स्कन्दपुराणम्/खण्डः ३ (ब्रह्मखण्डः)/सेतुखण्डः/अध्यायः २६
।। [१]श्रीसूत उवाच ।। ।।
विधायाभिषवं मर्त्याः शंखतीर्थे द्विजोत्तमाः ।।
यमुनां चैव गंगां च गयां चापि क्रमाद्व्रजेत् ।। १ ।।
यमुनाख्यं महातीर्थं गंगातीर्थमनुत्तमम् ।।
गयातीर्थं च मर्त्यानां महापातकनाशनम् ।। २ ।।
एतत्तीर्थत्रयं पुण्यं सर्वलोकेषु विश्रुतम् ।।
सर्वविघ्नप्रशमनं सर्वरोगनिबर्हणम् ।। ३ ।।
एतद्धि तीर्थत्रितयं सकलाज्ञाननाशनम् ।।
अविद्यायां विनष्टायां तथा ज्ञानप्रदं नृणाम् ।। ४ ।।
जानश्रुतिर्महाराज एषु तीर्थेषु वै पुरा ।।
स्नात्वा रैक्वाद्द्विजश्रेष्ठात्प्राप्तवाञ्ज्ञानमुत्तमम्।। ५ ।।
।। ऋषय ऊचुः ।। ।।
सूत सर्वार्थतत्त्वज्ञ व्यासशिष्य महामते ।।
यमुना चैव गंगा च गया चैवेति विश्रुतम् ।। ६ ।।
एतत्तीर्थत्रयं कस्मादागतं गंधमादने ।।
जानश्रुतेश्च राजर्षेः स्नानात्तीर्थत्रयेऽपि च ।।
ज्ञानावाप्तिः कथं रैक्वादस्माकं सूत तद्वद ।। ७ ।।
।। श्रीसूत उवाच ।। ।।
[२]रैक्वनामा महर्षिस्तु पुरा वै गन्धमादने ।। ८ ।।
तपस्सुदुश्चरं कुर्वन्न्यवसत्तपसां निधिः ।।
दीर्घकालं तपः कुर्वन्स वै रैक्वो महामुनिः ।। ९ ।।
तपोबलेन महता दीर्घमायुरवाप्तवान् ।।
जन्मना पंगुरेवासीद्रैक्वनामा महामुनिः ।। 3.1.26.१० ।।
पंगुत्वादसमर्थोऽभूद्गंतुं तीर्थान्यसौ मुनिः ।।
संति यानि तु तीर्थानि गन्धमादनपर्वते ।। ११ ।।
तानि गच्छति सामीप्याच्छकटेनैव संचरन् ।।
स यद्रैक्वो मुनिवरो युग्वेन सह वर्तते ।। १२ ।।
तपस्वी वैदिकैर्लोके सयुग्वैत्यभिधीयते ।।
युग्वेति शकटं प्रोक्तं स तेन सह वर्तते ।। १३ ।।
स खल्वेवं मुनिश्रेष्ठः सयुग्वानाम वै मुनिः ।।
पूर्णज्ञानस्तपस्तेपे गन्धमादनपर्वते ।।१४।।
ग्रीष्मे पञ्चाग्निमध्यस्थः सोऽतप्यत महत्तपः ।।
वर्षायां कण्ठदघ्नेषु जलेषु समवर्तत ।। १५ ।।
तपसा शोषिते गात्रे पामा तस्य व्यजायत ।।
कण्डूयत स पामानं दिवारात्रं मुनीश्वरः ।। १६।।
कण्डूयमान एवायं पामानं न तपोऽत्यजत् ।।
अजायत मनस्त्वेवं तस्य सयुग्वनो मुनेः ।। १७ ।।
यमुनायां च गंगायां गयायां चाधुनैव हि ।।
अस्मिंस्तीर्थे त्रये पुण्ये स्नातव्यं हि मया त्विति ।। १८ ।।
एवं विचिंत्य स मुनिरन्यां चिंतामथाकरोत् ।।
अहं हि जन्मना पंगुरतः स्नानं हि दुर्लभम् ।। १९ ।।
अतिदूरं मया गन्तुं शकटेन न शक्यते ।।
किं करोम्यधुनेत्येवं स वितर्क्य महामतिः ।। 3.1.26.२० ।।
तीर्थत्रयेषु स्नानार्थं कर्तव्यं निश्चिकाय वै ।।
अप्रसह्यमनाधृष्यं विद्यते मे तपोबलम् ।। २१ ।।
तेनैवावाहयिष्यामि तद्धि तीर्थत्रयं त्विह ।।
इति निश्चित्य मनसा प्राङ्मुखो नियतेंद्रियः ।। २२ ।।
त्रिराचम्य च सयुग्वान्दध्यौ क्षणमतंद्रितः ।।
तस्य मंत्रप्रभावेन यमुना सा महानदी ।। २३ ।।
गंगा च जह्नुतनया गया सा पापनाशिनी ।।
भूमिं निर्भिद्य तिस्रोपि पातालात्सहसोत्थिताः ।। २४ ।।
मानुषं रूपमास्थाय सयुग्वानमुपेत्य च ।।
ऊचुः परमसंहृष्टा हर्षयंत्यश्च तं मुनिम् ।। २५ ।।
सयुग्वन्रैक्व भद्रं ते ध्यानादस्मादुपारम ।।
त्वन्मंत्रेण समाकृष्टा वयमत्र समागताः ।। २६ ।।
कि कर्तव्यं तवास्माभिस्तद्वदस्व मुनीश्वर ।।
इति तासां वचः श्रुत्वा सयुग्वान्हि महामुनिः ।। २७ ।।
ध्यानादुपारमत्तूर्णं ताश्चापश्यत्पुरः स्थिताः ।।
स ताः संपूज्य विधिवद्रैक्वो वाचमभाषत ।। २८ ।।
यमुने देवि हे गंगे हे गये पापनाशिनि ।।
सन्निधानं कुरुध्वं मे गन्धमादनपर्वते ।। २९ ।।
यत्र भूमिं विनिर्भिद्य भवत्य इह निर्गताः ।।
तानि पुण्यानि तीर्थानि भवेयुर्वोऽभिधानतः ।। 3.1.26.३० ।।
सहसांतरधीयंत तथास्त्वित्येव तत्र ताः ।।
तदाप्रभृति तीर्थानि तानि त्रीण्यपि भूतले ।। ३१ ।।
तेनतेनाभिधानेन गीयन्ते सर्वदा जनैः ।।
यत्र भूमिं विनिर्भिद्य यमुना निर्गता तदा ।। ३२ ।।
यमुनातीर्थमिति वै तज्जनैरभिधीयते ।।
यतो वै पृथिवीरंध्राज्जाह्नवी सहसोत्थिता ।। ३३ ।।
गंगातीर्थमिति ख्यातं तल्लोके पापनाशनम् ।।
गया हि मानुषं रूपं यत आस्थाय निर्ययौ ।। ३४ ।।
तदेव भूमिविवरं गयातीर्थं प्रचक्षते ।।
एवमेतन्महापुण्यं तीर्थत्रयमनुत्तमम् ।। ३५ ।।
रैक्वमंत्रप्रभावेण पृथिव्याः सहसोत्थितम् ।।
अत्र तीर्थत्रये स्नानं ये कुर्वंति नरोत्तमाः ।। ३६ ।।
तेषामज्ञाननाशः स्याज्ज्ञानमप्युदयं लभेत् ।।
स्वमंत्रेण समाकृष्टे तत्र तीर्थत्रये मुनिः ।। ३७ ।।
स्नानं समाचरन्नित्यं स कालानत्यवाहयत् ।।
एतस्मिन्नेव काले तु राजा जानश्रुतिर्महान् ।। ३८ ।।
पुत्रसंज्ञस्य राजर्षेः पौत्रो धर्मैकतत्परः ।।
देयमन्नादि स तदा ह्यर्थिभ्यः श्रद्धयैव यत् ।। ३९ ।।
तस्मादेनं नजालोके श्रद्धादेयं प्रचक्षते ।।
यतो बहुतरं वाक्यमन्नाद्यस्य महीपतेः ।।3.1.26.४० ।।
अर्थिनां क्षुधितानां तु तृप्त्यर्थं वर्तते गृहे ।।
अतोयमर्थिभिः सर्वैर्बहुवाक्य इतीर्यते ।।४१।।
स वै पौत्रायणो राजा जानश्रुतसुतो बली ।।
प्रियातिथिर्बभूवासौ बहुदायी तथाऽभवत् ।। ४२ ।।
नगरेषु च राष्ट्रेषु ग्रामेषु च वनेषु च ।।
चतुष्पथेषु सर्वेषु महामार्गेषु सर्वशः ।। ४३ ।।
बह्वन्नपान संयुक्तं सूपशाकादिसंयुतम् ।।
आतिथ्यं कल्पयामास तृप्तयेऽर्थिजनस्य वै ।।४४।।
अन्नपानादिकं सर्वमुपयुड्ध्वमिहार्थिनः ।।
इत्यसौ घोषयामास तत्र तत्र जनास्पदे ।।४५।।
तस्य प्रियातिथेरेव नृपस्य बहुदायिनः ।।
अर्थिभ्यो दानशौंडस्य गुणाः सर्वत्र विश्रुताः ।।४६।।
अथ पौत्रायणस्यास्य गुण ग्रामेण वर्ततः ।।
देवर्षयो महाभागास्तस्यानुग्रहकांक्षिणः ।। ४७ ।।
हंसरूपं समास्थाय निदाघसमये निशि ।।
रमणीयां विधायाशु श्रेणीमाकाशमागतः ।। ४९ ।।
सौधवातायनस्थस्य तस्योपरि महीपतेः ।।
उड्डीयोड्डीय वेगेन तरसा जग्मुरुच्चकैः ।। ४९ ।।
तरसा पततां तेषां हंसानां पृष्ठतो व्रजन् ।।
एको हंसस्तु संबोध्य हंसमग्रेसरं तदा ।। 3.1.26.५० ।।
सोपहासमिदं वाक्यं प्राह शृण्वति राजनि ।।
भोभो भल्लाक्ष भल्लाक्ष पुरो गच्छन्मरालक ।। ५१ ।।
सौधमध्ये पुरस्ताद्वै जानश्रुतसुतो नृपः ।।
वर्तते पूजनीयोऽयं न पश्यसि किमंधवत् ।। ५२ ।।
यस्य तेजो दुराधर्षमाब्रह्म भवनादिदम् ।।
अनंतादित्यसंकाशं ज्वलते पुरतो भृशम् ।। ५३ ।।
तमतिक्रम्य राजर्षिं मा गास्त्वमुपरि द्रुतम् ।।
यदि गच्छसि तत्तेजस्सांप्रतं त्वां प्रधक्ष्यति ।। ५४ ।।
इत्युक्तवंतं तं हंसमग्रतः प्रत्यभाषत ।।
अहो भवानभिज्ञोऽसि श्लाघनीयोऽसि सूरिभिः ।। ५५ ।।
अश्लाघनीयं कितवं यत्त्वमेनं प्रशंससे ।।
प्रशंससे किमर्थं त्वमल्पं संतमिमं जनम् ।। ५६ ।।
भस्रावत्पशुवच्चैव केवलं श्वासधारिणम् ।।
न ह्ययं वेत्ति धर्माणां रहस्यं पृथिवी पतिः ।। ५७ ।।
तत्त्वज्ञानी यथा रैक्वः सयुग्वान्ब्राह्मणोत्तमः ।।
रैक्वस्य हि महज्ज्योतीरहस्यं दैवतैरपि ।। ५८ ।।
न ह्यस्य प्राणमात्रस्य तेजस्तादृशमस्ति वै ।।
रैक्वस्य पुण्यराशीनामियत्ता नैव विद्यते ।। ५९ ।।
गण्यते पांसवो भूमेर्गण्यंते दिवि तारकाः ।।
रैक्वपुण्यमहामेरुसमूहो नैव गण्यते ।। ।। 3.1.26.६० ।।
किं च तिष्ठंत्विमे धर्मा नश्वरास्तस्य वै मुनेः ।।
ब्रह्मज्ञानमबाध्यं यत्तेन स श्लाघ्यते मुनिः ।। ६१ ।।
जानश्रुतेस्तु तादृक्षो धर्म एव न विद्यते ।।
दुर्लभं यत्तु योगीन्द्रैः कुतस्तज्ज्ञानवैभवम् ।। ०६२ ।।
परित्यज्य दुरात्मानं तद्वराकमिमं जनम् ।।
स एव रैक्वः सयुग्वाञ्छ्लाघ्यतां भवता मुनिः ।। ६३ ।।
जन्मना पंगुरपि यः स्वस्य स्नानचिकीर्षया ।।
गंगां च यमुनां चापि गयामपि मुनीश्वरः ।। ६४ ।।
आह्वयामास मन्त्रेण निजाश्रमसमीपतः ।।
तस्य ब्रह्मविदो रैक्वमहर्षेर्धर्मसंचये ।। ६५ ।।
अंतर्भवंति धर्मौघास्त्रैलोक्योदरवर्तिनाम् ।।
रैक्वस्य धर्मकक्षा तु न हि त्रैलोक्यवर्तिनाम् ।। ६६ ।।
प्राणिनां धर्मकक्षायामन्तर्भवति कर्हिचित ।।
एवमग्रेसरे हंसे कथित्वोपरते सति ।। ६७ ।।
हंसरूपा मुनींद्रास्ते ब्रह्मलोकं ययुः पुनः ।।
अथ पौत्रायणो राजा जानश्रुतिररिंदमः ।। ६८ ।।
रैक्वं चोत्कर्षकाष्ठायां निशम्य परमावधिम् ।।
विषण्णोऽभवदत्यर्थं वराकोऽक्षजितो यथा ।। ६९ ।।
चिंतयामास स नृपः पौनःपुन्येन निःश्वसन् ।।
हंस उत्कर्षयन्रैक्वं निकृष्टं मामिहाब्रवीत् ।। 3.1.26.७० ।।
अहो रैक्वस्य माहात्म्यं यं प्रशंसंति पक्षिणः ।।
तत्परित्यज्य संसारं सर्वं राज्यमिहाधुना ।। ७१ ।।
सयुग्वानं महात्मानं तमेव शरणं व्रजे ।।
कृपानिधिः स वै रैक्वः शरणं मामुपागतम् ।। ७२ ।।
प्रतिगृह्यात्मविज्ञानं मह्यं समुपदेक्ष्यति ।।
इत्यसौ चिंतयन्नेव कथंकथमपि द्विजाः ।। ७३ ।।
जाग्रन्नेवायमुद्वेलां रात्रिं तामत्यवाहयत् ।।
निशावसाने संप्राप्ते बंदिवृन्दप्रवर्तितम् ।। ७४ ।।
अशृणोन्मंगलरवं तूर्यघोषसमन्वितम् ।।
तदाकर्ण्य महाराजस्तदा तल्पस्थ एव सन् ।। ७५ ।।
सारथिं शीघ्रमाहूय बभाषे सादरं वचः ।।
सारथे सत्वरं गत्वा रथमारुह्य वेगवत् ।। ७६ ।।
आश्रमेषु महर्षीणां पुण्येषु विपिनेषु च ।।
विविक्तेषु प्रदेशेषु सतामावासभूमिषु ।। ७७ ।।
तीर्थानां च नदीनां च कूलेषु पुलिनेषु च ।।
अन्येषु च प्रदेशेषु यत्र संति मुनीश्वराः ।। ।। ७८ ।।
तेषु सर्वेषु योगींद्रं पंगुं शकटसंस्थितम् ।।
रैक्वाभिधानं सर्वेषां धर्माणामेकसंश्रयम् ।। ७९ ।।
ब्रह्मज्ञानैकनिलयं सयुग्वानं गवेषय ।।
अन्विष्य तूर्णं मत्प्रीत्यै पुनरागच्छ सारथे ।। 3.1.26.८० ।।
स तथेति विनिर्गत्य वेगवद्रथसंस्थितः ।।
सर्वत्रान्वेषयामास रैक्वं ब्रह्मविदं मुनिम् ।। ८१ ।।
गुहासु पर्वतानां च मुनीनामाश्रमेषु च ।।
संचचार महीं कृत्स्नां तत्र तत्र गवेषयन् ।। ८२ ।।
अन्विष्य विविधान्देशान्सारथिस्त्वरया सह ।।
क्रमान्महर्षिसंबाधं गंधमादनमन्वगात् ।। ८३ ।।
मार्गमाणः स तत्रापि तं ददर्श मुनीश्वरम् ।।
कंडूयमानं पामानं शकटीयस्थलस्थितम् ।। ८४ ।।
अद्वैतनिष्कलं ब्रह्म चिंतयंतं निरन्तरम् ।।
तं दृष्ट्वा सारथिस्तत्र सयुग्वानं महामुनिम् ।। ८५ ।।
रैक्वोऽयमिति संचिंत्य तमासाद्य प्रणम्य च ।।
विनयान्मुनिमप्राक्षीदुपविश्य तदन्तिके ।। ८६ ।।
सयुग्वान्रैक्वनामा च ब्रह्मन्किं वै भवानिति ।।
तस्य वाक्यं समाकर्ण्य स मुनिः प्रत्यभाषत ।। ८७ ।।
अहमेव सयुग्वान्वै रैक्वनामेति वै तदा ।।
इत्याकर्ण्य मुने र्वाक्यमिंगितैर्बहुभिस्तथा ।। ८८ ।।
कुटुम्बभरणार्थाय धनेच्छामवगम्य च ।।
सर्वं न्यवेदयद्राज्ञे निवृत्तो गंधमादनात् ।। ८९ ।।
जानश्रुतिर्निशम्याथ सारथेर्वाक्यमादरात् ।।
षट्शतानि गवां चापि निष्कभारं धनस्य च ।। 3.1.26.९० ।।
रथं चाश्वतरीयुक्तं समादाय त्वरान्वितः ।।
पौत्रायणः स राजर्षिस्तं रैक्वं प्रतिचक्रमे ।। ९१ ।।
गत्वा च वचनं प्राह तं रैक्वं स महीपतिः ।।
भगवन्रैक्व सयुग्वन्मद्दत्तं प्रतिगृह्यताम् ।। ९२ ।।
षट्शतानि गवां चापि निष्कभारं धनस्य च ।।
रथं चाश्वतरीयुक्तं प्रतिगृह्णीष्व मामकम् ।। ९३ ।।
गृहीत्वा सवमेतत्तु भो ब्रह्मन्ननुशाधि माम् ।।
अद्वैतब्रह्मविज्ञानं मह्यं समुपदिश्यताम् ।। ९४ ।।
इति तस्य वचः श्रुत्वा सस्पृहं च ससंभ्रम् ।।
रैक्वः प्रत्याह सयुग्वाञ्जानश्रुतिमरिंदमम् ।। ।। ९५ ।।
।। रैक्व उवाच ।। ।।
एता गावस्तवैवास्तु निष्कभारस्तथा रथः ।।
किमल्पेन ममानेन बहुकल्पेषु जीवतः ।। ९६ ।।
न मे कुटुंब निर्वाहे पर्याप्तमिदमंजसा ।।
एवं शतगुणं चापि यदि दत्तं त्वया मम ।। ९७ ।।
नालं तदपि राजेंद्र कुटुंबभरणाय वै ।।
इति रैक्ववचः श्रुत्वा जानश्रुतिरभाषत ।। ९८ ।।
।। जानश्रुतिरुवाच ।। ।।
त्वयोपदिश्यमानस्य ब्रह्मज्ञानस्य वै मुने ।।
न हि मूल्यमिदं ब्रह्मन्गोधनं रथ एव च ।। ।। ९९ ।।
प्रतिगृह्णीष्व वा मा वा ममैतत्तु गवादिकम् ।।
निष्कलाद्वैतविज्ञानं ब्रह्मन्नुपदिशस्व मे ।।
तदाकर्ण्य वचस्तस्य सयुग्वान्वाक्यमब्रवीत् ।। 3.1.26.१०० ।।
।। रैक्व उवाच ।। ।।
निर्वेदो यस्य संसारे तथा वै पुण्यपापयोः ।। १०१ ।।
प्रारब्धयोर्विनाशश्च स वै ज्ञानोपदेशभाक् ।।
तव यद्यपि संसारे निर्वेदः समजायत ।। २ ।।
तथापि पुण्यपापानां न हि नाशो व्याजयत ।।
पुण्यपापौघसंघाश्च पुनर्जन्मनि हेतवः ।। ३ ।।
न हि भोगं विना तेषां नाशो भवति भूपते ।।
तन्नाशोपायमद्याहं तथापि प्रब्रवीमि ते ।। ४ ।।
यतो मां शरणं प्राप्तस्तच्छृणुष्व समाहितः ।।
अत्र तीर्थत्रयं पुण्यं वर्ततेऽभीष्टदायकम् ।। ५ ।।
मुमुक्षूणां हि सर्वेषां सर्वप्रारब्धनाशनम् ।।
एतद्धि यमुनातीर्थं गंगातीर्थं तथैव च ।। ६ ।।
गयातीर्थमिदं चापि तदेषु स्नाहि मा चिरम् ।।
सर्वप्रारब्धनाशः स्यात्तदा नैवात्र संशयः ।। ७ ।।
ततस्ते शुद्धचित्तस्य ज्ञानं चैव दिशाम्यहम् ।।
इत्युक्ते रैक्वमुनिना हर्षसंफुल्ललोचनः ।। ८ ।।
ससंभ्रममुपागम्य सस्नौ तीर्थत्रयेऽपि सः ।।
तत्तीर्थस्नानमात्रेण शुद्धचित्तोऽभवन्नृपः ।। ९ ।।
उपातिष्ठत राजासौ सयुग्वानं गुरुं पुनः ।।
सयुग्वा स च रैक्वोऽपि मुनींद्रैरपि दुर्लभम् ।। 3.1.26.११० ।।
तज्जानश्रुतये ज्ञानं कृपया समुपादिशत् ।।
तेनोपदिष्टमात्रे तु विज्ञाने ब्रह्मरूपिणि ।। ११ ।।
अबाधितानुभववानभवद्राजसत्तमः ।।
ब्रह्मरूपं गतस्यास्य प्रसादाद्रैक्वयोगिनः ।। १२ ।।
घटकुड्यकुसूलात्मा न प्रपंचस्समस्फुरत् ।।
निर्भिद्य सहसा मायामभूद्ब्रह्मैव केवलम् ।। १३ ।।
इत्थं तीर्थत्रये स्नानाज्जानश्रुतिरहो नृपः ।।
दुर्लभं योगिवृंदैश्च ब्रह्मभूयत्वमाप्तवान् ।। १४ ।।
एवं वः कथितं विप्रास्तत्तीर्थत्रयवैभवम् ।।
यस्त्विमं पठतेऽध्यायं तीर्थत्रितयवैभवम् ।। १५ ।।
निर्भिद्याज्ञानतिमिरं ब्रह्मभूयाय कल्पते ।। ११६ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये यमुनागंगागयातीर्थप्रशंसायां जानश्रुति ज्ञानावाप्तिवर्णनंनाम षड्विंशोऽध्यायः ।। २६ ।। ।। ।।