स्कन्दपुराणम्/खण्डः ३ (ब्रह्मखण्डः)/सेतुखण्डः/अध्यायः ३६

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

।। श्रीसूत उवाच ।। ।।
धनुष्कोटेस्तु माहात्म्यं भूयोऽपि प्रब्रवीम्यहम् ।।
दुराचाराभिधो यत्र स्नात्वा मुक्तो भवद्द्विजाः।। ।। १ ।।
।। मुनय ऊचुः ।। ।।
दुराचाराभिधः कोऽसौ सूत तत्त्वार्थकोविद ।।
किंच पापं कृतं तेन दुराचारेण वै मुने ।। २ ।।
कथं वा पातका न्मुक्तो धनुष्कोटौ निमज्जनात् ।।
एतच्छुश्रूषमाणानां विस्तराद्वद नो मुने ।। ३ ।।
।। श्रीसूत उवाच ।। ।।
मुनयः श्रूयतां तस्य दुराचारस्य पातकम् ।।
स्नानेन धनुषः कोटौ यथा मुक्तश्च पातकात् ।। ४ ।।
दुराचाराभिधो विप्रो गौतमीतीरमाश्रितः ।।
कश्चिदस्ति द्विजाः पापी क्रूरकर्मरतः सदा ।। ५ ।।
ब्रह्मघ्नैश्च सुरापैश्च स्तेयिभिर्गुरुतल्पगैः ।।
तदा संसर्गदुष्टोऽसौ तैः साकं न्यवसद्विजाः ।।६।।
महापातकिसंसर्गं दोषेणास्य द्विजस्य वै ।।
ब्राह्मण्यं सकलं नष्टं निःशेषेण द्विजोत्तमाः ।। ७ ।।
महापातकिभिः सार्द्धं दिनमेकं तु यो द्विजः ।।
निवसेत्सादरं तस्य तत्क्षणाद्वै द्विजन्मनः ।। । ८ ।।
ब्राह्मणस्य तुरीयांशो नश्यत्येव न संशयः ।।
द्विदिनं सेवनात्स्पर्शाद्दर्शनाच्छयनात्तथा ।। ९ ।।
भोजनात्सह पंक्तौ च महापातकिभिर्द्विजाः ।।
द्वितीयभागो नश्येत ब्राह्मणस्य न संशयः ।। 3.1.36.१० ।।
त्रिदिनाच्च तृतीयांशो नश्यत्येव न संशयः ।।
चतुर्दिनाच्चतुर्थांशो विलयं याति हि ध्रुवम् ।। ११ ।।
अतः परं तु तैः साकं शयनासनभोजनैः ।।
तत्तुल्यपातकी भूयान्महापातकसंभवात् ।। १२ ।।
तेन ब्राह्मण्यहीनोऽयं दुराचाराभिधो द्विजाः ।।
ग्रस्तोऽभवद्भीषणेन वेतालेन बलीयसा ।।१३।।
असौ परवशस्तेन वेतालेनातिपीडितः ।।
देशाद्देशं भ्रमन्विप्रा वनाच्चैव वनांतरम् ।।१४।।
पूर्वपुण्यविपाकेन दैवयोगेन स द्विजः ।।
रामचंद्रधनुष्कोटिं महापातकनाशनीम् ।। १५ ।।
अनुद्रुतः पिशाचेन तेनाविष्टो ययौ द्विजाः ।।
न्यमज्जयत्स वेतालो धनुष्कोटिजले त्वमुम् ।। १६ ।।
धनुष्कोटिजले सोऽयं वेतालेन प्रवेशितः ।।
उदतिष्ठत्क्षणादेव वेतालेन विमोचितः ।। १७ ।।
उत्थितोऽसौ द्विजो विप्रा धनुष्कोटिजलात्तदा ।।
स्वस्थो व्यचिंतयत्कोऽयं देशो जलधितीरतः ।। १८ ।।
कथं मयागतमिह गौतमीतीरवासिना ।।
इति चिंताकुलः सोऽयं धनुष्कोटिनिवासिनम् ।। १९ ।।
दत्तात्रेयं महात्मानं योगिप्रवरमुत्तमम् ।।
समागम्य प्रणम्यासौ दुराचारोऽभ्यभाषत ।। 3.1.36.२० ।।
न जाने भगवन्देशः कतमोऽयं वदाधुना ।।
गौतमीतीरनिलयो दुराचाराभिधो ह्यहम् ।। २१ ।।
कृपया ब्रूहि मे ब्रह्मन्मयात्र कथमागतम्।।
इति पृष्टो मुनिस्तेन दुराचारेण सुव्रतः ।। २२ ।।
ध्यात्वा मुहूर्तमवदद्दुराचारं घृणानिधिः ।।
महापातकिसंसर्गे दुराचार कृते पुरा ।। २३ ।।
ब्राह्मण्यं नष्टमभवद्वेतालस्त्वां ततोऽग्रहीत् ।।
तेनाविष्टस्त्वमायातो विवशोऽत्र विमूढधीः ।। २४ ।।
न्यमज्जयत्त्वां वेतालो धनुष्कोटिजलेऽत्र तु ।।
तत्र मज्जनमात्रेण विमुक्तः पातकाद्भवान् ।। २५ ।।
धनुष्कोटौ तु ये स्नानं पुण्ये कुर्वंति मानवाः ।।
तेषां नश्यंति वै सत्यं पंचपातकसंचयाः ।। २६ ।।
रामचंद्रधनुष्कोटावत्र मज्जनमात्रतः ।।
महापातकिसंसर्गदोषस्ते विलयं ययौ ।। २७ ।।
तन्नाशादेव वेतालस्त्वां मुक्त्वा विलयं गतः ।।
त्वामग्रहीद्यो वेतालः पुरायं ब्राह्मणोऽभवत् ।। २८ ।।
सोऽयं भाद्रपदे मासे कृष्णपक्षे महालयम् ।।
पार्वणेन विधानेन पितॄणां नाकरोन्मुदा ।। २९ ।।
तेन स्वपितृभिः शप्तो वेतालत्वमगादयम् ।।
सोपि चास्य धनुष्कोटेरवलोकनमात्रतः ।। 3.1.36.३० ।।
वेतालत्वं विहायेह विष्णुलोकम वाप्तवान् ।।
अतो भाद्रपदे मासे कृष्णपक्षे महालयम् ।। ३१ ।।
उद्दिश्य स्वपितॄन्ये तु न कुर्वन्त्यतिलोभतः ।।
महालोभयुतास्तेऽद्धा वेतालाः स्युर्न संशयः ।। ३२ ।।
तस्माद्भाद्रपदे मासे कृष्णपक्षे महालयम् ।।
पितॄनुद्दिश्य शक्त्या ये ब्राह्मणान्वेदपारगान् ।। ३३ ।।
भोजयेयुर्महान्नेन न ते विंदंति दुर्गतिम् ।।
यस्तु भाद्रपदे मासे कृष्णपक्षे महालयम् ।। ३४ ।।
स्वशक्त्यनुगुणं विप्रमेकं द्वौ त्रीनकिंचनः ।।
भोजयेन्नहि दौर्गत्यं भवेदस्य कदाचन ।। ३५ ।।
अयं भाद्रपदे मासे पितॄणामनुपासनात् ।।
ययौ वेतालतां विप्रो यस्त्वां जग्राह पापिनम् ।। ३६ ।।
कालो भाद्रपदमासमारभ्य वृश्चिकावधि ।।
महालयस्य कथितो मुनिभिस्तत्त्वदर्शिभिः ।। ३७ ।।
मासो भाद्रपदः कालस्तत्रापि हि विशिष्यते ।।
कृष्ण पक्षो विशिष्टः स्याद्दुराचारक तत्र वै ।। ३८ ।।
तस्मिञ्छुभे कृष्णपक्षे प्रथमायां तथा तिथौ ।।
श्राद्धं महालयं कुर्याद्यो नरो भक्तिपूर्वकम्।। ३९ ।।
तस्य प्रीणाति भगवान्पावकः सर्वपावनः ।।
स वह्निलोकमाप्नोति वह्निना सह मोदते ।। 3.1.36.४० ।।
तस्मै च ज्वलनो देवः सर्वैश्वर्यं ददात्यपि ।।
प्रथमायां तिथौ मर्त्यो यो न कुर्यान्महालयम्।। ४१ ।।
वह्निर्गृहं दहेत्तस्य श्रियं क्षेत्रादिकं तथा ।।
वेदज्ञे ब्राह्मणे भुक्ते प्रथमायां महालये ।। ४२ ।।
दश कल्पसहस्राणि पितरो यांति तृप्तताम् ।।
द्वितीयायां तु यो भक्त्या कुर्याच्छ्राद्धं महालयम् ।। ४३ ।।
तस्य प्रीणाति भगवान्भवानीपतिरीश्वरः ।।
स कैलासमवाप्नोति शिवेन सह मोदते।। ४४ ।।
विपुलां संपदं तस्मै प्रीतो दद्यान्महेश्वरः ।।
द्वितीयायां तिथौ मर्त्यो यो न कुर्यान्महालयम् ।। ४५ ।।
तस्य वै कुपितः शंभुर्नाशयेद्ब्रह्मवर्चसम् ।।
रौरवं कालसूत्राख्यं नरकं चास्य दास्यति ।। ४६।।
वेदज्ञे ब्राह्मणे भुक्ते द्वितीयायां महालये ।।
विंशत्कल्प सहस्राणि पितरो यांति तृप्तताम्।। ४७ ।।
अनुग्रहात्पितॄणां च संततिश्चास्य वर्द्धते ।।
तृतीयायां नरो भक्त्या कुर्याच्छ्राद्धं महालयम् ।। ४८ ।।
तस्य प्रीणाति भगवाँल्लोकपालो धनाधिपः ।।
महापद्मादिनिधयो वर्तंते तस्य वै वशे ।। ४९ ।।
तस्यानुगास्त्रयो देवा ब्रह्मविष्णुमहेश्वराः ।।
तृतीयायां तिथौ मर्त्यो यो न कुर्यान्महालयम् ।। 3.1.36.५० ।।
धनदो भगवांस्तस्य संपदं हरति क्षणात् ।।
दारिद्यं च ददात्यस्मै बहुदुःखसमाकुलम् ।। ।। ५१ ।।
तृतीयायां तिथौ मर्त्यो यः करोति महालयम् ।।
तृप्यंति पितरस्तस्य त्रिंशत्कल्पसहस्रकम् ।। ५२ ।।
चतुर्थ्यां तु नरो भक्त्या श्राद्धं कुर्यान्महालयम् ।।
तस्य प्रीणाति भगवान्हेरंबः पार्वतीसुतः ।। ५३ ।।
तस्य विघ्नाश्च नश्यंति गजवक्त्रप्रसादतः ।।
चतुर्थ्यां तु तिथौ मर्त्यो यो न कुर्यान्महालयम् ।। ५४ ।।
विघ्नेशो भगवांस्तस्य सदा विघ्नं करोति हि ।।
चण्डकोलाहलाभिख्ये नरके च पतत्यथ ।। ५५ ।।
चतुर्थ्यां वै तिथौ मर्त्यो यः करोति महालयम् ।।
पितरः कल्पसाहस्रं चत्वारिंशत्प्रहर्षिताः ।। ५६ ।।
बहून्पुत्रान्प्रदास्यंति श्राद्धकर्तुर्निरंतरम् ।।
पंचम्यां तु तिथौ भक्त्या यो न कुर्यान्महालयम् ।। ५७ ।।
तस्य लक्ष्मीर्भगवती परित्यजति मंदिरम् ।।
अलक्ष्मीः कलहाधारा तस्य प्रादुर्भवेद्गृहे ।। ५८ ।।
पचम्यां तु तिथौ मर्त्यो यः करोति महालयम् ।।
तस्य तृप्यंति पितरः पंचकल्पसहस्रके ।। ५९ ।।
संततिं चाप्यविच्छिन्नामस्मै दास्यंति तर्पिताः ।।
पार्वती च प्रसन्ना स्यान्महदैश्वर्यदायिनी ।। 3.1.36.६० ।।
षष्ठ्यां तिथौ नरो भक्त्या श्राद्धं कुर्यान्महालयम् ।।
तस्य प्रीणाति भगवान्षण्मुखः पार्वती सुतः ।। ६१ ।।
तस्य पुत्राश्च पौत्राश्च षण्मुखस्य प्रसादतः ।।
ग्रहैर्वालग्रहैश्चैव न बाध्यंते कदाचन ।। ६२ ।।
षष्ठ्यां तिथौ नरो भक्त्या यो न कुर्यान्महालयम् ।।
तस्य स्कन्दो महासेनो विमुखः स्यान्न संशयः ।। ६३ ।।
गर्भान्निर्गतमात्रैव प्रजा तस्य विनश्यति ।।
पूतनादिग्रहकुलैर्बाध्यते च निरंतरम् ।। ६४ ।।
वह्निज्वालाप्रवेशाख्ये नरके च पतत्यधः ।।
षष्ठ्यां तिथौ यः श्रद्धावान्कुर्याच्छ्राद्धं महालयम् ।। ६५ ।।
षष्टिकल्पसहस्रं तु पितरो यामति तृप्तताम् ।।
पुत्रानपि प्रदास्यंति संपदं विपुलां तथा ।। ६६ ।।
सप्तम्यां तु तिथौ मर्त्यः श्राद्धं कुर्यान्महालयम् ।।
हिरण्यपाणिर्भगवानादित्यस्तस्य तुष्यति ।। ६७ ।।
अरोगो दृढगात्रः स्याद्भास्करस्य प्रसादतः ।।
हिरण्यपाणिर्भगवान्हिरण्यं पाणिना स्वयम् ।। ६८ ।।
महालयश्राद्धकर्त्रे ददाति प्रीतमानसः ।।
सप्तम्यां तु तिथौ भक्त्या यो न कुर्यान्महालयम् ।। ६९ ।।
व्याधिभिः क्षयरोगाद्यै बाध्यते स दिवानिशम् ।।
तीक्ष्णधारास्त्रशय्याख्ये नरके च पतत्यधः ।। 3.1.36.७० ।।
सप्तम्यां यो नरो भक्त्या श्राद्धं कुर्यान्महालयम् ।।
सप्ततिं कल्पसाहस्रं प्रीणंति पितरोऽस्य वै ।। ७१ ।।
संततिं चाप्यविच्छिन्नां दद्युः पितृगणाः सदा ।।
अष्टम्यां तु तिथौ मर्त्यः श्राद्धं कुर्यान्महाल यम् ।। ७२ ।।
मृत्युंजयः कृत्तिवासास्तस्य प्रीणाति शंकरः ।।
करस्थं तस्य कैवल्यं शंकरस्य प्रसादतः ।। ७३ ।।
महालयेन श्राद्धेन तुष्टे साक्षात्त्रि यंबके ।।
चतुर्दशसु लोकेषु दुर्लभं तस्य किं भवेत् ।। ७४ ।।
महालयं न कुर्याद्वै योऽष्टम्यां मूढचेतनः ।।
संसारसागरे घोरे सदा मज्जति दुःखितः ।। ७५ ।।
कदाचिदपि तस्येष्टं नैव सिद्ध्यति भूतले ।।
वैतरिण्याख्यनरके पतत्याचंद्रतारकम् ।। ७६ ।।
योऽष्टम्यां श्रद्धया श्राद्धं नरः कुर्यान्महालयम् ।।
अशीतिकल्पसाहस्रं तृप्यंति पितरोऽस्य वै ।। ७७ ।।
आशीर्भिर्वर्द्धयंत्येनं विघ्नश्चास्य व्यपोहति ।।
संततिं चाप्यविच्छिन्नां दद्युः पितृगणाः सदा ।। ७८ ।।
नवम्यां तु तिथौ मर्त्यः श्राद्धं कुर्यान्महालयम् ।।
दुर्गादेवी भगवती तस्य प्रीणाति शांभवी ।। ७९ ।।
क्षयापस्मारकुष्ठा दीन्क्षुद्रप्रेतपिशाचकान् ।।
नाशयेत्तस्य सन्तुष्टा दुर्गा महिषमर्दिनी ।।3.1.36.८० ।।
नवम्यां तु तिथौ मर्त्यो यो न कुर्यान्महालयम् ।।
अपस्मारेण पीड्येत तथैव ब्रह्मरक्षसा ।। ८१ ।।
अभिचारार्थकृत्याभिर्वाध्येत च निरन्तरम् ।।
नवम्यां यस्तिथौ मर्त्यः श्राद्धं कुर्यान्महालयम्।। ८२ ।।
नवतिं कल्पसाहस्रं तृप्यन्ति पितरोऽस्य वै ।।
संततिं चाप्यविच्छिन्नां दद्युः पितृगणाः सदा ।। ८३ ।।
दशम्यां तु तिथौ मर्त्यः श्राद्धं कुर्यान्महालयम् ।।
तस्यामृतकलश्चन्द्रः षोडशात्मा प्रसीदति ।। ८४ ।।
औषधीनामधीशेऽस्मिञ्छ्राद्धेनानेन तोषिते ।।
व्रीह्यादीनि तु धान्यानि दद्युरोषधयः सदा।। ।। ८५ ।।
यो न कुर्याद्दशम्यां तु महालयमनुत्तमम् ।।
ओषध्यो निष्फलास्तस्य कृषिश्चाप्यस्य निष्फला ।। ८६ ।।
दशम्यां यस्तिथौ मर्त्यः श्राद्धंकुर्यान्महालयम् ।।
शतकल्पसहस्राणि तृप्यंति पितरोऽस्य वै ।। ८७ ।।
संततिं चाप्यविच्छिन्नां दद्युः पितृगणाः सदा ।।
एकादश्यां नरो भक्त्या श्राद्धं कुर्यान्महालयम् ।। ८८ ।।
संहर्ता सर्वलोकस्य तस्य रुद्रः प्रसीदति ।।
रुद्रस्य सर्वसंहर्तुः प्रसादेन जगत्पतेः ।। ८९ ।।
शत्रून्पराजय त्येष श्राद्धकर्ता निरन्तरम् ।।
ब्रह्महत्यायुतं चापि तस्य नश्यति तत्क्षणात् ।। 3.1.36.९० ।।
अग्निष्टोमादियज्ञानां फलमाप्नोति पुष्कलम् ।।
एकादश्यां नरो भक्त्या यो न कुर्यान्महालयम् ।। ९१ ।।
तस्य वै विमुखो रुद्रो न प्रसीदति कर्हिचित् ।।
सर्वतो वर्धमानाश्च बाधन्ते शत्रवो ह्यमुम् ।। ९२ ।।
अग्निष्टोमादिका यज्ञाः कृताश्च बहुदक्षिणाः ।।
निष्फला एव तस्य स्युर्भस्मनि न्यस्तहव्यवत् ।। ९३ ।।
ब्रह्मवातकतुल्यः स्याच्छ्राद्धाकरणदोषतः ।।
एकादश्यां तिथौ यस्तु श्राद्धं कुर्यान्महालयम् ।। ९४ ।।
द्विशतं कल्पसाहस्रं तृप्यंति पितरोऽस्य वै ।।
संततिं चाप्यविच्छिन्नां दद्युः पितृ गणाः सदा ।। ९५ ।।
द्वादश्यां तु तिथौ मर्त्यः कुर्याच्छ्राद्धं महालयम् ।
तस्य लक्ष्मीपतिः साक्षात्प्रसीदति जनार्दनः ।। ९६ ।।
प्रसन्ने सति देवेशे देवदेवे जनार्दने ।।
चराचरं जगत्सर्वं प्रीतमेव न संशयः ।। ९७ ।।
भूमिर्हरिप्रिया चास्य सस्यं संवर्द्धयत्यपि ।।
लक्ष्मीश्च वर्द्धते तस्य मंदिरे हरिवल्लभा ।। ९८ ।।
गदा कौमोदकी नाम नारायणकरस्थिता ।।
अपस्मारादिभूतानि नाशयत्येव सर्वदा ।। ९९ ।।
तीक्ष्णधारं तथा चक्रं शत्रूनस्य दहत्यपि ।।
यातुधानपिशाचादीञ्छंखश्चास्य व्यपोहति ।।3.1.36.१००।।
एवं सर्वात्मना पीडां वारयत्यस्य केशवः ।।
महालयं न कुर्याद्यो द्वादश्यां मनुजा धम ।। १ ।।
तस्य क्षेत्राणि संपच्च विनश्यंति न संशयः ।।
अपस्मारादिभूतानि शत्रवश्च महाबलाः ।।२।।
यातुधानाश्च बाधन्ते तं वै विष्णुपराङ्मुखम्।।
पात्यते नरके चापि अस्थिभेदननामके।।३।।
द्वादश्यां भक्तियुक्तो यः श्राद्धं कुर्यान्महालयम् ।।
षट्शतं कल्पसाहस्रं प्रीणंति पितरोऽस्य वै ।।४।।
संततिं चाप्यविच्छिन्नां पितरोऽस्मै ददत्यपि।।
त्रयोदश्यां नरो भक्त्या श्राद्धं कुर्यान्महालयम्।।५।।
प्रसीदत्यस्य भगवान्कंदर्पो रतिनायकः ।।
स्रग्चंदनादयो भोगा ललनाश्च मनोरमाः ।।६।।
कामदेवप्रसादेन तस्य सिद्ध्यंति सर्वदा।।
आजन्ममरणांतं च सुखमेव स विंदते ।।७।।
यो न कुर्यात्त्रयोदश्यां न च श्राद्धं महालयम् ।।
कामदेवोऽस्य विमुखः स्त्रियो भोगांश्च नाशयेत् ।। ८ ।।
अंगारशय्याभ्रमणे नरके पातयत्यमुम् ।।
पितॄनुद्दिश्य यः कुर्यात्त्र योदश्यां महालयम् ।। ९ ।।
सहस्रकल्पसाहस्रं प्रीणंति पितरोऽस्य वै ।।
संततिं चाप्यविच्छिन्नां दद्युः पितॄगणास्तदा ।। 3.1.36.११० ।।
चतुर्दश्यां नरो भक्त्या श्राद्धं कुर्यान्महालयम् ।।
तस्याभीष्टप्रदानाय जागर्ति भगवाच्छिवः ।। ११ ।।
उपदिश्य शिवज्ञानं सायुज्यं च ददात्यपि ।।
सुरापानायुतं चापि स्वर्णस्तेयायुतं तथा ।। १२ ।।
नश्यंति तत्क्षणादेव चतुर्दश्यां महालयात् ।।
चण्डालवृषलस्त्रीणां संगदोषोऽपि नश्यति ।। १३ ।।
अश्वमेधसहस्रस्य पौंडरीकायुतस्य च ।।
पुष्कला फलसिद्धिः स्याच्चतुर्दश्यां महालयात् ।। १४ ।।
यो न कुर्याच्चतुर्दश्यां श्राद्धमेतन्महालयम् ।।
स कल्पकोटिसाहस्रं कल्पकोटिशतं तथा ।। १५ ।।
संसारांधमहाकूपे पतितः स्यादनिष्कृतिः ।।
अचोरयित्वा कनकमपीत्वापि सुरां तथा ।। १६ ।।
सुरापानादिभिर्दोषैर्लिप्यते स विमूढधीः ।।
कृता अपि विधानेन यज्ञाः स्युर्निष्फलास्तथा ।। १७ ।।
चतुर्दश्यां तिथौ यस्तु कुर्याच्छ्राद्धं महालयम् ।।
लक्षकोटिसहस्राणि लक्षकोटिशतानिच ।।१८।।
कल्पानि पितरस्तस्य तृप्यंत्येव न संशयः ।।
नरकस्थाश्च पितरः स्वर्गं यांति प्रहर्षिताः ।। १९ ।।
संततिं चाप्यविच्छिन्नां दद्युः पितृगणास्तदा ।।
अमायां तु नरो भक्त्या श्राद्धं कुर्यान्महालयम् ।। 3.1.36.१२० ।।
पितॄणां तस्य तृप्तिः स्याद नंता नात्र संशयः ।।
सुधामास्वाद्य या तृप्तिर्देवानांदिवि वै भवेत् ।। २१ ।।
अनंता तादृशी तृप्तिरमावास्यां महालयात् ।।
अमावास्या महापुण्या पितृदेवनमस्कृता ।। २२ ।।
शांता ह्येषा तु परमा शिवस्य च महाप्रिया ।।
तस्यां महालये श्राद्धे भोजयेद्वेदवित्तमान् ।। २३ ।।
तेन तृप्तिः पितॄणां स्यादनंता तुष्यते शिवः ।।
ब्रह्महत्यादयः पंच पातका नाशमाप्नुयुः ।। २४ ।।
कृताश्च स्युर्विधानेन सर्वे यज्ञाः सदक्षिणाः ।।
अनुष्ठिताः स्युर्विधिवत्सर्वे धर्माः सनातनाः ।। २५ ।।
अमावास्यादिने येन कृतं श्राद्धं महालयम् ।।
प्रत्यग्ब्रह्मैकतां ज्ञात्वा सायुज्यं यात्यसंशयम्।। ।। २६ ।।
यो न कुर्यादमावास्यां महालयमचेतनः ।।
ब्रह्मलोकगताश्चास्य पितरो यांति नारकम् ।। २७ ।।
संततिश्चास्य मूढस्य विच्छि द्येतैव तत्क्षणात् ।।
स एव हि महानर्थो यदमायां तिथौ नरैः ।। २८ ।।
महालयार्थो विप्रेंद्रा विधिवन्नैव भोजिताः ।।
मासि भाद्रपदे प्राप्ते नृत्यंति पितृदेवताः ।। २९ ।।
अस्मानुद्दिश्य मत्पुत्रा भोजयेयुर्द्विजोत्तमान् ।।
तेन नो नरकक्लेशो न भविष्यति दारुणः ।। 3.1.36.१३० ।।
वासश्च स्वर्गलोके स्याद्यावदाचन्द्रतारकम् ।।
मासि भाद्रपदे प्राप्ते पितॄणां तृदिदायिनी ।। ३१ ।।
एकैकं भोजयेद्विप्रं प्रत्यहं भक्तिपूर्वकम् ।।
पितृमातृकुलोद्भूताः पितरस्तृप्तिमाप्नुयुः ।। ३२ ।।
कृष्णपक्षे विशेषेण ब्राह्मणान्भोजयेत्सुधीः ।।
घृतसूपादिसस्यैश्च तैलाभ्यंगपुरःसरम् ।। ३३ ।।
सुधां पास्यंति पितरस्तस्याकल्पं प्रहर्षिताः ।।
सप्तमीं कृष्णपक्षस्य प्रारभ्य प्रत्यहं नराः ।। ३४ ।।
विप्रान्यावदमावास्या त्रींस्त्रीनभ्यर्च्य भोजयेत् ।।
आरभ्य द्वादशीं विप्रांस्त्रीनवश्यं तु भोजयेत् ।। ३५ ।।
अन्यथैश्वर्यहानिः स्यान्महादारिद्र्यभाग्भवेत् ।।
वित्तलोभं परित्यज्य विप्रान्सूपघृतादि भिः ।। ३६ ।।
पयसा पायसान्नेन दध्नापूपादिभिस्तथा ।।
पेयैर्लेह्यैश्च चोष्यैश्च भक्ष्यैश्च विविधैरपि ।। ३७ ।।
भोजयेद्वेदविन्मुख्यांस्तृप्तिस्तेषां यथा भवेत् ।।
तेन ब्रह्मा हरिः शंभुस्तृप्ताः स्युर्नात्र संशयः।।३८।।
अग्निष्वात्तादिपितरस्तथैवेंद्रादिदेवताः ।।
बहुनात्र किमुक्तेन तुष्टं तेन जगत्त्रयम् ।।३९।।
पार्वणेन विधानेन कुर्याच्छ्राद्धे महालयम्।।
नरो महालयश्राद्धे पितृवंश्यान्पितॄनिव ।।3.1.36.१४०।।
मातृवंश्यानपि पितॄन्भोजयेच्छ्रेयसे मुदा ।।
दक्षिणां च यथाशक्ति दद्याद्वित्तानुसारतः ।। ४१ ।।
तस्मिन्महालये श्राद्धे वित्तशाठ्यं न कारयेत् ।।
दक्षिणा खलु यज्ञानां कथितेयं पुरोगवा ।। ४२।।
अनः पुरोगवैर्हीनं करिष्यति यथाध्वनि ।।
अदक्षिणं तथा सोयं पितृयज्ञोऽपि रिष्यति।।४३।।
तस्माद्यज्ञेषु दातव्या दक्षिणाल्पा हि जानता।।
विधवाभिरपि स्त्रीभिरपुत्राभिर्महालयः ।। ४४ ।।
भर्त्तॄनुद्दिश्य कर्तव्यो भूरिभोजनकर्मणा ।।
अन्यथा धर्महानिः स्यान्नरकं च महद्भवेत् ।। ४५ ।।
मासि भाद्रपदे प्राप्ते यो न कुर्यान्महालयम् ।।
तत्कुलं नाशमाप्नोति ब्रह्महत्यां च विंदति ।। ४६ ।।
महालयं प्रकुर्वंति श्रद्धावंतः पितॄन्प्रति ।।
न तेषां संततिच्छेदो भवेत्संपदभंगुरा ।। ४७ ।।
आलयं ह्यास्पदं प्रोक्तं महः कल्याणमुच्यते ।।
कल्याणानामास्पदत्वान्महालयमुदीर्यते ।। ४८ ।।
तस्मान्महालयं मर्त्यः कुर्यात्कल्याणसिद्धये ।।
अमंगलं भवेत्तस्य न कुर्याच्चेन्महालयम् ।। ४९ ।।
नकुर्याद्यद्यपि श्राद्धं मातापित्रोर्मृतेऽहनि ।।
कुर्यान्महालयश्राद्धमस्मरन्नेव बुद्धिमान् ।।3.1.36.१५०।।
कर्तुं महालयश्राद्धं यदि शक्तिर्न विद्यते ।।
याचित्वापि नरः कुर्यात्पितृणां तन्महालयम् ।।५१।।
ब्राह्मणेभ्यो विशिष्टे भ्यो याचेत धनधान्यकम् ।।
पतितेभ्यो न गृह्णीयाद्धनधान्यं कदाचन ।।५२।।
ब्राह्मणेभ्यो न लभ्येत यदि धान्यधनादिकम् ।।
याचेत क्षत्रियश्रेष्ठा न्महालयचिकीर्षया ।। ५३ ।।
दातारश्चेन्न भूपाला वैश्येभ्योऽपि च याचयेत् ।।
वैश्या अपि हि दातारो यदि लोके न संति वै ।। ५४ ।।
दद्याद्भाद्रपदे मासे गोग्रासं पितृतृप्तये ।।
अथ वा रोदनं कुर्याद्बहिर्निर्गत्य कानने ।। ५५ ।।
पाणिभ्यामुदरं स्वीयमाहत्याश्रूणि वर्तयन् ।।
तेष्वरण्यप्रदेशेषु उच्चैरेवं वदेन्नरः ।। ५६ ।।
शृण्वंतु पितरः सर्वे मत्कुलीना वचो मम ।।
अहं दरिद्रः कृपणो निर्ल्लज्जः क्रूरकर्मकृत् ।। ५७ ।।
प्राप्तो भाद्रपदो मासः पितृणां प्रीतिवर्द्धनः ।।
कर्त्तुं महालयश्राद्धं न च मे शक्तिरस्ति वै ।। ५८ ।।
भ्रमित्वापि महीं कृत्स्नां न मे किंचन लभ्यते ।।
अतो महालयश्राद्धं न युष्माकं करोम्यहम् ।। ५९ ।।
क्षमध्वं मम तद्यूयं भवंतो हि दयापराः ।।
दरिद्रो रोदनं कुर्यादेवं काननभूमिषु ।। 3.1.36.१६० ।।
तस्य रोदनमाकर्ण्य पितरस्तत्कुलोद्भवाः ।।
हृष्टास्तृप्तिं प्रयांत्येव सुधां पीत्वैव निर्जराः ।। ६१ ।।
महालयार्थे विप्रौघे भुक्ते तृप्तिर्यथा भवेत् ।।
गोग्रासारण्यरुदितैः पितृ तृप्तिस्तथा भवेत्।। ६२ ।।
मासि भाद्रपदे विघ्नो यदि स्यात्सूतकादिना ।।
यातेषु सूतकाहःसु कुर्यादावृश्चिकावधि ।। ६३ ।।
बुधो महालय स्यार्थे ब्राह्मणान्वृणुयान्नव ।।
पित्रर्थमेकं वृणुयात्पितामहकृते तथा ।। ६४ ।।
प्रपितामहमुद्दिश्य तथैकं वृणुयाद्द्विजः ।।
तथा मातामहार्थं तु एकं वै वृणुयाद्द्विजम् ।। ६५ ।।
मातुःपितामहार्थं च वृणुयाद्द्विजमेककम् ।।
वृणुयादेकमुद्दिश्य मातुश्च प्रपितामहम् ।। ६६ ।।
तथैव विश्वेदेवार्थे वृणुयाद्द्वौद्वि जोत्तमौ ।।
विष्ण्वर्थं ब्राह्मणं त्वेकं वृणुयाद्वेदवित्तमम् ।।६७।।
एवं महालयश्राद्धे ब्राह्मणान्वृणुयान्नव ।।
अथवा पितृवर्गार्थं वरयेद्विप्रमेककम् ।। ६८ ।।
मातामहादीन्वोद्दिश्य वरयेद्विप्रमेककम् ।।
विश्वेदेवार्थमेकं च विष्ण्वर्थं च तथापरम् ।। ६९ ।।
एवं वै वरयेद्विप्राश्चतुरस्तु महालये ।।
ब्राह्मणान्वेदसंपन्नान्सुशीलान्वरयेत्सुधीः ।। 3.1.36.१७० ।।
दुःशीलान्वरयेद्यस्तु स वै श्राद्धस्य घातकः ।।
मासि भाद्रपदे प्राप्ते कृष्णपक्षे विशेषतः ।। ७१ ।।
कुर्या न्महालयश्राद्धं यो नरः श्रद्धया सह ।।
स स्नातः सर्वतीर्थेषु दुराचार महामते ।। ७२ ।।
अग्निष्टोमादयो यज्ञाः शतमप्यमुना कृताः ।।
तुलापुरुषमुख्यानि दानान्यपि कृतानि वै ।। ७३ ।।
चांद्रायणादिकृच्छ्राणि कृतान्येव न संशयः ।।
चतुर्णां सांगवेदानां पारायणफलं लभेत् ।। ।। ७४ ।।
गायत्र्यादिमहामंत्रजपपुण्यं लभेत्तथा ।।
इतिहासपुराणानां पारायणफलं लभेत् ।। ७५ ।।
महालयसमं पुण्यं वृत्तं नास्ति महीतले ।।
ब्रह्मविष्णुमहेशानलोकप्राप्तिर्महालयात् ।। ७६ ।।
महालयादिकं श्राद्धं नित्यं काम्यमपीष्यते ।।
तस्मादकरणे तस्य प्रत्यवायो महान्भवेत् ।। ७७ ।।
करणादिष्टसिद्धिश्च भविष्यति न संशयः ।।
महालयस्य करणाद्भूतवेतालकादयः ।। ७८ ।।
अपस्मारग्रहाश्चापि शाकिनीडाकिनीगणाः ।।
यातुधानाः पिशाचाश्च वेतालाश्च भयानकाः ।। ७९ ।।
नश्यंति तत्क्षणादेव भूतान्यन्यानि वै तथा ।।
महालयस्यकरणाद्विपुलां श्रियमश्नुते ।। 3.1.36.१८० ।।
पुरा दशरथो राजा वसिष्ठस्योपदेशतः ।।
मासि भाद्रपदे प्राप्ते कृत्वा श्राद्धं महालयम् ।। ८१ ।।
रामादींश्च तुरः पुत्रान्प्राप्तवांल्लोकसंमतान् ।।
विश्वातिशायिनीं लक्ष्मीं प्रपेदे कीर्तिमुत्तमाम् ।। ८२ ।।
महालयस्य करणाद्ययाती राजसत्तमः ।।
यदुमुख्यान्महापुत्रान्प्रपेदे वंशवर्द्धनान् ।। ८३ ।।
अनन्यदुर्लभं स्वर्गं प्रपेदे श्राद्धपुण्यतः ।।
दुष्यंतो भरतं लेभे महालयविधानतः ।। ८४ ।।
महालय विधानेन दमयंतीपतिर्नलः ।।
कृच्छ्रं महत्तरं तीर्त्वा पुनर्लेभे महीमिमाम् ।। ८५ ।।
निजग्राह कलिं घोरं पुष्करं चाप्यरातिनम् ।।
इन्द्रसेनाभिधानं च पुत्रं लेभेऽतिधार्मिकम् ।। ८६ ।।
हरिश्चंद्रो महाराजो महालयविधानतः ।।
विश्वामित्रकृताद्दुःखान्मुक्तः सत्यवतां वरः ।। ८७ ।।
लेभे चंद्रवतीं भार्यां लोहिताश्वं सुतं पुनः ।।
महालयविधानेन कृतवीर्यसुतो बली ।। ८८ ।।
अष्टादशानां द्वीपानामाधिपत्यमवाप्तवान् ।।
रामोऽपि दण्डकारण्ये महालयविधानतः ।। ८९ ।।
हत्वा तु रावणं संख्ये सीतां पुनरवाप्तवान् ।।
महालयस्य करणाद्धर्मपुत्रो युधिष्ठिरः ।। 3.1.36.१९० ।।
दुःखसागरमुत्तीर्य धार्तराष्ट्राञ्जघान च ।।
महालयस्यकरणाद्वसिष्ठो मुनिसत्तमः ।। ९१ ।।
अत्रिर्भृगुश्च कुत्सश्च गौतमश्चांगिरास्तथा ।।
कश्यपश्च भरद्वाजो विश्वा मित्रश्च कुम्भजः ।। ९२ ।।
पराशरो मृकण्डश्च ये चान्ये मुनिसत्तमाः ।।
विधाय विधिवच्छ्राद्धं महालयमनुत्तमम् ।। ९३ ।।
अणिमाद्यष्टसिद्धीनां व्रतानां तपसां तथा ।।
निवासभूता संजातास्तथा विश्वातिशायिनः ।। ९४ ।।
जीवन्मुक्ताश्च ते सर्वे ह्यभवन्मुनिसत्तमाः ।।
अतो महालयश्राद्धं कर्तव्यं भूतिमिच्छता ।। ९५ ।।
अतोऽद्यापि दुराचार न कुर्याद्यो महालयम् ।।
भूतवेतालकादिभ्यो भूयात्तस्य महद्भयम् ।। ९६ ।।
महालयस्या करणाद्वेतालत्वमवाप्नुयात् ।।
त्वयाविष्टमिदं भूतं विप्रः सन्पूर्वजन्मनि ।। ९७ ।।
नाम्ना वेदनिधिः पुण्यो भरद्वाजस्य चात्मनः ।।
कुशस्थल्यभिधाने च वसन्ग्रामे महामनाः ।। ९८ ।।
न चकार विधानेन श्राद्धमेतन्महालयम् ।।
ततोयं पितृणां शापाद्वेतालत्वमवाप्तवान् ।। ९९ ।।
तस्माद्भाद्र पदे मासे दुराचार पितॄन्प्रति ।।
ब्राह्मणान्भोजयान्नेन षड्रसेन सभक्तिकम् ।। 3.1.36.२०० ।।
दारिद्र्यं तेन ते न स्यात्सुखीचैव भवान्भवेत् ।।
महापातकि संसर्गं मा कुरु त्वमितः परम् ।। १ ।।
त्वयानुभूतं यद्दुःखं वेतालग्रहणोद्भवम् ।।
गच्छ त्वमनुजानामि स्वदेशं प्रति मा चिरम् ।। २ ।।
इतीरितः स मुनिना दत्तात्रेयेण योगिना ।।
तं प्रणम्य ययौ देशं कृतार्थेनांतरात्मना ।। ३ ।।
गत्वा च स्वगृहं विप्रो दुराचारो द्विजोत्तमाः ।।
विमुक्तवेताल भयो गतपातककंचुकः ।। ४ ।।
दत्तात्रेयेरितेनासौ मार्गेण प्रीतमानसः ।।
त्यक्तपातकिसंसर्गः स्वाश्रमाचारतत्परः ।। ५ ।।
रामचंद्रधनुष्कोटितीर्थ मज्जनगौरवात् ।।
देहांते परमां मुक्तिं दुराचारो ययौ तदा ।। ६ ।।
।। श्रीसूत उवाच ।। ।।
एवं वः कथितं पुण्यं दुराचरविमोक्षणम् ।।
सेयं पुण्या धनुष्कोटिर्महापातकनाशिनी ।। ७ ।।
यत्र हि स्नानमात्रेण दुराचारो विमोचितः ।।
अथवा धनुषः कोटेरियत्ता किं हि वै भवेत् ।। ८ ।।
या निष्कृतिविहीनानि पापान्यपि विनाशयेत् ।।
प्रायश्चित्तविहीनानि यानि पापानि संति वै ।। ९ ।।
तान्यप्यत्र विनश्यंति धनुष्कोटौ निमज्जनात् ।।
शूद्रेण पूजितं लिंगं विष्णुं वा यो नमेद्द्विजः ।। 3.1.36.२१० ।।
प्रायश्चित्तं न तस्योक्तं स्मृतिभिः परमर्षिभिः ।।
नश्येत्तस्यापि तत्पापं धनुष्कोटिनिमज्ज नात् ।। ११ ।।
विप्रनिंदाकृतां नृणां प्रायश्चित्तं न विद्यते ।।
विश्वासघातकानां च कृतघ्नानां न निष्कृतिः ।। १२ ।।
भ्रातृभार्यारतानां च प्रायश्चित्तं न विद्यते ।।
शूद्रान्ने नियतानां च श्रुतिनिंदारतात्मनाम् ।। १३ ।।
कन्याविक्रयिणां विप्रा हयविक्रयिणां तथा ।।
देवविक्रयिणां वेदविक्रये निर तात्मनाम्।।१४।।
धर्मविकयिणां पुंसां व्रतविक्रयिणां तथा ।।
तीर्थविक्रयिणां पुंसां प्रायश्चित्तं न विद्यते ।।१५।।
तेषां पापानि नश्यंति धनुष्कोटौ निम ज्जनात् ।।
मातृद्रोहपितृद्रोहयतिद्रोहरतात्मनाम् ।।१६।।
गुरुनिंदापराणां च शिवनिंदारतात्मनाम् ।।
विष्णुनिंदापराणां च यतिनिंदारतात्मनाम् ।। ।। १७ ।।
सत्कथादूषकाणां च प्रायश्चित्तं न विद्यते ।।
तेषां चात्र धनुष्कोटौ स्नानाच्छुद्धिर्भविष्यति ।। १८ ।।
एवं वः कथितं विप्रा धनुष्कोटेस्तु वैभवम् ।।
यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते मानवो भुवि ।। २१९ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतु माहात्म्ये धनुष्कोटिप्रशंसायां दुराचारसंसर्गदोषशांतिवर्णनंनाम षट्त्रिंशोऽध्यायः ।। ३६ ।।