स्कन्दपुराणम्/खण्डः ३ (ब्रह्मखण्डः)/सेतुखण्डः/अध्यायः ०२

विकिस्रोतः तः
Jump to navigation Jump to search

।। ऋषय ऊचुः ।। ।।
कथं सूत महाभाग रामेणाक्लिष्टकर्मणा ।।
सेतुर्बद्धो नदीनाथे ह्यगाधे वरुणालये ।।१।।
सेतौ च कति तीर्थानि गंधमादनपर्वते ।।
एतन्नः श्रद्दधानानां ब्रूहि पौराणिकोत्तम ।। २ ।।
।। श्रीसूत उवाच ।। ।।
रामेण हि यथासेतुर्निबद्धो वरुणालये ।।
तदहं संप्रवक्ष्यामि युष्माकं मुनिपुंगवाः ।। ३ ।।
आज्ञया हि पितू रामो न्यवसद्दंडकानने।।
सीतालक्ष्मणसंयुक्तः पंचवट्यां समाहितः।। ४ ।।
तस्मिन्निव सतस्तस्य राघवस्य महात्मनः ।।
रावणेन हृता भार्या मारीचच्छद्मना द्विजाः ।।५ ।।
मार्गमाणो वने भार्यां रामो दशरथात्मजः।।
पंपातीरे जगा मासौ शोकमोहसमन्वितः ।।६।।
दृष्टवान्वानरं तत्र कंचिद्दशरथात्मजः ।।
वानरेणाथ पृष्टोऽयं को भवानिति राघवः ।। ७ ।।
आदितः स्वस्य वृत्तांत्तं तस्मै प्रोवाच तत्त्वतः ।।
अथ राघवसंपृष्टो वानरः को भवानिति ।। ८ ।।
सोपि विज्ञापयामास राघवाय महात्मने ।।
अहं सुग्रीवसचिवो हनूमा न्नाम वानरः ।। ९ ।।
तेन च प्रेरितोऽभ्यागां युवाभ्यां सख्यमिच्छता ।।
आगच्छतं तद्भद्रं वां सुग्रीवांतिकमाशु वै ।। 3.1.2.१० ।।
तथास्त्विति स रामो पि तेन साकं मुनीश्वराः ।।
सुग्रीवांतिकमागप्य सख्यं चक्रेऽग्निसाक्षिकम् ।। ११ ।।
प्रतिजज्ञेऽथ रामोऽपि तस्मै वालिवधं प्रति ।।
सुग्रीवश्चापि वै देह्याः पुनरानयनं द्विजाः ।। १२ ।।
इत्येवं समयं कृत्वा विश्वास्य च परस्परम् ।।
मुदा परमया युक्तौ नरेश्वरकपीश्वरौ ।।१३।।
आसाते ब्राह्मणश्रेष्ठा ऋष्यमूकगिरौ तथा ।।
सुग्रीवप्रत्ययार्थं च दुंदुभेः कायमाशु वै।। १४ ।।
पादांगुष्ठेन चिक्षेप राघवो बहुयोजनम् ।।
सप्तताला विनिर्भिन्ना राघवेण महात्मना ।। १५ ।।
ततः प्रीतमना वीरः सुग्रीवो राममब्रवीत् ।।
इंद्रादिदेवताभ्योऽपि नास्ति राघव मे भयम्।। १६ ।।
भवान्मित्रं मया लब्धो यस्मादति पराक्रमः ।।
अहं लंकेश्वरं हत्वा भार्यामानयितास्मि ते ।। १७ ।।
ततः सुग्रीवसहितो रामचंद्रो महाबलः ।।
सलक्ष्मणो ययौ तूर्णं किष्किंधां वालिपालिताम् ।। १८ ।।
ततो जगर्ज सुग्रीवो वाल्यागमनकांक्षया ।।
अमृष्यमाणो वाली च गर्जितं स्वानुजस्य वै।। ।। १९ ।।
अंतःपुराद्विनिष्क्रम्य युयुधेऽवरजेन सः ।।
वालिमुष्टिप्रहारेण ताडितो भृशविह्वलः ।। 3.1.2.२० ।।
सुग्रीवो निर्गतस्तूर्णं यत्र रामो महाबलः ।।
ततो रामो महाबाहुस्सुग्रीवस्य शिरोधरे ।। २१ ।।
लतामाबध्य चिह्नं तु युद्धायाचोदयत्तदा ।।
गर्जितेन समाहूय सुग्रीवो वालिनं पुनः ।। २२ ।।
रामप्रेरणया तेन बाहुयुद्धमथाकरोत् ।।
ततो वालिनमाजघ्ने शरेणैकेन राघवः ।। २३ ।।
हते वालिनि सुग्रीवः किष्किंधां प्रत्यपद्यत ।।
ततो वर्षास्वतीतासु सुग्रीवो वानराधिपः ।। २४ ।।
सीतामानयितुं तूर्णं वानराणां महाचमूम् ।।
समादाय समागच्छदंतिकं नृपपुत्रयोः ।। २५ ।।
प्रस्थापयामास कपीन्सीतान्वेषणकांक्षया ।।
विदितायां तु वैदेह्या लंकायां वायुसूनुना ।। २६ ।।
दत्ते चूडामणौ चापि राघवो हर्षशोकवान्।।
सुग्रीवेणानुजेनापि वायुपुत्रेण धीमता ।। २७ ।।
तथान्यैः कपिभिश्चैव जांबवन्नलमुख्यकैः ।।
अन्वीयमानो रामोऽसौ मुहूर्तेऽभिजिति द्विजाः ।।२८।।
विलंघ्य विविधा न्देशान्महेंद्रं पर्वतं ययौ ।।
चक्रतीर्थं ततो गत्वा निवासमकरोत्तदा ।। २९ ।।
तत्रैव तु स धर्मात्मा समागच्छद्विभीषणः ।।
भ्राता वै राक्षसेंद्रस्य चतुर्भिः सचिवैः सह ।। 3.1.2.३० ।।
प्रतिजग्राह रामस्तं स्वागतेन महात्मना ।।
सुग्रीवस्य तु शंकाऽभूत्प्रणिधिः स्यादयं त्विति ।। ३१ ।।
राघवस्तस्य चेष्टाभिः सम्यक्स्वचरितैर्हितैः ।।
अदुष्टमेनं दृष्ट्वैव तत एनमपूजयत् ।। ३२ ।।
सर्वराक्षसराज्ये तमभ्यषिंचद्विभीषणम् ।।
चक्रे च मंत्रिप्रवरं सदृशं रविसूनुना ।। ३३ ।।
चक्रतीर्थं समासाद्य निवसद्रघुनंदनः ।।
चिंतयन्राघवः श्रीमान्सुग्रीवादीनभाषत ।। ३४ ।।
मध्ये वानरमु ख्यानां प्राप्तकालमिदं वचः ।।
उपायः को नु भवतामेतत्सागरलंघने ।। ३५ ।।
इयं च महती सेना सागरश्चापि दुस्तरः ।।
अंभोराशिरयं नीलश्चंचलोर्म्मिसमाकुलः ।। ३६ ।।
उद्यन्मत्स्यो महानक्रशंखशुक्तिसमाकुलः ।।
क्वचिदौर्वानलाक्रांतः फेनवानतिभीषणः ।। ।। ३७ ।।
प्रकृष्टपवनाकृष्टनीलमेघसमन्वितः ।।
प्रलयांभोधरारावः सारवाननिलोद्धतः ।। ३८ ।।
कथं सागरमक्षोभ्यं तरामो वरुणा लयम् ।।
सैन्यैः परिवृताः सर्वे वानराणां महौजसाम् ।। ३९ ।।
उपायैरधिगच्छामो यथा नदनदीपतिम् ।।
कथं तरामः सहसा ससैन्या वरुणालयम् ।। 3.1.2.४० ।।
शतयोजनमायातं मनसापि दुरासदम् ।।
अतो नु विघ्ना बहवः कथं प्राप्या च मैथिली ।। ४१ ।।
कष्टात्कष्टतरं प्राप्ता वयमद्य निराश्रयाः ।।
महाजले महावाते समुद्रे हि निराश्रये ।। ४२ ।।
उपायं कं विधास्यामस्तरणार्थं वनौकसाम् ।।
राज्याद्भ्रष्टो वनं प्राप्तो हृता सीता मृतः पिता ।। ४३ ।।
इतोऽपि दुःसहं दुःखं यत्सागरविलंघनम् ।।
धिग्धिग्गर्जितमंभोधे धिगेतां वारिराशिताम् ।। ४४ ।।
कथं तद्वचनं मिथ्या महर्षेः कुम्भजन्मनः ।।
हत्वा त्वं रावणं पापं पवित्रे गंधमादने ।।
पापोपशमनायाशु गच्छस्वेति यदीरितम् ।।४५।।
।। श्रीसूत उवाच ।। ।।
इति रामवचः श्रुत्वा सुग्रीवप्रमुखास्तदा ।। ४६ ।।
ऊचुः प्रांजलयः संर्मे राघवं तं महाबलम् ।।
नौभिरेनं तरिष्यामः प्लवैश्च विविधैरिति ।। ४७ ।।
मध्ये वानरकोटीनां तदोवाच विभीषणः ।।
समुद्रं राघवो राजा शरणं गन्तुमर्हति ।। ४८ ।।
खनितः सागरैरेष समुद्रो वरुणालयः ।।
कर्तुमर्हति रामस्य तज्ज्ञातेः कार्यमंबुधिः ।। ४९ ।।
विभीषणेनैवमुक्तो राक्षसेन विपश्चिता ।।
सांत्वयन्राघवः सर्वान्वानरानिदमब्रवीत् ।। 3.1.2.५० ।।
शतयोजन विस्तारमशक्ताः सर्ववानराः ।।
तर्तुं प्लवोडुपैरेनं समुद्रमतिभीषणम् ।। ५१ ।।
नावो न संति सेनाया बह्व्या वानरपुंगवाः ।।
वणिजामुपघातं च कथमस्मद्विधश्चरेत् ।। ५२ ।।
विस्तीर्णं चैव नः सैन्यं हन्याच्छिद्रेषु वा परः ।।
प्लवोडुपप्रतारोऽतो नैवात्र मम रोचते ।। ५३ ।।
विभीषेणोक्तमे वेदं मोदते मम वानराः ।।
अहं त्विमं जलनिधिमुपास्ये मार्गसिद्धये ।। ५४ ।।
नो चेद्दर्शयिता मार्गं धक्ष्याम्येनमहं तदा ।।
महास्त्रैरप्रतिहतैरत्यग्निपवनोज्ज्वलैः ।। ५५ ।।
इत्युक्त्वा सहसौमित्रिरुपस्पृश्याथ राघवः ।।
प्रतिशिश्ये जलनिधिं विधिवत्कुशसंस्तरे ।। ५६ ।।
तदा रामः कुशा स्तीर्णे तीरे नदनदीपतेः ।।
संविवेश महाबाहुर्वेद्यामिव हुताशनः ।। ५७ ।।
शेषभोगनिभं बाहुमुपधाय रघूद्वहः ।।
दक्षिणो दक्षिणं बाहुमुपास्ते मकरालयम् ।। ५८ ।।
तस्य रामस्य सुप्तस्य कुशास्तीर्णे महीतले ।।
नियमादप्रमत्तस्य निशास्तिस्रोऽतिचक्रमुः ।। ५९ ।।
स त्रिरात्रोषितस्तत्र नयज्ञो धर्मतत्परः ।।
उपास्तेस्म तदा रामः सागरं मार्गसिद्धये ।। 3.1.2.६० ।।
न च दर्शयते मन्दस्तदा रामस्य सागरः ।।
प्रयतेनापि रामेण यथार्हमपि पूजितः ।। ६१ ।।
तथापि सागरो रामं न दर्शयति चात्मनः ।।
समुद्राय ततः क्रुद्धो रामो रक्तांतलोचनः ।। ६२ ।।
समीपवर्तिनं चेदं लक्ष्मणं प्रत्यभाषत ।।
अद्य मद्बाणनिर्भिन्नैर्मकरैर्वरुणालयम् ।। ६३ ।।
निरुद्धतोयं सौमित्रे करिष्यामि क्षणादहम् ।।
सशंखशुक्ताजालं हि समीनमकरं शनैः ।। ६४ ।।
अद्य बाणैरमोघास्त्रैर्वारिधिं परिशोषये ।।
क्षमया हि समायुक्तं मामयं मकरालयः ।। ६९ ।।
असमर्थं विजानाति धिक्क्षमामीदृशे जने ।।
न दर्शयति साम्ना मे सागरो रूपमात्मनः ।। ६६ ।।
चापमानय सौमित्रे शरांश्चाशीविषोपमान्।।
सागरं शोषयिष्यामि पद्भ्यां यांतु प्लवंगमाः ।। ६७ ।।
एनं लंघितमर्यादं सहस्रोर्मिसमाकुलम् ।।
निर्मर्यादं करिष्यामि सायकैर्वरुणालयम् ।। ६८ ।।
महार्णवं शोषयिष्ये महादानवसंकुलम् ।।
महामकरनक्राढ्यं महावीचिसमाकुलम् ।। ६९ ।।
एवमुक्त्वा धनुष्पाणिः क्रोधपर्याकुलेक्षणः ।।
रामो बभूव दुर्धर्षस्त्रिपुरघ्नो यथा शिवः ।। 3.1.2.७० ।।
आकृष्य चापं कोपेन कम्पयित्वा शरैर्जगत् ।।
मुमोच विशिखानुग्रांस्त्रिपुरेषु यथा भवः ।। ७१ ।।
दीप्ता बाणाश्च ये घोरा भासयन्तो दिशो दश ।।
प्राविशन्वारिधेस्तोयं दृप्तदानवसंकुलम् ।।७२।।
समुद्रस्तु ततो भीतो वेपमानः कृतांजलिः ।।
अनन्यशरणो विप्राः पाता लात्स्वयमुत्थितः।।७३।।
शरणं राघवं भेजे कैवल्यपदकारणम् ।।
तुष्टाव राघवं विप्रा भूत्वा शब्दैर्मनोरमैः ।। ७४ ।।
।। समुद्र उवाच।। ।।
नमामि ते राघव पादपंकजं सीतापते सौख्यद पादसेवनात् ।।
नमामि ते गौतमदारमोक्षजं श्रीपादरेणुं सुरवृन्दसेव्यम्।।७६।।
सुन्दप्रियादेहविदारिणे नमो नमोस्तु ते कौशिकयागरक्षिणे ।।
नमो महादेवशरासभेदिने नमो नमो राक्षससंघनाशिने ।। ७६ ।।
रामराम नमस्यामि भक्तानामिष्टदायिनम् ।।
अवतीर्णो रघुकुले देवकार्यचिकीर्षया ।। ७७ ।।
नारायणमनाद्यंतं मोक्षदं शिवमच्युतम् ।।
रामराम महाबाहो रक्ष मां शरणागतम् ।। ७८ ।।
कोपं संहर राजेंद्र क्षमस्व करुणालय ।।
भूमिर्वातो वियच्चापो ज्योतींषि च रघूद्वह ।। ७९ ।।
यत्स्वभावानि सृष्टानि ब्रह्मणा परमेष्ठिना ।।
वर्तंते तत्स्वभा वानि स्वभावो मे ह्यगाधता ।। 3.1.2.८० ।।
विकारस्तु भवेद्गाध एतत्सत्यं वदाम्यहम् ।।
लोभात्कामाद्भयाद्वापि रागाद्वापि रघूद्वह ।। ८१ ।।
न वंशजं गुणं हातुमुत्सहेयं कथंचन ।।
तत्करिष्ये च साहाय्यं सेनायास्तरणे तव ।। ८२ ।।
इत्युक्तवन्तं जलधिं रामोऽवादीन्नदीपतिम् ।।
ससैन्योऽहं गमि ष्यामि लंकां रावणपालिताम् ।। ८३ ।।
तच्छोषमुपयाहि त्वं तरणार्थं ममाधुना ।।
इत्युक्तस्तं पुनः प्राह राघवं वरुणालयः ।। ८४ ।।
शृणुष्वाव हितो राम श्रुत्वा कर्तव्यमाचर ।।
यद्याज्ञया ते शुष्यामि ससैन्यस्य यियासतः ।।८५।।
अन्येऽप्याज्ञापयिष्यंति मामेवं धनुषो बलात् ।।
उपायमन्यं वक्ष्यामि तरणार्थं बलस्य ते ।। ८१६ ।।
अस्ति ह्यत्र नलोनाम वानरः शिल्पिसंमतः ।।
त्वष्टुः काकुत्स्थ तनयो बलवान्विश्वकर्मणः ।। ८७ ।।
स यत्काष्ठं तृणं वापि शिलां वा क्षेप्स्यते मयि ।।
सर्वं तद्धारयिष्यामि स ते सेतुर्भविष्यति ।। ८८ ।।
सेतुना तेन गच्छ त्वं लंकां रावणपालि ताम् ।।
उक्त्वेत्यंतर्हिते तस्मिन्रामो नलमुवाच ह ।। ८९ ।।
कुरु सेतुं समुद्रे त्वं शक्तो ह्यसि महामते ।।
तदाऽब्रवीन्नलो वाक्यं रामं धर्मभृतां वरम् ।। 3.1.2.९० ।।
अहं सेतुं विधास्यामि ह्यगाधे वरुणालये ।।
पित्रा दत्तवरश्चाहं सामर्थ्ये चापि तत्समः ।। ९१ ।।
मातुर्मम वरो दत्तो मन्दरे विश्वक र्मणा ।।
शिल्पकर्मणि मत्तुल्यो भविता ते सुतस्त्विति ।। ९२ ।।
पुत्रोऽहमौरसस्तस्य तुल्यो वै विश्वकर्मणा ।।
अद्यैव कामं बध्नंतु सेतुं वानरपुं गवाः ।। ९३ ।।
ततो रामनिसृष्टास्ते वानरा बलवत्तराः ।।
पर्वतान्गिरिशृंगाणि लतातृणमहीरुहान् ।। ९४ ।।
समाजह्रुर्महाकाया गरुडानिलरंहसः ।।
नलश्चक्रे महासेर्तुमध्ये नदनदीपतेः ।। ९५ ।।
दशयोजनविस्तीर्णं शतयोजनमायतम् ।।
जानकीरमणो रामः सेतुमेवमकारयत् ।। ९६ ।।।
नलेन वानरेन्द्रेण विश्वकर्मसुतेन वै ।।
तमेवं सेतुमासाद्य रामचन्द्रेण कारितम् ।। ९७ ।।
सर्वे पातकिनो मर्त्या मुच्यन्ते सर्वपातकैः ।।
व्रतदान तपोहोमैर्न तथा तुष्यते शिवः ।। ९८ ।।
सेतुमज्जनमात्रेण यथा तुष्यति शंकरः ।।
न तुल्यं विद्यते तेजोयथा सौरेण तेजसा ।। ९९ ।।
सेतुस्नानेन च तथा न तुल्यं विद्यते क्वचित् ।।
तत्सेतुमूलं लंकायां यत्ररामो यियासया ।। 3.1.2.१०० ।।
वानरैः सेतुमारेभे पुण्यं पाप प्रणाशनम् ।।
तद्दर्भशयनं नाम्ना पश्चाल्लोकेषु विश्रुतम् ।। १०१।।
एवमुक्तं मया विप्राः समुद्रे सेतुबंधनम् ।।
अत्र तीर्थान्यनेकानि संति पुण्यान्यनेकशः ।। १०२ ।।
न संख्यां नामधेयं वा शेषो गणयितुं क्षमः ।।
किं त्वहं प्रब्रवीम्यद्य तत्र तीर्थानि कानिचित् ।। १०३ ।।
चतुर्विंशति तीर्थानि संति सेतौ प्रधानतः।।
प्रथमं चकतीर्थं स्याद्वेतालवरदं ततः ।। १०४ ।।
ततः पापविनाशार्थं तीर्थं लोकेषु विश्रुतम् ।।
ततः सीतासरः पुण्यं ततो मंगलतीर्थकम्।। ।। १०५ ।।
ततः सकलपापघ्नी नाम्ना चामृतवापिका ।।
ब्रह्मकुण्डं ततस्तीर्थं ततः कुंडं हनूमतः ।। १०६ ।।
आगस्त्यं हि ततस्तीर्थं रामतीर्थ मतः परम् ।।
ततो लक्ष्मणतीर्थं स्याज्जटातीर्थमतः परम् ।। १०७ ।।
ततो लक्ष्म्याः परं तीर्थमग्नितीर्थमतः परम् ।।
चक्रतीर्थं ततः पुण्यं शिवतीर्थमतः परम् ।। १०८ ।।
ततः शंखाभिधं तीर्थं ततो यामुनतीर्थकम् ।।
गंगातीर्थं ततः पश्चाद्गयातीर्थमनन्तरम् ।। १०९ ।।
ततः स्यात्कोटितीर्थाख्यं साध्यानाममृतं ततः ।।
मानसाख्यं ततस्तीर्थं धनुष्कोटिस्ततः परम् ।। 3.1.2.११० ।।
प्रधानतीर्थान्येतानि महापापहराणि च ।।
कथितानि द्विजश्रेष्ठास्सेतुमध्यगतानि वै ।। १११ ।।
यथा सेतुश्च बद्धोऽभूद्रामेण जलधौ महान् ।।
कथितं तच्च विप्रेन्द्राः पुण्यं पापहारं तथा ।। ११२ ।।
यच्छ्रुत्वा च पठित्वा च मुच्यते मानवो भुवि ।। ११३ ।।
अध्यायमेनं पठते मनुष्यः शृणोति वा भक्तियुतो द्विजेंद्राः ।।
सो नंतमाप्नोति जयं परत्र पुनर्भवक्लेशमसौ न गच्छेत् ।। ११४ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये सेतुनिर्माणादिवर्णनंनाम द्वितीयोऽध्यायः ।। २ ।। ।।