स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीक्षेत्रमाहात्म्यम्/अध्यायः २४

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्


।। सनत्कुमार उवाच ।। ।।
वाल्मीकेश्वरमित्याख्यं यस्तु देवं प्रपूजयेत् ।।
मौनी ध्यानपरो भूत्वा स कवित्वमवाप्नुयात् ।। १ ।।
।। व्यास उवाच ।। ।।
कथमत्र समुत्पन्नः कोऽसौ वाल्मीकेश्वरः प्रभुः ।।
यस्य दर्शनमात्रेण कवित्वमुपजायते ।। २ ।।
।। सनत्कुमार उवाच ।। ।।
आसीद्व्यास पुरा विप्रः सुमतिर्भृगु वंशजः ।।
रूपयौवनसंपन्ना तस्य भार्याथ कौशिकी ।। ३ ।।
तस्य पुत्रः समुत्पन्नो ह्यग्निशर्मेति नामतः ।।
स पित्रा प्रोच्यमानोऽपि वेदाभ्यासं न मन्यते ।। ४ ।।
ततो बहुतिथे काले अनावृष्टिरजायत ।।
तस्यां विपद्गतः सोऽथ दक्षिणामाश्रितो दिशम् ।। ५ ।।
ततोऽसौ सुमतिर्विप्रः सभार्यः स सुतस्तथा ।।
विदेशं काननं प्राप्तः कृत्वा चाश्रममाश्रितः ।। ६ ।।
आभीरैर्दस्युभिः सार्धं संगोऽभूदग्निशर्मणः।।
आगच्छति पथा तेन यस्तं हंति स पापकृत्।। ७ ।।
स्मृतिर्नष्टा गता वेदा गतं गोत्रं गता श्रुतिः ।।
कस्मिंश्चिदथ काले तु तीर्थयात्रा्प्रसंगतः।। ८ ।।
सप्तर्षयः पथा तेन सुव्रताः समुपस्थिताः ।।
अग्निशर्माथ तान्दृष्ट्वा हन्तुकामोऽब्रवीदिदम्।। ९ ।।
वस्त्राणीमानि मुच्यध्वं छत्रिकोपानहौ तथा ।।
हन्तव्या हि मया यूयं गन्तारो यम सादने ।। 5.1.24.१० ।।
तस्य तद्वचनं श्रुत्वा अत्रिर्वचनमब्रवीत्।।
अस्मत्पीडनजं पापं कथं ते हृदि वर्तते ।।
वयं तपस्विनो भूत्वा तीर्थयात्राकृतोद्यमाः ।। ११ ।।
।। अग्निशर्मोवाच ।। ।।
ममास्ति माताथ पिता सुतो भार्या गरीयसी ।।
पोषयामि सदा तांस्तु एतन्मे हृदि संस्थितम् ।। १२ ।।
।। अत्रिरुवाच ।। ।।
पित्रादीनाशु पृच्छस्व स्वकर्मोपार्जितं प्रति ।।
यद्युष्मदर्थं क्रियते पापं तत्कस्य कथ्यताम् ।।१३।।
यदि ते कथयंति स्म मा मृषा प्राणिनो वधीः ।। १४ ।।
।। अग्निशर्मोवाच ।। ।।
न कदाचिन्मया ते तु संपृष्टा ईदृशं वचः।।
युष्माकं वचसा मेऽद्य प्रतिबोधः प्रवर्तते ।। १५।।
गत्वा पृच्छामि तान्सर्वान्कस्य भावश्च कीदृशः ।।
यूयमत्रैव तिष्ठध्वं यावदागमनं मम ।। १६ ।।
इत्युक्त्वा ताञ्जगामाशु पितरं स्वमुवाच ह ।।
धर्मस्य प्रतिघातेन प्राणिनां पीडनेन च ।। १७ ।।
सुमहद्दृश्यते पापं कस्य तत्कथ्यतां मम ।।
पिता प्राह तथा माता नापुण्यमावयोरिह ।। १८ ।।
त्वं जानासि यत्कुरुषे कृतं भाव्यं पुनस्त्वया ।।
तयोस्तद्वचनं श्रुत्वा भार्या वचनमब्रवीत् ।। १९ ।।
तयाप्युक्तं न मे पापं पापमेतत्तवैव हि ।।
तद्वाक्यमब्रवीत्पुत्रं बालोऽहमितिसोऽब्रवीत् ।। 5.1.24.२० ।।
तज्ज्ञात्वा हृदयं तेषां चेष्टितं चैव तत्त्वतः ।।
नष्टोऽहमिति मन्वानः शरणं मे तपस्विनः ।। ।। २१ ।।
क्षिप्त्वाथ लगुडं कृष्णं येन वै जंतवो हताः।।
प्रकीर्य केशांस्त्वरित ऋषीणामग्रतः स्थितः ।। २२ ।।
प्रणम्य दंडपातेन ततो वचनमव्रवीत् ।।
न मे माता न च पिता न भार्या न च मे सुतः ।। २३ ।।
सर्वैस्तैः परिमुक्तौऽहं भवतां शरणं गतः ।।
सुष्ठूपदेशदानान्मां नरकात्त्रातुमर्हथ ।। २४ ।।
एवं तं वादिनं दृष्ट्वा ऋषयोऽत्रिमथाब्रुवन्।।
भवतो वचनादस्य प्रतिबोधः समागतः ।। २५ ।।
भवताऽयमनुग्राह्यः शिष्यो भवतु ते मुने ।।
तथेत्युक्ताथ तान्प्राह चाग्निं ध्यानं समाचर ।। २६ ।।
अनेन ध्यानयोगेन महामंत्रजपेन च ।।
अनेकदुस्तरात्युग्रपापकृज्जनघातकः।।
संस्थितो वृक्ष मूले त्वं परा सिद्धिं गमिष्यसि ।। २७ ।।
इत्युक्त्वा ते ययुः सर्वे संकामं सोऽपि तत्र वै ।।
तद्ध्यानस्थोऽभवद्योगी वत्सराणि त्रयोदश ।। २८ ।।
तस्योपर्यभवत्तत्र वल्मीकोऽविचलस्य च ।।
निवृत्तास्तु पथा तेन मुनयस्तत्र शुश्रुवुः ।। २९ ।।
उदीरितं ध्वनिं तेन वल्मीके विस्मयान्विताः ।।
ततः खनित्वा वल्मीकं काष्ठीभूतोरुशंकुभिः ।।5.1.24.३०।।
तं दृष्ट्वोत्थापयामासुर्मुनयो नयसंयुतम् ।।
नमश्चक्रेऽथ तान्सर्वान्स विप्रो मुनिपुंगवान् ।।३१।।
तान्प्राह प्रणतो भूत्वा तपसा दीप्ततेजसः।।
प्रसादाद्भवतामद्य ज्ञानं लब्धं मया शुभम्।।३२।।
दीनोऽहमुद्धृतः सर्वैर्मग्नोऽहं पापकर्दमे ।।
तस्येति ते वाक्यमूचुः परमधार्मिकाः ।। ३३ ।।
वल्मीकेऽस्मिन्स्थितः पुत्र यतस्त्वमेकचित्ततः ।।
वाल्मीकिरिति ते नाम भुवि ख्यातं भवि ष्यति ।। ३४ ।।
इत्युक्त्वा मुनयो जग्मुः स्वां दिशां तपसान्विताः ।।
गतेषु मुनिमुख्येषु वाल्मीकिस्तपतां वरः ।।
कुशस्थल्यामथागम्य समाराध्य महेश्वरम् ।। ३५ ।।
तस्मात्कवित्वमासाद्य चक्रे काव्यं मनोरमम् ।।
रामायणं च यत्प्राहुः कथां सुप्रथमस्थिताम्।। ३६ ।।
ततः प्रभृति देवेशो वाल्मीकेश्वरसंज्ञकः ।।
ख्यातोऽवंत्यां ततो व्यास नृणां कवित्वदायकः ।। ३७ ।।
इति ते कथितं लिंगं वाल्मीकेश्वरमुत्तमम् ।।
यस्य दर्शनमात्रे ण कवित्वमुपपद्यते ।। ३८ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डेऽवंतीक्षेत्रमाहात्म्य वाल्मीकेश्वरमाहात्म्य वर्णनं नाम चतुर्विंशोऽध्यायः ।। २४ ।।छ ।।