स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीक्षेत्रमाहात्म्यम्/अध्यायः २८
।। सनत्कुमार उवाच ।। ।।
अथान्यं संप्रवक्ष्यामि देवं त्रैलोक्यविश्रुतम्।।
चंद्रादित्यमिति ख्यातं चंद्रादित्यार्चितं पुरा ।।१।।
यस्तं समर्चयेद्देवं सुरासुरनमस्कृतम् ।।
गंधपुपोस्तथा धूपैर्नैवेद्यैविविधैस्तथा ।। २ ।।
चंद्रादित्यादिसालोक्यं प्रयाति सर्वकामिकम् ।।
विमानं सूर्यसंकाशैर्यावच्चंद्रदिवाकरौ ।। ३ ।। ।।
इति चन्द्रादित्यमाहात्म्यम् ।।
।। सनत्कुमार उवाच ।। ।।
करभेशं ततो गच्छेद्देवदेवं महेश्वरम् ।।
यस्य दर्शनमात्रेण कुयोनौ नैव जायते ।। ४ ।।
।। व्यास उवाच ।। ।।
करभेशमहं देवं श्रोतुमिच्छामि तत्त्वतः ।।
कथं देवः समुत्पन्नः करभेशेतिसंज्ञितः ।। ५ ।।
।। सनत्कुमार उवाच ।। ।।
पुरा देवगणैः सार्धं देवदेवो महेश्वरः ।।
वनेऽस्मिन्क्रीडयामास परमाह्लादसंयुतः ।। ६ ।।
क्रीडन्बहुतिथे काले शंकरः करभोऽभवत् ।।
ज्ञायते च स नो देवैः शंकरः करभाकृतिः ।। ७ ।।
अन्वेषयंति ते देवास्ततो विस्मयसंयुताः ।।
न पश्यंति यदा तत्र तं देवं शूलपाणिनम् ।। ८ ।।
देवैः पृष्टस्ततो ब्रह्मा क्वास्ति देवो महेश्वरः ।।
ध्यात्वाथ ब्रह्मणा दृष्टो गुप्तो योगप्रभुर्हरः ।। ९ ।।
देवैः सार्धं ततो ब्रह्मा पप्रच्छ गणनायकम् ।।
न दृष्टः शंकरोऽस्माभिर्गतः कुत्र विनायक ।। 5.1.28.१० ।।
कथयस्व नमस्तुभ्यं दास्यामो लड्डुकान्विभो ।।
एवमुक्तस्तदा हृष्टः प्रोवाच गणनायकः ।। ११ ।।
करभोऽयं महाऽदेवो दृश्यते विबुधो त्तमाः ।।
श्रुत्वा चैवं वचो देवाः प्रहृष्टाः करभं ययुः ।। १२ ।।
ज्ञातोऽस्माभिर्महादेव जल्पंत इति ते स्वयम् ।।
गत्वा चैव ततः सर्व चतुर्दिक्षु स्थिताः स्वयम् ।।१३।।
विचिंत्येति कथं ज्ञातः शंकरो विस्मयं गतः ।।
त्यक्त्वाथ कारभं रूपं देवदेवो महेश्वरः ।। १४ ।।
लिंगमुत्पादयामास दिव्यं यत्करभे श्वरम् ।।
ते दृष्ट्वाऽथ सुराः सर्वे साष्टांगप्रणतिस्थिताः ।। १५ ।।
ततःप्रभृति विख्यातः शंकरः करभेश्वरः ।।
कोटितीर्थादुत्तरस्मिन्स्थापयामास विघ्नपम् ।। १६ ।।
स्वनाम्ना प्रथितं चक्रे करभं चातिपूजितम् ।।
स्नात्वा तत्र शुचिर्भूत्वा यस्तमर्चयते शिवम् ।। १७ ।।
गंधपुष्पैश्च नैवेद्यैः शृणु तेषां च यत्फलम् ।।
सर्वमेधेषु यत्पुण्यं सर्वदानेषु यत्फलम् ।। १८ ।।
ततोऽधिकं स लभते नात्र कार्या विचारणा ।।
महाकालं ततो गच्छन्संपूर्णं फलमाप्नुयात् ।। १९ ।।
ततः प्रसिद्धो लोकेऽस्मिन्नृद्धिदः करभेश्वरः ।। 5.1.28.२० ।। ।।
इति करभेश्वरमाहात्म्यम् ।। ।। छ ।। ।।
।। सनत्कुमार उवाच ।। ।।
लइडुकैश्च ततो देवैर्विघ्ननाथः समर्चितः ।।
तदाप्रभृति विख्यातो विश्वेशो लड्डुकप्रियः ।। २१ ।।
यः समर्चयते भक्त्या तस्य विघ्नो न जायते ।।
तस्मै ददाति संतुष्टः सर्वान्कामान्विनायकः ।। २२ ।।
निराहारश्चतुर्थ्यां च स्नात्वा शिप्रां विशेषतः ।।
रक्तांबरधरोभूत्वा रक्तपुष्पैर्विनायकम् ।। २३ ।।
रक्तचंदनतोयेन मंत्रैः स्नपनपूर्वकम् ।।
चंदनेनापि रक्तेन तं विलेप्य प्रपूजयेत् ।। २४ ।।
धूपं दद्यात्तथा दिव्यं सुगंधं लड्डुकप्रिये ।।
नैवेद्ये लड्डुका देया आज्यखंडपरिप्लुताः ।। २५ ।।
न तस्य जायते व्याधिर्भयं विघ्नं कदाचन ।।
लभते च सदाभीष्टं मृतः शिवपुरं व्रजेत्।। २६ ।।
अवतीर्णः पुनर्लोके जायते वसुधाधिपः ।।
मतिमान्पुत्रवाञ्छूरो नात्र कार्या विचारणा ।। २७ ।। ।।
इति गणेशमा हात्म्यम् ।।
।। सनत्कुमार उवाच ।। ।।
कुसुमेशं सुरद्वारे सुरासुरनमस्कृतम् ।।
श्रद्धया पूजयेद्यस्तु शिवलोके स मोदते ।। २८ ।।
जयेश्वरं तु यः पश्येद्देवदेवं महेश्वरम् ।।
जयी स्यात्सर्वकार्येषु शिवलोकं स गच्छति ।। २९ ।।
शिवद्वारे शिवं लिंगमर्चयेन्मानवो यदि ।।
त्रिदिवं याति यानेन गाणपत्यं च विंदति ।। 5.1.28.३० ।।
अथान्यं संप्रवक्ष्यामि मार्कंडेश्वरमुत्तमम् ।।
मार्कण्डेयो मुनिर्यत्र तप्तवान्सुमहत्तपः ।। ३१ ।।
दृष्ट्वा तं शंकरं देवं वाजपेयफलं लभेत् ।।
सर्वपापविशुद्धात्मा चिरायुर्जायते नरः ।। ३२ ।।
शृणु व्यास महास्थानं यस्यां पुर्यामनुत्तमम् ।।
यत्र तिष्ठति सा देवी ब्रह्माणी हंसवाहिनी ।। ३३ ।।
भक्तानां पूरयेदाशां पुत्रवत्परिपालयेत् ।।
यथा माता तथा देवी दृष्टा शांतिपरैरपि ।। ३४ ।।
अर्चिता ब्रह्मणा सा तु स्तुता देवी सुरोत्तमैः ।।
अर्चयेद्गंधृपुष्पैश्च नैवेद्यैः सर्वसिद्धिदाम् ।।
अपि या ब्रह्मणः पूर्वमभूदेव सुसिद्धिदा ।। ३५ ।।
यः स्नात्वा ब्रह्मसरसि पश्ये द्ब्रह्मेश्वरं शिवम्।।
भवबंधविनिर्मुक्तो ब्रह्मलोके स मोदते ।। ३६ ।।
अथान्यां संप्रवक्ष्यामि यज्ञवापीमनुत्तमाम् ।।
यत्र वै ब्रह्मणा पूर्वमिष्टो यज्ञः सदक्षिणः ।। ३७ ।।
यज्ञार्थं यत्कृतं कुंडं यज्ञवापी च सा स्मृता ।।
पशुश्च पतितो यस्मात्तस्मात्पशुपतिः स्मृतः ।। ३८ ।।
तस्यां स्नात्वा शुचिर्भूत्वा पश्येत्पशुपतिं तु यः ।।
उद्धरेत्स पितॄन्व्यास पशुयोनिगतानपि ।। ३९ ।।
सुवर्णमणिमुक्ताद्यैर्विमानैः सर्वकामगैः ।।
याति रुद्रपुरं दिव्यं यत्र देवो महेश्वरः ।। 5.1.28.४० ।।
रूपकुंडे नरः स्नात्वा सुरूपो जायतेनरः ।।
स्वर्गे स देवगंधर्वैः स्पृहणीयवपुर्भवेत् ।। ४१ ।।
कुंडे स्नात्वाप्यनंगे यः शुचिर्भूत्वा समाहितः ।।
पश्येच्च देवदेवेशमनंगेनार्चितं पुरा ।।
कामं स लभतेऽभीष्टं मृतो याति शिवालयम् ।। ४२ ।।
आषाढे तु सिताष्टम्यां जागरं यस्तु कारयेत् ।।
केदारे यत्फलं प्रोक्तं तत्समानमवाप्नुयात् ।। ४३ ।।
करीकुंडे नरः स्नात्वा विश्वरूपं तु योऽर्चयेत् ।।
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ।। ४४ ।।
अजागंधे नरः स्नात्वा दृष्ट्वा ब्रह्मेश्वरं शिवम् ।।
ब्रह्महत्यासमं पापं तत्क्षणात्संव्यपोहति ।। ४५ ।।
चक्रतीर्थे नरः स्नात्वा चक्र स्वामिनमर्चयेत् ।।
जायते स नरो व्यास चक्रवर्ती सदा भुवि ।। ४६.।।
सिद्धेश्वरं यदा पश्येत्स्नात्वा सुविधिपूर्वकम् ।।
कामिकेन विमानेन रुद्रलोकं स गच्छति ।। ४७ ।। ।।
इति यज्ञवापीमाहात्म्यम् ।। ।।
सोमवत्यां नरः स्नात्वा यः सोमेश्वरमर्चयेत् ।।
सोमवन्निर्मलो भूत्वा सोमलोके स मोदते ।। ४८ ।।
।। व्यास उवाच ।। ।।
तीर्थं सोमवतीनाम लिंगं सोमेश्वरं तथा ।।
अभूदेतत्कथं नाम श्रोतुमिच्छामि तत्त्वतः ।। ४९ ।।
।। सनत्कुमार उवाच ।। ।।
शृणु व्यास यथोत्पन्नं सोमतीर्थं सुशोभनम् ।।
सोमेश्वरं यथा लिंगमेतत्सत्यं वदामि ते ।।5.1.28.५०।।
यो देवो भगवान्सोमो लोकस्याप्यायनं परम् ।।
आसीत्तस्य पुरा व्यास पिता विप्रो महातपाः ।। ५१ ।।
अवन्त्यां च महाभागो योऽत्रिर्नामा तपोनिधिः ।।
वर्षाणां त्रीणि दिव्यानि सहस्राणि तपो महत् ।। ५२ ।। अत्रि शब्दोपरि टिप्पणी
ऊर्ध्वबाहुः स वै तेपे ब्रह्मध्यानपरायणः ।।
ऊर्ध्वं गतं ततो व्यास ब्राह्म्यं तेजो महात्मनः ।। ५३ ।।
नेत्राभ्यां तेन सुस्राव भासयच्च दिशो दश ।।
तेजस्तत्सहसा दृष्ट्वा दिशो दशोद्धतं स्वतः ।। ५४ ।।
दिशश्च तद्यदा व्यास सर्वा धर्तुं न चाशकन् ।।
असुस्रवत्तदा दिग्भ्यस्तद्धि तेजोतिदुःसहम् ।। ५५ ।।
लोकांश्च भासयत्सर्वान्धरण्यां वै पपात ह ।।
सोमो जातस्ततस्तेन शीतांशुश्च जनप्रियः ।। ५६ ।।
वारि सोमात्समुत्पन्नं व्यास तेनैव तेजसा ।।
प्रविष्टा सा नदी शिप्राममृतेनातिपूरिता ।। ५७ ।।
ततः सोमवती शिप्रा विख्याता सर्वसि द्धिदा ।।
सोमयुक्तां नदीं शिप्रां दृष्ट्वा पापं व्यपोहति ।। ५८ ।।
ख्याता च त्रिषु लोकेषु पापिनां पुण्यदायिनी ।।
ब्रह्महा वा सुरापो वा स्तेयी वा गुरुतल्पगः ।। ५९ ।।
चत्वारोऽप्यत्र पापेन मुच्यंते दर्शनाद्ध्रुवम् ।।
अमासोमौ यदा युक्तौ सोमवत्यां तदा मुने ।। 5.1.28.६० ।।
स्नानं दानं च यो धीमाञ्जपं होमं समाचरेत् ।।
अक्षयं तस्य तत्सर्वं यावच्चंद्रदिवाकरौ ।। ६१ ।।
तिलोदकप्रदानेन पिंडदानेन कारिता ।।
अकाले कालिकी तृप्तिः पितॄणां च यतो मता ।। ६२ ।।
सर्वत्र दुर्लभा सिप्रा सोमं सोमग्रहस्तथा ।।
सोमेश्वरः सोमवारः सकाराः पंच दुर्लभाः ।। ६३ ।।
शिप्रासोमजलं व्यास कोटितीर्थफलप्रदम् ।।
अमासोमसमायोगे पितृतीर्थसमं स्मृतम् ।। ६४ ।।
अमायां सोमवारश्चेद्व्यतीपातो यदा भवेत् ।।
शतगुणं गयायास्तु सोमवत्यां प्रकीर्तितम् ।। ६५ ।।
एवं सोमवतीतीर्थं जातमत्र महामुने ।।
सोमं दृष्ट्वाथ पतितं क्षितौ ब्रह्मा जगद्गुरुः ।। ६६ ।।
रथे तं स्थापयामास लोकानां हितकाम्यया ।।
सं तु वेदमयो व्यास धर्माक्षः सत्यसंग्रहः ।। ६७ ।।
युक्तो वाजिसहस्रेण ब्रह्मणा प्रेरितस्तदा ।।
दृष्ट्वा सोमं ततो देवा रथे तं ब्रह्मणा युतम् ।। ६८ ।।
तुष्टुवुः सर्वभावेन हृष्टाः सर्वे समाहिताः ।।
तस्य संस्तूयमानस्य तेजः सोमस्य भास्वरम् ।। ६९ ।।
आप्यायमानं त्रीँल्लोकान्पपात धरणीतले ।।
ब्रह्मा तेन रथेनाथ सागरांतां वसुन्धराम् ।। 5.1.28.७० ।।
त्रिःसप्तकृत्वोऽतिशयाच्चकाराब्धिप्रदक्षिणम् ।।
तस्य तत्पतितं तेजो व्यास सोमस्य शीतलम् ।। ७१।।
तदेवौषधयो दिव्या जाता भुवि सुनिर्मलाः ।।
याभिर्धार्यो ह्ययं लोकः प्रजाश्चैव चतुर्विधाः ।। ७२ ।।
तुष्टोऽथ भगवान्सोमो जगतेः सर्वदा मुने ।।
दशवर्षसहस्राणि तेपेऽतिदुःसहं तपः ।। ७३ ।।
ततस्तस्मै ददौ वाक्यं ब्रह्मा लोकपितामहः ।।
बीजौषधानि विप्राणां सोमो राजा बभूव ह ।। ७४ ।।
सप्तविंशतिं सोमाय दाक्षायणीर्महाव्रताः ।।
पत्नीः प्राचेतसो दक्षो ददौ नक्षत्रसंज्ञकाः ।। ७५ ।।
स तत्प्राप्य महद्राज्यं सोमो भार्यायुतस्तदा ।।
समारेभे राजसूयं सहस्रशतदक्षिणम् ।। ७६ ।।
होता च भगवानत्रिरध्वर्युर्भगवान्भृगुः ।।
हिरण्यगर्भश्चोद्गाता ब्रह्मा ब्रह्मत्वमेयिवान् ।। ७७ ।।
सदस्यो भगवान्विष्णुः सनकादिमुखैर्युतः ।।
ददौ स दक्षिणां सोमस्त्रीँल्लोकान्सुसमाहितः ।। ७८ ।।
सिनीवाली कुहूश्चैव धृतिः पुष्टिः प्रभा वसुः ।।
कीर्तिर्धृतिश्च लक्ष्मीस्तं देव्यो दिव्याः सिषेविरे ।। ७९ ।।
प्राप्यावभृथमव्यग्रः सर्वदेवर्षिपूजितः ।।
अतीव राजते चन्द्रो दशधा भासयन्दिशः ।। 5.1.28.८० ।।
तस्य तत्प्राप्य दुष्प्राप्यमैश्वर्यमृषिसंस्कृतम् ।।
विबभ्राम मतिर्व्यास विनयाद्यमपास्य च ।। ८१ ।।
बृहस्पतेस्तदा भार्यां तारानाम्नीं यशस्विनीम् ।।
जहार तमसा साध्वीमवमान्यां गिरःसुतम् ।। ८२ ।।
वाच्यमानस्तदा सोमो देवदेवर्षिभिस्तथा ।।
नैव व्यसर्जयत्तारां तस्मा आंगिरसाय च ।। ८३ ।।
बृहस्पतेस्ततः पक्षं शक्रो जग्राह कोपतः ।।
स हि शिष्यो महातेजा गुरोः पूर्वं वृहस्पतेः ।। ८४ ।।
ततो युद्धमभूत्तत्र सुघोरं शक्रसोमयोः ।।
देवानां दानवानां च व्यास त्रासकरं महत् ।। ८५ ।।
सर्वे भीतास्ततो देवा ब्रह्माणं शरणं गताः ।।
अग्रतो ब्रह्मणो युद्धं कथितं शक्रसोमयोः ।। ८६ ।।
देवानां वचनं श्रुत्वा सार्द्धं देवैः पितामहः ।।
आगत्य युद्धभूमिं सोऽवारयद्देवदानवान्।। ८७ ।।
वारितास्ते स्थितास्तत्र युद्धं त्यक्त्वा सुरासुराः ।।
तारामादाय स तदा ददा वांगिरसे द्विजे ।। ८८ ।।
तामंतःप्रसवां दृष्ट्वा प्राह भार्यां बृहस्पतिः ।।
मदीयायां न ते योन्यां गर्भो धार्यः कथंचन ।। ८९ ।।
उत्ससर्ज ततस्तारा कुमारं देवरूपिणम् ।।
इषीकास्त्रं समासाद्य ज्वलंतमिव पावकम्।। 5.1.28.९० ।।
स तेजो जातमात्रोऽपि देवानामाक्षिपच्छिशुः ।।
ततः संशयमापन्ना ऊचुस्तारां दिवौकसः ।। ९१ ।।
कस्यायं ब्रूहि सुभगे सोमस्याथ बृहस्पतेः ।।
नाचचक्षे तु देवानां वेधाः पप्रच्छ तां पुनः ।। ९२ ।।
यदत्र सत्यं तद्ब्रूहि तारे कस्य सुतो ह्ययम् ।।
सा प्रांजलिरुवाचेदं ब्रह्माणं वरदं विभुम् ।। ९३ ।।
सोमस्येति रहः सोऽयं कुमारो देवसंनिभः ।।
सोमस्य तं सुतं ज्ञात्वा परिष्वज्य पितामहः ।। ९४ ।।
बुध इत्यकरोन्नाम तस्य पुत्रस्य वै तदा ।।
परदारापहाराच्च यत्पापं तेन दुःसहम् ।। ९५ ।।
तेन सोमोऽभवत्कुष्ठी क्षयरोगयुतस्तदा ।।
ततो राज्ये स्वकं पुत्रं स्थापयित्वा यथाविधि ।। ९६ ।।
अवन्तीमाजगामाशु सोमो देवदिदृक्षया ।।
सोमाहे सोमवत्यां च अमायोगे जितेंद्रियः ।। ९७ ।।
स्नात्वा संपूजयामास सोमः सोमेश्वरं ततः ।।
तस्य भक्त्या च सन्तुष्टः प्राह सोमं महे श्वरः ।। ९८ ।।
मत्प्रसादाद्वपुः कांतं तव सोम भविष्यति ।।
सोमेश्वरमिति ख्यातं भुक्तिप्रदायकम् ।। ९९ ।।
एवं व्यास तु तत्तीर्थं लिंगं चैवाति दुर्लभम् ।।
कथितं तथ्यभावेन मया तुष्टेन सांप्रतम् ।। 5.1.28.१०० ।।
श्रावणं प्राप्य यो मासं सोमनाथं जितेंद्रियः ।।
नित्यं पश्येन्नरो व्यास तस्य पुण्यफलं शृणु ।। १०१ ।।
सौराष्ट्रे सोमनाथस्य पूजायाः प्रत्यहं फलम् ।।
लभते स नरो व्यास नात्र कार्या विचारणा ।। १०२ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये सोमवतीतीर्थमाहात्म्यवर्णनंनामाष्टाविंशो ऽध्यायः ।। २८ ।। ।। छ ।।