स्कन्दपुराणम्/खण्डः ३ (ब्रह्मखण्डः)/सेतुखण्डः/अध्यायः ३९

विकिस्रोतः तः
Jump to navigation Jump to search

श्रीसूत उवाच ।। ।।
अथातः संप्रवक्ष्यामि कपितीर्थस्य वैभवम् ।।
तत्तीर्थं सकलैः पूर्वं गंधमादनपर्वते ।। १ ।।
सर्वेषामुपकाराय कपिभिर्निर्मितं द्विजाः ।।
रावणादिषु रक्षःसु हतेषु तदनंतरम् ।। २ ।।
तीर्थं निर्माय तत्रैव सस्नुस्ते कपयो मुदा ।।
तीर्थाय च वरं प्रादुः कपयः कामरूपिणः ।। ।। ३।।
अस्मिंस्तीर्थे निमग्ना ये भक्तिप्रवणचेतसः ।।
ते सर्वे मुक्तिभाजः स्युर्महापातकमोचिताः ।। ४ ।।
अत्र तीर्थे निमग्नानां न स्यान्नरकजं भयम् ।।
अत्र स्नाता नराः सर्वे दारिद्रयं नाप्नुवंति हि ।। ५ ।।
अत्र तीर्थे निमग्नानां यमपीडापि नो भवेत् ।।
कपितीर्थं प्रयास्येऽहमिति यः सततं ब्रुवन् ।। ६ ।।
व्रजेच्छतपदं विप्राः स यायात्परमं पदम् ।।
एतत्तीर्थसमं तीर्थं न भूतं न भविष्यति ।। ७ ।।
एवं वरं तु ते दत्त्वा तीर्थायास्मै कपीश्वराः ।।
रामं दाशरथिं सर्वे प्रणम्याथ ययाचिरे ।। ८ ।।
स्वामिंस्त्वयास्मै तीर्थाय दीयतां वरमद्भुतम्।।
कपिभिः प्रार्थितो विप्रा रामचंद्रोऽतिहर्षितः ।। ९।।
तत्तीर्थाय वरं प्रादात्कपीनां प्रीतिकारणात् ।।
अत्र तीर्थे निमग्नानां गंगास्नानफलं लभेत् ।। 3.1.39.१० ।।
प्रयागस्नानजं पुण्यं सर्वतीर्थफलं तथा ।।
अग्निष्टोमादियागानां फलं भूयादनुत्तमम् ।। ११ ।।
गायत्र्यादिमहामंत्रजपपुण्यं तथा भवेत् ।।
गोसहस्रप्रदनृणां प्राप्नोत्यविकलं फलम् ।। १२ ।।
चतुर्णामपि वेदानां पारायणफलं लभेत् ।।
ब्रह्मविष्णुमहेशादिदेवपूजाफलं लभेत् ।। १३ ।।
कपितीर्थाय रामोयं प्रादादेवं वरं द्विजाः ।।
एवं रामेण दत्ते तु वरे तत्र कुतूहलात् ।।१४।।
षडर्धनयनो ब्रह्मा सहस्राक्षो यमस्तथा ।।
वरुणोग्निस्तथा वायुः कुबेरश्चंद्रमा अपि ।।१५।।
आदित्यो निर्ऋतिश्चैव साध्याश्च वसवस्तथा ।।
अन्येऽपि त्रिदशाः सर्वे विश्वेदेवादयस्तथा ।। १६ ।।
अत्रिर्भृगुस्तथा कुत्सो गौतमश्च पराशरः ।।
कण्वोऽगस्त्यः सुतीक्ष्णश्च विश्वामित्रादयोऽपरे ।। १७ ।।
योगिनः सनकाद्याश्च नारदाद्याः सुरर्षयः ।।
रामदत्तवरं तीर्थं श्लाघंते बहुधा तदा ।। १८।।
सस्नुश्च तत्र तीर्थे ते सर्वाभीष्टप्रदायिनि ।।
कपिभिर्निर्मितं यस्मादेतत्तीर्थमनुत्तमम् ।। १९ ।।
कपितीर्थमिति ख्यातिमतो लोके प्रयास्यति।।
इत्यप्यवोचंस्ते सर्वे देवाश्च मुनयस्तथा ।। 3.1.39.२० ।।
तस्मादवश्यं गंतव्यं कपितीर्थं मुमुक्षुभिः ।।
रंभा कौशिकशापेन शिलाभूता पुरा द्विजाः ।। २१।।
तत्र स्नात्वा निजं रूपं प्रपेदे च दिवं ययौ ।।
अस्य तीर्थस्य माहात्म्यं मया वक्तुं न शक्यते ।। २२ ।।
।। मुनय ऊचुः ।। ।।
रंभां किमर्थमशपत्कौशिकः सूतनंदन ।।
कथं गता शिलाभूता कपितीर्थं सुरांगना ।।
एतन्नः सर्वमाचक्ष्व विस्तरान्मुनिसत्तम ।। २३ ।।
।। श्रीसूत उवाच ।। ।।
विश्वामित्राभिधो राजा प्रागभूत्कुशिकान्वये ।। २४ ।।
स कदाचिन्महाराजः सेनापरिवृतो बली ।।
मेदिनीं परिचक्राम राज्यवीक्षणकौतुकी ।। ।। २५ ।।
अटित्वा स बहून्देशान्वसिष्ठस्याश्रमं ययौ ।।
आतिथ्याय वृतः सोऽयं वसिष्ठेन महात्मना ।। २६ ।।
तथास्त्वित्यब्रवीत्सोयं दंडवत्प्रणतो नृपः ।।
कामधेनुप्रभावेन विश्वामित्राय भूभुजे ।। २७ ।।
आतिथ्यमकरोद्विप्रा वसिष्ठो ब्रह्मनंदनः ।।
कामधेनुप्रभावं वै ज्ञात्वा कुशिकनंदनः ।। ।। २८ ।।
वसिष्ठं प्रार्थयामास कामधेनुमभीष्टदाम् ।।
प्रत्याख्यातो वसिष्ठेन प्रचकर्ष च तां बलात् ।। २९ ।।
कामधेनुविसृष्टैस्तु म्लेच्छाद्यैः स पराजितः ।।
महादेवं समाराध्य तस्मादस्त्राण्यवाप्य च ।। 3.1.39.३० ।।
वसिष्ठस्याश्रमं गत्वा व्यसृजच्छरसंचयान् ।।
सर्वाण्यस्त्राणि मुमुचे ब्रह्मास्त्रं च नृपोत्तमः ।। ३१ ।।
तानि सर्वाणि चास्त्राणि वसिष्ठो ब्रह्मनंदनः ।।
एकेन ब्रह्मदंडेन निजघ्न स्वतपोबलात् ।। ३२ ।।
ततः पराजितो विप्रा विश्वामित्रोऽतिलज्जितः ।।
ब्राह्मण्यावाप्तये स्वस्य तपः कर्तुं वनं ययौ ।। ३३ ।।
पूर्वासु पश्चिमांतासु त्रिषु दिक्षु तपोऽचरत् ।।
प्रादुर्भूतमहा विघ्नस्तत्तद्दिक्षु स कौशिकः ।। ३४ ।।
उत्तरां दिशमासाद्य हिमवत्पर्वतेऽमले
कौशिक्यास्सरितस्तीरे पुण्ये पापविनाशिनि ।। ३५ ।।
दिव्यं वर्षसहस्रं तु निराहारो जितेंद्रियः ।।
निरालोको जितश्वासो जितक्रोधः सुनिश्चलः ।। ३६ ।।
ग्रीष्मे पंचाग्निमध्यस्थः शिशिरे वारिषु स्थितः ।।
वर्षास्वाकाशगो नित्यमूर्ध्वबाहुर्निराश्रयः ।। ३७ ।।
ब्राह्मण्यसिद्धयेऽत्युग्रं चचार सुमहत्तपः ।।
उद्विग्नमनसस्तस्य त्रिदशास्त्रिदिवालयाः ।।
जंभारिणा च सहिता रंभां प्रोचुरिदं वचः ।। ३९ ।।
।। देवा ऊचुः ।। ।।
रंभे त्वं हिमवच्छैले कौशिकीतीरगं मुनिम् ।। ३९ ।।
विश्वामित्रं तपस्यंतं विलोभय विचेष्टितैः ।।
यथा तत्तपसो विघ्नो भविष्यति तथा कुरु ।। 3.1.39.४० ।।
एवमुक्ता तदा रंभा देवैरिंद्रपुरोगमैः ।।
प्रत्युवाच सुरान्सर्वान्प्रांजलिः प्रणता तदा ।। ४१ ।।
।। रंभोवाच ।। ।।
अतिक्रूरो महाक्रोधो विश्वामित्रो महामुनिः ।।
स शप्स्यते मां क्रोधेन बिभेम्यस्मादहं सुराः ।। ४२ ।।
त्रायध्वं कृपया यूयं मां युष्मत्परिचारिकाम् ।।
इत्युक्तो रंभया तत्र जंभारिस्ताम भाषत ।। ४३ ।।
।। इन्द्र उवाच ।। ।।
रंभे त्वया न भीः कार्या विश्वामित्रात्तपोधनात् ।।
अहमप्यागमिष्यामि त्वत्सहायः समन्मथः ।। ४४ ।।
कोकिलालापमधुरो वसन्तोऽप्यागमिष्यति ।।
अतिसुंदररूपा त्वं प्रलोभय महामुनिम् ।। ४५ ।।
इतींद्रकथिता रंभा विश्वामित्राश्रमं ययौ ।।
तद्दृष्टिगोचरा स्थित्वा ललितं रूपमास्थिता ।। ४६ ।।
सा मुनिं लोभयामास मनोहरविचेष्टितः ।।
पिकोपि तस्मिन्समये चुकूजानंदयन्मनः ।। ४७ ।।
श्रुत्वा पिकस्वरं रंभां दृष्ट्वा च मुनिपुंगवः ।।
संशयाविष्टहृदयो विदित्वा शक्रकर्म तत् ।।
शशाप रंभां क्रोधेन विश्वामित्रस्तपोधनः ।। ४८ ।। ।।
।। विश्वामित्र उवाच ।। ।।
यस्मात्कोपयसे रंभे मां त्वं कोपजयैषिणम् ।। ४९ ।।
शिला भवात्र तस्मात्त्वं रंभे वर्षशतायुतम् ।।
तदंतरे ब्राह्मणेन रक्षिता मोक्षमाप्स्यसि ।। 3.1.39.५० ।।
विश्वामित्रस्य शापेन तदंते सा शिलाऽभवत् ।।
बहुकालं शिलाभूता तस्थौ तस्याश्रमे द्विजाः ।। ५१ ।।
विश्वामित्रोपि धर्मात्मा पुनस्तप्त्वा महत्तपः ।।
लेभे वसिष्ठवाक्येन ब्राह्मण्यं दुर्लभं नृपैः ।। ५२ ।।
बहुकालं शिलाभूता रंभाप्यासीत्तदाश्रमे ।।
तस्मिन्नेवाश्रमे पुण्ये शिष्योऽगस्त्यस्य संमतः ।। ५३ ।।
श्वेतोनाम मुनिश्चक्रे मुमुक्षुः परमं तपः ।।
चिरकालं तपस्तस्मिन्प्रकुर्वति महामुनौ ।।५४।।
अंगारकेति विख्याता राक्षसी काचिदागता ।।
तस्याश्रममतिक्रूरा मेघस्वनमहास्वना ।। ५५ ।।
मूत्ररक्तपुरीषाद्यैर्दूषयामास भीषणा ।।
उपद्रवैस्तथा चान्यैर्बाधयामास तं मुनिम् ।। ५६ ।।
अथ क्रुद्धो मुनिः श्वेतो वायव्यास्त्रेण योजयन् ।।
शप्तां कुशिकपुत्रेण राक्षस्यै प्राक्षिपच्छिलाम् ।। ५७ ।।
राक्षसी सा प्रदुद्राव वायव्यास्त्रेण योजिता ।।
वायव्यास्त्रप्रयुक्तेन दृषदानुद्रुता च सा ।। ५८ ।।
दक्षिणांबुनिधेस्तीरं धावति स्म भयार्दिता ।।
धावन्तीमनुधावन्ती सा शिलास्त्रप्रयोजिता ।। ५९ ।।
पपातोपरि राक्षस्या मज्जंत्याः कपितीर्थके ।।
मृता सा राक्षसी तत्र शिलापातात्स्वमूर्द्धनि ।। ।। 3.1.39.६० ।।
विश्वामित्रेण शप्ता सा कपितीर्थे निमज्जनात् ।।
शिलारूपं परित्यज्य रंभारूपमुपेयुषी ।। ६१ ।।
देवैः कुसुमधाराभिरभिवृष्टा मनोरमा ।।
दिव्यं विमानमारूढा दिव्यांबरविराजिता ।। ६२ ।।
हारकेयूरकटकनासाभरणभूषिता ।।
उर्वश्याद्यप्सरोभिश्च सखिभिः परिवारिता ।।६३।।
कपितीर्थस्य माहात्म्यं प्रशंसन्ती पुनःपुनः ।।
निषेव्य रामनाथं च शंकरं शशिभूषणम् ।। ६४ ।।
आखण्डलपुरीं रम्यां प्रययावमरावतीम् ।।
राक्षसी सापि शापेन कुम्भजस्य महौजसः ।। ६५ ।।
घृताची देववेश्या हि राक्षसीरूपमागता ।।
साप्यत्र कपितीर्थाप्सु स्नानात्स्वं रूपमाययौ ।। ६६ ।।
एवं रंभाघृताच्यौ ते कपितीर्थे निमज्जनात् ।।
अगस्त्यशिष्यश्वेतस्य प्रसादाद्द्विजसत्तमाः ।। ६७ ।।
राक्षसीत्वं शिलात्वं च हित्वा स्वं रूपमागते ।।
तस्मात्सर्वप्रयत्नेन स्नातव्यं कपितीर्थके ।। ६८ ।।
यः शृणोतीममध्यायं पठते वापि मानवः ।।
प्राप्नोति कपितीर्थस्य स्नानजं फलमुत्तमम् ।। ६९ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये कपितीर्थप्रशंसायां रंभाघृताचीशापविमोक्षणवर्णनं नामैकोनचत्वारिंशोऽध्यायः ।।३९।।


[सम्पाद्यताम्]

टिप्पणी

३.१.३९.५५ अंगारकेति विख्याता राक्षसी काचिदागता । तस्याश्रममतिक्रूरा मेघस्वनमहास्वना ।। ५५ ।।

अङ्गारका उपरि टिप्पणी