स्कन्दपुराणम्/खण्डः ३ (ब्रह्मखण्डः)/सेतुखण्डः/अध्यायः ०९

विकिस्रोतः तः

ततः स विप्रः प्रत्यूषे पुत्रशोकेन पीडितः ।।
अशोक दत्तसंयुक्तो भार्यया विललाप ह ।। १ ।।
विलपंतं समालोक्य गोविंदस्वामिनं द्विजाः ।।
वणिक्समुद्रदत्ताख्यः समानिन्ये निजं गृहम् ।। २ ।।
समानीय समाश्वास्य दयायुक्तो वणिग्वरः ।।
स्वधनानां हि सर्वेषां रक्षितारमकल्पयत् ।। ३ ।।
स्मरन्महायतिवचः पुत्रदर्शनलालसः ।।
स तस्थौ वणिजो गेहे पुत्रभार्यासमन्वितः ।। ४ ।।
अशोकदत्तनामा तु द्वितीयो विप्रनंदनः ।।
शस्त्रे चैव तथा शास्त्रे बभूवातिविचक्षणः ।। ५ ।।
तथान्यास्वपि विद्यासु नास्ति तत्सदृशो भुवि ।।
कृतविद्यो द्विजसुतः प्रख्यातो नगरेऽभवत् ।। ६ ।।
अत्रांतरे नरपतिं प्रतापमुकुटाभिधम् ।।
काशीदेशाधिपो मल्लः कश्चिदभ्याययौ बली ।। ७ ।।
प्रतापमुकुटो राजा मल्लस्यास्य जयाय सः ।।
बलिनं द्विजपुत्रं तमाह्वयामास भृत्यकैः ।। ८ ।।
तमागतं समालोक्य प्रतापमुकुटोऽब्रवीत् ।।
अशोकदत्त सहसा मल्लमेनं बलोत्कटम् ।। ९ ।।
दुर्जयं जहि संग्रामे त्वं वै वलवतां वरः ।।
दाक्षिणात्यमहामल्लपतावस्मिञ्जिते त्वया ।। 3.1.9.१० ।।
यदिष्टं तव तत्सर्वं दास्याम्यहं न संशयः ।।
इति तस्य वचः श्रुत्वा वलवान्द्विजनंदनः ।। ११ ।।
दाक्षिणात्यमहामल्लनृपतिं समताडयत् ।।
ताडितो द्विजपुत्रेण मल्लः स बलिना बली ।। १२ ।।
सद्यो विवृत्तनयनः परासुर्न्यपतद्भुवि ।।
द्विज पुत्रस्य तत्कर्म देवैरपि सुदुष्करम् ।। १३ ।।
प्रतापमुकुटो दृष्ट्वा प्रसन्नहृदयोऽभवत् ।।
दत्त्वा वहुधनान्ग्रामान्समीपेऽस्थापयत्तदा ।। १४ ।।
स कदाचिन्महाराज सहितो द्विजसूनुना ।।
संध्यायां विजने देशे चचार तुरगेण वै ।। १५ ।।
द्विजसूनुसखस्तत्र दीनां वाणीमथाशृणोत् ।।
राजन्नल्पापराधोऽहं शत्रुप्रेरणयासकृत् ।। १६ ।।
दण्डपालेन निहितः शूले निर्घृणचेतसा ।।
दिनमद्य चतुर्थं मे शूलस्थस्यैव जीवतः ।। १७ ।।
प्राणाः सुखेन निर्यांति न हि दुष्कृतकर्मणाम् ।।
भृशं मां बाधते तृष्णा तां निवारय भूपते ।।१८ ।।
इति दीनां समाकर्ण्य वाचं राजा द्विजा त्मजम् ।।
अशोकदत्तनामानं धैर्यवंतमभाषत ।। १९ ।।
अस्मै निरपराधाय शूलप्रोताय जंतवे ।।
तृष्णार्दिताय दातव्यं द्विजसूनो त्वया जलम् ।। ।। 3.1.9.२० ।।
इत्यादिष्टो नरेन्द्रेण सहसा द्विजनन्दनः ।।
जलपूर्णं समादाय कलशं वेगवान्ययौ ।। २१ ।।
तच्छ्मशानं समासाद्य भूतवेतालसंकुलम् ।।
शूलप्रोताय वै तस्मै जलं दातुं समुत्सुकः ।। २२ ।।
ददर्शाथ स्थितां नारीं नवयौवनशालिनीम् ।।
उदैक्षत महाकांतिं मूर्तामिव रतिं द्विजः ।। ।। २३ ।।
तामालोक्य ततः प्राह धैर्यवान्द्विजनंदनः ।।
कासि भद्रे वरारोहे श्मशाने विजने स्थिता ।। २४ ।।
अस्याधस्तात्किमर्थं त्वं शूलप्रोतस्य तिष्ठसि ।।
इति तस्य वचः श्रुत्वा सा प्राह रुचिरानना ।। २५ ।।
पुरुषो वल्लभोऽयं मे शूले राज्ञा समर्पितः ।।
धनं यथा च कृपणः पश्य प्राणान्न मुंचति ।। २६ ।।
आसन्नमरणं चैनमनुयातुमिह स्थिता ।।
तृषितो याचते वारि मामयं व्यथते मुहुः ।। २७ ।।
शूलप्रोतो द्धतग्रीवं मुमूर्षुं प्राणनायकम्।।
नास्मि पाययितुं शक्ता जलमेनमधःस्थिता।।२८।।
अशोकदत्तस्तच्छ्रुत्वा करुणावरुणालयः ।।
तत्कालसदृशं वाक्यं तां वधूमब्रवीत्तदा ।।२९।।
।। अशोकदत्त उवाच ।। ।।
मातर्मत्स्कंधमारुह्य देह्यस्मै शीतलं जलम्।।
सा तथेति तमाभाष्य तरुणी त्वरयान्विता।।3.1.9.३०।।
आनम्रवपुषस्तस्य स्कंधं पद्भ्यां रुरोह वै ।।
द्विजसूनुर्ददर्शाथ शोणितं नूतनं पतत्।।३१।।
किमेतदिति सोपश्यदुन्नम्य सहसा मुखम् ।।
भक्ष्यमाणं तया तत्स विज्ञाय द्विजनंदनः।।३२।।
अशोकदत्तो जग्राह तस्याः पादं सनूपुरम्।।
ततोऽगान्नूपुरं त्यक्त्वा बद्धरत्नं विहाय तत्।।३३।।
प्रत्युप्तानेकरत्नाढ्यं तदादायच नूपुरम्।।
अशोकदत्तः प्रययौ तच्छ्मशानान्नृपांतिकम्।।३४।।
स्मशानवृत्तं तत्सर्वं स नृपाय निवेद्य वै।।
महार्घ्यरत्नप्रत्युप्तं नूपुरं च ददौ तदा ।।३५।।
ज्ञात्वा तद्वीरचरितं वीरैरन्यैः सुदुष्करम्।।
ददौ मदनलेखाख्यां सुतां तस्मै महीपतिः।।३६।।
कदाचिदथ ताद्दिव्यं नूपुरं वीक्ष्य भूपतिः।।
अस्य नूपुरवर्यस्य तुल्यं वै नूपुरांतरम्।। ३७ ।।
कुतो वा लभ्यत इति सादरं समचिंतयत् ।।
अशोकदत्तस्तु तदा विज्ञाय नृपकांक्षितम् ।। ३८ ।।
नृपुरांतरसि द्ध्यर्थं चिंतयामास चेतसा ।।
श्मशाने नूपुरमिदं यतः प्राप्तं मया पुरा ।।३९।।
तां नूपुरांतरप्राप्त्यै कुत्र द्रक्ष्यामि सांप्रतम् ।।
इत्थं वितर्क्य बहुधा नि श्चिकाय महामतिः।।3.1.9.४०।।
विक्रेष्यामि महामांसं समेत्य पितृकाननम्।।
तत्र राक्षसवेतालपिशाचादिषु सर्वशः।।४१।।
मंत्रैराहूयमानेषु साप्यायास्य ति राक्षसी ।।
तामागतां बलाद्गृह्य तद्ग्रहीष्यामि नूपुरम्।।४२।।
राक्षसानां सहस्रं वा पिशाचानां तथायुतम् ।।
वेतालानां तथा कोटिर्न लक्ष्यं बलिनो मम ।।४३।।
इति निश्चित्य मनसा श्मशानं सहसा ययौ ।।
विक्रीणानो महामांसं मंत्रैराहूय राक्षसान् ।।४४।।
गृहाणेत्युच्चया वाचा चचार श्रावयन्दि शः ।।
विक्रीयते महामांसं गृह्यतांगृह्यतामिति ।। ४५ ।।
तत्र राक्षसवेतालाः कंकालाश्च पिशाचकाः ।।
अन्ये च भूतनिवहाः समाजग्मुः प्रहर्षिताः ।। ।। ४६ ।।
भक्षयिष्यामहे सर्वे मांसमिष्टतमं त्विति ।।
तत्रागच्छत्सु सर्वेषु रक्षःकन्यासमावृता ।। ४७ ।।
आययौ राक्षसी सापि मांसभक्षणलालसा ।।
गवेषयंस्तदा विप्रस्तां समुद्वीक्ष्य राक्षसीम्।। ४८ ।।
सेयं दृष्टा पुरेत्येष प्रत्यभिज्ञानमाप्तवान् ।।
तामाह द्विजपुत्रोऽन्यद्देहि मे नूपुरं त्विति ।। ४९ ।।
सा तस्य वचनं श्रुत्वा प्रीता वाक्यमथाऽब्रवीत् ।।
ममैव च त्वया नीतं पुरा वीरेंद्र नूपुरम् ।। 3.1.9.५० ।।
गृहाण रत्नरुचिरं द्वितीयमपि नूपुरम् ।।
इत्युक्त्वा नूपुरं तस्मै स्वसुतां च ददौ प्रियाम्।। ५१ ।।
विद्युत्केश्या तदा दत्तां प्रियां विद्युत्प्रभाभिधाम् ।।
विप्रः संप्राप्य मुमुदे रूपयौवनशालि नीम् ।। ५२ ।।
विद्युत्केशी तु जामात्रे हेमाब्जमपि सा ददौ ।।
विद्युत्प्रभां नूपुरं च हेमाब्जमपिलभ्य सः ।। ५३ ।।
श्वश्रूमाभाष्य सहसा पुनः प्रायान्नृपांतिकम्।।
ततः प्रतापमुकुटो नूपुरप्राप्तिनंदितः ।। ५४ ।।
शौर्यधैर्यसमायुक्तं प्रशशंस द्विजात्मजम्।।
अथ विद्युत्प्रभां विप्रः सोऽब्रवीद्रहसि प्रियाम्।।५५।।
मात्रा तव कुतो लब्धमेतद्धेमांबुज प्रिये।।
एतत्तुल्यानि चान्यानि यतः प्राप्स्ये वरानने।।५६।।
द्विजात्मजं ततः प्राह पतिं विद्युत्प्रभा रहः ।।
प्रभो कपालविस्फोटनाम्नो वेतालभूपतेः ।। ५७ ।।
अस्ति दिव्यं सरः किंचिद्धेमांबुजपरिष्कृतम् ।।
तव श्वश्र्वा जलक्रीडां वितन्वं त्येदमाहृतम् ।। ५८ ।।
इति श्रुत्वा वचस्तत्र मां नयेति जगाद सः ।।
ततः सा सहसा विप्रं निन्ये तत्कांचनं सरः ।। ५९ ।।
ततः स हेमपद्मानामाजिहीर्षुर्द्विजात्मजः ।।
तद्विप्रकारिणः सर्वान्वेतालादींस्ततोऽवधीत् ।। 3.1.9.६० ।।
स्वयं कपालविस्फोटं निहताशेषसैनिकम् ।।
ददर्श वेतालपतिं तं च हंतुं प्रचक्रमे ।। ६१ ।।
अत्रांतरे महातेजा नाम्ना विज्ञप्तिकौतुकः ।।
विद्याधरपतिः प्राप्य विमानेनैनमब्रवीत् ।। ६२ ।।
अशोकदत्तं विप्रेंद्र साहसं मा कृथा इति ।।
तदाकर्ण्य द्विजसुतो विमानवरसंस्थितम् ।।६३।।
ददर्श प्रभया युक्तं विद्याधरपतिं दिवि ।।
तस्य दर्शनमात्रेण शापामुक्तो द्विजा त्मजः ।। ६४ ।।
संत्यज्य मानुषं रूपं दिव्यं रूपमवाप्तवान् ।।
विमानवरमारूढं दिव्याभरणभूषितम् ।। ६५ ।।
शापान्मुक्तं सुकर्णं तं प्राह विज्ञप्ति कौतुकः ।।
अयं सुकर्ण ते भ्राता गालवस्य महामुनेः ।। ६६ ।।
शापाद्वेतालतां प्राप तत्कन्यास्पर्शपातकी ।।
त्वं च शप्तः पुरा तेन तत्पापस्यानु मोदकः ।। ६७ ।।
तवायमल्पपापस्य शापो मद्दर्शनावधिः ।।
कल्पिस्ततेन मुनिना शापांतो नास्य कल्पितः ।। ६८।।
तदेहि मुक्तशापोसि सुकर्ण स्वर्गमारुह ।।
ततः सुकर्णस्तं प्राह विद्याधरकुलाधिपम् ।। ६९ ।।
विद्याधरपते भ्रात्रा विना ज्येष्ठेन सांप्रतम् ।।
सर्वभोगयुतं स्वर्गं नैव गंतुं समुत्सहे ।। 3.1.9.७० ।।
शापस्यांतो यथा भूयान्मम भ्रातुस्तथा वद ।।
तमुवाच महातेजास्तथा विज्ञप्तिकौतुकः ।। ७१ ।।
दुर्निवारमिमं शापमन्यः को वा निवारयेत् ।।
किं तु गुह्यतमं किंचित्तव वक्ष्यामि सांप्रतम्।।७२।।
ब्रह्मणा सनकादिभ्यो मुनिभ्यः कथितं पुरा।।
सर्वतीर्थाश्रये पुण्ये दक्षिणस्यो दधेस्तटे।।७३।।
चक्रतीर्थसमीपे तु तीर्थमस्तिमहत्तरम्।।
महापातकसंघाश्च यस्य दर्शनमात्रतः।।७४।।
नश्यंति तत्क्षणादेव न जाने स्नानजं फलम्।।
तत्र गत्वा तव ज्येष्ठो यदि स्नायान्महत्तरे ।।७५।।
वेतालत्वं त्यजेन्नूनं तदा गालवशापजम्।।
सुकर्णस्तद्वचः श्रुत्वा भ्रात्रा वेतालरूपिणा ।।७६।।
सहितः सहसा प्रायाद्दक्षिणस्योदधेस्तटम् ।।
दक्षिणं चक्रतीर्थाख्यादुत्तरं गंधमादनात् ।। ७७ ।।
ब्रह्मणा सनकादिभ्यः कथितं तीर्थमभ्यगात् ।।
तत्तीर्थकूलमासाद्य भ्रातरं चेदमब्रवीत् ।। ७८ ।।
भ्रातर्गालवशापस्य घोरस्यास्य निवृत्तये ।।
तीर्थेऽस्मिन्नचिरात्स्नाहि सर्वतीर्थोत्तमोत्तमे ।। ७९ ।।
तस्मिन्न वसरे विप्रास्तस्य तीर्थस्य शीकराः ।।
न्यपतंस्तस्य गात्रेषु वायुना वै समाहृताः ।। 3.1.9.८० ।।
स तच्छीकरसंस्पर्शात्त्यक्त्वा वेतालतां तदा ।।
तदेव मानुषं भावं द्विजपुत्रत्वमाप्तवान्।। ८१ ।।
ततः संकल्प्य सहसा तस्मिंस्तीर्थोत्तमोत्तमे ।।
मनुष्यत्वनिवृत्त्यर्थं निममज्ज द्विजात्मजः ।। ८२ ।।
उत्तिष्ठन्नेव सहसा दिव्यं रूपमवाप्तवान् ।।
विमानवरमारूढो देवस्त्रीपरिवारितः ।। ८३ ।।
सर्वाभरणसंयुक्तः सह भ्रात्रा सुदर्शनः ।।
श्लाघमानश्च तत्तीर्थं नमस्कत्य पुनःपुनः ।। ८४ ।।
विज्ञप्तिकौतुकं चापि पुरस्कृत्य दिवं ययौ ।।
तदाप्रभृति तत्तीर्थं वेतालवरदाभिधम्।। ८५ ।।
वेतालत्वं विनष्टं यच्छीकरस्पर्शमात्रतः ।।
य इदं तीर्थमासाद्य चक्रतीर्थस्य दक्षिणे ।। ८६ ।।
स्नानं कदाचित्कुर्वंति जीवन्मुक्ता भवंति ते।।
एतत्तीर्थसमं पुण्यं न भूतं न भविष्यति ।। ८७ ।।
घोरां वेतालतां त्यक्त्वा दिव्यतां स यदाप्तवान् ।। ८८ ।।
अत्र संकल्प्य च स्नात्वा वेतालवरदे शुभे ।।
पितृभ्यः पिंडदानं च कुर्याद्वै नियमान्वितः ।। ८९ ।।
एवं वः कथितं विप्रास्तस्य तीर्थस्य वैभवम् ।।
वेतालवरदाभिख्या यथा चास्य समागता ।।। ।। 3.1.9.९० ।।
यः पठेदिममध्यायं शृणुयाद्वा स मुच्यते ।। ९१ ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये वेतालवरदतीर्थप्रशंसायां सुदर्शनसुकर्णशापमोक्षणंनाम नवमोऽध्यायः ।। ९ ।।