स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीक्षेत्रमाहात्म्यम्/अध्यायः २५

विकिस्रोतः तः


।। सनत्कुमार उवाच ।। ।।
शुक्रेश्वरं समभ्यर्च्य सितपुष्पैर्विलेपनैः ।।
प्रणिपत्य ततो भक्त्या रुद्रलोके महीयते ।। १ ।।
भीमेश्वरं नरो दृष्ट्वा भक्त्या संपूज्य यत्नतः ।।
न भयं लभते व्यास रणे रात्रौ जलेऽनले ।। २ ।।
गर्गेश्वरं स्नापयित्वा तिलतैलेन मानवः ।।
बिल्वपत्रैस्तु संपूज्य धर्मवृद्धिमवाप्नुयात् ।। ३ ।।
उपोषितश्चतुर्दश्यां तिलप्रस्थतिलांभसा ।।
स्नापयित्वा तिलैरिष्ट्वा सदा सौख्यमवाप्नुयात् ।। ४ ।।
गोसहस्रं नरो दत्त्वा भावं कृत्वा विशेषतः ।।
भवबंधविनिर्मुक्तो रुद्रलोकं स गच्छति ।। ५ ।।
कामेश्वरं समभ्यर्च्य कुंकुमादिविलेपनैः ।।
कामिकेन विमानेन याति स्वर्गं न संशयः ।। ६ ।।
चूडामणिं नमस्कृत्य नवम्यां कार्तिके सिते ।।
न वियोनिं नरो याति धर्मबुद्धिः स जायते ।। ७ ।।
चंडीश्वरं समभ्यर्च्य कृष्णाष्टम्यामुपोषितः ।।
निर्माल्योल्लंघनोत्थेन न शोकेनापि लिप्यते ।। ८ ।।
इत्यादितीर्थानि महेश्वरस्य पुण्यानि सर्वाणि नरोऽभिगम्य ।।
विशुद्धचित्तो भुवि भावितात्मा प्रयाति शंभोर्भुवनं सुरम्यम्।। ९ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये शुक्रेश्वरभीमेश्वर गर्गेश्वरकामेश्वर चूडामणीश्वर चण्डीश्वरादितीर्थमाहात्म्यवर्णनं नाम पञ्चविंशोऽध्यायः ।। २५ ।। । छ ।।