स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीक्षेत्रमाहात्म्यम्/अध्यायः ३०

विकिस्रोतः तः
Jump to navigation Jump to search


।। व्यास उवाच ।। ।।
दीपेऽस्मिन्यत्फलं चास्ति विधिना येन दीयते ।।
तत्सर्वं ब्रूहि मे तात दीपोत्पत्तिं च शोभनाम् ।। १ ।।
।। सनत्कुमार उवाच ।। ।।
पुरा कृतयुगे व्यास पार्वतीं शंकरोऽग्रतः ।।
अभिप्रयाचितुं यातस्तयापि सोऽभियाचितः ।। २ ।।
।। पार्वत्युवाच ।। ।।
शरीरे कृष्णता शंभो ममास्ति रूपहारिणी ।।
तस्माद्याचे भृशं शंभो प्रसीद दिव्य लोचन ।। ३ ।।
भवेन वर्णिता सा वै अतीव शोभना मम ।।
लोचने पक्ष्ममालायाः शोभसेऽतितरां सदा ।। ४ ।।
सिताब्जसंस्थितो भृंगो यथा शोभयते च तम् ।।
तया तथा याचितोसौ धूर्जटिर्वृषभासनः ।। ५ ।।
विरूपरूपकर्तासि न शृणोषि वचो यदा ।।
तदा त्वहं सवै राग्या चरेयं दुष्करं तपः ।। ६ ।।
भवस्तयेति चोक्तस्तु तस्या वै पाणिमग्रहीत् ।।
कदाचिच्छंकरो देवो रतिं याचितवान्प्रियाम् ।। ७ ।।
रतिं दत्तवती सा तु जहास नाम कीर्तयन् ।।
सुदुःखिताऽभवत्सा तु पराङ्मुखी विहाय तम् ।। ८ ।।
उवाच रोषसंयुक्ता संस्मृत्य देवभाषितम् ।।
तपोवनं व्रजाम्यद्य सुगौरत्वोपलब्धये ।। ९ ।।
सुवर्णरूपरूपा च यदा पुनर्भवामि च ।।
तदा तव सानुरागा भवामि चैव नान्यथा ।। 5.1.30.१० ।।
इतीदमेव जल्पंती जगाम विंध्यपर्वतम् ।।
हरः शुशोच ततस्तां क्व गता सा विहाय माम् ।। ११ ।।
स्मरंस्तदेव चेष्टितं तदेव पूर्वभाषितम् ।।
तदैव मे वृथा मतिर्मुदा यदा न मानिता ।। १२ ।।
यतो मया हिमाद्रिजा समस्तलोकसुन्दरी ।।
पुरैव नाभिनंदिता गता विहाय मामिति ।। १३ ।।
इतीदमेव सोऽवदद्गतस्त्वद्दर्शनं ततः ।।
प्रियावियोगमीदृशं गुरुं न सोढुमुत्सहे ।। १४ ।।
ततो जगद्धि संकुलं महाभयेन संयुतम् ।।
सुरासुरा महर्षयः परं विषादमभ्यगुः ।। १५ ।।
विहाय मंदिराणि ते परं विषादमागताः ।।
हरस्तुतिं परां च ते प्रचक्रुरद्भुतोपमाः ।। १६ ।।
।। सनत्कुमार उवाच ।। ।।
न दृश्यते यदा देवो रुद्रो बालेंदुशेखरः ।।
नष्टालोकं जगत्सर्वं कांतारमभवत्तदा ।। १७ ।।
त्रीणि नेत्राणि रुद्रस्य यतः सूर्येंदुव ह्नयः ।।
गते रुद्रे न ते भांति जगत्यस्मिंश्चराचरे ।। १८ ।।
ततस्तमसि दुस्तारे संभूते लोमहर्षणे ।।
अन्योन्यं हि न पश्यंति सुरासुरास्तमोवृताः ।। ।। १९ ।।
एषा बुद्धिस्ततस्तेषामुत्पन्ना कार्यसिद्धये ।।
यया बुद्ध्या जगन्नाथो ज्ञायते पार्वतीपतिः ।। 5.1.30.२० ।।
न ह्यालोको विना तेन शशिसूर्याग्निच क्षुषा ।।
परस्परं ब्रुवंति स्म दुःखितास्ते विसंज्ञया ।। २१ ।।
हे देव हे मुने सिद्धे हे ऋषे हे निशाचर ।।
हे दैत्य हे दनुश्रेष्ठ हे मनुष्यनिदेशक ।। ।। २२ ।।
गतोऽसि कां दिशं तात को वा लब्धस्त्वया विभो ।।
क्वचिद्विश्रामभूमिस्ते क्वचिदालंबनेऽपि वा ।। २३ ।।
पाथेयमस्ति किंचित्ते दिशि किं वाथ कुत्रचित् ।।
प्रकाशं वाहनं छत्रमशनं शयनं गृहम् ।। २४ ।।
क्वचिद्वासि कथं तोयमथवा चित्तनिर्वृतिः ।।
बन्धुः पुत्रोऽसि वा तात वृक्ष च्छाया सुशीतला ।। २५ ।।
एवं प्रकारं करुणं समाभाष्य परस्परम् ।।
भूयश्चिन्तापराः सर्वे देवाश्चेंद्रपुरोगमाः ।। २६ ।।
भूमेर्विवरमाश्रित्य प्राणिनो ये वसंत्यपि ।।
रसातले च दैतेयाः संस्थिताः पन्नगाश्च ये ।। २७ ।।
न तेषां विद्यते सूर्यो नेन्दुर्नान्ये महाग्रहाः ।।
नाग्निर्देवमुखं विद्युन्नैव तारकको टयः ।। २८ ।।
केनालोकेन पश्यंति समानि विषमाणि च ।।
नरकस्था नरा लोके न पश्यंत्यन्यलोकगाः ।। २९ ।।
विचरन्तः समं को वा मनो रथशतप्रदः ।।
तृष्णांभः क्षुधितान्नं च श्रांतानामथ वाहनम् ।। 5.1.30.३० ।।
समे शय्या जले नौश्च रोगे सत्परिचारकः ।।
श्रेष्ठौषधीभिः सन्मंत्रैः संपदो व्याधिसंकटे ।। ३१ ।।
सुहृद्विदेशे च्छायोष्णे निर्धूमः शिशिरे शिखी ।।
महाभये परित्राणं प्रकाशश्च महानिशि ।। ३२ ।।
सर्वदश्चैव सर्वेषां मनोरथशतप्रदः ।।
एक एव भवान्द्योतस्त्वां च जानीमहे वयम् ।। ३३ ।।
ब्रुवंत इति ते व्यास शुश्रुवुर्मधुरां गिरम् ।।
श्रुतपूर्वां तमोमध्याद्विष्णोर तुलकर्मणः ।। ३४ ।।
न जानंति स्थितः कुत्र भाषते केशवो विभुः ।।
शृणुध्वमिति मे वाक्यं सर्वे चैव समाहिताः ।। ३५ ।।
दानमेकं सदा सम्य क्चिंतामणिसमं स्मृतम् ।।
सर्वेषामेव दानानां दीपदानं प्रशस्यते ।। ३६ ।।
तच्च देयमतः सर्वैः शृणुध्वं तत्त्वतो भृशम् ।।
मया रसातले पूर्वं नागा नामनुकंपया ।। ३७ ।।
उत्पादितो दीपवरो येन ध्वस्तमिदं तमः ।।
एवंभूतस्तु वायूनामप्रधृष्यो महाप्रभः ।।३८।।
निष्कंपो निर्मलो हृद्यः सुस्थिरो भास्करप्रभः ।।
नात्युष्णो नातिशीतश्च देव्या योगसमुद्भवः ।।
तेन दीपप्रकाशेन गोकर्णो निर्वृतिं ययौ ।। ३९ ।।
नागाः शेषादयः सर्वे नोद्यमानाश्च संघशः ।।
दीपाद्दीपसहस्राणि ददुस्ते वै शिवाग्रतः ।। 5.1.30.४० ।।
पर्वतेषु समुद्रेषु वनेषूपवनेषु च ।।
नदीतीरेषु सर्वत्र दीपान्प्रज्वाल्य रेमिरे ।। ४१ ।।
भुंजानाः पञ्च मूलानि दिव्यानि क्षीरसंयुतम् ।।
परमान्नं च मांसानि मकरंदं घृतौदनम् ।। ४२ ।।
चन्द्रशालिभवं भक्तं तांबूलं सप्तधा गतम् ।।
मद्यमष्टप्रकारं तु भार्यापीतावशेषकम्।। ४३ ।।
शयनेषु महार्हेषु हृद्यासु वनराजिषु ।।
वृक्षमूलेषु सर्वेषु वनच्छायोपशोभिषु ।। ४४ ।।
रमन्ते स्म च ते सर्वे ह्युद्वेष्टंतः परस्परम् ।।
कामतन्त्रोपदिष्टैस्तु शास्त्रैश्च चुंबनादिभिः ।। ४५ ।।
सूर्यतापभयान्मुक्ताश्चंद्ररश्मिभयाच्च ते ।।
विमुक्ताश्च भयाद्धोरात्पिपीलिकोद्भवात्तथा ।। ४६ ।।
सूर्यतापेन दाहः स्याच्छीतं चंद्रमरीचिभिः ।।
मयूरनकुलाद्यैश्च पिपीलीमरणाद्भयम् ।। ४७ ।।
सौवर्णान्दीपका न्कृत्वा द्विजेभ्यस्ते ददुः पुनः ।।
तेन पातालमाश्रित्य कृत्वा भोगवतीं पुरीम् ।। ४८ ।।
वसंति सुखिनस्तत्र स्वर्गादष्टगुणैः सुखैः ।।
एवमंधं तमो देवाः पातालाद्दीपतो गतम् ।। ४९ ।।
एतद्गुह्यं मया ख्यातं भवतां चानुकम्पया ।।
दीपदानमतोयूयं कुरुध्वं सुसमाहिताः ।। 5.1.30.५० ।।
दीपाग्निना विना नैव तमोदारु प्रदह्यते ।।
नारायणपरा देवा निशम्याथ समाहिताः ।। ५१ ।।
पप्रच्छुस्ते पुनः सर्वे हृष्टा दामोदरं विभुम् ।।
ब्रूहि नोग्निं जगन्नाथ स दीपो येन जायते ।। ५२ ।।
घोरे तमसि वै मग्ना नाग्निं जानीमहे वयम् ।।
देवानां मानसो वह्निरथ कृष्णेन कीर्तितः ।। ५३ ।।
तेन दीपं प्रतिज्वाल्य देवाः शिवपरायणाः ।।
ददुस्ते शिवमुद्दिश्य सर्वाभीष्टफलप्रदम् ।। ५४ ।।
दत्ते दीपे ततो देवैर्दृष्टो हृष्टो महेश्वरः ।।
तिमिरं तद्गतं चापि जगद्येन जडीकृतम् ।। ५५ ।।
ततो देवाः सुखं प्रापुः स्वर्गे सेन्द्रपुरोगमाः ।।
राज्यं भोगान्वितं प्राप्य सार्धं स्त्रीभिश्च रेमिरे ।। ५६ ।।
दीपदानफलं ज्ञात्वा दैतेयाश्चापि विस्मिताः ।।
तथैव तत्फलं ज्ञात्वा व्यास यक्षाश्च विस्मिताः ।। ५७ ।।
पूजयित्वा महादेवं पुष्पैश्च निर्मलैर्जलैः ।।
ददुर्दीप सहस्राणि सर्वे शिवपरायणाः ।। ५८ ।।
स्वस्थाने चाभवन्सर्वे दीपदानाच्च शोभनाः ।।
स्वेच्छया भुंजते भोगान्बन्धुभृत्यादिसंयुताः ।। ५९ ।।
निराहारास्ततो व्यास पिशाचा वै निराश्रयाः ।।
दीपदानफलं ज्ञात्वा सर्वे तेऽतीव विस्मिताः ।। 5.1.30.६० ।।
चंडालादग्निमानीय ददुर्दीपं शिवे रताः ।। ।
दीपदानफलं ते वै पुत्रदारसमन्विताः ।। ६१ ।।
लीढमन्नं गतरसं पूति पर्युषितं तथा ।।
उच्छिष्टं सूतिकास्पृष्टं न मेध्यं चातिलंघितम् ।। ६२ ।।
भुंजानास्ते सदा हृष्टा रमंते दुष्टभूमिषु ।।
विद्याधरास्तथा मर्त्याः सिद्धाश्च शिवमानसाः ।। ६३ ।।
दीपदानफलं ज्ञात्वा ददुर्दीपं शिवाग्रतः ।।
दीपदानात्ततः सर्वे सर्वभोगसमन्विताः ।। ६४ ।।
स्थानेषु मुदितास्तेषु रमंते सुखिनस्तदा ।।
तिमिरं तद्गतं चैव व्यास लोकेषु दीपतः ।। ६५ ।।
ततो घोरं स्थितं सम्यक्प्रेतलोकेषु सर्वदा ।।
प्रेतलोकं तदा दृष्ट्वा घोरेण तमसा वृताः ।। ६६ ।।
दामोदरं जगन्नाथमूचुः सर्वे सुरोत्तमाः ।।
घोरं चैव तमो हत्वा प्रसन्नास्ते सदा विभो ।। ६७ ।।
गंधर्वाश्च तथा यक्षाः सिद्धा विद्याधरोरगाः ।।
वयं चैव तथा मर्त्याः सर्वभोगैश्च संयुताः ।। ।। ६८ ।।
स्थानेषु च सदा ह्येषु सुखिनश्च रमामहे ।।
प्रेतलोके नरा ये वै घोरेण तमसा वृताः ।। ६९ ।।
वसंति च जगन्नाथ वर्तंते तेऽतिदुःखिताः ।।
यैर्नो कृतं हि तत्कर्म कृष्णालं पापमोहितैः ।। 5.1.30.७० ।।
न तेषां विद्यते किंचिद्यत्प्रकाशं करोति च ।।
घोरे तमसि ते मग्नास्तत्र नार्केन्दुवह्नयः ।। ७१ ।।
न सहायो न जायेयं नालंबो न च देशिकाः ।।
न वाहनं न शय्या च केवलं तु महत्तमः ।। ७२ ।।
तत्राष्टाविंशतिः ख्याता घोरा नरककोटयः ।।
तमोमयाश्च ताः सर्वाः पापिनां भयदाः सदा ।। ७३ ।।
सुखं तत्र कथं कृष्ण लभंते दुःखिता नराः ।।
दारिद्र्यदुःखरोगैश्च मायामोहैश्च सर्वदा ।। ७४ ।।
।। सनत्कुमार उवाच ।। ।।
इति श्रुत्वा तु देवानां प्रार्थनां गरुड ध्वजः ।।
उवाच वचनं हृद्यं मनोरथफलप्रदम् ।।७५।।
शृणुध्वं त्रिदशाः सर्वे यत्प्रवक्ष्यामि वो वचः।।७६।।
अवंत्यां वर्तते तीर्थं सद्यः पापहरं परम् ।।
अनरकाख्यं महापुण्यं सर्वतीर्थोत्तमोत्तमम् ।। ७७ ।।
कार्तिकस्यासिते पक्षे चतुर्दश्यां समाहितः ।।
तत्र स्नात्वा नरो यस्तु यमध्यानपरायणः ।। ७८ ।।
संगृह्य वै तिलान्कृष्णान्पितृभक्तो जितेंद्रियः ।।
दक्षिणाभिमुखो भूत्वा मध्याह्ने सुरसत्तमाः ।। ७९ ।।
अपसव्यं तथा कृत्वा मंत्रैः संतर्प येद्यमम् ।।
यमाय धर्मराजाय मृत्यवे चांतकाय च ।। 5.1.30.८० ।।
वैवस्वताय कालाय दक्षाय मनवे तथा ।।
कृष्णाय कृष्णगुप्ताय प्रेतलोकपराय च ।। ८१ ।।
हरये रविपुत्राय कालिंदीसोदराय च ।।
तथा वै श्राद्धदेवाय पितृणां पतये तथा ।। ८२ ।।
मंत्रैरेभिर्नमःप्रोक्तैरोंकाराद्यैः सुशोभनैः ।।
जलांजलिं सदर्भं वै दद्याच्च तिलसंयुतम् ।। ८३ ।।
संतर्पयेद्यमं देवं तिलपात्रं समाहितः ।।
प्राज्ञो विप्राय वै दद्याद्वित्तशाठ्यविवर्जितः ।। ८४ ।।
अनेन विधिना यस्तु संतर्पयेद्यमं विभुम् ।।
पितरस्तस्य मुच्यंते निरये ये गता अपि ।। ८५ ।।
रात्रिं तत्राथ संप्राप्य मानवः कामसंयुतः ।।
नमः पितृभ्यः प्रेतेभ्यो नमो धर्माय विष्णवे ।। ८६ ।।
नमः सूर्याय रुद्राय कालांतपतये नमः ।।
एभिर्मंत्रैर्यमे दीपं यो दद्याद्धृतपूरितम् ।। ८७ ।।
कार्तिकं हि समग्रं तु वर्धंते तस्य संपदः ।।
संपूर्णे कार्तिके चैव दीपोद्यापनमाचरेत् ।। ८८ ।।
दिवाकराह्नेऽस्तमिते च सूर्ये दीपस्य वर्त्तिं पुरुष प्रमाणाम् ।।
यूपाकृतौ दारुमये करोति यया च धीमान्यमभक्तिचित्तः ।।८९।।
निक्षिप्य भूमावथ हस्तमात्रं मूर्ध्नि द्विहस्ताष्टदलान्वितस्य ।।
धार्याश्चतस्रः शुभपट्टिकाश्च च्छिद्रेण युक्ताश्चतुरंगुलेन ।। 5.1.30.९० ।।
तत्कर्णिकायां तु महाप्रकाशो देयो हि दीपः परया च भक्त्या ।।
उदङ्मुखान्दीपवरांस्त थाष्टौ दलेषु तस्या घृतपूर्यमाणाः ।। ९१ ।।
अनंगलग्नं धवलं च वस्त्रं नवं सुरक्तं ह्यथवा सुशुक्लम् ।।
वर्त्यां प्रदेयं च स्वके च दद्यात्स्निग्धे त्वखण्डे सुसमे प्रशस्ते ।। ९२ ।।
तच्छालिपिष्टोपरि संनिधाय यथा न निर्याति न कंपते च ।।
सर्वं प्रकुर्यात्त्रिगुणप्रमाणं मध्यस्थितस्तस्य च दीपराजः ।। ९३ ।।
दलेषु शोभार्थमतीव कुर्यान्मनोरथप्रत्युपलब्धये च ।।
घंटाष्टकं लंबितपुष्पदाम सवस्त्रशोभान्वितमंत्र कार्यम् ।। ९४ ।।
संलिप्य भूमिं त्वथ गोमयेन पुनः सुगंधेन जलेन लिप्त्वा ।।
कुर्याद्विचित्रं त्वथ मंडले च दलाष्टकं वै कमलं च रम्यम् ।। ९५ ।।
ततो जलं शीतलमानयित्वा आपूर्य चाष्टौ कलशांस्तु रम्यान् ।।
निधाय मूर्ध्नि क्रमशो हि धीमान्फलानि मूलानि तथेक्षुकानि ।। ९६ ।।
मध्वाज्ययुक्ता दधिदुग्धपूर्णा नैर्ऋत्यकोणादथ दक्षिणांतम् ।।
धर्माय दद्यादथ शंकराय दामोदरायाप्यथ वेधसे च ।।९७।।
प्रजापतिभ्यः क्रमशो हि भक्त्या प्रेतेभ्य इंद्राय तथा पितृभ्यः ।।
होमादिपात्रं तिलचूर्णमेव दद्याद्द्विजानां च सदक्षिणं च ।। ९८ ।।
गावो हिरण्यं रजतं च वस्त्रं फलानि मूलानि यवाश्च धान्यम्।।
गृहं रथं कुंजरमश्वमेव मनोज्ञमन्यं हृदयप्रियं यत् ।। ९९ ।।
विद्याधिकेभ्यो द्विजसत्तमेभ्यः पौराणिकेभ्यश्च तथा द्विजेभ्यः ।।
एकैकसु प्रीणनमत्र कुर्याद्दीपैर्दलस्थैश्च यमादिकानाम् ।। 5.1.30.१०० ।।
धर्माय देयस्त्वथ मध्यदीप आज्ञां च लब्ध्वा व्रतदेशिकस्य ।।
नृत्येन गीतेन सुशोभने न युक्तं सुवाद्येन च कारयेच्च ।। १ ।।
एतत्समग्रं विधिवच्च कुर्यात्सशक्तिमादौ स्वधनं समीक्ष्य ।।
आहूय विप्राञ्छुभभावयुक्तान्वदेच्च धीमान्परया च भक्त्या ।। २ ।।
दीपान्समग्रान्नव वर्जयित्वा सर्वं नयेयुः स्थितमत्र विप्राः ।।
प्रदक्षिणीकृत्य विसृज्य विप्रांस्ततो भवद्वै स च नक्तभोजी ।। ३ ।।
एवं कृते नागलोकाद्विशिष्टं सुखं भवेत्प्रेतलोकेस्थितानाम् ।। ४ ।।
एवं ह्यनरके व्यास दीपदानं करोति यः ।।
तस्यैव यत्फलं प्रोक्तं तदिहैकमनाः शृणु ।। ५ ।।
विमानैः कामिकैर्दिव्यैरप्सरोगणसेवितैः ।।
उह्यमानो दिवं याति यावच्चंद्रदिवाकरौ ।। १०६ ।।
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां पञ्चम आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्येऽनरकेश्वरदीपदानमाहात्म्यवर्णनंनाम त्रिंशोऽध्यायः ।। ३० ।। ।। छ ।। ।। ।।