स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीक्षेत्रमाहात्म्यम्/अध्यायः ३२

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

।। सनत्कुमार उवाच ।। ।।
अथान्यत्संप्रवक्ष्यामि नरादित्यं दिवाकरम् ।।
यस्य दर्शनमात्रेण सर्वरोगैर्विमुच्यते ।। १ ।।
स्थापनां ते प्रवक्ष्यामि नरादित्यस्य यादृशी ।।
युद्धे निवारिते तस्मिन्रक्तस्वेदजयोः पुरा ।। २ ।।
नरनारायणौ देवाववतीर्णौ धरातले ।।
कुंत्यां देव्यां च देवक्यां मथुरायामजायताम् ।। ३ ।।
एवं तौ वर्तितौ लोके कांतौ वृद्धिं परां गतौ ।।
अन्यस्मात्कारणात्कृष्णो ऽन्यस्माज्जातो धनंजयः ।।४।।
कंसादीन्दानवान्सर्वान्निजघान रणे हि सः ।।
स्वर्गं गतस्ततः पार्थो वासवादस्त्रसिद्धये ।। ५ ।।
कृतास्त्रेण तु वीरेण देवराजस्य दक्षिणा ।।
संस्तुता देवराजस्तु ययाचे तां हि दक्षिणाम् ।। ६ ।।
निवातकवचा ह्युग्रा हिरण्यपुरवासिनः ।।
वध्यंतामर्जुन क्षिप्रमेषा मे गुरुदक्षिणा ।। ७ ।।
अर्जुनेन प्रतिज्ञातो वधस्तेषां दुरात्मनाम् ।।
ऐंद्रं स रथमास्थाय गृहीत्वा सशरं धनुः ।। ८ ।।
निहत्य तांस्ततः पार्थः कृत्वा कर्म सुदुष्करम् ।।
प्रीतिमुत्पादयामास सर्वेषां च दिवौकसाम् ।। ९ ।।
कृतकार्यं तदा शक्रस्त्वर्जुनं वाक्यमब्रवीत् ।।
यत्तेऽभिरुचिरं वीर मृत्युलोके सुदुर्लभम् ।। 5.1.32.१० ।।
मनसा कांक्षितं पार्थ वरं त्वं वरयोत्तमम् ।।
स वव्रे प्रतिमे द्वे तु येऽर्चिते ब्रह्मणा स्वयम् ।। ११ ।।
ब्रह्मणा प्रीतियुक्तेन दक्षाय प्रतिपादिते ।।
दक्षेणापि युगं साग्रं पूजिते तिमिरापहे ।। १२ ।।
सुराणामसुराणां च विग्रहे समुपस्थिते ।।
दानवैर्निर्जितः शक्रो हृतराज्यो वनं गतः ।। १३ ।।
तपश्चचार दुर्धर्षमेकपादः शतक्रतुः ।।
दिव्यवर्षसहस्रं तु धिषणस्तं ददर्श ह ।। १४ ।।
दृष्ट्वा तु देवराजं तं बृहस्पतिरुवाच ह ।।
हित्वा त्रिदिवमायातः कथं शक्र त्विदं वनम् ।। १५ ।।
एकाकिना वनस्थेन न साध्याः शत्रवस्त्वया ।।
ज्ञात्वैवं देवराज त्वं शीघ्रं दक्षाश्रमं व्रज ।। १६ ।।
पूजार्थे ब्रह्मणा दत्ते पारिजातसमुद्भवे ।।
चकार विश्वकर्मा ये ते याचस्व प्रजापतिम् ।। १७ ।।
शत्रूणां च क्षयो भावी प्रसादादर्चयो स्तयोः ।।
गुरोस्तु तेन वाक्येन हृष्टो देवः शतक्रतुः ।।१८।।
जगाम सत्वरस्तत्र यत्र दक्षः प्रजापतिः ।।
विनयावनतो भूत्वा ययाचे प्रतिमे शुभे ।। १९
पूजिते प्रतिमे व्यास शक्रेण शरदां शतम् ।।
तयोस्तु तेजसा सर्वे विनाशं दानवा गताः।।5.1.32.२०।।।
प्रतिमे चोचुतुः शक्रं वरयस्व वरोत्तमम्।।
भक्त्यानया परं तुष्टावावां जानीहि वासव।।२१।।
वरं वव्रे तदा शक्रः प्रसन्नात्मा द्विजोत्म।।
अस्माकं प्रतिपक्षा ये दानवाः पापचेतसः ।। २२ ।।
सर्वे ते नाशमृच्छंतु वर एष मतो मम ।।
युवां पूजितुमिच्छामि यावदिंद्रो भवाम्यहम् ।। २३ ।।
तथेति चोक्त्वा प्रतिमे ते नाकं प्रति जग्मतुः ।।
तत्तु याचे ह्यवश्यार्थे वरार्थे प्रतिमाद्वयम् ।। २४ ।।
।। इंद्र उवाच ।। ।।
साधु पार्थ पुनः साधु यत्रेत्थं प्रतितिष्ठतः ।।
इमे च प्रतिमे पार्थ शंकरेण महात्मना ।। २५ ।।
सुरक्तैः शतपत्रैश्च पूजिते ब्रह्मणो दिनम् ।।।
त्रैलोक्यपालनार्थाय पूजिते विष्णुना पुरा ।। २६ ।।
नीलोत्पलैः सुगंधैश्च सहस्रपरिवत्सरान् ।।
ततः प्रजापतिः सृष्टिं कर्तुकामः समा हितः ।। २७ ।।
पूजयामास प्रतिमे पद्मै रक्तोत्पलैः शुभैः ।।
त्वमेव हि कथं पार्थ मृत्युलोके नयिष्यति ।। २८ ।।
एताभ्यां रहितः स्वर्गो मृत्युतुल्यो भविष्यति ।।
अदातुकामं देवेंद्रं प्रणिपत्य तमर्जुनः ।। २९ ।।
उवाच नाहमर्थ्यस्मिन्वरेणानेन वै प्रभो ।।
ततः शक्रः पुनः पार्थमुवाच मुनिपुंगव ।। 5.1.32.३० ।।
गृहीत्वा त्वमिमे वीर कुशस्थल्यां निवेशय ।।
शिप्राया उत्तरे तीरे केशवार्कं तु केशवः ।। ३१ ।।
प्रति तिष्ठति वै यत्र सर्वपापप्रणाशनः ।।
संस्थापयस्व वै तत्र सर्वपापप्रणाशने ।।
भविष्यति तदा यात्रा आषाढी चाथ कौमुदी ।। ३२ ।।
आगमिष्याम्यहं तत्र सहितोऽप्सरसां गणैः ।।
मरुतश्चागमिष्यंति मेघाश्चैव सविद्युतः ।। ३३ ।।
मेघखण्डे समुद्भूते मयि तत्र प्रवर्षति ।।
प्रवदिष्यंति वै लोकाः प्राप्तो देवः पुरंदरः ।। ३४ ।।
भास्करं च नमस्कृत्य ब्रह्माद्यैः पूजितं विभुम् ।।
प्रतियामि तु बीभत्सो पुनरेव यथागतम् ।। ३५ ।।
एवं मृर्तिद्वयं व्यास दत्त्वा पार्थाय वासवः ।।
भूर्लोकं प्रेषयामास सूतेन सह पांडवम् ।। ३६ ।।
नारदो द्वारकायां तु कृष्णस्याह्वानकारणात् ।।
देवराजस्य तद्वाक्यं सरहस्यं च केशवम् ।। ३७ ।।
श्रावयामास विप्रेंद्रं एहि कृष्ण कुशस्थलीम् ।।
अर्च्चे हि पारिजातस्य विश्वकर्मसुकारिते ।। ३८ ।।
इंद्रेणाथ प्रदत्ते वै ते तुभ्यं पांडवाय च ।।
श्रुत्वा शौरिस्तु तद्वाक्यं प्रतस्थेऽवंतिनीपुरीम् ।। ३९ ।।
अवातरच्च आकाशात्तमालिंग्य च पांडवम् ।।
प्रीतः प्रोवाच वचनं परिष्वज्य च फाल्गुनम् ।। 5.1.32.४० ।।
जन्म मे सफलं जातं प्रीतिर्मे जनितार्जुन ।।
यतो मे प्रीतिरतुला क्रियतां कार्यमुत्तमम्।। ।। ४१ ।।
इत्युक्त्वा तौ तदा व्यास समायातौ कुशस्थलीम् ।।
पार्थं प्राह तदा कृष्णः सुसंपूर्णमनोरथः ।। ४२ ।।
गत्वार्जुन दिशं प्राचीं मूर्तिमेकां निवेशय ।।
पूर्वाह्ने हि शुभं लग्नं भविष्यति मनोरमम् ।। ४३ ।।
अहमप्युत्तरां यामि स्थापनार्थं नदीं मुने ।।
मम शंखस्य नादेन प्रतितिष्ठ रविं प्रभुम् ।। ४४ ।।
पूर्वां गत्वा ततः पार्थ शुभं स्थानं व्यलोकयत् ।।
व्यास संस्थापयामास दिननाथं च सुस्थिरम् ।। ४५ ।।
अर्कं देवं स्थापयामि यावद्दध्यौ च पांडवः ।।
तावत्स चाब्रवीदेनं स्थानं कारय शोभनम् ।। ४६ ।।
कथयामास पार्थाय तेजसा तेन दुःसहम् ।।
सव्यसाची ततो भीतो दृष्ट्वार्च्चां तां प्रजल्पतीम् ।। ४७ ।।
तेजस्त्वसहमानो वै देवं वचनमब्रवीत् ।।
क्व देव त्वां स्थापयामि किं स्थानं तव रोचते ।। ४८ ।।
सौम्य रूपः सुदर्शश्च प्रजाभ्यो भव गोपते ।।
दिविसंस्थाश्च ये देवा नागाः पातालसंश्रयाः ।। ४९ ।।
भुविस्था मानवाः पूता भवंतु तव दर्शनात् ।।
सोऽर्जुनमब्रवीद्देवो मा भैस्त्वं मम दर्शनात् ।। 5.1.32.५० ।।
दक्षिणेन करेणाथ ह्यभयेनाभयप्रदः ।।
समाश्वास्याथ तं शांतं सौम्यमूर्तिर्बभूव ह ।। ५१ ।।
प्रभाकरेण देवेन निजं तेजः प्रदर्शितम ।।
ततः सूर्योऽब्रवीत्स्थानमेतदेवाचलं मम ।। ५२ ।।
प्राप्ते लग्ने च हरिणा शंखश्चापूरितो महान् ।।
नरेण च स वै सूर्यः स्थापितोऽमरसंस्तुतः ।। ५३ ।।
।। अर्जुन उवाच ।। ।।
जयति किरणमाली भासुरः श्रांतसप्तिः सकलभुवनधामा प्राग्दिगंताट्टहासः ।।
भवति विगतपापं कीर्तनादेव यस्य प्रचुरकलुषदोषैर्ग्रस्तमंगं नराणाम् ।। ५४ ।।
ब्रह्माद्यैर्मुनिभिरभिष्टुतं पतंगं कः स्तोतुं कविरभिवांछते प्रकामम् ।।
स्तोष्येहं तदपि सुविस्तरात्सुबुद्धे किं दीपो ज्वलति हि नोदिते शशांके ।। ५५ ।।
शास्त्रार्थकामनिपुणैर्मुनिभिः स्तुतस्य किं वस्तु यन्न रचितं विविधैः प्रयोगैः ।।
द्वैपायनप्रभृतिभिर्मुनिभिः पुराणैरापीतसारमिह भाति जगत्समस्तम् ।। ५६ ।।
कामं तथाप्यहमतीव विचार्य ब्रुद्ध्या भानोस्त्रिलोकगुरुपूजितपादयुग्मम् ।।
वृत्तैः स्फुटार्थमधुराक्षरसंधियुक्तैस्त्वां वै विचित्रगतिभिः परिकीर्तयिष्ये ।। ५७ ।।
तावज्जगद्भवति निश्चलमेव सर्वं तावत्क्रियाश्च विविधा न च यांति सिद्धिम् ।।
यावच्च नाथ कमलामलमंडल त्वमुत्तिष्ठसे व्यपनयन्किरणैस्तमांसि ।। ५८ ।।
तावन्न भांति शिखराणि महीरुहाणां गुच्छैस्तु फुल्लवनमीलितलोचनानि ।।
सुप्तानि बोधयसि षट्चरणाकुलानि यावन्न भाभिरमलाभिरनुत्तमाभिः ।। ५९ ।।
उद्यंतमंबरतले सुरसिद्धसंघाः सब्रह्मदैत्यमुनिकिन्नरनागयक्षाः ।।
त्वामर्चयंति विबुधाः प्रणतैः शिरोभिश्चञ्चत्किरीटमणिभाभिरनुत्तमाभिः ।। 5.1.32.६० ।।
अस्तं गते त्वयि जगद्भवति प्रसुप्तं भूयस्त्वयि प्रतपति प्रतिबोधमेति ।।
एवं सदा वरद लोकहितार्थहेतोरेकस्त्वमेव भगवंस्तिमिरस्य हंता ।। ६१ ।।
उत्साहशक्तिनयशौर्यसमन्वितानां सेवाप्रयोगरचनाविधितत्पराणाम् ।।
कार्याणि यन्न फलदानि भवंति पुंसां हेतुस्त्वभक्तिरिह नाथ वेति नूनम् ।।६२ ६२ ।।
यत्संयुगेषु रथकुञ्जरकुन्तशक्तिनाराचचक्रशरतोमरभीमखड्गैः ।।
क्षिप्रं नराः समुपयांति विजित्य शत्रून्सर्वं सदा प्रणतवत्सल वेष्टितं ते ।। ६३ ।।
कांतारदुर्गविषमेष्वपि वर्तमाना ऋक्षेभसिंहबहुकण्टकतस्करेषु ।।
तृष्णान्विताश्च बहुशोकविमूढचित्तास्त्वत्कीर्तनाद्धि गतमृत्यु भया भवंति ।। ६४ ।।
तेजोराशिस्त्वमिह शरणं सर्वतोदुःखितानां
त्वत्तुल्योऽन्यो जगति सकले नास्ति कश्चिद्दयालुः ।।
त्वय्येकस्मिन्भवति सकला भक्तिरन्विष्यमाणा
त्वामासाद्य प्रभवति कुतो व्याधिदुःखं नराणाम्।। ६५ ।।
कः कुष्ठाभिहतः क्व चारिभिरथो को व्याधिभिः पीडितः
के पंग्वंधजडाः क्व शीर्णचरणः को वा विपन्नक्रियः ।।
इत्येवं प्रसमीक्ष्य देव कृपया दोषात्परित्रायसे
कस्यान्यस्य परोपकारनिरता चेष्टा यथैषा तव ।। ६६ ।।
धर्मः परत्र किल तिष्ठति सेवितोऽसौ
कालांतरेण विबुधा वरदा भवंति ।।
त्वं सेवितः प्रणतवत्सल भूतिकामैः
सद्यः प्रयच्छसि फलं यदभीप्सितं तैः ।। ६७ ।।
विभ्रांतकांतहरिणीसदृशेक्षणाभिः
कांतोरुहारमणिकुण्डलमेखलाभिः ।।
तेषां भवंति भवनानि विलासिनीभिर्येषां नृणां त्वमसि वै वरदः प्रसन्नः ।। ६८ ।।
यैस्त्वं नरैः सकृदपि प्रणतः कथंचिद्ध्यातोऽथवा भुवननाथ तथांतकाले ।।
निष्कल्मषा जगति दुष्कृतिनो भवंति ते निर्मलाः सुकृतिनो गतिमाप्नुवंति ।। ६९ ।।
ये त्वां कुतर्कमतिभिर्न नमंति भक्त्या रोमांचकंचुकशताकुलितैः शरीरैः ।।
ते निर्धनाः परगृहेष्ववभूतमन्नं क्षुत्क्षामकण्ठवदनाः परितर्कयंति ।। 5.1.32.७० ।।
उदधिजलतरंगक्षोभलोलाक्षियुग्मैः सफणिमणिमयूखोद्भासितैर्लेलिहद्भिः ।।
प्रणिपतितशिरोभिर्नागमुख्यैरजस्रं श्रुतिभिरनुपमाभिः स्तूयसे पुष्कलाभिः ।। ७१ ।।
तव सुरवर गच्छतोऽनुसरंति त्रिदशनदीकमलोद्ग तानि वातैः ।।
कनककमलरेणुपिंजरितानि भ्रमरकुलानि पतंग चामराणि ।। ७२ ।।
तत्त्वध्यानं जलनिधिनिवहे स्थित्वा स्थित्वा चरणनिवहैः ।।
आजीवार्थं प्रतपसि भगवन्कस्ते तुल्यस्त्रिभुवनसमये ।। ७३ ।।
उदयाद्रिनितंबसंस्थितस्य ह्युदयेष्वस्तमयेषु चावृतस्य ।।
किरणास्तपनीयसप्रभास्ते विलसन्तस्तडितो विडंबयंति ।। ७४ ।।
यथायथा व्रजति रथस्तवांबरे विपाटयन्धनतिमिरौघसंचयान् ।।
तथातथा क्षुभितमहानिलासृतं प्रतीयते मुहुरिव दुन्दुभिर्यथा ।। ७५ ।।
चारुपद्मविनिमीलितेक्षणां चक्रवाककलहंसमेखलाम् ।।
कामिनीमिव रतिश्रमालसां तां विबोधयसि पद्मिनीं करैः ।। ७६ ।।
नीललोलमतिकान्तमुत्पलं भृंगतुंगचरणाकुलीकृतम् ।।
त्वत्प्रभाभिरनुरागरंजितं पद्मरागमिव शोभते भृशम् ।। ७७ ।।
स्फुरच्छशांकहारनिर्मलं खग त्वदंकेष्वचंचलम् ।।
विभात्यतीव कांतमंबरं समं बृहच्चैक पाटलम्।। ७८ ।।
हरिति च तावन्मुहिर्निषेविततमस्यशुभं भवति च यावदैव किरणैस्तव पूजिततरम् ।।
ऋषिभिर्मुनिभिरुदारधीभिः शाश्व तमार्गपरैर्वरद न शक्यते तव गुणस्तुतिराश्रयितुम् ।। ७९ ।।
त्वं विष्णुस्त्वं शशांकस्त्वमसुरमथनः शण्मुखस्त्वं धनेशस्त्वं कालस्त्वं च धाता क्षितिधरमलयापाश्रयस्त्वं हुताशः ।।
ॐकारस्त्वं द्विजानां त्वमिह जलनिधित्वं शरस्त्वं च रुद्रस्त्वं मुख्यस्त्वं पयोदो व्रतयमनियमास्त्वं जगत्सर्वमेव ।। 5.1.32.८० ।।
त्वमनिंद्य गोपते त्रिपुरमथन मन्मथदाहकरस्त्वमसुरभीमदर्पहा पाहि माम् ।।
त्रिदशाधिपकमलवराननस्त्वमिह देवगुरुर्भगवां स्त्रिभुवनमण्डलेऽस्ति कतमस्तव तुल्यगुणः ।। ८१ ।।
आदित्य भास्कर दिवाकर सप्तसप्ते मार्तंड सूर्य हरिदश्वपते च भानो ।।
अश्रांतवाहन खरूप गभस्तिमालिंस्त्वां लोकनाथ शरणं प्रतिपद्यतेऽसौ ।। ८२ ।।
प्राग्दिग्वधूतिलकभासुरकर्णपूर मंदाकिनीदयितनाथ जगत्प्रदीप ।।
हेमाद्रितापन नभस्तलहारिरत्न सन्ध्यांगनावदनराग नमोनमस्ते ।। ८३ ।।
ब्रह्मैव सत्य शुभमंगल लोकनाथ व्योमांगणेश मुनिसंस्तुत विश्वमूर्ते ।।
आर्तस्य शोकहर किंकरपालकश्च त्वं मे प्रसीद भगवञ्छरणागतस्य ।। ८४ ।।
कृत्वांजलिं शिरसि पंकजकुड्मलाभं यत्संस्तुतस्त्वमिह देव मयाद्य भक्त्या ।।
तेन प्रभो भव ममोपरि सौम्यमूर्तिर्धर्मे मतिं कुरु सदा श्रियमूर्जितां च ।। ८५ ।।
नमः सवित्रे जगदेकचक्षुषे जगत्प्रसूतिस्थितिनाशहे तवे ।।
त्रयीमयाय त्रिगुणात्मधारणे विरंचिनारायणशंकरात्मने ।। ८६ ।।
।। सूर्य उवाच ।। ।।
तुष्टोहमधुना पार्थ स्तोत्रेणानेन सुव्रत ।।
वरं दास्यामि यत्नेन यत्ते मनसि वर्तते ।। ८७ ।।
मद्दर्शनं हि विफलं न कदाचित्प्रजायते ।।
शूराणां च विशेषेण ह्यदेयं नास्ति यत्नतः ।। ८८ ।। ।।
।। अर्जुन उवाच ।। ।।
एष एव वरो मह्यं वराणामुत्तमोत्तमः ।।
अत्र संनिहितो देव सर्वकालं भव प्रभो ।। ८९ ।।
ये च त्वां मानवा भक्त्या स्तो ष्यंति प्रणताः सदा ।।
तेषां धनं च धान्यं च पुत्रदारादिकं वसु ।।5.1.32.९० ।।
मनसश्चेप्सितं सर्व दातव्यं हि वरो मम ।।
सनत्कुमार उवाच ।।
आदित्यो ऽस्मै वरं दत्त्वा ह्युवाच वचनं शुभम्।। ९१ ।।
यस्त्वत्कृतेन स्तोत्रेण मां स्तोष्यति नरोत्तमः ।।
श्रिया न विच्युतिस्तस्य भवेदेष वरो मम ।। ९२ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये नरादित्यमाहात्म्येऽर्जुनस्तुतिवर्णनंनाम द्वात्रिं शोऽध्यायः ।। ३२ ।। ।। छ ।।