स्कन्दपुराणम्/खण्डः ३ (ब्रह्मखण्डः)/सेतुखण्डः/अध्यायः ११
।। श्रीसूत उवाच ।। ।।
पापनाशे नरः स्नात्वा सर्वपापनिबर्हणे ।।
ततः सीतासरो गच्छेत्स्नातुं नियमपूर्वकम् ।। १ ।।
यानि कानि च पुण्यानि ब्रह्मांडांतर्गतानि वै ।।
तानि गंगादितीर्थानि स्वपापपरिशुद्धये ।। २ ।।
सीतासरसि वर्तंते महापातकनाशने ।।
क्षेत्राण्यपि महार्हाणि काश्यादीनि दिवानिशम् ।। ३ ।।
सीतासरोत्र सेवंते स्वस्वकल्मषशांतये ।।
तस्याः सरसि संगीतगुणेनाकृष्य बालिशः ।। ४ ।।
पंचाननोऽपि वसते पंचपातकनाशनः ।।
तदेतत्तीर्थमागत्य स्नात्वा वै श्रद्धया सह ।।
पुरंदरः पुरा विप्रा मुमुचे ब्रह्महत्यया ।। ५ ।।
।। ऋषय ऊचुः ।। ।।
ब्रह्महत्या कथमभूद्वासवस्य पुरा मुने ।।
सीतासरसि स्नानात्कथं मुक्तोऽभवत्तया ।। ६।।
।। श्रीसूत उवाच ।। ।।
कपालाभरणोनाम राक्षसोऽभूत्पुरा द्विजाः ।। ।। ७ ।।
अवध्यः सर्वदेवानां सोऽभवद्ब्रह्मणो वरात् ।।
शवभक्षणनामा तु तस्यासीन्मंत्रिसत्तमः ।। ८ ।।
अक्षौहिणीशतं तस्य हयेभरथसंकुलम् ।।
अस्ति तस्य पुरं चापि वैजयंतमिति श्रुतम् ।। ९ ।।
वसत्यस्मिन्पुरे सोऽयं कपालाभरणो बली ।।
शवभक्षं समाहूय बभाषे मंत्रिणं द्विजाः ।। ।। 3.1.11.१० ।।
शवभक्ष महावीर्य मंत्रशास्त्रेषु कोविद ।।
वयं देवपुरीं गत्वा विनिर्जित्य सुरान्रणे ।। ११ ।।
शक्रस्य भवने रम्ये स्थास्यामस्सैनिकैः सह ।।
रमावो नंदने तस्य रंभाद्यप्सरसां गणैः ।। १२ ।।
कपालाभरणस्येदं निशम्य वचनं तदा ।।
शवभक्षोऽब्रवीद्विप्रा वचस्तत्र तथास्त्विति ।। ।। १३ ।।
ततः कपालाभरणः पुत्रं दुर्मेधसं बली ।।
प्रतिष्ठाप्य पुरे शूरं सेनया परिवारितः ।। १४ ।।
युयुत्सुरमरैः साकं प्रययावमरावतीम् ।।
गजाश्वरथपादातैरुद्धतै रेणुसंचयैः ।। १५ ।।
शोषयञ्जलधीन्सिंधूंश्चूर्णयन्पर्वतानपि ।।
निःसाणध्वनिना विप्रा नादयन्रोदसी तथा ।। १६ ।।
अश्वानां हेषितरवैर्गजानामपि बृंहितैः ।।
रथनेमिस्वनैरुग्रैः सिंहनादैः पदातिनाम् ।। १७ ।।
श्रोत्राणि दिग्गजानां च वितन्वन्बधिराणि सः ।।
अगमद्देवनगरीं युयुत्सुरमरैः सह ।। १८ ।।
तत इन्द्रादयो देवाः सेनाकलकलध्वनिम् ।।
श्रुत्वाभिनिर्य्ययुः पुर्या युद्धाभिमनसो द्विजाः ।। १९ ।।
ततो युद्धं समभवद्देवानां राक्षसैः सह ।।
अदृष्टपूर्वं जगति तथैवाश्रुतपूर्वकम् ।। 3.1.11.२० ।।
तत इन्द्रादयो देवा राक्षसाञ्जघ्नुराहवे ।।
राक्षसाश्च सुराञ्जघ्नुः समरे विजिगीषवः ।। २१ ।।
द्वन्द्वयुद्धं च समभूदन्योन्यं सुररक्षसाम् ।।
कपालाभरणेनाजौ युयुधे बलवृत्रहा ।। २२ ।।
यमेन शवभक्षश्च वरुणेन च कौशिकः ।।
कुबेरो रुधिराक्षेण युयुधे ब्राह्मणोत्तमाः ।। २३ ।।
मांसप्रियो मद्यसेवी क्रूरदृष्टिर्भयावहः ।।
चत्वार एते विक्रांताः कपालाभरणानुजाः ।। २४ ।।
अश्विभ्यामग्निवायुभ्यां युद्धे युयुधिरे मिथः ।।
ततो यमो महावीर्यः कालदण्डेन वेगवान् ।। २५ ।।
शवभक्षं निहत्याजावनयद्यमसादनम्।।
तस्य चाक्षौहिणीस्त्रिंशन्निजघ्ने समरे यमः ।। २६ ।।
वरुणः कौशिकस्याजौ प्रासेन प्राहरच्छिरः ।।
कुबेरो रुधिराक्षस्य कुन्तेनाभ्यहरच्छिरः ।। २७ ।।
अश्विभ्यामग्निवायुभ्यां कपालाभरणानुजाः ।।
निहताः समरे विप्राः प्रययुर्यमसादनम् ।। २८ ।।
अक्षौहिणीशतं चापि देवेन्द्रेण मृधे द्विजाः ।।
यामार्द्धेन हतं युद्धे प्रययौ यमसादनम् ।। २९ ।।
ततः कपालाभरणः प्रेक्ष्य सेनां निजां हताम् ।।
चापमादाय निशिताञ्छरांश्चापि महाजवान् ।। 3.1.11.३० ।।
अभ्ययात्समरे शक्रं तिष्ठतिष्ठेति चाब्रवीत् ।।
ततः शक्रस्य शिरसि व्यधमच्छरपंचकैः ।। ३१ ।।
तानप्राप्तान्प्रचिच्छेद शरैर्युद्धे स वृत्रहा ।।
ततः शूलं समादाय कपालाभरणो मृधे ।। ३२ ।।
देवेंद्राय प्रचिक्षेप तं शक्त्या निजघान सः ।।
ततः कपालाभरणः शतहस्तायतां गदाम्।। ३३ ।।
आयसीं पंचसाहस्रतुलाभारेणनिर्मिताम् ।।
आददे समरे शक्रं वक्षोदेशे जघान च ।।३४।।
ततः स मूर्च्छितः शक्रो रथोपस्थ उपाविशत् ।।
मृतसंजीविनीं विद्यां जपित्वाथ बृहस्पतिः ।। ३५ ।।
पुलोमजापतिं युद्धे समजीवयदद्भुतम् ।।
ऐरावतं तदारुह्य कपालाभरणांतिकम्।। ३६ ।।
आजगाम शचीभर्ता प्रहर्तुं कुलिशेन तम् ।।
एकप्रहारेण तदा महेंद्रः पाकशासनः ।। ३७ ।।
कपालाभरणं युद्धे वज्रेण सरथाश्वकम् ।।
सचापं सध्वजं चैव सतूणीरं सवर्मकम् ।।३८।।
चूर्णयामास कुपितस्तिलशः कणशस्तथा ।।
हते तस्मिन्महावीरे कपालाभरणे रणे।।३९।।
सुखं सर्वस्य लोकस्य बभूव चिरदुःखिनः ।।
राक्षसस्य वधोत्पन्ना ब्रह्महत्या पुरंदरम् ।।
अन्वधावत्तदा भीमा नादयंती दिशो दश ।।3.1.11.४०।।
।। ऋषय ऊचुः ।। ।।
न विप्रो राक्षसः सूत कपालाभरणो मुने ।।
तत्कथं ब्रह्महत्येंद्रं तद्वधात्समुपाद्रवत् ।। ४१ ।।
।। श्रीसूत उवाच ।। ।।
वक्ष्यामि परमं गुह्यं मुनींद्राः परमाद्भुतम् ।।४२।।
शृणुत श्रद्धया यूयं समाधाय स्वमानसम् ।।
पुरा विंध्यप्रदेशेषु त्रिवक्रो नाम राक्षसः ।। ४३ ।।
तस्य भार्या गुणोपेता सौंदर्यगुणशालिनी ।।
सुशीला नाम सुश्रोणी सर्वलक्षणलक्षिता ।। ४४ ।।
सा कदाचिन्मनोज्ञांगी सुवेषा चारुहासिनी ।।
विंध्यपादवनोद्देशे विचचार विलासिनी ।। ४५ ।।
तस्मिन्वने शुचिर्नाम वर्ततेस्म महामुनिः ।।
तपसमाधिसंयुक्तो वेदाध्ययनतत्परः ।। ४६ ।।
तस्याश्रमसमीपं तु सा ययौ वरवर्णिनी ।।
तां दृष्ट्वा स मुनिर्धैर्यं मुमोचानंगपीडितः।।
तामासाद्य वरारोहां बभाषे मुनिसत्तमः ।। ४७।।
।। शुचिरुवाच ।। ।।
ललने स्वागतं तेऽस्तु कस्य भार्या शुचिस्मिते ।। ४८ ।।
किमागमनकृत्यं ते वनेऽस्मिन्नतिभीषणे ।।
श्रांतासि त्वं वरारोहे वसास्मिन्नुटजे मम ।। ४९ ।।
तथोक्ता सा तु सुश्रोणी तं मुनिं प्रत्यभाषत ।।
त्रिवक्ररक्षोभार्याहं सुशीला नामतो मुने ।।3.1.11.५।।।
पुष्पावचयकामेन वनमेतत्समागता ।।
अपुत्राहं मुने भर्त्रा प्रेरिता पुत्रमिच्छता ।। ५१ ।।
शुचिं मुनिं समाराध्य तस्मात्पुत्रमवाप्नुहि ।।
इति प्रतिसमादिष्टा पतिना त्वां समागता ।।५२।।
पुत्रमुत्पादय त्वं मे कृपां कुरु मुने मयि ।।
एवमुक्तः स तु शुचिः सुशीलां तामभाषत ।। ५३ ।।
।। शुचिरुवाच ।।।।
त्वां दृष्ट्वा मम च प्रीतिः सुशीले विद्यतेऽधुना।।
मनोरथमहांभोधिं त्वमापूरय मामकम् ।। ५४ ।।
इत्युक्त्वा स मुनिस्तत्र तया रेमे दिनत्रयम् ।।
तामुवाच मुनिः प्रीतः सुशालां सुन्दराकृतिम् ।। ।। ५५ ।।
तवोदरे महावीर्यः कपालाभरणाभिधः ।।
भविष्यति चिरं राज्यं पालयिष्यति मेदिनीम् ।। ५६ ।।
सहस्रं वत्सरान्वत्सस्तपसा प्रीणयन्विधिम् ।।
पुरंदरं विनान्येभ्यो देवेभ्यो नास्य वध्यता।।५७।।
ईदृशस्ते सुतो भूयादिंद्रतुल्यपराक्रमः ।।
इत्युक्त्वा स मुनिर्नारीं काशीं शिवपुरीं ययौ ।।५८।।
सुशीला सापि सुषुवे कपालाभरणं सुतम् ।।
तं जघान मृधे शक्रो वज्रेण मुनिपुंगवाः ।।५९।।
शुचेर्बीजसमुद्भूतं तमिंद्रो न्यवधीद्यतः ।।
ततः पुरंदरः शक्रो जगृहे ब्रह्महत्यया ।।3.1.11.६०।।
धावति स्म तदा शक्रः सर्वांल्लोकान्भयाकुलः।।
धावंतमनुधावंती ब्रह्महत्या तमन्वगात्।।६१।।
अनुद्रुतो हि विप्रेंद्राः शक्रोऽयं ब्रह्महत्यया ।।
पितामहसदः प्राप संतप्तहृदयो भृशम् ।।६२।।
न्यवेदयद्ब्रह्महत्यां ब्रह्मणे स पुरंदरः ।।
भगवँल्लोकनाथेयं ब्रह्महत्याति भीषणा।।६३।।
बाधते मां प्रजानाथ तस्या नाशं ब्रवीहि मे ।।
पुरंदरेणैवमुक्तो ब्रह्मा प्राह दिवस्पतिम्।।६४।।
ब्रह्मोवाच ।।
सीताकुण्डं प्रयाहींद्र गंधमादनपर्वते।।
सीताकुण्डस्य तीरे त्वं इष्ट्वा यागैः सदाशिवम्।। ६५ ।।
तस्मिन्सरसि च स्नायाः सर्वपापहरे शुभे ।।
ततः पूतो भवेश्शक्र बह्महत्याविमोचितः।।६६।।
देवलोकं पुनर्यायाः सर्वदुःखविवर्जितः ।।
सर्वपापहरं पुण्यं सीताकुण्डं विमुक्तिदम् ।।६७।।
महापातकसंघानां नाशकं परमामृतम् ।।
सर्वदुःखप्रशमनं सर्वदारिद्र्यनाशनम् ।। ६९ ।।
धनधान्यप्रदं शुद्धं वैकुण्ठादिपदप्रदम्।।
तस्मात्तत्र कुरुष्वेष्टिं सीतासरसि वृत्रहन् ।। ६९ ।।
इत्युक्तः सुरराजोऽसौ प्रययौ गंधमादनम् ।।
प्राप्य सीतासरो विप्राः स्नात्वेष्ट्वा च तदंतिके ।। 3.1.11.७० ।।
प्रययौ स्वपुरीं भूयो ब्रह्महत्याविमोचितः ।।
एवं प्रभावं तत्तीर्थं सीतायाः कुण्डमुत्तमम् ।। ७१ ।।
राघवप्रत्ययार्थं हि प्रविश्य हुतवाहनम् ।।
संनिधौ सर्वदेवानां मैथिली जनकात्मजा ।। ७२ ।।
विनिर्गता पुनर्वह्नेः स्थिता सर्वांगशोभना ।।
निर्ममे लोकरक्षार्थं स्वनाम्ना तीर्थमुत्तमम् ।। ७३ ।।
तत्र सस्नौ स्वयं सीता तेन सीतासरः स्मृतम् ।।
तत्र यो मानवः स्नाति सर्वान्कामाँल्लभेत सः ।। ७४ ।।
तस्मिन्नुपस्पृश्य नरो द्विजेंद्रा दत्त्वा च दानानि पृथग्विधानि ।।
कृत्वा च यज्ञान्बहुदक्षिणाभिर्लोकं प्रयायात्परमेश्वरस्य ।। ७५ ।।
युष्माकमेवं प्रथितं मुनींद्राः सीतासरो वैभवमेतदुक्तम् ।।
शृण्वन्पठन्वै तदिहैव भोगान्भुक्त्वा परत्रापि सुखं लभेत ।। ७६।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीयेब्रह्मखण्डे सेतुमाहात्म्ये सीतासरःप्रशंसायामिंद्रब्रह्महत्याविमोक्षणनामैकादशोऽध्यायः ।। ११ ।।