स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीक्षेत्रमाहात्म्यम्/अध्यायः २९

विकिस्रोतः तः
Jump to navigation Jump to search


।। सनत्कुमार उवाच ।। ।।
तीर्थस्याऽनरकस्यास्य माहात्म्यं शृणु सांप्रतम् ।।
तीर्थे चानरके स्नात्वा दृष्ट्वा देवं महेश्वरम् ।।
न पश्येन्नरकं क्वापि यद्यपि ब्रह्महा भवेत् ।। १ ।।
।। व्यास उवाच ।। ।।
कियंतो नरकास्तात कस्मिन्स्थाने प्रतिष्ठिताः।।
पतन्ति केन पापेन पापिनस्तेषु दुःखिताः ।। २ ।।
तत्कथं प्राणिनस्तत्र गच्छन्ति पापकारिणः ।।
एतत्सर्वं समाख्याहि यदि तुष्टोऽसि मे प्रभो ।। ३ ।। ।।
।। सनत्कुमार उवाच ।। ।।
शृणुष्व नरकान्व्यास तावन्तो यत्र संस्थिताः ।।
न लभ्यंते यथा चैते सत्यमेतद्वदामि ते ।। ४ ।।
पातालनि लयाः सर्वे विख्याता दुःखदाः सदा ।।
पुण्यप्लावेन ते सर्वे तिर्यग्यांति स्वकर्मभिः ।। ५ ।।
रौरवः सूकरो रौद्रस्तालो विनशकस्तथा ।।
तप्तकुम्भस्तु तप्तायो महाज्वालस्तथैव च ।। ६ ।।
कुंभीपाकः क्रकचनस्तथा देवातिदारुणः ।।
कृमिभुक्तिश्च रक्ताख्यो लालाभक्षश्च गंडकः ।। ७ ।।
अधोमुखश्चास्थिभंगो यंत्रपीडनकस्तथा ।।
संदंशो रुधिरांगश्च श्वभोज्यश्च कुभोजनः ।। ८ ।।
इत्येवमादयः सर्वे नरका भृशदारुणाः ।।
यमस्य विषये संति स्तुता हि भयदायिनः ।।९।।
पतंति पुरुषास्तेषु पापकर्मरताश्च ये ।।
पतिताश्च प्रपच्यंते नराः कर्मानुरूपतः ।।5.1.29.१०।।
यातनाभिर्विचित्राभी रौद्रकर्म क्षयाद्भृशम् ।।
सुगाढं हस्तयोर्बद्धास्तप्तशृंखलया नराः ।। ११ ।।
महावृक्षाग्रशृंगेषु लंब्यंते यमकिंकरैः ।।
शोचंतः स्वानि कर्माणि तूष्णीं तिष्ठंति निश्चलाः ।। १२ ।।
अग्निवर्णैः शंकुभिश्च लोहदंडैः सकंटकैः।।
हन्यंते किंकरैर्घोरैः समंतात्पापकारिणः ।। १३ ।।
तत्तत्क्षणात्प्रदीप्तेन वह्निना च विशेषतः ।।
समंततः प्रक्षिप्यंते कृत्ताश्च जर्जरीकृताः ।। १४ ।।
कूटसाक्षी तथाऽसम्यक्पक्षपातेन यो वदेत् ।।
यश्चान्यदनृतं ब्रूयात्स नरो याति रौरवम् ।। १५ ।।
सुरापो ब्रह्महा हर्ता सुवर्णस्य च सूचकः ।।
प्रयांति नरकांश्चैव तैः संसर्गमुपैति यः ।। १६ ।।
भ्रूणहा गुरुहंता च गोघ्नश्च मुनिसत्तम ।।
यांत्येते नरकं रौद्रं ये च विश्वासघातकाः ।। १७ ।।
तप्तलोष्ठेषु पच्यंते यस्तु भक्तं परित्यजेत् ।।
स्नुषां सुतां च यो गच्छेन्महा ज्वाले स पात्यते ।। १८ ।।
कुंभीपाके प्रयात्येव पादैरूर्ध्वैरधोमुखः ।।
करोति कर्म वै नित्यं यश्च गां प्रतिषेधयेत् ।। १९ ।।
स्वामिद्रोही च यो रौद्रस्तप्तकुंभे स पात्यते ।।
देवदूषयिता यश्च वेदविक्रयिकस्तथा ।। 5.1.29.२० ।।
परस्त्रीगामिनो ये च यांति क्रकचने तु ते ।।
चौरोऽतिदारुणे याति मर्यादाभेदकस्तथा ।। २१ ।।
देवद्विजपितृद्वेष्टा रत्नदूषयिता च यः ।।
स याति कृमिभक्षे वै रक्ताख्ये च पतंति ते ।। २२ ।।
पितृदेवगुरूणां च सपर्यां न करोति यः ।।
लालाभक्षे स यात्युग्रे कूटकर्म करोति यः ।। २३ ।।
अंत्यजेभ्यो ग्रहीता च नरके यात्यधोमुखे ।।
अस्थिभंगे प्रयात्येव एको मिष्टान्नभुङ्नरः ।। २४ ।।
कृतघ्नः पिशुनः क्रूरः कूटमानी विडंबकः ।।
यंत्रपीडनके याति परगुह्यप्रकाशकः ।। २५ ।।
लाक्षामांसरसानां च तिलानां रसकस्य च ।।
विक्रयी ब्राह्मणो याति श्वदंशे नात्र संशयः ।। २६ ।।
मधुहा ग्रामहंता च याति वैतरणीं नरः ।।
वर्णाश्रमविरुद्धं च कर्म कुर्वंति ये नराः ।। २७ ।।
कर्मणा मनसा वाचा महानद्यां प्रयांति ते ।।
गुरूणामवमंता च शास्त्रदूषयिता च यः ।। २८ ।।
असिपत्रे प्रयात्येव तथा पर्वविलंघकः ।।
धनयौवनमत्ता ये मर्यादाभेदिनो नराः ।। २९ ।।
ते यांति नरके घोरे कृष्णसूत्रेऽतिदारुणे ।।
असंस्कृतश्च यो विप्रो वृषलीं सेवते तु वै ।। 5.1.29.३० ।।
वृषलीमिथुनो यश्च पततस्तावुभावपि ।।
उच्छिष्टा ये स्पृशंतीह गावोऽग्निं जननीं द्विजान् ।। ३१ ।।
ते पच्यंते कुभोज्ये च मित्र द्वेषी विशेषतः ।।
पंक्तिभेदे दिवास्वप्रे ये नरोऽब्रह्मचारिणः ।। ३२ ।।
पुत्रैरध्यापिता ये तै ते पतंति श्वभोजने ।।
एते चान्ये च नरकाः शतशोऽ थ सहस्रशः ।। ३३ ।।
तत्र दुष्कृतकर्माणः पच्यंते यातनागताः ।।
नृणां स्वर्गाश्च यावंतस्तावंतो निरयास्तथा ।। ३४ ।।
पापं कृत्वा तु बहुलं प्रायश्चित्तपराङ्मुखाः ।।
कृते पापे च वै तापो यस्य पुंसः प्रजायते ।। ३५ ।।
प्रायश्चित्तं तु तस्यैकं शिवसंस्मरणं परम् ।।
तस्मादहर्निशं शंभुं संस्मरन्पुरुषोत्तमः ।। ३६ ।।
न याति नरकं शुद्धः संक्षीणाखिलपातकः ।।
कार्तिकस्यासिते पक्षे कृष्णा या च चतुर्दशी ।।
तस्यां दीपः प्रदातव्यो देवदेवस्य चाग्रतः ।। ३७ ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये नरकऽकथनं नामैकोनत्रिंशोऽध्यायः ।। २९ ।। ।। छ ।।