स्कन्दपुराणम्/खण्डः ३ (ब्रह्मखण्डः)/सेतुखण्डः/अध्यायः १७
।। श्रीसूत उवाच ।। ।।
पुनरित्याह कक्षीवान्पितरं तं मुनीश्वराः ।।
यथोदंकेन गुरुणा प्रेषितोऽहमिहा धुना ।। १ ।।
समागतोस्मि तीर्थेऽस्मिन्नागस्त्ये मुनिसत्तम ।।
स्वनयस्य सुतोद्वाहसिद्ध्यर्थं गुरुचोदितः ।। २ ।।
उपायं तन्निगदितमत्र कुर्व न्न्यवर्तिषम् ।।
वर्षत्रयावसाने मामुद्वाहोपायसंयुतम् ।। ३ ।।
स्वनयोत्रैव तिष्ठन्तमाससाद यदृच्छया ।।
स च मामेत्य कन्यां ते दास्यामीति वचोऽब्रवीत् ।। ४ ।।
ततोस्मदनुरोधेन त्वामाह्वयदयं नृपः ।।
इतीरयित्वा पितरं कक्षीवान्विरराम सः ।। ५ ।।
सुदर्शनोऽथ विप्रेंद्रः पुरोधाः स्वन यस्य सः ।।
प्रययौ राजसविधं स्वनयाय निवेदितुम् ।। ६ ।।
राजानं तं समासाद्य स्वनयं स सुदर्शनः ।।
प्राप्तं निवेदयामास तं दीर्घतमसं मुनिम्।। ७ !।
ततः स राजा स्वनयो मुनिं प्राप्तं पुरोहितात् ।।
श्रुत्वा विनिर्ययौ द्रष्टुं महसा पटमण्डपात् ।। ८ ।।
अगस्त्यतीर्थतीरे तं सपुत्रमृषि सत्तमम्।।
ददर्श राजा स्वनयो ब्रह्माणमिव देवराट् ।। ९ ।।
ववंदे दीर्घतमसश्चरणौ लोकमंगलौ ।।
उत्थाप्य नृपतिं विप्रास्तदा दीर्घतमा मुनिः ।। ।। 3.1.17.१० ।।
आशिषं प्रयुयोजाथ स्वनयाय नृपाय सः ।।
अत्रांतरे समायात उदंकोऽपि महानृषिः ।। ११ ।।
रामसेतौ धनुष्कोटौ स्नातुं शिष्यगणैर्वृतः ।।
लक्षसंख्यो मुनिगणस्तेन साकं मुनीश्वरः ।। १२ ।।
उदंकोऽगस्त्यतीर्थेस्मिन्स्नातुं संप्राप्तवान्मुनिः ।।
उदंकमागतं दृष्ट्वा कक्षीवान्प्रणनाम तम् ।। १३ ।।
अकरोदाशिषं विप्रः शिष्यायाथ गुरुस्तदा ।।
अथ दीर्घतमा विप्रस्तमुदंकं महामुनिम् ।। १४ ।।
कुशलं परिपप्रच्छ सोऽपि तं मुनि पुंगमम् ।।
उभौ तौ मुनिशार्दूलौ सर्वलोकेषु विश्रुतौ ।। १५ ।।
कथयामासतुस्तत्र कथाः पापप्रणाशिनीः ।।
अथ राजाप्युदंकं तं प्रणनाम मुनीश्व रम् ।। १६ ।।
उदंकोप्याशिषं तस्मै प्रायुंक्त स्वनयाय वै ।।
राजाथ स्वनयः प्रीतस्तत्र वाक्यमभाषत ।। १७ ।।
मुनिं तं दीर्घतमसं विवाहः क्रिय तामिति ।।
तथास्त्वित्यवदत्सोऽपि तदा दीर्घतमा मुनिः ।। १८ ।।
श्व एव क्रियतां राजन्सुमुहूर्ते महामते ।।
अत्रैव पाणिग्रहणं क्रियतां गन्धमा दने ।। १९ ।।
तस्मादिहानय क्षिप्रं कन्यामंतःपुरं तथा ।।
इत्युक्तः स्वनयो राजा गत्वा स्वपटमण्डपम् ।। 3.1.17.२० ।।
आहूय शतसंख्याकान्वृद्धान्वर्ष वरांस्तदा ।।
आनेतुं प्रेषयामास कन्यामंतःपुरं तथा ।। २१ ।।
ते वर्षवरमुख्यास्तु स्वनयेन प्रचोदिताः ।।
मनोजवान्समारुह्य वाजिनो मधुरां ययुः ।। २२ ।।
गत्वा चांतःपुरं तूर्णं वृत्तं सर्वं निवेद्यच ।।
कन्ययांतःपुरेणापि सहिताः पुनराययुः ।। २३ ।।
ततः परस्मिन्दिवसे शुभे दीर्घतमा ऋषिः ।।
गोदानादीनि पुत्रस्य विधिवन्निरवर्तयत् ।। २४ ।।
निर्वृत्तेष्वथ कक्षीवान्गोदानादिषु कर्मसु ।।
उद्वोढुं राजतनयां पित्रा च गुरुणा सह ।। ।। २५ ।।
चतुर्दंतं महाकायं गजं सर्वांगपांडुरम् ।।
आरुह्य हर्षसंयुक्तो द्वितीय इव देवराट् ।। २६ ।।
मनोरमायाः कन्यायाः पूरयंश्च मनोरथम् ।।
ब्राह्मणैर्बहुसाहस्रैः सहितः स्वस्तिवाचकैः ।।२७।।
तोरणालंकृतद्वारं राजर्षे पटमण्डपम् ।।
कृतमंगलकृत्योऽसौ कक्षीवान्मुदितो ययौ ।।२८।।
ततः स्वनयकन्या सा कृतमंगलभूषणा ।।
चतुर्दंतमहाकायश्वेतदंतावलस्थितम्।। २९ ।।
कक्षीवंतं समायांतं दृष्ट्वा स्वोद्वाहनोत्सुकम् ।।
प्रतिज्ञा मत्कृते दानीं निर्वृत्तेति मुदं ययौ ।। 3.1.17.३० ।।
कक्षीवान्दीर्घतमसा तथोदंकेन संयुतः ।।
पटाकारबहिर्द्वारं क्रमाद्राज्ञः समाययौ ।। ३१ ।।
स्वनयस्तु ततो दृष्ट्वा कक्षीवंतं समागतम् ।।
प्रत्युज्जगाम सहितः सुदर्शनपुरोधसा ।। ३२ ।।
कक्षीवतो वरस्याथ कन्यकापरिचारिकाः ।।
राजतैः स्वर्णपात्रैश्च चक्रु र्नीराजनाविधिम् ।। ३३ ।।
स्वनयेन समाहूतो ब्राह्मणैः परिवारितः ।।
प्रविवेशाथ लक्ष्मीवान्कक्षीवान्राजमंदिरम् ।। ३४ ।।
ततो वरेण सहितं तं दीर्घतमसं मुनिम् ।।
सोदंकमनयद्राजा स्वगृहं विनयान्वितः ।। ३५ ।।
उदंकदीर्घतमसोरर्घ्यं च प्रददौ नृपः ।।
अलंकृते प्रपामध्ये वस्त्रचामरतोरणैः ।। ३६ ।।
वरो दीर्घतमाश्चान्ये सोदंका मुनयस्तदा ।।
न्यषीदन्स्वनयश्चापि सामात्यः सपुरोहितः ।। ३७ ।।
ततो दुहितरं कन्यां सुकेशीं तां मनो रमाम् ।।
भूषणालंकृतां गात्रे दिव्यवस्त्रधरां शुभाम् ।। ३८ ।।
बिंबोष्ठीं चारुसर्वांगीं पीनोन्नतपयोधराम् ।।
प्रपायामध्यमनयन्महाजनसमाकुलम् ।। ।। ३९ ।।
ततो वरस्य कंठे सा मालां चंपकनिर्मिताम् ।।
निवेशयामास शुभा जनमध्ये मनोरमा ।। 3.1.17.४० ।।
उदंकस्तत आगत्य प्रतिष्ठाप्यानलं स्थले ।।
कृत्वाग्निमुखपर्यंतं लाजाहोमादिकं तथा ।। ४१ ।।
पाणिमग्राहयत्तस्याः कन्यायाश्च वरेण तु ।।
उदंकः सर्वकर्माणि कारयामास तत्र वै ।। ।। ४२ ।।
वरवध्वोस्तदा विप्राः प्रायुंजत तदाशिषः ।।
ततः स राजा स्वनयो वरं दीर्घतमोमुनिम्।।४३।।
उदंकं वरपक्षीयान्स्वपक्षीयांस्तथाद्विजाः ।।
त्रिलक्षं ब्राह्मणानन्नैर्भोजयामास षड्रसैः ।। ४४ ।।
ततः संभावयामास तांबूलाद्यैरनेकधा ।।
अथामंत्र्य मुनिश्रेष्ठमुदंकः स्वाश्रमं ययौ ।।४५ ।।
अन्ये च ब्राह्मणाः सर्वे स्वदेशान्प्रययुस्तदा ।।
एवं विवाहे निर्वृत्ते कक्षीवद्राजकन्ययोः ।।४६।।
प्रविश्यागस्त्यतीर्थं स तिरोधत्त गजोत्तमः ।।
ततो दीर्घतमा विप्राः पुत्रेण स्नुषया सह ।। ४७ ।।
अगस्त्यस्य महातीर्थे स्नानं कृत्वेष्टदायिनि ।।
श्लाघमानश्च तत्तीर्थं सर्वलोकेषु विश्रुतम् ।। ४८ ।।
प्रयातुं स्वा श्रमं पुण्यं वेदारण्यं मनो दधे ।।
राजानं च तमागंतुमापृच्छन्मुनिसत्तमः ।। ४९ ।।
स्वनयोऽपि तदा राजा स्वदुहित्रे मुदान्वितः ।।
ददौ शतसहस्राणि स्वर्णानि स्त्रीधनं तदा ।। 3.1.17.५० ।।
गवां सहस्रं प्रददौ दासीनां च सहस्रकम् ।।
ग्रामं पंचशतं चापि ददौ दुहितृवत्सलः ।। ५१ ।।
दिव्यवस्त्रा युतं चापि शतं भूषणपेटिकाः ।।
हारमालासहस्रं च ददौ दुहितृसौहृदात् ।। ५२ ।।
एतत्सर्वं समादाय स पुत्रः सस्नुषो मुनिः ।।
राज्ञा च समनुज्ञातः प्रययौ वेदकाननम् ।।५३ ।।
वेदारण्यं समासाद्य तदा दीर्घतमा मुनिः ।।
उवास ससुखं विप्राः पुत्रेण स्नुषया सह ।। ५४ ।।
सेवन्वेदाटवीनाथं भुक्तिमुक्तिफलप्रदम् ।।
न्यवसत्तु चिरं कालं कक्षीवानपि भार्यया ।। ५५ ।।
स्वनयोपि स राजर्षिः स्नात्वा कुंभजनिर्मिते ।।
तत्र तीर्थे महापुण्ये सहितः सर्वसैनिकैः ।। ५६ ।।
अतःपुरं समादाय मुदितः स्वपुरं ययौ ।।
अगस्त्यतीर्थमाहात्म्यादेवं कक्षीवतो मुनेः ।।
अनन्यसुलभो विप्रा विवाहः समजायत ।। ५७ ।।
।। श्रीसूत उवाच ।। ।।
इतिहासस्त्वयं पुण्यो वेदसिद्धो मुनीश्वराः ।। ५८ ।।
धन्यो यशस्य आयुष्यः कीर्तिसौभाग्य वर्द्धनः ।।
श्रोतव्यः पठितव्योऽयं सर्वथा मानवैर्द्विजाः ।। ५९ ।।
पठतां शृण्वतां चेममितिहासं पुरातनम् ।।
नेहामुत्रापि वा क्लेशो दारिद्यं चापि नो भवेत् ।। 3.1.17.६० ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये कक्षीवद्विवाहनिष्पत्तिवर्णनंनाम सप्त दशोऽध्यायः ।। १७ ।।