स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीक्षेत्रमाहात्म्यम्/अध्यायः ३१

विकिस्रोतः तः
Jump to navigation Jump to search


।। सनत्कुमार उवाच ।। ।।
अथान्यत्संप्रवक्ष्यामि केदारेश्वरमुत्तमम् ।।
प्रवरं सर्वतीर्थानां त्रिषु लोकेषु विश्रुतम् ।। १ ।।
तत्र स्नात्वा शुचिर्भूत्वा यः पश्यति महेश्वरम् ।।
केदारे यत्फलं प्रोक्तं तदत्रापि लभेन्नरः ।। २ ।।
सर्वपापविनिर्मुक्तः स्वकीयकुलसंयुतः ।।
विमानेनार्कवर्णेन शिव लोके स मोदते ।। ३ ।।
जटाशृंगे नरः स्नात्वा शुचिर्भूत्वा जितेंद्रियः ।।
दृष्ट्वा जटेश्वरं देवं ततः पापाद्विमुच्यते ।। ४ ।।
महातपनमादौ च कृत्वा गच्छेच्छिवं प्रति ।।
मातृकं पितृकं चैव कुलानां तारयेच्छतम् ।। ५ ।।
इंद्रतीर्थे नरः स्नात्वा दृष्ट्वा चेंद्रेश्वरं शिवम् ।।
विमुक्तः सर्वपापेभ्यः शक्रलोके महीयते ।। ६ ।।
कुंडेश्वरं तु यः पश्येच्छिवध्यानपरायणः ।।
लभते स नरो व्यास शिवदीक्षाफलं शिवम् ।। ७ ।।
गोपतीर्थे नरः स्नात्वा दृष्ट्वा गोपेश्वरं शिवम् ।।
शिवलोकं नरो याति ह्यमृतादमरो यथा ।। ८ ।।
स्नात्वा तु चिपिटातीर्थे शिवं देवं प्रणम्य च ।।
तिर्यग्योनिं नरो नैव प्रयाति मुनिपुंगव ।। ९ ।।
विजये च नरः स्नात्वा आनंदेश्वरपूजनात् ।।
विमुक्तः सर्वपापेभ्यः स्वर्लोके विजयी भवेत् ।। 5.1.31.१० ।।
अथान्यं संप्रवक्ष्यामि कुशस्थल्यां विनिर्मितम् ।।
देवं रामेश्वरं व्यास भुक्तिमुक्तिप्रदायकम् ।। ११ ।।
चित्रकूटात्पुरा रामो मैथिल्या लक्ष्मणेन च ।।
समन्वितः समागत्य पप्रच्छ मुनिसत्तमम् ।। १२ ।।
।। राम उवाच ।। ।।
कानि तीर्थानि पुण्यानि किं वा क्षेत्रं महामुने ।।
यत्र गत्वा न चाप्नोति वियोगं सह बांधवैः ।। १३ ।।
अनेन वनवासेन मरणेन पितुः प्रभो ।।
भरतस्य वियोगेन प्रतप्येऽहं त्रिभिर्मुने ।। १४ ।।
तद्वाक्यं राघवेणोक्तं श्रुत्वा विप्रर्षभस्तदा ।।
ध्यात्वा तु सुचिरं कालमिदं वचनमब्रवीत् ।। १५ ।।
साधु पृष्टं त्वया वीर रघूणां वंशवर्धन ।।
मम पित्रा कृतं क्षेत्रं प्रयाच्य शिवमादरात ।। १६ ।।
अवंतीविषये राम पुरी तस्मिन्कुशस्थली ।।
उज्जयिनीति वै नाम्ना ख्यातिं लोके गता विभो ।। १७ ।।
तस्यां गत्वा दशरथं पिंडदानेन तर्पय ।।
सुरासुरगुरुस्तत्र महाकालो व्यवस्थितः ।। १६ ।।
देवः स वै सदा राजन्वांछितार्थफलप्रदः ।।
दृष्टे तस्मिञ्जगन्नाथे वियोगो नैव जायते ।। १९ ।।
तत्र गच्छंति ये विप्रा राजा चैव महावलः ।।
लभंते परमं स्थानं यत्र देवो महेश्वरः ।। 5.1.31.२० ।।
तीर्थानामपि तत्तीर्थं प्रविष्टोऽवंतिमंडले ।।
आजगाम ततोवंतीं सा शिप्रा यत्र पुण्यदा ।। २१ ।।
तस्यां स्नात्वा ततो रामस्तर्पयामास पूर्वजान् ।।
महाकालं यदा द्रष्टुं प्रतस्थे रघुनंदनः।।२२।।
वाण्या ततोऽशरीरिण्या देवदेवेन भाषितम् ।।
भो भो राघव भद्रं ते स्वनाम्ना स्थापयस्व माम् ।।२३।।
अत्र स्थानं मया दत्त मा विचारय राघव ।।
ततो द्दृष्टमना रामो लक्ष्मणं वाक्यमब्रवीत् ।। २४ ।।
अनुगृहीताः सौमित्रे देवदेवेन शंभुना ।।
तस्मात्स्थापय तीर्थेऽस्मिँल्लिंगं रामेश्वरं शुभम्।। २५ ।।
वाक्यं तल्लक्ष्मणः श्रुत्वा स्थापयामास शंकरम् ।।
दृष्ट्वा देवं पुरा रामो लक्ष्मणं वाक्यमब्रवीत् ।। २६ ।।
एहि लक्ष्मण शीघ्रं त्वं शिप्राया जलमानय ।।
करिष्यामि यतोऽत्राहं देवस्य स्नपनं शुभम् ।। २७ ।।
लक्ष्मणस्त्वब्रवीद्वाक्यं सीतया किं करिष्यसि ।।
राम नाहं सर्वकालं दासभावं करोमि ते ।। २८ ।।
इयं च पुष्टा सुदृढा पीवरा च ममाग्रतः ।।
वद राघव सत्येन अनया किं करिष्यसि ।। २९ ।।
श्रुत्वा रामो हि तद्वाक्यं लक्ष्मणेन प्रभाषितम्।।
विमना राघवस्तस्थौ सीता चापि वरानना ।। 5.1.31.३० ।।
यदुक्तं लक्ष्मणेनाथ तच्च सीता चकार ह ।।
स्नात्वा भुक्त्वा च तौ वीरौ महाकालमुपागतौ ।। ३१ ।।
नीत्वा विभावरीं तत्र गमनाय मनो दधे ।।
उत्तिष्ठ वत्स सौमित्रे व्रजामो दक्षिणां दिशम्।। ।। ३२ ।।
सौमित्रिरब्रवीद्वाक्यं नाहं गन्ता कथंचन ।।
व्रज त्वमनया सार्धं भार्यया कमलेक्षण ।। ३३ ।।
नाहमग्रे वनं यामि न वायोध्यां कथं चन ।।
एवं ब्रुवाणं सौमित्रिमुवाच रघुनंदनः ।। ३४ ।।
कथं पूर्वमूयोध्याया निर्गतोऽसि मया सह ।।
वने वसाम्यहं राम नव वर्षाणि पंच च ।। ३५ ।।
प्रमादः क्रियतां मह्यं नय मामपि राघव ।।
इदानीं त्वमर्धपथे कथं स्थातासि शत्रुहन् ।। ३६ ।।
लक्ष्मणस्त्वब्रवीद्राम नाहं गन्ता वनं पुनः ।।
लक्ष्मणं विकृतं ज्ञात्वा रामो वचनमब्रवीत् ।। ३७ ।।
मा माऽनुव्रज सौमित्रे ह्येको यास्यामि काननम् ।।
द्वितीयापि त्वियं सीता उक्तो रामेण लक्ष्मणः ।। ३८ ।।
धनुः संगृह्य विमना उत्तस्थौ लक्ष्मणस्तदा ।।
प्राप्तौ प्राकारमर्यादां क्षेत्रसीमां परंतपौ ।। ।।
क्षेत्रसीमां समुल्लंघ्य रामो लक्ष्मणमब्रवीत् ।। 5.1.31.४० ।।
निवर्तयस्व सौमित्रे समर्पय च मे धनुः ।।
रामवाक्यमुपश्रुत्य सीतां वै लक्ष्मणोऽब्रवीत् ।। ४१ ।।
किमर्थं हि परित्यक्तः कोऽपराधः कृतो मया ।।
रामेण हि परित्यक्तः प्राणांस्त्यक्ष्याम्यसंशयम् ।। ४२ ।।
रामं ततोऽब्रवीत्सीता किमर्थं लक्ष्मणस्त्वया ।।
देव संत्यज्यते वीरः सुमित्रानंदिवर्धनः ।। ४३ ।।
राघवस्त्वब्रवीत्सीतां नाहं त्यक्ष्यामि लक्ष्मणम् ।।
न कदाचिदपि स्वप्ने लक्ष्मणसदृशं प्रियम् ।। ४४ ।।
श्रुतपूर्वं तु सुश्रोणि क्षेत्रस्यास्य विचेष्टितम् ।।
अस्मिन्क्षेत्रे न सौभ्रात्रं सर्वो हि स्वार्थतत्परः ।। ४५ ।।
परस्परं न मन्यंते स्वार्थनिष्ठैकहेतवः ।।
न शृण्वंति पितुः पुत्राः पुत्राणां वा तथा पिता ।। ४६ ।।
न च शिष्यो गुरोर्वाक्यं गुरुर्वा शिष्यकर्म च ।।
अर्थानुबंधिनी प्रीतिर्न कश्चित्कस्यचि त्प्रियः ।।४७।।
एवमुक्त्वा ययौ रामो लक्ष्मणो जानकी तथा ।।
लिंगं तत्र प्रतिष्ठाप्य स्वनाम्ना रघुनंदनः ।।४८।।
रामतीर्थे नरः स्नात्वा दृष्ट्वा रामेश्वरं शिवम्।।
विमुक्तः सर्वपापेभ्यः शिवलोकं स गच्छति ।।४९।। ।।
इति रामेश्वरमाहात्म्यम् ।।
।। सनत्कुमार उवाच ।। ।।
तीर्थे सौभाग्यके स्नात्वा दृष्ट्वा सौभाम्यमीश्वरम् ।।
सर्वपापविनिर्मुक्तः सौभाग्यं परमं लभेत् ।। 5.1.31.५० ।।
घृततीर्थे नरः स्नात्वा घृतेन स्नापयेच्छिवम् ।।
घृतमग्नावथो हुत्वा रुद्रलोके महीयते।।५१।।
देवीं योगीश्वरीं पूज्य सुरासुरनमस्कृताम् ।।
सर्वपापविनिर्मुक्तः परं योगमवाप्नुयात्।।५२।।
शंखावर्ते नरः स्नात्वा सर्वपापविवर्जितः ।।।
धनधान्यसमायुक्तो जायते निर्मले कुले ।। ५३ ।।
सुधोदके चतुर्दश्यां मुक्त्यर्थं स्नापयेन्नरः।।
शिवं सुधेश्वरं दृष्ट्वा ततो मोक्षगतिर्भवेत् ।।५४।।
तथान्य त्संप्रवक्ष्यामि तीर्थं त्रैलोक्यविश्रुतम् ।।
किं पुनेति च विख्यातं ब्रह्महत्याविमोचनम् ।।५५।।
पूर्वं त्रेतायुगे व्यास सुनेत्रो नाम वै द्विजः।।
तस्य पुत्रः समु त्पन्नो विश्वावसुरिति स्मृतः ।।५६।।
यवक्रीतस्य शापेन स्वपिता तेन घातितः ।।
ब्रह्महत्यान्वितो व्यास तीर्थात्तीर्थं परिभ्रमन् ।।५७।।
तीर्थे किंपुनके स्नात्वा धारातीर्थे गतो द्विजः ।।
ततः कपिलधारायां चिंतयत्यात्मना स्वयम् ।। ५८ ।।
कथं मे पतिता धारा अनृता वा श्रुतिस्तथा ।।
एवं ह्यचिंत यत्सोऽथ पुनरायादवंतिकाम् ।। ५९ ।।
अत्र तीर्थे पुनः स्नाति यावद्वाणीं ततोऽशृणोत् ।।
किं पुनर्ध्यायसि ब्रह्मन्येन जातो द्विजोत्तमः ।। 5.1.31.६० ।।
न तेऽस्ति ब्रह्महत्या वै तीर्थस्नानेन नाशिता ।।
गच्छ शीघ्रं गृहं विप्र पापहीनो यथासुखम् ।। ६१ ।।
।। इति किंपुनामाहात्म्यम् ।। ।। ।।
।। सनत्कुमार उवाच ।। ।।
पुनरन्यत्प्रवक्ष्यामि पत्तनेश्वरमुत्तमम् ।।
तत्र स्थित्वा महेशेन पुनः पत्तनमीक्षितम् ।। ६२ ।।
पत्तनेश्वर इत्याख्यो देवदेवो महेश्वरः ।।
यस्तु गंधैश्च पुष्पैश्च धूपैर्दीपैर्मनोरमैः ।। ६३ ।।
भावयुक्तो नरो व्यास पूजयेद्विधिवत्सदा ।।
यथावत्तिष्ठते लिंगं वंशच्छेदो न जायते ।। ६४ ।।
हंसयुक्तेन यानेन शिवलोकं स गच्छति ।।
तथान्यत्संप्रवक्ष्यामि तीर्थं त्रैलोक्यविश्रुतम् ।। ६५ ।।
दुर्धर्षमिति विख्यातं ब्रह्महत्याविमोचनम् ।।
पुरा दिवाकरो व्यास चक्रे दुर्धर्षनामतः ।। ६६ ।।
तीर्थमासीन्नदीतीरे विख्यातं सूर्यसंस्कृतम् ।।
तेजःपुंजं भवेल्लिंगं गणगं धर्वपूजितम् ।। ६७ ।।
सप्तम्यामथवाष्टम्यां संक्रातौ रविवासरे ।।
तत्र स्नात्वा शुचिर्भूत्वा दिनमेकमुपोषितः ।। ६८ ।।
दृष्ट्वा महेश्वरं तत्र शिप्राकूले व्यवस्थितम् ।।
पूजयित्वा तु भावेन यत्फलं तच्छ्रणुष्व मे ।। ६९ ।।
पितृमातृकुलं सर्वं समुद्धृत्य शिवं व्रजेत् ।।
तत्र यच्छति यो दानं गोहेमादि विशेषतः ।। 5.1.31.७० ।।
तावत्तदक्षयं लोके यावच्चंद्रदिवाकरौ ।।
तथान्यत्संप्रवक्ष्यामि गोपींद्रं तीर्थमुत्तमम् ।। ७१ ।।
गौतमेन पुरा यत्र इन्द्रः शापाद्भ गीकृतः ।।
भगव्रीडायुतः शक्रः प्रविश्य वनमुत्तमम् ।। ७२ ।।
अतोषयत्तदोग्रेण तपसा शंकरं पुरा ।।
तुष्टेन शंभुना विप्र ये भगास्तच्छरीरगाः ।।। ।। ७३ ।।
गोसहस्रीकृतास्तेन गोपींद्रस्तेन कथ्यते ।।
तत्र स्नात्वा दिवं याति शक्रतुल्यपराक्रमः ।। ७४ ।।
ये मृतास्ते पुनर्जन्म नाप्नुवंति महीतले ।।।
गंगातीर्थे नरः स्नात्वा पुण्यमाप्नोति पुष्कलम् ।। ७५ ।।
ज्येष्ठशुक्लदशम्यां तु गंगायां फलमादिशेत् ।।
स्नात्वा पुष्पकरंडे च दृष्ट्वा पुष्पकरण्डकम् ।। ७६ ।।
पुष्पकेन विमानेन प्रयातो दिवि मोदते ।।
नरकादुद्धरत्याशु नरः स्नात्वोत्तरेश्वरे।।७७।।
इष्टभोगसमापन्नो याति स्वर्गं न संशयः ।।
भूतेश्वरे नरः स्नात्वा भूतेश्वरमथार्चयेत् ।। ७८ ।।
गंधपुष्पादिनैवेद्यैर्मृतो रुद्रपुरं व्रजेत् ।।
शिप्रायां तु नरः स्नात्वा कैलासं तु नमस्यति ।। ७९ ।।।
सूर्याऽऽहतं तमो यद्वत्तद्वत्पापं प्रणश्यति ।।
अंबालिकां च यः पश्येत्समाधिनियमेन च ।। 5.1.31.८० ।।
स मुक्तः सर्वपापेभ्यः कंचुकेन फणी यथा ।।
घण्टेश्वरं प्रवक्ष्यामि यत्सुरैरपि पूजितम् ।। ८१ ।।
यत्र कूपोदकं पीत्वा सौभाग्यमतुलं लभेत् ।।
अर्चयेद्यस्तु देवेशं गंधपुष्पैरनुक्रमात् ।। ८२ ।।
शिवलोके वसेत्तावद्यावदिंद्राश्चतुर्दश ।।
पुण्येश्वरं तु यः पश्येच्छुचिः स्नातो जितेंन्द्रियः ।। ८३ ।।
स गाणपत्यमाप्नोति यत्सुरैरपि दुर्लभम् ।।
लंपेश्वरे नरः स्नात्वा समभ्यर्च्य महेश्वरम्।।८४।।
न याति नरकं मर्त्यः स्वर्गलोके महीयते।।
तथान्यत्संप्रवक्ष्यामि यत्सुरैरपि दुर्लभम् ।।८५।।
पूजितं ब्रह्मणा पूर्वं स्थविराख्यं विनायकम् ।।
तत्र स्नात्वा शुचिर्भूत्वा पूजयेद्यो विनायकम्।।८६।।
गंधैर्धूपैश्च नैवेद्यैर्भक्ष्यैर्भोज्यैः फलं शृणु ।।
समीहिता भवेत्सिद्धिर्मृतः शिवपुरं व्रजेत्।।८७।।
नवनद्याः समीपे तु पार्वतीं पूजयेद्बुधः।।
गंधपुष्पैश्च धूपैश्च सौभाग्यमतुलं लभेत्।।८८।।
कामोदके नरः स्नात्वा दृष्ट्वा कामं रतिप्रियम् ।।
स्वर्गे च देवगंधर्वस्पृहणीयवपुर्भवेत् ।।८९।।
प्रयागे तु नरः स्नात्वा प्रयागेशं तु पश्यति ।।
सर्वलोकानतिक्रम्य शिवलोके मही यते ।। 5.1.31.९० ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पंचम आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये सौभाग्येश्वरादिनानातीर्थमाहात्म्य वर्णनंनामैकत्रिंशोऽध्यायः ।। ३१ ।। ।। छ ।।