक्तिभेदमिति स्मृतम् ।।
स्कंदस्य च जटाभद्रं चक्रे यत्र पुरा शिवः ।। १ ।।
तारकं च तथा दैत्यं हत्वा यत्र सुरद्विषम् ।।
शक्तिं स्कंदः स्वयं क्रुद्धो निश्चिक्षेप महीतले ।। २ ।।
।। व्यास उवाच ।। ।।
भगवन्ब्रूहि यत्नेन संशयो मे महामुने ।।
कथं स्कंदः समुत्पन्न एतदिच्छामि वेदितुम् ।।३।। ।।
।। सनत्कुमार उवाच ।। ।।
पुरा देवासुरे युद्धे निर्जिता दानवैः सुराः ।।
दिवं त्यक्त्वा दिशो याताः शक्राद्या भयविह्वलाः ।। ४ ।।
तत्र तु देव राजेन तपसोग्रेण वै मुने ।।
आराधितो महादेवस्त्र्यंबकस्त्रिपुरांतकः ।। ५ ।।
ततस्तुष्टो महादेवः शक्रस्याभिमुखः स्थितः ।।
उवाच वचनं श्लक्ष्णं वरमिष्टं ददामि ते ।। ६ ।।
।। शक्र उवाच ।। ।।
यदि तुष्टोऽसि भगवन्कारुण्यान्मम शंकर ।।
महासेनापतिं देव प्रयच्छ परमेश्वर ।। ७ ।। ।। ।।
।। हर उवाच ।। ।।
उत्पादयामि देवेषु स्ववीर्यादूर्जितं सुतम् ।।
सेनान्यां च महासेनं सुराणां भयहारकम् ।। ८ ।।
।। सनत्कुमार उवाच ।।
इत्युक्त्वांतर्दधे देवः सर्वभूतपतिर्हरः ।।
सुतचिंतापरो देवो जगाम च हिमालयम् ।। ९ ।।
देवदारुवने तस्थौ ज्ञानध्यानपरोऽभवत् ।।
ब्रह्मादयोऽपि यं देवं योगिनो ध्यानचिंतकाः ।। 5.1.34.१० ।।
ध्यायंति नियतात्मनः प्राणायामपरा मुने ।।
लिंगमूर्तिश्च यो नित्यं पूज्यते सर्वजंतुभिः ।। ११ ।।
स ध्यायति किमर्थं तन्न विद्मः परमार्थिनः ।।
वं ध्यानपरे देवे देवी हिमवतो गृहे ।। १२ ।।
मध्ये वयसि वर्तंती यासीद्दाक्षायणी सती ।।
 पितुर्गेहे निजो देहो यया योगाद्विसर्जितः ।। १३ ।।
निमंत्रितो न मे भर्ता इति कोपं चकार या ।।
तां देवीं हिमवान्पूर्वं श्रुत्वा देवर्षिनारदात् ।। ।। १४ ।।
भवभार्या भवित्रीति नान्यं वरमचिंतयत् ।।
तपस्यति च रुद्राय सा सखीभ्यां समन्विता ।। १५ ।।
कथं हि शंकरो देवो मम भर्ता भविष्यति ।।
यावदेवं गतो देवो देवी हिमवतः सुता ।। १६ ।।
ततः समागता देवाः कृत्वाग्रे बलसूदनम् ।।
जग्मुर्ब्रह्मसदः पुण्यं द्रष्टुं ब्रह्माणम व्ययम् ।। १७ ।।
ते सुरास्तत्स्तुति कृत्वा वाक्यमेतत्समैरयन् ।।
शरणं भव देवानां दानवैर्विजितात्मनाम् ।। १८ ।।
ततोऽवोचत्सुरान्ब्रह्मा ज्ञातं कार्यं समाहितम् ।।
नैतच्छंभोर्विना वीर्यात्कार्यसिद्धिर्भविष्यति ।। १९ ।।
तथा यतध्वं देवेशं यथा वांछति पार्वतीम् ।।
इत्युक्त्वांतर्दधे ब्रह्मा स्वप्ने लब्धं धनं यथा ।। 5.1.34.२० ।।
ततो मेरुं समागत्य पुनर्मंत्रं प्रचक्रिरे ।।
तेषामाहेदृशं शक्रस्तुष्टः शंभुः पुरा मम ।। २१ ।।
प्रतिपन्नं च देवेन स्वांगात्सेना पतिं प्रति ।।
तस्मादेवं गते कार्ये कारणं मकरध्वजः ।। २२ ।।
इति संचित्य देवेशः काममाहूय सत्वरम् ।।
उवाच वचनं हृद्यं देवाना मनुकंपया ।। २३ ।।
यथा देवो भजेद्देवीं तथा काम विधीयताम् ।।
कारणं महदेतद्वै देवानां समुपस्थितम् ।। २४ ।।
कामो वाक्यं हरेः श्रुत्वा प्रहस्येदमुवाच ह ।।
करिष्ये सर्वमेवं हि सखा मे चेद्भवेन्मधुः ।। २५ ।।
तस्मिन्क्षणेऽथ शक्रेण कामवाक्यादनंतरम्।।
समादिष्टो मधुः क्षिप्रं कामस्यानुचरो भव ।। २६ ।।
लब्ध्वा कामो मधुं मित्रं प्रतस्थे भार्यया सह ।।
कृत्वा सज्यं धनुर्बाणं पौष्पं पाणौ समाहितः ।। २७ ।।
यत्र देवाधिदेवेशो देवदारुवने स्थितः ।।
नन्दीश्वरः प्रतीहारः कृतध्यानोऽवतिष्ठति ।। २८ ।।
चूतवृक्षाश्रितः कामो यावद्बाणं सुमोहनम् ।।
संदधात्यंतरे चास्मिन्देवी प्राप भवाश्रमम् ।। २९ ।।
त्यक्तध्यानव्रतो देवो हृष्टश्चाह्रादचेतनः ।।
ततो विलोकयामास दिशः सर्वाः प्रयत्नतः ।। 5.1.34.३० ।।
चूतवृक्षाश्रितं काममपश्यच्च रुषान्वितः ।।
भस्मीकृतस्तृतीयाक्ष्णा वह्निज्वालावता ततः ।। ३१ ।।
देवोऽप्यन्तर्दधे तस्मात्स्थानादाशु गणैः सह ।।
पार्वती विस्मिता साध्वी लज्जिता दुःखिताऽभवत् ।। ३२ ।।
हिमवांस्तां समुत्थाप्य निनायाशु निजं गृहम् ।।
गते देवे च देव्यां च कामपत्नी सुदुः खिता ।। २३ ।।
भस्मीकृतं पतिं दृष्ट्वा विललाप सुदुःखिता ।।
दृष्ट्वा रतिं सुदुःखार्ता वागुवाचाशरीरिणी ।।३४।।
आश्वासयंतीं कृपया सखीमिव सुदुः खिताम् ।।
मा रोदीस्त्वं शुभापांगि तव भर्ता करिष्यति।।३५।।
सर्वकार्याण्यनंगोपि मित्रकार्यं विधानतः ।।
यदा चायं महादेवः परिणेष्यति पार्वतीम् ।। ३६ ।।
ततः शंभोरनुध्यानात्थास्यति न संशयः ।।
द्वापरांते यदा कृष्णो द्वारकायां निवत्स्यति ।। ३७ ।।
तत्पुत्रो भविता देही प्रद्युम्नोनाम ते पतिः ।।
इत्युक्ता साऽजहाच्छोकमाकाशाज्जातया गिरा।। ३८ ।।
अचिंतयत्तदा देवी उमापि हिमवद्गृहे ।।
कामस्य दहनं तेजः शंभोर्यत्तदनुत्तमम् ।। ३९ ।।
कथं भर्त्ता भवेद्देवः कामस्योत्थापनं कथम् ।।
नैतत्तपो विना कार्यं क्वचित्कस्यापि सिध्यति ।। 5.1.34.४० ।।
एवं संचिंतयित्वाथ सखीभिः सहिता ततः ।।
तपश्चकार सुमहत्पित्रादेशाच्छुभव्रता ।। ४१ ।।
वर्षास्वभ्रावकाशस्था हेमंते जलशायिनी।।
ग्रीष्मे पंचाग्नितप्तांगी तपस्युग्रे समा स्थिता ।। ४२ ।।
तां दृष्ट्वा तपसोपेतां ब्रह्मचारिवया हरः ।।
आजगामाश्रमं देव्याः कृतातिथ्योऽब्रवीदिदम् ।। ४३ ।।
कृशमध्ये कृशापांगि किमर्थं नवयौवने ।।
तपः करोषि कल्याणि कस्यार्थे कारणं वद ।। ४४ ।।
उवाच चोत्तरं सा वै सत्यं च मधुरं तथा ।।
बटो तपःसमारंभः क्रियते शंकरा प्तये ।। ४५ ।।
विचार्य च हरः श्रुत्वाऽनंदयत्कार्यमात्मनः ।।
उमाभक्तिपरीक्षार्थं शिवं वाचा निनिन्द वै ।। ४६ ।।
तस्य तद्वचनं श्रुत्वा न सेहे सा गिरेः सुता ।।
गंतुकामामुमां मत्वा तस्मात्स्थानान्महेश्वरः ।।
स्वं वपुर्दर्शयामास त्रिनेत्रं शूलपाणिनम् ।। ४७ ।।
लज्जिताभूद्भवानीशं दृष्ट्वा तस्थावधोमुखी ।।
विजयाथाह योगीन्द्रं प्रार्थ्या चाभिजने त्वियम् ।।
पार्वतीहरणार्थाय यत्नं च प्रकरोम्यहम् ।। ४८ ।।
इत्युक्त्वांतर्दधे देवो देव्यागाच्च पितुर्गृहम् ।।
देवीलाभाय सप्तर्षीन्सस्मार स्मरशासनः ।। ४९ ।।
प्रणेमुस्तेप्यथागम्य संस्मृताः परमेश्वरम् ।।
ऊचुश्च प्रांज लिपुटाः कुर्म किं शाधि नो भृशम् ।। 5.1.34.५० ।।
ततोऽब्रवीन्मुनीनीशः समस्तांश्च गिरेर्गृहम् ।।
गत्वा तथा कुरुध्वं मे पार्वती स्याद्यथा प्रिया ।। ।। ५१ ।।
तथेति ते प्रतिज्ञाय संकेतं शंभुना समम् ।।
कृत्वा जग्मुः सपत्नीका गिरींद्रस्य निवेशनम् ।। ५२ ।।
दत्तार्घा भूधरेंद्रेण कृतासन परिग्रहाः ।।
ऊचुरद्रिमुमां यच्छ शंकरायार्थिने प्रियाम् ।। ५३ ।।
दत्तेत्युक्ता गिरींद्रेण निरूप्योद्वाहवासरम् ।।
लब्ध्वानुज्ञां समायाता यत्रास्ते स महेश्वरः ।। ५४ ।।
ऊचुस्ते शंकरं सर्वे दत्ता हिमवता शिवा ।।
कृतकार्याश्च सर्वेऽपि वव्रजुस्ते यथागतम् ।। ५५ ।।
चक्रुर्विवाह सामग्रीं ब्रह्मेन्द्रादिसुरास्तदा ।।
वृषासनो जगामाथ नंदीशप्रमुखैर्गणैः ।। ५६ ।।
शंखदुंदुभिनादैश्च ब्रह्माद्यैरमरैः सह ।।
प्राप्यागेंद्रालयं हीशः कृतकौतुकमंगलः ।। ५७ ।।
विवाह्येमां विधानेन जगाम स्वालयं पुनः ।।
तत्रैकांतरतिर्देवो यावत्तिष्ठति कामवान् ।। ५८ ।।
तावत्त्रस्तैः सुरैरग्निः प्रेषितोऽगान्महेश्वरम् ।।
अग्नौ तत्र गते देवो रतिं कृत्वा महेश्वरः ।। ५९ ।।
निचिक्षेप मुखे वह्नेः स्वरेतो व्रीडितो भृशम् ।।
रेतसा तेन तप्तो ऽग्निर्गंगातोये निक्षिप्तवान् ।। 5.1.34.६० ।।
हररेतोऽग्निनोद्गीर्णं गंगामध्ये पपात ह ।।
तया तु स्वतटे न्यस्तं दग्धया रुद्ररेतसा ।। ६१ ।।
सप्तर्षीणां च षट्पत्न्यः स्नानार्थं जाह्नवीं ययुः ।।
शीतार्तास्ताः कृतस्नाना दृष्ट्वा तेजस्तटे ज्वलत् ।। ६२ ।।
मत्वाग्निमिति ताः सर्वास्तपंति स्म यथेच्छया ।।
तपंतीनां च वै तासां तद्बीजसंभव मुने ।। ६३ ।।
षडाननं समारूढं श्रोणिद्वारेण सत्वरम् ।।
यदान्योन्यमुत्पतितुं शक्ता नाग्निपुरोगमात् ।। ६४ ।।
चिंतां जग्मुस्तदा सर्वा मुनित्रासात्ततो भयात् ।।
ततश्च तपसो वीर्यान्निष्कृष्य स्वोदरात्ततः ।। ६५ ।।
षड्भिरेकत्वमापद्य श्वेतपर्वतमस्तके ।।
मध्ये शराणां वै कृत्य निक्षिप्तं वीर्यमुत्तमम् ।। ६६ ।।
शुक्लायां प्रतिपद्यासीद्द्वितीयायां समीकृतः ।।
तृतीयायां च साकारः सर्वलक्षणलक्षितः ।। ६७ ।।
चतुर्थ्यां परिपूर्णांगः षण्मुखो द्वादशेक्षणः ।।
अलंकृतस्तु पंचम्यां षष्ठ्यां च स समुत्थितः ।। ६८ ।।
तेजसा श्वेतताम्रेण तताप स जगत्त्रयम् ।।
जातमित्थं समाकर्ण्य सर्वे शक्रमुखाः सुराः ।। ६९ ।।
समागत्यास्य संस्कारं ब्रह्मा चक्रे यथाविधि ।।
तुष्टेन पार्वतीशेन शक्तिर्दत्ता दृढा शुभा ।। 5.1.34.७० ।।
ततो गौर्या मयूरश्च वाहने परिकल्पितः ।।
छागश्चैवाग्निना दत्तः कुक्कुटं सरितां पतिः ।। ७१ ।।
शूलेन कृत्तिकाभिश्च वर्धितः पुत्रकाम्यया ।।
ततस्तु प्राप्तसंस्कारो ब्रह्माद्यैरभिनंदितः ।। ७२ ।।
शक्तिहस्तोऽभिषिक्तस्तु देवसेनासमादृतः ।।
वित्ताधिपेन साह्येन पावकिः पण्मुखों ऽशतः ।। ७३ ।।
गांगेयः कार्तिकेयश्च गुहः स्कंद उमासुतः ।।
देवसेनापतिः स्वामी सेनानीश्च शिखिध्वजः ।। ७४ ।।
कुमारः शक्तिधारी च तस्य नामानि षोडश ।।
यः पठेन्मानवो भक्त्या बाधा तस्य न जायते ।। ७५ ।।
एवं जातो महासेनो दानवानां क्षयकरः ।।
कुशस्थल्यां समानीतः शंभुना स्थानकारणात् ।। ७६ ।।
अभिषिक्तः स तेनासौ भद्रितः स जटाः पुरा ।।
तेन भद्रजटंनाम देवतीर्थं च कथ्यते ।। ७७ ।।
कृताभिषेकं लब्धास्त्रं महासेनं महेश्वरः ।।
तमुवाच समधुरं सर्वदेवसमागमे ।। ७८ ।।
रक्षा कार्या त्वया पुत्र सामरस्य शतक्रतोः ।।
देवानां बाधकाः सर्वे निहंतव्याः सुरद्विषः ।। ७९ ।।
इत्थं महोत्सवे जाते दृप्तप्रमथसागरे ।।
मातरोऽन्वागताः सर्वाः पातालतलसंस्थिताः ।। 5.1.34.८० ।।
तासामाहारसंज्ञाभिश्चक्रे नामानि शंकरः ।।
यानि तानि प्रवक्ष्यामि शृणु त्वं मुनिपुंगव ।।८१।।
वटभोजनकामा या ज्ञेयास्ता वटमातरः ।।
भुञ्जते चर्पटान्यास्तु ता वै चर्पटमातरः ।।८२।।
क्रीडार्थं शंभुना चाथ प्राप्ता याः पौलभोजने ।।
षण्णवतिमातरः सत्याः सर्वास्ताः पौलमातरः ।।८३।।
सर्वासां दर्शनं पुण्यं ग्रहभूतविनाशनम् ।।
प्रयत्नतः सदा देव्यो द्रष्टव्या मानवैर्मुने ।।८४।।
लब्ध्वा शक्तिं महासेनो देवसेनो महाव्रतः ।।
जघान दानवेंद्रं तं तारकं तरसा तदा ।। ८५ ।।
दत्त्वा राज्यं तथेंद्राय स्फीतं निहतकंटकम् ।।
कुशस्थलीं समागम्य तत्र वासं समाचरत् ।।८६।।
एवं निहत्य दैत्येंद्रं स गांगेयो महाब लः ।।
शक्तिं शिप्राजले मुक्त्वा पातालं च बिभेद सा ।।८७।।
ततो भोगवती व्यास शक्तिभेदेन निर्गता ।।
वंदिता सर्वदेवैश्च मुनिभिश्च तपोधनैः।।८८।।
पृथिव्यां यानि तीर्थानि समुद्रादिगतानि च ।।
शक्तिभेदे तु न्यस्तानि शतकोटिसहस्रशः ।। ८९ ।।
अतोऽतिपुण्यं त्रैलोक्ये कोटितीर्थमुदाहृतम् ।।
ब्रह्मणा स्थापितस्तत्र कोटितीर्थेश्वरः शिवः ।। 5.1.34.९० ।।
कोटितीर्थे नरः स्नात्वा दृष्ट्वा कोटीश्वरं शिवम् ।।
मुच्यते सर्वपापेभ्यो निर्मोकादिव पन्नगः ।। ।। ९१ ।।
श्राद्धं करोति यस्तत्र पितृभक्तो नरो मुने ।।
दशानामश्वमेधानां प्राप्नोति सकलं फलम् ।। ९२ ।।
पितॄनुद्दिश्य यत्किञ्चित्कोटितीर्थे प्रदीयते ।।
तत्सर्वं कोटिगुणितं जायते नात्र संशयः ।। ९३ ।।
तत्र तीर्थे नरो यस्तु गां ददाति पयस्विनीम् ।।
सर्वलोकानतिक्रम्य स गच्छेत्प रमां गतिम् ।। ९४ ।।
यावन्त्यंगेषु रोमाणि तत्प्रसूतिकुलेषु च ।।
तावद्युगसहस्राणि शिवलोके महीयते ।। ९५ ।।
पौर्णमास्याममावास्यां पश्येच्छक्तिधरं तु यः ।।
नापुत्रो नाधनो रोगी सप्तजन्मसु जायते ।। ९६ ।।
जलप्रवेशं यः कुर्यात्तत्र तीर्थे नरोत्तमः ।।
सोऽक्षयं लभते लोकं यावच्चन्द्र दिवाकरौ ।। ९७ ।।
वृषोत्सर्गं तु यः कुर्यात्पितृभक्तो नरो मुने ।।
सोऽक्षयं लभते स्थानं यत्सुरैरपि दुर्लभम् ।। ९८ ।।
इति श्रीस्कांदे महा पुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये शक्तिभेदतीर्थमाहात्म्यवर्णनंनाम चतुस्त्रिंशोऽध्यायः ।। ३४ ।। ।।।छ।। ।।