स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीक्षेत्रमाहात्म्यम्/अध्यायः २६

विकिस्रोतः तः
Jump to navigation Jump to search


।। व्यास उवाच ।। ।।
गुह्यस्थाने पवित्राणि कीर्तितानि त्वया मुने ।।
प्रमाणं कथयस्वाद्य महाकालवनस्य मे ।। १ ।।
।। सनत्कुमार उवाच ।। ।।
यथाश्रुतं मया पूर्वं गदतो ब्रह्मणः स्वयम् ।।
तत्तेऽहं संप्रवक्ष्यामि शृणु त्वं गदतो मम ।। २ ।।
योजनस्यैव पर्यंतं चतुर्दिक्षूपशोभितम् ।।
सौवर्णैस्तोरणैश्चैव मुक्तादामविलंबिभिः ।। ३ ।।
द्वाराणि तत्र शोभंते कांचनैः कलशैः स्थितैः ।।
सितपद्ममुखैर्द्वारैरनेकमणिमंडितैः ।। ४ ।।
महेश्वरप्रयुक्ताश्च द्वाराध्यक्षा महाबलाः ।।
द्वारेषु तेषु शोभंते लोकानुग्रहकारकाः ।। ५ ।।
पिंगलेशः स्थितः पूर्वे बालरूपो विभावसुः ।।
तीर्थस्याभिमुखो गौरो गुरुर्गणैरथानुगः ।। ।। ६ ।।
दक्षिणेऽपि महायोगी कायावरोहणेश्वरः ।।
वित्तेशः पश्चिमे द्वारे क्षेत्रस्याभिमुखः स्थितः ।। ७ ।।
नियुक्तो वै महेशेन वारुणीं दिशमास्थितः ।।
उत्तरां दिशमाश्रित्य स्थितश्चैवोत्तरेश्वरः ।। ८ ।।
साधकः सर्वकार्याणामादिष्टः शंकरेण सः ।।
मानवा ये वसंत्यत्र क्षेत्रमध्ये सुधार्मिकाः ।। ९ ।।
मृता रुद्रपुरं यांति विमानैः सार्वकामिकैः ।।
कृष्णपक्षे चतुर्दश्यामथ वार्केन्दुसंगमे ।। 5.1.26.१० ।।
पंचेशानीं नमस्कृत्य प्रतिलोमानु लोमतः ।।
उपोषितो दिनैकेन ध्यायमानो महेश्वरम् ।। ११ ।।
मुच्यते सर्वपापैस्तु बहुजन्मकृतैरपि ।।
एवं च विप्र यो यात्रां पंचेशानीं समारभेत् ।। १२ ।।
अनेनैव स्वदेहेन रुद्रलोकं स गच्छति ।।
पंचेशानीमथान्यां ते सुखेन क्रियते यथा ।। १३ ।।
तथा शृणु प्रवक्ष्यामि सर्वपापप्रणाशिनीम् ।।
प्रातः स्नात्वा रुद्रसरस्येकादश्यां समाहितः ।। १४ ।।
श्राद्धं कृत्वा महाकालं नत्वा चेशानमीश्वरम् ।।
पिंगलेशं ततः प्राप्य स्नात्वा श्राद्धं समाचरेत् ।। १५ ।।
उपगम्य ततो देवं गणेशं पिंगलेश्वरम् ।।
गन्धैः पुष्पैश्च धूपैश्च तमभ्यर्च्य निवर्तयेत् ।। १६ ।।
महाकालेश्वरं प्राप्य भूयः स्नातो जितेंद्रियः ।।
अर्चयेद्देवदेवेशं स्वयंभुवं सनातनम् ।। १७ ।।
ईशाने गमयेद्रात्रिं कृत्वा वै नक्तभोजनम् ।।
ध्यायमानो महेशानं भूमौ विन्यस्य विग्रहम् ।। १८ ।।
द्वादश्यां पूर्ववत्सर्वं प्रातः स्नात्वा व्रजेन्नरः ।।
कायावरोहणं गत्वा पिंगलेश्वरवद्यजेत् ।। १९ ।।
त्रयोदश्यामथाप्येवं बिल्वेशं पश्चिमेऽर्चयेत् ।।
चतुर्दश्यां तथा सौम्ये पूजयेदुत्तरेश्वरम् ।। 5.1.26.२० ।।
अमावास्यां शुचिः स्नातो महाकालेश्वरं यजेत् ।।
गन्धैः पुष्पैश्च धूपैश्च नैवेद्यैर्विविधैस्तथा ।। २१ ।।
गीतनृत्यादिकं कृत्वा प्रणिपत्य क्षमापयेत् ।।
यात्रां कृत्वा तु पूर्वोक्तां ततो निजगृहं व्रजेत् ।। २२ ।।
ब्राह्मणान्भोजयेत्पञ्च शिवभक्तिपरायणान् ।।
प्रणम्य देवतारूपान्महाकालोषितान्द्विजान् ।। २३ ।।
पूजयित्वा हिरण्येन सूक्ष्मवस्त्रगुणैर्नवैः ।।
रथं पिंगलके दद्याद्गजं कायावरोहणे ।। २४ ।।
दत्त्वा बिल्वेश्वरे चाश्वं वृषं दत्त्वा तु चोत्तरे ।।
धेनुं दत्त्वा महाकाले सर्वोपस्करसंयुतम् ।। २५ ।।
य एवं कुरुते व्यास तस्य पुण्यफलं शृणु ।। २६ ।।
पितृकैर्मातृकैः सार्धं कुलैः स दिवि मोदते ।।
अप्सरोगीतनृत्याद्यैर्विमानैः सार्वकामिकैः ।। २७ ।। ।।
इति पंचेशानीयात्रामाहात्म्यम् ।। ।।
यस्तु प्रदक्षिणां कुर्यान्नियमेन कुशस्थलीम् ।।
प्रदक्षिणीकृता तेन सप्तद्वीपा वसुन्धरा ।। २८ ।।
यस्तु पद्मावतीं पश्येद्दर्चयेत्पंकजैर्नरः ।।
दत्त्वा धूपं सनैवेद्यं मृतो ब्रह्मपुरं व्रजेत् ।। २९ ।।
स्वर्णशृंगाटिकां व्यास कुसुमैः स्वर्णसंनिभैः ।।
समभ्यर्च्य महाभक्त्या स याति शिवमन्दिरम् ।। 5.1.26.३० ।।
अवन्तिनीं तु यः पश्येद्देवीं त्रैलोक्यविश्रुताम् ।।
कामिकेन विमानेन याति पौरंदरं पुरम् ।। ३१ ।।
अर्चयेत्पंकजैर्भक्त्या यो देवीममरावतीम् ।।
अमरैः सह संहृष्टो मोदते दिवि सर्वदा ।। ३२ ।।
देवीमुज्जयनीं भक्त्या यः पश्यति समाहितः ।।
सर्वैश्वर्यसमायुक्तो रुद्रलोके महीयते ।। ३३ ।।
विशालां चैव यः पश्येद्रुद्रभक्त्या समाहितः ।।
मुच्यते त्रिविधैः पापैर्नात्र कार्या विचारणा ।। ३४ ।। ।।
इति श्रीकल्पसप्तकमहिमा ।। ।।
शृणु व्यास महातीर्थं पुरा यद्ब्रह्मणार्चितम् ।।
अकूरेश्वरमित्याख्यं यत्र सिद्धः पितामहः ।। ३५ ।।
तत्र देवार्चनं कृत्वा कृष्णाष्टम्यामुपोषितः ।।
जितेंद्रियः शुचिर्दांतो रुद्रलोकमवाप्नुयात् ।। ३६ ।।
न वदेत्केनचित्सार्धं नरः प्रातर्गृहे स्थितः ।।
दृष्ट्वाऽक्रूरेश्वरं देवं हेमदानफलं लभेत् ।।३७।। ।।
इत्यक्रूरेश्वरमाहात्म्यम् ।। ।।
यस्तु पश्यति ब्रह्माणं शुचिः स्नातो जितेंद्रियः ।।
मुच्यते पातकाद्धोराद्ब्रह्मलोकं मृतो व्रजेत् ।। ३८ ।।
पद्मासनस्थितो ब्रह्मा ध्यायमानः परं पदम् ।।
वसिष्ठाद्यैर्मुनिवरैर्विज्ञप्तः कर्मसंभवान् ।। ३९ ।।
।। ऋषय ऊचुः ।। ।।
आदित्या मरुतः साध्यास्तथा चैवाश्विनावुभौ ।।
पितरो ये च लोकानां पूज्यंते भुवि मानवैः ।। 5.1.26.४० ।।
ग्रहार्कतारका यक्षा दिग्गजाश्च्यानलानिलाः ।।
अमी देवा वयं सर्वे त्वदंशाः परिपठ्यते ।। ४१ ।।
कथं ध्यायसि देवेश एतत्सर्वं ब्रवीहि नः ।। ४२ ।।
।। ब्रह्मोवाच ।। ।।
द्वे विद्ये तत्त्वरूपे ये परा चैवापरा तथा ।।
ते द्वे च मम रूपे द्वे नित्ये मूर्तात्मिके मम ।। ४३ ।।
।। ऋषय ऊचुः ।। ।।
पितामह कथं विद्मो भवंतं परमं विभुम् ।।
येनास्माकं परा सिद्धिर्जायते तव दर्शनात् ।। ४४ ।।
।। ब्रह्मोवाच ।। ।।
माहेश्वरं परं क्षेत्रं कुशस्थलीति शब्दितम् ।।
यज्ञार्थिना मया देवः श्रीकंठः पार्वती पतिः ।। ४५ ।।
याचितस्तेन देवेन उक्तोऽहं परमेष्ठिना ।।
समंताद्योजनं साग्रं क्षेत्रमेतत्पितामहः ।। ४६ ।।
मया दत्तं तव विभो महाकालवनादृते ।।
वारितः स मया तत्र वने गुप्तो हि रोषतः ।।
कपर्दिना च तत्रोक्तो यास्यामो न तवांतिकम् ।। ४७ ।।
आरब्धो वै ततो यज्ञो नारायणपरिग्रहात् ।।
ज्ञातस्तथापि मे यज्ञो देवदेवेन शंभुना ।। ४८ ।।
यज्ञवाटं कपर्दीशस्ततो भिक्षार्थमागतः ।।
याज्ञिकैः सोऽथ तत्रोक्तो मात्र तिष्ठ जुगुप्सितः ।। ४९ ।।
कपर्दिना च ते तत्र उक्ता यास्याम्यहं पुनः ।।
एवमुक्त्वा कपालं स भूमौ संस्थाप्य तत्र हि ।।5.1.26.५०।।
स्नातुं नदीं ययौ शिप्रां कपर्दी परमेश्वरः।।
उक्तं तस्मिन्गते शिप्रां कपर्दिनि द्विजातिभिः।।५१।।
कथं हि क्रियते होमः कपाले सदसि स्थिते।।
अकपालानि शौचानि पुरा प्रोक्तं मनीषिभिः ।। ५२ ।।
तत्कपालं सदस्येन उक्षिप्तं पाणिना स्वयम् ।।
तस्मिन्क्षिप्तेऽभवच्चान्यत्पुनः क्षिप्तेऽभवत्पुनः ।। ५३ ।
एवं नांतं कपालानां प्राप्यते मुनिसत्तमाः ।।
रुद्रं कपर्दिनं मत्वा शरणं तं समागताः ।। ५४ ।।
ततः स दर्शनं प्रादाद्भक्त्या तुष्टो महेश्वरः ।।
कपालपाणिर्भगवान्मामुवा च ततः प्रभुः ।। ५५ ।।
वरं वरय भो ब्रह्मन्यत्ते मनसि वर्तते ।।
नास्त्यदेयं मया तुभ्यं सर्वं दास्यामि तत्त्वतः ।।५६।।
ब्रह्मोत्तरमिदं स्थानं मया दत्तं चतुर्मुख ।।
कारयस्व यथाकामं यथावर्णचतुष्टयम् ।। ५७ ।।
एवं वदंतं वरदमीशानं परमेश्वरम् ।।
तथेति चोक्त्वा सदसि न मयाऽन्यो वरो वृतः । ।। ५८ ।।
उज्जयिनीति वै नाम कुशस्थल्या निवेशितम् ।।
कुंडं मंदाकिनी तत्र मया कृतमनंतरम् ।। ५९ ।।
 तत्र विप्राः कृते स्नाने सर्वपापैः प्रमुच्यते ।।
तस्यां संस्थापयेद्दिक्षु चतुरोऽर्थघटाञ्छुभान् ।। 5.1.26.६० ।।
सतिलास्तान्सवस्त्रांश्च सफलान्मंडकैः सह ।।
कार्तिक्यामथ माघ्यां च चातु र्विद्ये प्रदापयेत् ।। ६१ ।।
प्रथमं च ऋग्वेदाय यजुर्वेदाय दक्षिणम् ।।
पश्चिमं सामवेदाय अथर्वणे तथोत्तरम् ।। ६२ ।।
वेदानुद्दिश्य चाप्येवं प्रीयतां मे पितामहः ।।
कृते चैवं हि यत्पुण्यं तच्छृणुध्वं समाहिताः ।। ६३ ।।
सर्वतीर्थेषु यत्पुण्यं मंदाकिन्यां तथा भवेत् ।।
सहस्रगुणितं स्नानं जाप्यं लक्षगुणं भवेत् ।। ६४ ।।
दानं कोटिगुणं ज्ञेयं मंदाकिन्यां न संशयः ।।
कौमुदे मासि संप्राप्ते गोदानं तत्र कारयेत् ।। ६५ ।।
घृतधेनुं च कार्तिक्यां माघ्यां तिलमयीं तथा ।।
जलधेनुं तु वैशाख्यां दत्त्वा मुच्येत पातकैः ।। ६६ ।।
वाचिकं मानसं पापं कर्मजं यच्च दुष्कृ तम् ।।
विनश्येत्किल्बिषं सर्वं मंदाकिन्यास्तु दर्शनात् । ६७ ।।
मंदाकिनीसमं तीर्थं पृथिव्यां नैव दृश्यते ।।
यस्य दर्शनमात्रेण ब्रह्मलोके स मोदते ।। ६८ ।।
मंदाकिन्यां तु यः स्नानं कृत्वा श्राद्धं प्रदास्यति ।।
दर्शे च पूर्णिमायां वा पितृलोके स मोदते ।। ।। ६९ ।।
पितामहं तु यो भक्त्या नित्यं पश्यति मानवः ।।
अश्वमेधसहस्रेण राजसूयशतेन च ।। 5.1.26.७० ।।
युज्यते नात्र संदेहः सत्यमेतत्तपोधनाः ।।
ततो मन्वंतरेऽतीते प्राप्ते वैवस्वते पुनः ।। ७१ ।।
तेनैवोन्मत्तवेषेण ऊर्ध्वशेषो महेश्वरः ।।
प्रविष्टो ब्रह्मणः सत्रे दृष्टस्तैर्द्विज सत्तमैः ।। ७२ ।।
ते ब्राह्मणाः शपंति स्म निन्दां कुर्वंति चापरे ।।
अपरे पांशुभिः शिश्नं घ्नंति तस्याशपन्द्विजाः ।। ७३ ।।
लोष्ठैर्लगुडकैश्चा न्ये घ्नंति तं बलगर्विताः ।।
जटामुकुटकं केचिद्धृत्वा कर्षंति चापरे ।। ७४ ।।
पृच्छंति ब्रतचर्यां वै केन व्रतं च दर्शितम् ।।
अत्र चैव स्त्रियः संति कथमेतत्त्वया कृतम् ।। ७५ ।।
ब्रह्मणा चेदृशी चर्या विष्णुना वा कृता स्वयम् ।।
गिरिशेनापि देवेन केनेदं दुष्कृतं कृतम् ।। ७६ ।।
मा विडम्बय देवेशं वध्यो हि नस्त्वमद्य वै ।।
एवं तैर्हन्यमानस्तु ब्राह्मणैस्तत्र शंकरः ।। ७७ ।।
स्मितं कृत्वाऽब्रवीत्सर्वान्ब्राह्मणान्परमेश्वरः ।।
किं यूयं मामभि हथ ह्युन्मत्तं नष्टचेतसम् ।। ७८ ।।
यूयं कारुणिकाः सर्वे मैत्रभावे व्यवस्थिताः ।।
तमेवं वादिनं देवं जाल्मरूपधरं हरम् ।। ७९ ।।
मायया तस्य देवस्य मोहितास्ते द्विजातयः ।।
पुनः कपर्दिनं जघ्नुः पाणिपादेन वै द्विजाः ।। 5.1.26.८० ।।
ताड्यमानस्तु तैर्विप्रैः परं कोपमुपागमत् ।।
ततो देवेन ते शप्ता यूयं वेदविवर्जिताः ।। ८१ ।।
ऊर्ध्वजूटाः सलगुडाः परदारोपजीविनः ।।
रता द्यूते च वेश्यायां पितृमातृविवर्जिताः ।। ८२ ।।
न पुत्रे पितृ वित्तं च विद्या वापि भविष्यति ।।
शेषो मम हतो यैश्च ते सर्वेंद्रियवर्जिताः ।। ८३ ।।
रौद्रां भिक्षां तु भिक्षंतः परपिंडोपजीविनः ।।
आत्मानं वर्णयिष्यंति धनधान्यविवर्जिताः ।। ८४ ।।
यैश्च तत्र कृता विप्रैर्हन्यमाने कृपा मयि ।।
तेषां धनं च पुत्राश्च दासीदासादयश्च वै ।।८५।।
कुलोत्पन्नाश्च वै नार्यो भविष्यंति वरान्मम ।।
एवं शापं वरं दत्त्वा गतोंऽतर्धानमीश्वरः ।। ८६ ।।
ततो द्विजा गते देवे मत्वा तं शंकरं विभुम् ।।
अन्वेषयंतो यत्नेन महाकालवनं गताः ।। ८७ ।।
स्नात्वा सरसि रुद्रस्य जपतः शतरुद्रियम् ।।
जाप्यावसाने तान्देवोऽशरीरिण्या गिराऽब्रवीत् ।। ८८ ।।
अनृतं न मया प्रोक्तं स्वैरेष्वेपि कुतः सुखम् ।।
भूयोऽप्यनुग्रहं विप्रा युष्माकं करवाण्यहम् ।। ८९ ।।
शांता दांताश्च ये विप्रा भक्तिमंतो मयि स्थिताः ।।
न तेषां छिद्यते वंशो न धनं न च संततिः ।। 5.1.26.९० ।।
अग्निहोत्ररता ये च भक्तिमंतो जनार्दने ।।
पूजयंति च ब्रह्माणं तेजोराशिं दिवाकरम् ।।९१।।
नाशुभं विद्यते तेषां येषां सख्ये स्थिता मतिः ।।
एतावदुक्त्वा देवेशस्तूष्णीमासीज्जगत्प्रभुः ।। ९२ ।।
एवं शापं वरं लब्ध्वा देवदेवान्महेश्वरात् ।।
आजग्मुः सहिताः सर्वे यत्र देवः पितामहः ।। ९३ ।।
विरंचिमथ ते जाप्यैस्तोषयन्तोऽग्रतः स्थिताः ।।
तुष्टस्तानब्रवीद्ब्रह्मा मत्तोऽपि व्रियतां वरः ।। ९४ ।।
ब्रह्मणस्तेन वाक्येन तुष्टाः सर्वे द्विजोत्तमाः ।।
को वरो याच्यतां विप्राः परितुष्टे पितामहे ।। ९५ ।।
एके तत्राब्रुवन्विप्रा वेदान्वै वृणवामहै ।।
ततोऽन्ये च धनं धान्यं व्रियतामविशंकितैः ।। ९६ ।।
अन्ये प्राहुः किमस्माकं धनैस्तुष्टे पितामहे ।।
अग्निहोत्राणि वेदाश्च शास्त्राणि विविधानि च ।। ९७ ।।
शांता आढ्याश्च लोकाश्च वरदानाद्भवंतु नः ।।
एवं प्रजल्पतां तत्र विप्राणां कोप आविशत् ।। ९८ ।।
परस्परं वरार्थेऽथ युद्धं कर्तुं समुद्यताः ।।
युध्यंते सायुधाः केचित्केचित्तत्रोपसर्पकाः ।। ९९ ।।
केचिद्विप्रा उदासीनाः केचिद्वै मौनमास्थिताः ।।
दृष्ट्वैवं भगवान्प्राह विप्रान्युद्धं प्रकुर्वतः ।। 5.1.26.१०० ।।
यस्मात्कुमंत्रिता विप्राः शालाया बाह्यसंस्थिते ।।
तस्मादामूलतो विप्रा गुल्मे युद्धोपसर्पकाः ।। १ ।।
उदासीनस्तु यो गुल्मो वृत्तिहीनो भविष्यति ।।
वेदास्तस्य भवेयुर्वै यस्त्वस्ति मौनसंस्थितः ।। २ ।।
तृतीयः सायुधो गुल्मो योद्धुकामस्तु यः स्थितः ।।
परदारेषु वेश्यायां द्यूते चौर्ये सदा रतः ।।३।।
चतुर्विधः स वै विप्रो वृत्तिहीनो भविष्यति ।।
एवमुक्त्वा ययौ ब्रह्मा वैराजं भवनोत्तमम् ।। ४ ।।
एवं मे परमं क्षेत्रं मुनयोऽवंतिमंडले ।।
यां देवनगरीं लोके प्रवदन्तीह मानवाः ।। ५ ।।
तस्यां तु ये द्विजाः शांता वसंति क्षेत्रवासिन ।।
न तेषां दुर्लभं किंचिन्म म लोके भविष्यति ।। ६ ।।
कोलामुखे कुरुक्षेत्रे नैमिषे पुष्करेषु च ।।
वाराणस्यां प्रभासे च तथा बदरिकाश्रमे ।। ७ ।।
गंगाद्वारे प्रयागे च गंगासा गरसंगमे ।।
रुद्रकोट्यां विरूपाक्षे मित्रस्यापि तथा वने ।। ८ ।।
तीर्थेष्वेतेषु क्षेत्रेषु या सिद्धिर्द्वादशाब्दिका ।।
प्राप्यते मानवैर्लोके सा मासेनेह लभ्यते ।।
उज्जयिन्यां न संदेहो ब्रह्मचर्ये मनो यदि ।। ९ ।।
तीर्थानां प्रवरं तीर्थं क्षेत्राणामपि चोत्तमम् ।।
सदाभिरुचितं मह्यमेतद्वै मुनिसत्तमाः ।। 5.1.26.११०।।
मंदाकिन्यास्तु माहात्म्यं क्षेत्रस्योत्पत्तिरुत्तमा ।।
भूयः किमन्यदिच्छास्ति श्रोतुं वै द्विजसत्तमाः ।। ११ ।।
।। सनत्कुमार उवाच ।। ।।
एतत्ते ब्रह्मणो वाक्यं श्रुत्वा व्यास तथाविधम् ।।
वसिष्ठाद्याश्च मुनयः परं ध्यानमथो गताः ।। १२ ।।
ध्यात्वा तु सुचिरं कालं तत्र वासे मनो दधुः ।।
साग्निहोत्राः सपत्नीका गताश्चावंतिमंडले ।। १३ ।।
महाकालवनं दृष्ट्वा शिप्रां चैव महानदीम् ।।
श्मशानमूषरं चैव नदीं गन्धवतीं तथा ।। १४ ।।
कोटितीर्थमुपस्पृश्य चकुर्वासं च तत्र वै ।।
स्मृत्वा तद्ब्रह्मणो वाक्यं रुचिस्तेषां तदाऽभवत् ।। १५ ।।
अरुन्धत्या वसिष्ठश्च गमनं प्रति नोदितः ।।
उवाच तां महात्मासौ स्वां भार्यां मुनिसत्तमाः ।। १६ ।।
महाकालः सरिच्छिप्रा गतिश्चैव सुनिर्मला ।।
उज्जयिन्यां विशालाक्षि वासः कस्य न रोचते ।। १७ ।।
स्नानं कृत्वा नरो यस्तु महानद्यां हि दुर्लभम् ।।
महाकालं नमस्कृत्य नरो मृत्युं न शोचयेत् ।। १८ ।।
मृतः कीटः पतंगो वा रुद्र स्यानुचरो भवेत् ।।
यत्रैषा श्रूयते मुक्तिः कथं सा त्यजते मया ।। १९ ।।
एवं प्रजल्प्याथ मुनिप्रधानस्तत्रैव वासं सहसा चकार ।।
वनस्य व्युष्टिं परिकीर्तयंस्तु स्थितः सहैवात्र मुनिप्रधानैः ।। 5.1.26.१२० ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षे त्रमाहात्म्ये मंदाकिनीक्षेत्रमाहात्म्यवर्णनंनाम षड्विंशोऽध्यायः ।। २६ ।। ।।छ।।