स्कन्दपुराणम्/खण्डः ३ (ब्रह्मखण्डः)/सेतुखण्डः/अध्यायः ३०

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

।। श्रीसूत उवाच ।। ।।
विहिताभिषवो मर्त्यः सर्वतीर्थेऽतिपावने ।।
ब्रह्महत्यादिपापघ्नीं धनुष्कोटिं ततो व्रजेत् ।। १ ।।
यस्याः स्मरणमात्रेण मुक्तः स्यान्मानवो भुवि ।।
धनुष्कोटिं प्रपश्यंति स्नांति वा कथयंति ये ।। २ ।।
अष्टाविंशतिभेदांस्ते नरकान्नोपभुंजते ।।
तामिस्रमंधतामिस्रं महारौरवरौरवौ ।। ३ ।।
कुम्भीपाकं कालसूत्रमसिपत्रवनं तथा ।।
कृमिभक्षोंऽधकूपश्च संदंशं शाल्मली तथा ।। ४ ।।
सूर्मिर्वैतरणी प्राणरोधो विशसनं तथा ।।
लालाभक्षोऽप्यवीचिश्च सारमेयादनं तथा ।। ५ ।।
तथैव वज्रकणकं क्षारकर्दमपातनम् ।।
रक्षोगणाशनं चापि शूलप्रोतं वितोदनम् ।। ६ ।।
दंदशूकाशनं चापि पर्यावर्तनसंज्ञितम् ।।
तिरोधानाभिधं विप्रास्तथा सूचीमुखाभिधम् ।। ७ ।।
पूयशोणितभक्षं च विषाग्निपरिपीडनम् ।।
अष्टाविंशतिसंख्याकमेवं नरकसंचयम् ।। ८ ।।
न याति मनुजो विप्रा धनुष्कोटौ निमज्जनात् ।।
वित्तापत्यकलत्राणां योऽन्येषामपहारकः ।। ९ ।।
स कालपाशनिर्बद्धो यमदूतैर्भयानकैः ।।
तामिस्रनरके घोरे पात्यते बहुवत्सरम् ।। 3.1.30.१० ।।
स्नाति चेद्धनुषः कोटौ तस्मिन्नासौ निपात्यते ।।
यो निहत्य तु भर्तारं भुंक्ते तस्य धनादिकान् ।। ११ ।।
पात्यते सोंऽधतामिस्रे महादुःखसमाकुले ।।
स्नाति चेद्धनुषः कोटौ तस्मिन्नासौ निपात्यते ।। १२ ।।
भूतद्रोहेण यो मर्त्यः पुष्णाति स्वकुटुंबकम् ।।
स तानिह विहायाशु रौरवे पात्यते ध्रुवम् ।। १३ ।।
विषोल्बणमहासर्पसंकुले यमपूरुषैः ।।
स्नाति चेद्धनुषः कोटौ तस्मिन्नासौ निपात्यते ।। ।। १४ ।।
यः स्वदेहंभरो मर्त्यो भार्यापुत्रादिकं विना ।।
स महारौरवे घोरे पात्यते निजमांसभुक् ।। १५ ।।
स्नाति चेद्धनुषः कोटौ तस्मि न्नासौ निपात्यते ।।
यः पशून्पक्षिणो वापि सप्राणान्निरुणद्धि वै ।। १६ ।।
कृपालेशविहीनं तं क्रव्यादैरपि निंदितम् ।।
कुंभीपाके तप्ततैले पात यंति यमानुगाः ।। १७ ।।
स्नाति चेद्धनुषः कोटौ तस्मिन्नासौ निपात्यते ।।
मातरं पितरं विप्रान्यो द्वेष्टि पुरुषाधमः ।। १८ ।।
स कालसूत्र नरके विस्तृतायुतयोजने ।।
अधस्तादग्निसंतप्त उपर्यर्कमरीचिभिः ।। १९ ।।
खले ताम्रमये विप्राः पात्यते क्षुधयार्दितः ।।
स्नाति चेद्धनुषः कोटौ तस्मिन्नासौ निपात्यते ।। 3.1.30.२० ।।
यो वेदमार्गमुल्लंघ्य वर्तते कुपथे नरः ।।
सोऽसिपत्रवने घोरे पात्यते यमकिंकरैः ।। २१ ।।
स्नाति चेद्धनुषः कोटौ तस्मिन्नासौ निपात्यते ।।
यो राजा राजभृत्यो वा ह्यदंड्ये दंडमाचरेत् ।। २२ ।।
शरीरदंडं विप्रे वा स शूकरमुखे द्विजाः ।।
पात्यते नरके घोरे इक्षुवद्यंत्रपीडितः ।। ।। २३ ।।
स्नाति चेद्धनुषः कोटौ तस्मिन्नासौ निपात्यते ।।
ईश्वराधीनवृत्तीनां हिंसां यः प्राणिनां चरेत् ।। २४ ।।
तैरेव पीड्यमानोऽयं जंतुभिः स्वेन पीडितैः ।।
अंधकूपे महाभीमे पात्यते यमकिंकरैः ।। २५ ।।
तत्रांधकारबहुले विनिद्रो निर्वृतश्चरेत् ।।
चेद्धनुषः कोटौ तस्मिन्नासौ निपात्यते ।। २६ ।।
योऽश्नाति पंक्तिभेदेन सस्यसूपादिकं नरः ।।
अकृत्वा पंचयज्ञं वा भुंक्ते मोहेन स द्विजाः ।। २७ ।।
प्रपात्यते यमभटैर्नरके कृमिभोजने ।।
भक्ष्यमाणः कृमिशतैर्भक्षयन्कृमिसंच यान् ।। २८ ।।
स्वयं च कृमिभूतः संस्तिष्ठेद्यावदघक्षयम्।।
स्नाति चेद्धनुषः कोटौ तस्मिन्नासौ निपात्यते ।। २९ ।।
यो हरेद्विप्रवित्तानि स्तेयेन बलतोऽपि वा ।।
अन्येषामपि वित्तानि राजा तत्पुरुषोऽपि वा ।। 3.1.30.३० ।।
अयस्मयाग्निकुंडेषु संदंशैः सोऽतिपीडितः ।।
संदंशे नरके घोरे पात्यते यमपूरुषैः ।। ३१ ।।
स्नाति चेद्धनुषः कोटौ तस्मिन्नासौ निपात्यते ।।
अगम्यां योभिगच्छेत स्त्रियं वै पुरुषाधमः ।। ३२ ।।
अगम्यं पुरुषं योषिदभिगच्छेत वा द्विजाः ।।
तावयस्मयनारीं च पुरुषं चाप्ययस्मयम् ।।३३ ।।
तप्तावालिंग्य तिष्ठंतौ यावच्चंद्रदिवाकरौ ।।
सूर्म्याख्ये नरके घोरे पात्येते बहुकंटके ।। ३४ ।।
स्नाति चेद्धनुषः कोटौ तस्मिन्नासौ निपात्यते ।।
बाधते सर्वजंतून्यो नानो पायैरुपद्रवैः ।।३५ ।।
शाल्मलीनरके घोरे पात्यते बहुकंटके ।।
स्नाति चेद्धनुषः कोटौ तस्मिन्नासौ निपात्यते ।। ३६ ।।
राजा वा राजभृत्यो वा यः पाषंडमनुव्रतः ।।
भेदको धर्मसेतूनां वैतरण्यां निपात्यते ।। ३७ ।।
स्नानि चेद्धनुषः कोटौ तस्मिन्नासौ निपात्यते ।।
वृषलीसंगदुष्टो यः शौचाद्याचारवर्जितः ।। ३८ ।।
त्यक्तलज्जस्त्यक्तवेदः पशुचर्यारत स्तथा ।।
स पूयविष्ठामूत्रासृक्छ्लेष्मपित्तादिपूरिते ।। ३९ ।।
अतिबीभत्सनरके पात्यते यमकिंकरैः ।।
स्नाति चेद्धनुषः कोटौ तस्मिन्नासौ निपात्यते ।। 3.1.30.४० ।।
अश्मभिर्मृगयुर्हन्याद्बाणै र्वा बाधते मृगान्।।
स विध्यमानो बाणौघैः परत्र यमकिंकरैः ।। ४१ ।।
प्राणरोधाख्यनरके पात्यते यमकिंकरैः ।।
स्नाति चेद्धनुषः कोटौ तस्मिन्नासौ निपात्यते ।। ४२ ।।
दांभिको यः पशून्यज्ञे विध्यनुष्ठानवर्जितः ।।
हंत्यसौ परलोकेषु वैशसे नरके द्विजाः ।। ४३ ।।
कृन्त्यमानो यमभटैः पात्यते दुःखसंकुले ।।
स्नाति चेद्धनुषः कोटौ तस्मिन्नासौ निपात्यते ।। ४४ ।।
आत्मभार्यां सवर्णां यो रेतः पाययते तु सः ।।
परत्र रेतःपायी सन्रेतःकुंडे निपात्यते ।। ४५ ।।
स्नाति चेद्धनुषः कोटौ तस्मिन्नासौ निपात्यते ।।
यो दस्युमार्ग माश्रित्य गरदो ग्रामदाहकः ।। ४६ ।।
वणिग्द्रव्यापहारी च स परत्र द्विजोत्तमाः ।।
वज्रदंष्ट्राहिकाभिख्ये नरके पात्यते चिरम् ।। ४७ ।।
स्नाति चेद्धनुषः कोटौ तस्मिन्नासौ निपात्यते ।।
विद्यंते यानि चान्यानि नरकाणि परत्र वै ।। ४८ ।।
तानि नाप्नोति मनुजो धनुष्कोटिनिमज्जनात् ।।
धनुष्कोटौ सकृत्स्ना नादश्वमेधफलं लभेत् ।। ४९ ।।
आत्मविद्या भवेत्साक्षान्मुक्तिश्चापि चतुर्विधा ।।
न पापे रमते बुद्धिर्न भवेद्दुःखमेव वा ।। 3.1.30.५० ।।
बुद्धेः प्रीति र्भवेत्सम्यग्धनुष्कोटौ निमज्जनात् ।।
तुलापुरुषदानेन यत्फलं लभ्यते नरैः ।। ५१ ।।
तत्फलं लभ्यते पुंभिर्धनुष्कोटौ निमज्जनात् ।।
गोसहस्र प्रदानेन यत्पुण्यं हि भवेन्नृणाम् ।। ५२ ।।
तत्पुण्यं लभते मर्त्यो धनष्कोटौ निमज्जनात् ।।
धर्मार्थकाममोक्षेषु यंयमिच्छति पूरुषः ।। ५३ ।।
तंतं सद्यः समाप्नोति धनुष्कोटौ निमज्जनात् ।।
महापातकयुक्तो वा युक्तो वा सर्वपातकैः ।। ५४ ।।
सद्यः पूतो भवेद्विप्रा धनुष्कोटौ निमज्जनात् ।।
प्रज्ञालक्ष्मीर्यशः संपज्ज्ञानं धर्मो विरक्तता ।।५५।।
मनःशुद्धिर्भवेन्नॄणां धनुष्कोटिनिमज्जनात्।।
ब्रह्महत्यायुतं चापि सुरापानायुतं तथा।।५६।।
अयुतं गुरुदाराणां गमनं पापकारणम्।।
स्तेयायुतं सुवर्णानां तत्संसर्गश्च कोटिशः।।५७।।
शीघ्रं विलयमाप्नोति धनुष्कोटौ निमज्जनात्।।
ब्रह्महत्यासमानानि सुरापानसमानि च।।५८।।
गुरुस्त्रीगमनेनापि यानि तुल्यानि चास्तिकाः।।
सुवर्णस्तेयतुल्यानि तत्संसर्गसमानि च।।५९।।
तानि सर्वाणि नश्यंति धनुष्को टि निमज्जनात्।।
उक्तेष्वेतेषु संदेहो न कर्तव्यः कदाचन ।।3.1.30.६०।।।
जिह्वाग्रे परशुं तप्तं धारयामि न संशयः ।।
अर्थवादमिमं सर्वं ब्रुवन्वै नारकी भवेत् ।। ।। ६१ ।।
संकरः स हि विज्ञेयः सर्वकर्मबहिष्कृतः।।
अहो मौर्ख्यमहो मौर्ख्यमहो मौर्ख्यं द्विजोत्तमाः ।। ६२ ।।
धनुष्कोट्यभिधे तीर्थे सर्वपातकनाशने ।।
अद्वैतज्ञानदे पुंसां भुक्तिमुक्तिप्रदायिनि ।। ६३ ।।
इष्टकाम्यप्रदे नित्यं तथैवाज्ञाननाशने ।।
स्थितेऽपि तद्विहायायं रमतेऽन्यत्र वै जनः ।।६४।।
अहो मोहस्य माहात्म्यं मया वक्तुं न शक्यते ।।
स्नातस्य धनुषः कोटौ नांतकाद्भयमस्ति वै ।।६५।।
धनुष्कोटिं प्रपश्यंति तत्र स्नांति च ये नराः।।
स्तुवंति च प्रशंसंति स्पृशंति च नमंति च ।।
न पिबंति हि ते स्तन्यं मातॄणां द्विजपुंगवाः ।। ६६ ।।
।। ऋषय ऊचुः ।। ।।
धनुष्कोट्याभिधा तस्य कथं सूत समागता ।। ६७ ।।
तत्सर्वं ब्रूहि तत्त्वेन विस्तरान्मुनिपुंगव ।।
इति पृष्टो नैमिषीयैराह सूतः पुनश्च तान् ।। ६८ ।।
।। श्रीसूत उवाच ।। ।।
रामेण निहते युद्धे रावणे लोककण्टके ।।
बिभीषणे च लंकायां राजनि स्थापिते ततः ।। ६९ ।।
वैदेहीलक्ष्मणयुतो रामो दशरथा त्मजः ।।
सुग्रीवप्रमुखैर्वीरैर्वानरैरपि संवृतः ।। 3.1.30.७० ।।
सिद्धचारणगन्धर्वदेवविद्याधरर्षिभिः ।।
अप्सरोभिश्च सततं स्तूयमाननिजाद्भुतः ।। ७१ ।।
लीलाविधृतकोदण्डस्त्रिपुरघ्नो यथा शिवः ।।
सर्वैः परिवृतो रामो गंधमादनमन्वगात् ।। ७२ ।।
तत्र स्थितं महात्मानं राघवं रावणांतकम् ।।
प्रांजलिः प्रार्थयामास धर्मज्ञोऽथ विभीषणः ।। ७३ ।।
सेतुनानेन ते राम राजानः सर्व एव हि ।।
बलोद्रिक्ताः समभ्येत्य पीडयेयुः पुरीं मम ।। ।। ७४ ।।
अतः सेतुमिमं भिंधि धनुष्कोट्या रघूद्वह ।।
इति संप्रार्थितस्तेन पौलस्त्येन स राघवः ।। ७९ ।।
बिभेद धनुषः कोट्या स्वसेतुं रघुनं दनः ।।
अतो द्विजास्ततस्तीर्थं धनुष्कोटिरितिश्रुतम् ।। ७६ ।।
श्रीरामधनुषः कोट्या यो रेखां पश्यते कृताम्।।
अनेकक्लेशसंयुक्तं गर्भवासं न पश्यति ।। ७७ ।।
धनुष्कोट्यां कृता रेखा रामेण लवणांबुधौ ।।
तद्दर्शनाद्भवेन्मुक्तिर्न जाने स्नानजं फलम् ।। ७८ ।।
नर्मदारोधसि तपो महापातक नाशनम्।।
गंगातीरे तु मरणमपवर्गफलप्रदम्।। ७९ ।।
दानं द्विजाः कुरुक्षेत्रे ब्रह्महत्यादिशोधकम् ।।
तपश्च मरणं दानं धनुष्कोटौ कृतं नरैः ।।3.1.30.८०।।
महापातकनाशाय मुक्त्यै चाभीष्टसिद्धये ।।
भवेत्समर्थं विप्रेंद्रा नात्र कार्या विचारणा ।। ८१ ।।
तावत्संपीड्यते जंतुः पातकैश्चोपपा तकैः ।।
यावन्नालोक्यते राम धनुष्कोटिर्विमुक्तिदा ।। ८२ ।।
भिद्यते हृदयग्रंथिश्छिद्यंते सर्वसंशयाः ।।
क्षीयंते पापकर्माणि धनुष्कोट्यवलो किनः ।। ८३ ।।
दक्षिणांभोनिधौ सेतौ रामचन्द्रेण निर्मिता ।।
या रेखा धनुषः कोट्या विभीषणहिताय वै ।। ८४ ।।
सैव कैलासपदवीं वैकुण्ठब्र ह्मलोकयोः ।।
मार्गः स्वर्गस्य लोकस्य नात्र कार्या विचारणा ।। ८५ ।।
तुल्यं यज्ञफलैः पुण्यैर्धनुष्कोट्यवगाहनम् ।।
सर्वमंत्राधिकं पुण्यं सर्वदा नफलप्रदम् ।। ८६ ।।
कायकलेशकरैः पुंसां किं तपोभिः किमध्वरैः ।।
किं वेदैः किमु वा शास्त्रैर्धनुष्कोट्यवलोकिनः ।। ८७ ।।
रामचंद्रधनुष्कोटौ स्नानं चेल्लभ्यते नृणाम् ।।
सितासितसरित्पुण्यवारिभिः किं प्रयोजनम् ।। ८८ ।।
रामचंद्रधनुष्कोटिदर्शनं लभ्यते यदि ।।
काश्यां तु मरणान्मुक्तिः प्रार्थ्यते किं वृथा नरैः ।। ८९ ।।
अनिमज्ज्य धनुष्कोटावनुपोष्य दिनत्रयम् ।।
अदत्त्वा कांचनं गां च दरिद्रः स्यान्न संशयः ।। 3.1.30.९० ।।
धनुष्कोट्य वगाहेन यत्फलं लभते नरः ।।
अग्निष्टोमादिभिर्यज्ञैरिष्ट्वापि बहुदक्षिणैः ।। ९१ ।।
न तत्फलमवाप्नोति सत्यंसत्यं वदाम्यहम् ।।
धनुष्कोट्यभिधं तीर्थं सर्वतीर्थाधिकं विदुः ।। ९२ ।।
दशकोटिसहस्राणि संति तीर्थानि भूतले ।।
तेषां सान्निध्यमस्त्यत्र धनुष्कोटौ द्विजोत्तमाः ।। ९३ ।।
अष्टौ वसव आदित्या रुद्राश्च मरुतस्तथा ।।
साध्याश्च सह गन्धर्वाः सिद्धविद्याधरास्तथा ।।९४।।
एते चान्ये च ये देवाः सान्निध्यं कुर्वते सदा ।।
तीर्थेऽत्र धनुषः कोटौ नित्यमेव पितामहः ।। ९५ ।।
सन्निधत्ते शिवो विष्णुरुमा मा च सरस्वती ।।
धनुष्कोटौ तपस्तप्त्वा देवाश्च ऋषयस्तथा ।। ९६ ।।
विपुलां सिद्धिमगमंस्तत्फलेन मुनीश्वराः ।।
स्नायात्तत्र नरो यस्तु पितृदेवांश्च तर्पयेत् ।।९७।।
सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते ।।
अत्रैकं भोजयेद्विप्रं यो नरो भक्तिसंयुतः।।९८।।
इह लोके परत्रापि सोनंतसुखमश्नुते।।
शाकमूलफले वृत्तिं यो न वर्तयते नरः।।९९।।
स नरो धनुषःकोटौ स्नायात्त त्फलसिद्धये ।।
अश्वमेधक्रतुं कर्तुं शक्तिर्यस्य न विद्यते ।।3.1.30.१००।।
धनुष्कोटौ स हि स्नायात्तेन तत्फलमश्नुते ।।
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वापि मुनी श्वराः।।१।।
निंद्ययोनौ न जायंते धनुष्कोट्वगाहनात्।।
मकरस्थे रवौ माघे धनुष्कोटौ तु यो नरः।।२।।
स्नायात्पुण्यं निगदितुं तस्याहं न क्षमो द्विजाः।।
माघमासे धनुष्कोटाववगाहेत यो नरः ।। ३ ।।
स स्नातः सर्वतीर्थेषु गंगादिषु मुनीश्वराः ।।
प्राप्नुयादक्षयाँल्लोकान्मोक्षं चापि लभेत सः ।। ४ ।।
जन्मप्रभृति यत्पापं स्त्रियो वा पुरुषस्य वा ।।
तत्सर्वं माघमासेऽत्र मज्जनाद्विलयं व्रजेत् ।। ५ ।।
यथा सुराणां सर्वेषामुत्तमो रघुनंदनः ।।
तथैव च धनुष्कोटिः सर्वतीर्थोत्तमा स्मृता ।। ६ ।।
तत्र स्नानं माघमासे सर्वाभीष्टप्रदायकम् ।।
त्रिंशद्दिनं माघमासे नियतोऽपि जितेंद्रियः ।। ७ ।।
धनुष्कोटौ नरः स्नायादपुनर्भवसिद्धये ।।
एकभुक्तो जितक्रोधो माघमासेऽत्र यो नरः ।। ८ ।।
स्नानं करोति विप्रेंद्रा मुच्यते ब्रह्महत्यया ।।
श्रीरामधनुषः कोटी माघमासे नरस्तु यः ।। ९ ।।
स्नात्वांते शिवरात्रौ च निराहारो जितेंद्रियः ।।
कृत्वा जागरणं रात्रौ प्रतियामं विशेषतः।। 3.1.30.११० ।।
राम नाथं महादेवमभ्यर्च्य विधिपूर्वकम् ।।
परेद्युरुदिते सूर्ये धनुष्कोटौ निमज्य च ।। ११ ।।
अन्येष्वपि च तीर्थेषु स्नात्वा नियतमानसः ।।
निर्वर्त्य नित्यकर्माणि रामनाथं निषेव्य च ।। १२ ।।
यथाशक्ति द्विजानन्नैर्भोजयित्वा द्विजोत्तमाः ।।
भूमिं गां च तिलान्धान्यं दत्त्वा वित्तं च शक्तितः ।। ।। १३ ।।
ब्राह्मणैरप्यनुज्ञातः स्वयं भुंजति वाग्यतः ।।
एवं कृतवतः पुंसो रामनाथो महेश्वरः ।। १४ ।।
विमोच्य सर्वपापानि भुक्तिं मुक्तिं प्रयच्छति ।।
अतः सर्वप्रयत्नेन माघमासे मुनीश्वराः ।। १५ ।।
स्नातव्यं हि धनुष्कोटौ नरैरत्र मुमुक्षुभिः ।।
धनुष्कोटौ नरः स्नानं सेतावर्धोदये तु यः। ।। १६ ।।
करोति तस्य पापानि नश्यंत्येव क्षणाद्द्विजाः ।।
स्नानं महोदये चात्र भुक्तिमुक्तिफलप्रदम्।। १७ ।।
यः स्नायाद्धनुषः कोटावर्द्धोदयमहो दये ।।
तस्य वश्यास्त्रयो देवा ब्रह्मविष्णुमहेश्वराः ।। १८ ।।
धनुष्कोटौ द्विजाः स्नानमर्द्धोदयमहोदये।।
विनाप्यद्वैतविज्ञानं सायुज्यप्राप्तिकारणम्।।। ।। १९ ।।
तत्र स्नानं द्विजाः पुंसामर्द्धोदयमहोदये ।।
मन्वाद्युक्तं विना सत्यं प्रायश्चित्तं हि पापिनाम्।। 3.1.30.१२० ।।
अत्र सेतौ धनुष्कोटावर्धोदयमहो दये ।।
स्नाति चेन्मनुजो विप्राः सत्यं यज्ञं विनाप्ययम् ।। २१ ।।
यज्ञानां फलमाप्नोति संपूर्णं नात्र संशयः ।।
चंद्रसूर्योपरागेषु यः स्नायादत्र मानवः ।। २२ ।।
तस्य पुण्यफलं वक्तुं शेषेणापि न शक्यते ।।
चंद्रसूर्योपरागेषु धनुष्कोट्यवगाहनम् ।। २३ ।।
ब्रह्महत्यादिपापानां प्रायश्चित्त मुदीरितम् ।।
श्रीरामधनुषः कोटौ चंद्रसूर्योपरागयोः ।। २४ ।।
स्नानं सायुज्यदं प्रोक्तं सर्वतीर्थफलप्रदम् ।।
चंद्रसूर्योपरागेषु अर्धोदयमहोदये ।। '।। २५ ।।
स्नातव्यमत्र मनुजैर्भुक्तिमुक्तिफलेच्छुभिः ।।
अतः सर्वं परित्यज्य गच्छध्वं मुनिपुंगवाः ।। २६ ।।
धनुष्कोटिं महापुण्यां भुक्तिमुक्तिफल प्रदाम् ।।
तत्र गत्वा पितृभ्यश्च कुरुध्वं पिंडदापनम् ।। २७ ।।
आकल्पं पितृतृप्तिः स्यादत्र पिंडनिवापनात् ।।
पितॄणां तृप्तिदं स्थानत्रयं रामेण निर्मितम् ।। २८ ।।
सेतुमूले धनुष्कोट्यां गंधमादनपर्वते ।।
पिंडं दत्त्वा पितृभ्योऽत्र ऋणान्मुक्तो भविष्यति ।। २९ ।।
सेतुमूलं धनुष्कोटिं गंधमादनमेव च ।।
ऋणमोक्ष इति ख्यातं त्रिस्थानं देवनिर्मितम् ।। 3.1.30.१३० ।।
अतः सर्वप्रयत्नेन धनुष्कोटिर्निषेव्यताम् ।।
अत्रागत्य धनुष्कोटौ स्नात्वा नियमपूर्व कम् ।। ३१ ।।
द्रोणाचार्यसुतः श्रीमानश्वत्थामा मुनीश्वराः ।।
सुप्तमारणदोषेण घोरेण मुमुचे क्षणात् ।। ३२ ।।
एवं वः कथितं विप्रा धनुष्कोटेस्तु वैभवम् ।।
भुक्तिमुक्तिप्रदं नृणां सर्वपापनिबर्हणम् ।। १३३ ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतु माहात्म्ये धनुष्कोटिप्रशंसायां धनुष्कोटिवैभवकथनवर्णनंनाम त्रिंशोऽध्यायः ।। ३० ।।