स्कन्दपुराणम्/खण्डः ३ (ब्रह्मखण्डः)/ब्रह्मोत्तर खण्डः/विषयानुक्रमणिका

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

अथ ब्राह्मखण्डे तृतीयं ब्राह्मोत्तरखण्डम् ।। ( ३-३) ।।

१ अथ नैमिषारण्ये शौनकादिमहर्षीणां सूतमहर्षिं प्रति श्रीशंकरमाहात्म्यजिज्ञासया प्रश्नकरणम्, तत्र श्रीसूतमहर्षिणादौ शौनकादिमहर्षीन्प्रति श्रीशंकरस्य पञ्चाक्षर- मन्त्रमाहात्म्यवर्णनम्, सद्गुरोः सकाशान्मन्त्रग्रहणादिविधिवर्णनम्. तत्प्रसंगेन मथुराधिपतिदाशार्हराजवृत्तान्तवर्णनम्, तत्र दाशार्हभूपेन काशिराजतनयां विवाह्य ततो व्रतवशाद्रतमनिच्छंत्या तया सह रिरंसया तां बलादाकृष्य राज्ञा तदंगे स्पृष्टमात्रे तप्तायोगोलवदतितप्ततमं तदंगं तत्क्षणमेव समुत्सृज्य भयं प्राप्य तप्तांगताकारणे पृष्टे तया तस्मै राज्ञे स्वानुष्ठितशिवपञ्चाक्षरीमन्त्र- प्रभावानुवर्णनम्, राज्ञश्च सद्गुरोः सकाशाच्छिवपञ्चाक्षरीमन्त्रग्रहणार्थं विज्ञप्तिकरणम्, ततस्तद्वचनमाकर्ण्य राज्ञा गर्गगुरोः सकाशात्कालिन्दीतीरे पुण्यतरो- मूले श्रीशिवमंत्रोपदेशे गृहीते सति तस्य राज्ञः शरीररन्ध्रेभ्यः शतकोट्यवधि- काकरूपेण पातकानां निर्गमनपूर्वकं भस्मभवनम्, ततः पवित्रदेहस्य तस्य दाशार्हभूपस्य गुरुशुभाशीर्वचनेन चन्दनशीतलांग्या तया निजपल्या सह स्वगृहमागत्य सुखोपभोगपूर्वकं राज्यकरणम्, शिवपञ्चाक्षरीमन्त्रमाहात्म्यम्.. १७२ १

२ अथ माघकृष्णचतुर्दशीमहाशिवरात्रिमाहात्म्यवर्णनम्, तत्रोपवासशिवलिङ्गपूजन- बिल्वपत्रसमर्पणमाहात्म्यम्, तत्प्रसंगेनेक्ष्वाकुवंशजमित्रसहाख्यराजवृत्तान्तवर्ण- नम्, तत्र मित्रसहेन राज्ञा मृगयायां गत्वा कस्मिंश्चिद्राक्षसे निहते सति तस्य राक्षसस्यानुजभ्रात्रा छद्मना भृत्यवेषं धृत्वा छिद्रान्वेषणप्रतीक्षणाय राजानं प्रति विनीतरूपेणागमनम्, राज्ञा तस्य राक्षसस्य निजमहानसाध्यक्षतायां नियोज- नम्, ततस्तेन राज्ञा कदाचिन्निजकुलगुरौ वसिष्ठे भोजनार्थं निमन्त्रिते सति तद्भोजनपात्रे छद्मवेषधारिणा राक्षसेन मनुष्यमांसपरिवेषणम्, तदमेध्यं भोजनं निरीक्ष्य क्रुद्धेन वसिष्ठमहर्षिणा राज्ञे द्वादशवर्षपर्यंतराक्षसत्वरूपशापप्रदानम्, ततो निष्कारणशापं श्रुत्वा क्रुद्धेन राज्ञा स्वगुरवे वसिष्ठाय प्रतिशापं प्रदातुं हस्ते जलग्रहणम्, ततो राज्ञ्या मदयन्त्या गुरवे शापं प्रदातुमुद्यतस्य तस्य राज्ञः प्रार्थनां कृत्वा निवर्तनम्, ततस्तेन राज्ञा गुरवे शापप्रदानाय हस्ते गृहीतस्य जलस्य निजपादयोः प्रक्षेपणम्, तेन तत्पादयोः कल्माषतापत्त्या तस्य राज्ञः कल्माषपादनामत्वेन प्रसिद्धिः, अथ राक्षसत्वप्राप्त्यनन्तरं वने विचरता कल्माष पादराज्ञा कस्यचिन्मुनिकुमारस्य भक्षणे कृते तत्र तेन सह चरंत्या तस्य मुनिकुमारस्य पल्या तस्मै राक्षसत्वं प्राप्ताय कल्माषपादराज्ञे 'स्त्रीसंगे सति ते मृत्युर्भविष्यति' इति शापं प्रदायाग्नौ प्रवेशकरणम्, अथ शापकालावध्यनंतरं शापनिर्मु- क्त्स्य तस्य स्वस्वरूपं प्राप्य स्वगृहं प्रत्यागमनम्, ततस्तत्पल्या मदयन्त्या विप्रपत्नी- शापं श्रुत्वा निजवैधव्यभीत्या रतिं याचमानस्य पत्युर्निवारणम्, अथ राज्य- भोगनिराशे राज्ञि वनं प्रयाते सति सूर्यवंशस्य प्रतिष्ठायै वसिष्ठेन मुनिना तद्राज- पत्न्यां मदयन्त्यां सुतोत्पादनम्, अथ वनं प्रति गतस्य तस्य कल्माषपादराज्ञः पश्चाद्घोराया ब्रह्महत्यायानुद्रवणम् ब्रह्महत्योपद्रुतस्य राज्ञो मिथिलोद्याने गौतममहर्षिं प्रति गमनम्, ततो गौतममहर्षिणा राज्ञे व्रह्महत्यादोषनिवारणाय गोकर्णक्षेत्रे शिवलिङ्गदर्शनं कर्तुं गमनायोपदेशकरणम्, तत्प्रसंगेन गोकर्णेश्वर- माहात्म्यवर्णनम् .. ....... .-१७३ २

३ अथ गौतमेन गोकर्णेश्वरमाहात्म्यवर्णनप्रसंगेन कस्याश्चिद्वृद्धायाश्चांडाल्याः शिवलोकं प्रति नयनाय समागतैः शिवदूतैः सह स्वस्य संवादवर्णनम्, तत्र शिवदूतान्प्रति गौतमेन चाण्डाल्याः शिवलोकं प्रति नयनकारणे पृष्टे शिवदूतैस्तस्याश्चांडाल्याः पूर्वजन्मवृत्तान्तवर्णनम, तत्र तस्याः पूर्वजन्मनि ब्राह्मणविधवायाः काम- वशेन जातिभ्रष्टतां प्राप्य शूद्ररताया हस्तेन रात्रावज्ञानाद्गोवत्सस्य वधे जाते सति तं प्रकाशे दृष्ट्वा गोवत्सं ज्ञात्वा पश्चात्तापेन 'शिवशिव' इत्युच्चारणम् , अथ तस्याः कालेन मृत्युं प्राप्तायाश्चांडालीत्वप्राप्तिपूर्वकदैवदुर्विपाकवर्णनम्, अस्याश्चांडाल्या अन्नादिभिक्षायाचनार्थं गोकर्णक्षेत्रं प्रति गमने मध्येमार्गं मृत्यूपस्थितौ तत्कृतशिवनामसंकीर्तनप्रभावेण शिवेन तस्याः स्मरणात्तस्याः शिवदूतैर्जीवलेशं समाकृष्य दिव्यतेजोंशेन योजयित्वा शिवलोकं प्रति नयनवर्णनम्, अथ तत्प्रसंगेन राज्ञा गौतमाय शिवलोकस्वरूपे पृष्टे सति गौतम महर्षिणा कल्माषपादापरपर्यायाय मित्रसहाय राज्ञे शिवलोकस्वरूपवर्णनम, अथ गौतमोपदेशेन राज्ञो गोकर्णक्षेत्रं गत्वा श्रीगोकर्णेश्वरमहादेवदर्शनपूजनादिप्रभावेन विमुक्तब्रह्महत्यादिपापतापूर्वकं शिवलोकावाप्तिवर्णनम् ... १७६ २

४ अथ श्रीशिवपूजामाहात्म्यवर्णनम्, तत्प्रसङ्गेन किरातदेशस्थविमर्दनाख्यराजवृत्तान्त-
वर्णनम्, तस्य राज्ञो निरंतरमधर्मपरत्वेऽपि शिवभक्तिपरत्वम्, अथैकदैकान्ते तस्य पत्न्या कुमुद्वत्या तं राजानं प्रति सुतरां दुराचारपरत्वेऽपि शिवभक्तितत्पर-
त्वकारणजिज्ञासया प्रश्नकरणम्, ततो विमर्दनभूपेन निजपूर्वजन्मवृत्तांतवर्णनम्, पूर्वजन्मनि पंपानगरे सारमेयेन महाशिवरात्र्यां श्रीशिवमन्दिरे महापूजायां प्रवर्तमानायां श्रीशिवमंदिरस्य प्रदक्षिणाकरणम्, तत्रत्यैर्जनैर्द्वारदेशे तस्य सारमेयस्य शरप्रहारेण हननात्प्राणे गते सति श्रीशिवसंनिधिप्रभावाद्राजजन्मप्राप्तिवर्णनम्, श्वयोनौ भक्ष्यलिप्सावासनावशात्सर्वभक्षतानैर्घृण्यादिदुराचारप्रवृत्तिवर्णनं च, ततो राज्ञा राज्ञ्यै तस्या राज्ञ्याः पूर्वजन्मवृत्तान्तवर्णनम्, तत्र तस्याः प्राग्जन्मनि कपोत्या मांसपिण्डमादाय शिवमन्दिरशिखरमारूढाया मांसपिण्डजिघृक्षया तीक्ष्णतुण्डेन गृध्रेण पातनान्मरणे सति श्रीशङ्करस्याग्रे मरणस्य प्रभावाद्राजपत्नीत्वप्राप्तिवर्णनम्, अथ राज्ञीपृष्टेन राज्ञोभयोरपि भविष्यत्सप्तजन्मवृत्तान्तवर्णनपूर्वकं महाशिवरात्र्यां श्रीशिवपूजनप्रभावेण शिवपदप्राप्तिर्भविष्यतीति वर्णनम्.... १७९ २

५ अथ शिबभक्तिमाहात्म्यवर्णनम्, तत्प्रसङ्गेनोज्जयनीस्थ चन्द्रसेनराजवृत्तान्तवर्णनम्, तत्र चन्द्रसेनस्य राज्ञः सर्वदा शिवभक्तिपरायणतां निरीक्ष्य मणिभद्राख्येन शिवगणेन मित्रतां कृत्वा तस्मै राज्ञे चिन्तामणिरत्नप्रदानम् ,तं चिंतामणिं कंठे धृत्वा राज्यं कृतवतश्चंद्रसेनस्य महीपतेरैश्वर्यमसहमानैस्तच्चिन्तामणिरत्नं तं प्रति याचमानैरन्यभूपालैर्युद्धार्थ संन्यह्यावन्तीपुरीं प्रत्यागत्यासमन्ततोऽवन्तीपुरनिरोधकरणम्, तस्मिन्नवसरे राज्ञश्चंद्रसेनस्य श्रीमहाकालं महेश्वरं प्रति शरणं गत्वाऽहर्निशं श्रीशंकरस्य महापूजाकरणम्, तम्मिन्नवसरे श्रीशिवमदिरं समागतया पच्चहायननिजबालकसमेतया कयाचिद्विधवया गोपांगनया राज्ञा कृतं पूजोत्सवं दृष्ट्वा स्वशिबिरं प्रति गमने कृते सति पञ्चहायनेन तस्या बालकेन स्वशिबिरनिकट एकान्तशून्यस्थाने पाषाणरूपं शिवलिङ्गं संस्थाप्य यथालब्धानि पुष्पाणि गृहीत्वा कृत्रिमान्गन्धाद्युपचारान्कल्पयित्वाऽनन्यमानसेन शिवपूजाकरणम्, अथ तावत्तत्र तया गोपाङ्गनया समागत्य रोषेण तस्याः स्वबालककृतायाः शिवपूजाया विनाश- नम्, ततः शंभुपूजाविनाशं दृष्ट्वा बालकस्यातिशोकेनाक्रोशेन मूर्छाप्राप्तिः, ततः कि- यता कालेन लब्धसंज्ञेन तेन बालकेन तत्रैव स्थाने दिव्यहिरण्मयशिवमन्दिररत्नम- यशिवलिङ्गदर्शनम्, ततस्तेन प्रसन्नेन बालकेन श्रीशङ्करस्य पुरतः स्वमातुः शिव- पूजाभङ्गजनितापराधक्षमापणम्, अथ सायं रात्रेरागमे श्रीशिवप्रसादात्तस्य सर्वस्य गोपगणशिबिरस्य दिव्यकांचनमयत्वं दृष्ट्वा तत्र दिव्यरूपधरां सुप्तां निजमा- तरमन्तिके गत्वा प्रबोध्य सर्वशिबिरस्य काञ्चनमयत्वकथनम्, अथ तया गोप्या तदाश्चर्यं दृष्ट्वा राज्ञः समीपमागत्य तस्मै सर्ववृत्तनिवेदनम्, ततो राज्ञा निजमंत्र्यादिभिः सह तच्छिबिरमागत्य रत्नकांचनमयं तद्दृष्ट्वा तस्य पञ्चहायनस्य गोपबालकस्यालिङ्गनम्, एवमानन्देन तस्यां रात्र्यां व्युष्टायां प्रभाते चारवचनैरास- मंतात्पुरीं स्थितैः सर्वैः परराजभिस्तदद्भुतगोपसुतचरितं श्रुत्वा विस्मयमापद्य राज्ञा सह वैरभावं त्यक्त्वा परममैत्रीं कृत्वा तां पुरीं प्रविश्य राज्ञा कृतं सत्कारमुपलभ्य श्रीमहाकालं दृष्ट्वा गोपशिबिरं गत्वा तत्र गोपसूनोः प्रसादाय प्रादुर्भूतं शिवमंदिरं दृष्ट्वा हृष्टमानसैस्तैः सर्वैर्भूपैस्तस्मै गोपसूनवे वासोहिरण्यरत्नादिप्रदानं कृत्वा सर्वदेशस्थितगोपानां राज्यप्रदानम्, एतस्मिन्नेवावसरे तत्र वान रेश्वरेण श्रीहनुमता प्रादुर्भूय सर्वेषां भूपानां पूजासत्कारं गृहीत्वा तेषां सर्वेषां मध्ये तं गोपबालकं समाश्लिष्य सर्वान्भूपान्प्रति शिवशनिप्रदोषमाहात्म्यं वर्ण- यित्वा तस्य गोपकुमारस्य श्रीकर इति नाम कृत्वा शिवाचारं समुपदिश्यान्तर्धानम्, चन्द्रसेनभूपतेः श्रीकराख्यगोपकुमारस्य च शिवाराधनप्रभावाच्छिवलो- कावाप्तिवर्णनम्.. ....... १८१ १

६ अथ प्रदोषपूजामाहात्म्यवर्णनम्, तत्प्रसंगेन विदर्भदेशस्थसत्यरथाख्यनृपति- वृत्तान्तवर्णनम्, तत्र सत्यरथाख्यभूपस्य शाल्वभूपैः सह युद्धे मरणम्, तद- नन्तरं तस्य गर्भिण्याः पत्न्या यत्नेन नगराद्विनिर्गत्य दुर्गमेऽरण्ये गमनम्, तत्र कस्यचित्तरोर्मूले तस्याः प्रसवे पुत्रस्य जन्म, तदाऽतितृषाक्रान्तायास्तस्याः समीपवर्तिनि सरसि जलप्राशनार्थं प्रवेशे ग्राहेण ग्रसनान्मरणम्, तस्मिन्नवसरे जातमात्रस्य तत्कुमारस्य क्रन्दनध्वनिं श्रुत्वा तत्र प्रदेशे विचरंत्यैकहायनबालकवत्या कयाचिद्विधवयोमानाम्न्या विप्रपत्न्या तमनाथमच्छिन्ननाभिनालं बालकं दृष्ट्वा दयाविष्टचेतस्कतया तत्पोषणार्थं तमादाय स्वगृहं प्रत्यानेतुं सशंकमानसया भिक्षुरूपधारिणः शंकरस्य वचनाद्विश्वासं प्राप्य तस्य बालकस्य पोषणं कर्तुं स्वगृहं प्रत्यानयनम्, अथैकचक्राहये ग्रामे निवसंत्या तयोमाख्यया विप्रपन्त्या तस्य बालकस्य स्वसुतेन सहाविशेषबुद्ध्या भैक्ष्यं संपाद्य पालनं पोषणं च, अथ कदाचित्तस्यां विप्रवनितायां ताभ्यां बालकाभ्यां सह कंचिद्देवालयं देवं द्रष्टुं प्रविष्टायां सत्यां तत्र देवालये स्थितेन शाण्डिल्यमहर्षिणा तौ बालकौ दृष्ट्वा तन्मध्ये तं राजपुत्रं समुद्दिश्य दैवगतेर्विचित्रत्वकथनम्, तद्वचः कृत्वा तया विप्रवनितया तस्य स्वानीतस्य बालकस्य कुलवशादिजिज्ञासया प्रश्ने कृते सति श्रीशाण्डिल्यमहर्षिणा तस्य बालकस्य सविस्तरसकलपूर्वजन्मकर्मवृत्तान्तकथनम्, तत्र पूर्वजन्मनि पाण्ड्यनृपतेः शिवप्रदोषपूजाभङ्गदोषेण जन्मान्तरे शत्रुहस्ततो मरणम्, तत्पुत्रस्यापि प्रदोषे शिवपूत्राव्यतिक्रमदोषेण जन्मान्तरे दारिद्र्यप्राप्तिः, तस्य मातुश्च पूर्वजन्मनि च्छद्मना स्वसपत्नीहननदोषेण जन्मान्तरे ग्राहेण ग्रसनान्मरणवर्णनम्, विप्रांगनातनयस्य च पूर्वजन्मनि केवलं प्रतिग्रहमात्रपरायणत्वाद्यज्ञया- गदानाद्यभावाज्जन्मान्तरे दारिद्र्यप्राप्तिवर्णनम्, अथ प्रदोषे शिवपूजनस्य माहात्म्यं कथयित्वोभयोरपि तयोर्बालकयोः प्रदोषे शिवपूजनायोपदेश- करणम् ..... .. १८२ २

७ अथ तयोमाख्यया विप्रवनितया पृष्टेन श्रीशाण्डिल्यमहर्षिणा प्रदोषव्रतप्रसंगेन सविस्तरयथासांगश्रीशिवपूजाविधानवर्णनम्, अथ तेन शाण्डिल्यमहर्षिणा तयोर्ब्राह्मणकुमारराजकुमारयोर्मध्ये ब्राह्मणकुमारस्य शुचिव्रतइति नामकरणं राजकुमारस्य च धर्मगुप्त इति नामकरणं च कृत्वा तयोः शिवपूजाविधानाय शिवमन्त्रोपदेशकरणम्, ततस्तस्या द्विजांगनायास्ताभ्यां कुमाराभ्यां सह शांडि- ल्यमुनिं नत्वा समामन्त्र्य गमनम्, ततः प्रभृति ताभ्यां द्विजराजबालकाभ्यां प्रदोषे शिवपूजाकरणपूर्वकं निजमातुराज्ञायां वर्तनम्, अय कदाचिद्द्विजपुत्रस्य नदीतीरे विचरतो निधानसुवर्णकलशीप्राप्तौ मात्रा तयोर्बालकयोः समं विभज्य ग्रहणायाज्ञाकरणम्, तदा राजकुमारेण द्विजकुमारलब्धस्य धनस्य स्वेन ग्रहणे स्वस्यानिच्छाप्रदर्शनपूर्वर्कं स्वभाग्यलब्धेनैव स्वसन्तोषप्रदर्शनम्, अथैकदा वनां- तरे विचरद्भ्यां द्विजराजकुमाराभ्यां क्रीडन्तीनां गन्धर्वकन्यानां दर्शनम्, ता दृष्ट्वा तत्संनिधौ गमनाय द्विजकुमोरण निषिद्धेनापि तेन राजकुमारेण तासां गन्धर्व- कन्यानां समीपे गमनम् , तं सुन्दरांगं युवानं राजकुमारं दृष्ट्वा तत्समीप एकाकिन्या द्रविकनामकगन्धर्वराजकन्याया अंशुमत्याख्याया आगमनम्, उभयोः परस्परावलोकनेन कामशरनिपीडितयोः परस्परसंवादे गन्धर्वराजकन्यया तस्मै धर्मगुप्ताय राजपुत्राय निजकंठस्थमुक्ताहारं समर्प्य परश्वस्त्वया सहाहं विवाहं करिष्यामि' इति प्रतिज्ञां कृत्वा स्वसखीभिः सह स्वपितुरंतिकं प्रति गमनम्, ततो धर्मगुप्तेन राजकुमारेण शुचिव्रताख्येन द्विजकुमारेण सह स्वभवन गत्वा स्वमात्रे विप्रभार्या- यै वने संजायमानस्य वृत्तस्य निवेदनम्, अथ परश्वोदिने प्राप्ते तेन धर्मगुप्ताख्येन राजपुत्रेण द्विजपुत्रेण सह तस्मिन्वने गमनम्, समागतयोस्तयोः कुमारयोर्गन्धर्व- पतिना संमानं कृत्वा श्रीशंकरस्य स्वं प्रति जातामाज्ञां निवेद्य तस्मै धर्मगुप्ताय राजकुमाराय स्वकन्यायाः पाणिग्रहणविधानपूर्वकं समर्पणम्, विवाहे विविधरत्नगजाश्व- रथशस्त्रास्त्रसौवर्णवर्मदासदास्यादिवैभवपारिबर्हं प्रदाय स्वयं विमानेन गन्धर्वलोकं प्रतिगमनम्, तयांशुमत्या गन्धर्वकन्यया सह कृतोद्वाहेन तेन धर्मगुप्ताख्येन राजकुमारेण तया श्वशुरेण पारिबर्हे दत्तया शूरगंधर्वाणां सेनया सह निजपितृराजधा- नीविदर्भनगरमागत्य सर्वशत्रून्हत्वा निजपितृपैतामहराज्यपदे राज्याभिषेकपूर्वकम- धिरोहणम्, तस्यां विप्रबनितायां मातृत्वसम्मानं तस्मिन्विप्रकुमारके च भ्रातृत्व- सन्मानं कृत्वा तया गन्धर्वतनयया निजभार्यया सह तस्य धर्मगुप्ताख्यस्य राजकुमारस्य विदर्भनगरे प्रदोषव्रतप्रभावेण श्रीशङ्करप्रसादान्महता सौख्येन राज्यकरणवर्णनम्. प्रदोषव्रतशिवपूजामाहात्म्यवर्णनम्...... ... १८४ २

८ अथ सोमप्रदोषव्रतमाहात्म्यवर्णनम्, तत्प्रसंगेनार्यावर्तस्थचित्रवर्मनृपतिकन्यायाः सीमन्तिन्या आख्यानवर्णनम्, तत्र तस्याः सीमन्तिन्याः स्वपितुः समीपे समा- गताभ्यां सामुद्रिकवेदिभ्यां ब्राह्मणाभ्यां सकाशादात्मनो भाविमहाभाग्यं भाविवैधव्यं च पृथक्पृथक्छ्रुत्वा वैधव्यप्राप्तिभीत्या मैत्रेय्याख्याया याज्ञवल्क्यमहर्षिपत्न्याः सकाशात्सौभाग्यवर्धनायोपायश्रवणार्थं शरणगमनम्, अम् तस्यै मैत्रेय्या सोमवारे शिवगौरीपूजनविधिकथनम्, अथ तया सीमन्तिन्या राजकन्यया मैत्रेय्यु- पदिष्टमार्गेण यथासांगसोमवारव्रतारम्भणम्, इन्द्रसेनपुत्रेण चित्राङ्गदेन सह सीमन्तिन्या विवाहः, अथ श्वशुरालये निवसतस्तस्य चित्राङ्गदस्य कदाचिद्यमुनां नदीं तर्तुं तरीमारूढस्य तर्या मध्येप्रवाहमकस्मान्निमज्जनम्, तर्यामारूढानां सर्वेषां मरणम्, तस्य चित्राङ्गदस्य राजपुत्रस्य तरीनिमज्जनेन मरणं विज्ञाय चित्र- वर्मादीनां शोककरणम्, एवं सीमन्तिन्या वैधव्यदशाप्राप्तिः, प्राप्तायामपि वैध- व्यदशायां सीमन्तिन्या यथावद्वर्षत्रयपर्यंतं सोमवारव्रतानुष्ठानकरणम्, अथ यमुनाजलेऽधोऽधो निमज्यमानस्य चित्राङ्गदस्य क्रीडन्तीभिर्नागकन्याभिः पाताले तक्षकपुरं प्रति नीत्वा तक्षकराजं प्रति निवेदनम्, तक्षकेण तस्य चित्राङ्गदस्य
सत्कारपूर्वकमुपास्यदेवताविषयकप्रश्नादिकरणम्, चित्रामगदेन स्वोपास्यभगव- च्छ्रीशङ्करभक्तिकथनम्, तद्वचनं श्रुत्वा प्रसन्नेन तक्षकेण तस्य चित्राङ्गदस्य बहु- सत्कारकरणम्, ततश्चित्राङ्गदस्य स्वगेहं प्रति गंतुं प्रार्थनां श्रुत्वा तक्षकेण तं तत्र- त्यकल्पवृक्षरसान्नभोजनेनाप्याययित्वा बहुधनं दत्त्वा तथैकं राक्षसमेकं पन्नगं च साहाय्यार्थं दत्त्वा कामगममव्याहतगतिमश्वं च वाहनाय प्रदायाशीर्भिर- भियुज्य चित्रांगदस्य स्वसदनं प्रति गन्तुमाज्ञादानम्, ततश्चित्राङ्गदस्य तक्षकराजं प्रणम्याज्ञां गृहीत्वा हयमारुह्य धनं गृहीत्वा साहाय्यार्थं दत्ताभ्यां ताभ्यां राक्षसपन्नगाभ्यां सह ततः पातालात्प्रस्थाय यमुनाजलात्तूर्णमुन्मज्ज्य यमुनातीरे वाजिनमारुह्य विहारकरणम्, अथैतस्मिन्नेव समये स्वसखीभिः सह यमुनायां स्नातुमागतया सीमन्तिन्या तस्य दर्शनम्, ततः सखीमुखात्सीम- न्तिनीवृत्तान्तश्रवणं कृत्वा स्वयं तां सीमंतिनीं प्रति 'अस्माभिस्तव पतिर्दृष्टस्त्वां प्रति स शीघ्रमेवागमिष्यति त्वं समाहितमना भव शोकं मा कार्षीर्वयं कामगमाः सिद्धानाम देवाः' इत्याश्वास्य तस्य चित्राङ्गदस्य स्वपितुर्नगरं प्रति गमनम्, तत्र नष्टपुत्रस्येन्द्रसेनस्य पितुर्दायादैः कृतं राज्यपदभ्रंशं श्रुत्वा चित्रांगदेन नागपुत्रद्वारा दायादान्प्रति राज्यपदत्यागाय संदेशप्रेषणम्, नागपुत्रप्रोक्तं चित्राङ्गदसदेशं श्रुत्वा सर्वैर्दायादैरिंद्रसेनाय राज्यपदं दत्त्वा पुत्रागमनवृत्तान्तं श्रावयित्वा निजापराधक्षमापणाय प्रार्थनां कृत्वा प्रसादनम्, ततश्चित्रांगदेन निजमंदिरं गत्वा स्वपित्रोर्वन्दनम्, पित्रोः पुत्रस्य प्राप्त्याऽत्यानन्दावाप्तिः, अथेन्द्रसेनेन राज्ञा निजपुत्रस्य पातालात्सुखागमनरूपमङ्गलमयवृत्तान्तनिवेदनाय चित्रवर्मनृपतिं प्रति दूतप्रेषणम्, दूतमुखान्निजजामात्रागमनवार्तां श्रुत्वा चित्रवर्मनृपतेरत्यानन्दमङ्गलावाप्तिः, ततो राज्ञा निजकन्यायै सीमन्तिन्यै सहर्ष तया पत्युर्मङ्गलमयवार्तानिवेदनम्, ततश्चित्रवर्मणेन्द्रसेनसुतं चित्राङ्गदं समाहूय पुनः सविस्तरविवाहविधिं विधाय तस्मै चित्रांगदाय निजकन्यायाः सीमन्तिन्या महता समारम्भेण प्रदानम्, अथ पातालानीतभूषणादिवस्तु- भिश्चित्रांगदेन स्वपत्न्याः संतोषकरणपूर्वकं तां समादाय स्वनगरीमागत्य महताऽऽनन्देन राज्यसुखोपभोगकरणम्, एवं सोमवारे शिवगौरीपूजन- व्रतप्रभावाच्चित्राङ्गदसीमन्तिन्योः सर्वाभीप्सितसुखावाप्तिवर्णनम्-. .... १८७ २

९ अथ सीमन्तिनीकृतसोमवारव्रतप्रभावकथनप्रसङ्गेन सुमेधः सामवदाख्ययोर्द्वयोर्वेद- मित्रसारस्वताख्यब्राह्मणद्वयस्य षुत्रयोर्वृत्तान्तवर्णनम्, तत्र सुमेधःसामवतोर्ब्राह्म- णपुत्रयोर्गुरुकुले सांगविद्याध्ययनानन्तरं पित्राज्ञया निजविवाहार्थं धनसंपादनाय विदर्भाधिपतेः समीपे गमनम्, अथ विदर्भाधिपतिना याचमानौ तौ द्विजसुतौ नि रीक्ष्य किञ्चित्प्रहस्य-युवां द्वयोर्मध्य एकं स्त्रीवेषेण वेषयित्वा विप्रदंपती भूत्वा सी- मंतिन्याः सत्कारमुपलभ्य मत्समीपमागच्छतं तदाहं युवाभ्यां बहु धनं दास्यामि' इत्युक्ते सति राजाज्ञाया अलंघनीयतां मन्यमानाभ्यां ताभ्यां द्विजकुमाराभ्यां सामवन्तं प्रति कृत्रिमस्त्रीवेषेण वेषयित्वा द्विजदंपतिस्वरूपेण नैषधदेशं प्रति गमनम्, ततश्च सोमवारदिने सीमन्तिन्या तयोर्मध्ये पुरुषस्य महादेवबुद्ध्या स्त्रियाश्च पार्वतीबुद्ध्या पूजाकरणम्, तया सीमन्तिन्या पार्वतीबुद्ध्या पूजितस्य स्त्रीवेषधारिणः सामवदाख्यस्य द्विजपुत्रस्य तत्क्षणमेव सत्यतया स्त्रीत्वप्राप्तिः, ततश्च सीमन्तिनीदत्तं रत्नस्रग्वस्त्रभूषणादि गृहीत्वा प्रयातयोर्द्विजकुमारयोर्मध्ये सामवतः स्त्रीत्वप्राप्त्या कामविकारोत्पत्तिः, ततस्तया सामवत्या जातया कामविहारार्थं सुमेधसः प्रार्थनाकरणम् ततः सुमेधसा निजमित्रस्य स्त्रीत्वप्राप्ति लक्षणैरेकान्ते स्वरूपेण च दृष्ट्वा सुरतार्थं प्रार्थयानां तां विवेकवचनैः कथंकारं सान्त्वयित्वा तां सामवतीं समादाय स्वगृहं समानीय स्वपित्रे तत्पित्रे च सर्ववृत्तान्तनिवेदनम्, अथ शोकाकुलाभ्यां तत्पितृभ्यां तौ निजपुत्रौ समादाय वैदर्भभूपं प्रति गत्वा तस्मै 'त्वद्दोषेण सामवतः स्त्रीत्वप्राप्तिः' इति कथनम्, ततस्तेन महीभृता तस्य द्विजपुत्रस्य स्वीत्वनिवृत्तिपूर्वकपुंस्त्वप्राप्तये भरद्वाजमुनेरुपदेशेन भरद्वाजमुनिना ताभ्यां द्विजकुमाराभ्यां च सहाम्बिकाभवनं गत्वा श्रीजगदम्बाया उपासनाकरणम्, तत्ः प्रसन्नया जगदम्बया प्रादुर्भूय स्वभक्त- कृतस्यान्यथाकर्तुमशक्यतां कथयित्वा सामवत्याः सुमेधसा सह पत्नीत्वेन कामसुखोपभोगार्थमाज्ञां कृत्वा तत्पितुः सारस्वतब्राह्मणस्य पूर्वसुतपेक्षयाऽधिक- गुणवत्सुतो भविष्यतीति वरप्रदानम्, ततस्तेन सारस्वतब्राह्मणेन तस्याः साम- वत्याख्याया निजसुतायास्तस्मै सुमेधसे विवाहविधिना प्रदानकरणम्, तयोः सुमेधःसामवत्योर्गार्हस्थ्यधर्मसेवनपूर्वकं कामसुखोपभोगकरणवर्णनम्, इत्थं सीमंतिनीकृतशिवभक्तिमाहात्म्यवर्णनम् ..... .... १९१ २

१० अथ शिवमाहात्म्यवर्णनप्रसंगेनावन्तीविषयस्थ मन्दराह्वयब्राह्मणवृत्तान्तवर्णनम्, तत्र तस्य मन्दराख्यब्राह्मणस्य विषयासक्तिपरायणतया पिङ्गलाख्यवेश्यासद्मनि नित्यं निवासकरणम्, अथैकदा तस्या वेश्यायाः सद्मनि तस्मिन्द्विजे निवसति सति धर्मात्मन ऋषभनाम्नः शिवयोगिन आगमनम्, तस्यर्षभयोगिनस्ताभ्यां मन्दरद्विजपिंगलावेश्याभ्यां पादप्रक्षालनादिपादसंवाहनान्तसम्यक्छुश्रूषाकरणेनै- करात्रपर्यंतमतिसन्तोषसमुत्पादनम्, अथ द्वितीयेऽह्नि यात्राप्रसंगेनागतस्य तस्य- र्षभयोगिनो गमनम्, ततः कालान्तरेण मन्दरद्विजस्य मरणानन्तरं दशार्णाधि- पतेर्वज्रबाहोर्भूपालस्य भार्यायां जन्म, तत्रादौ गर्भावस्थायामेव तस्या नृपभार्याया मरणार्थं सपत्नीभिश्छद्मना विषे दत्तेऽपि दैवयोगान्न मरणम्, परंतु विषजन्यदा- हादत्यन्तक्लेशावाप्तिः, तस्यां नृपभार्यायां समुत्पन्नस्य बालकस्य विषोत्पन्नदाहे- नातिक्लेशप्राप्तिः, उभयोरपि मातापुत्रयोर्गरयोगप्रभावेणातिक्लेशं समवेक्ष्य राज्ञा वैद्यद्वारा भेषजे कृतेऽप्यस्वास्थ्यं दृष्ट्वा ' नूनमेतौ नरकादागतौ ' इति स्वबुद्ध्या निश्चित्य निजसारथिद्वारा रथेन विजनेरण्ये तयोः परित्यागकरणम् ,अथ तेन शिशुना बालकेन सह वने विचरंत्या तया राज्यपत्न्या दैवयोगात्सुदूरे लब्धेन वणिक् मार्गेण वैश्यनगरं प्रति गमनम्, अथ तन्नगरस्वामिनः पद्माकराख्यवैश्यस्य दास्या
तां नृपागनां विदित्वा स्वस्वामिनः पद्माकरवैश्यस्य समीपे तस्यानयन, ततः पद्माकरवैश्येन तस्या राजपत्न्याः सांत्वनं कृत्वा सत्कारपूर्वकं स्वगृहे स्थापनम्, अथ तत्र वैश्यसद्मनि तस्यां राजपत्न्यां निवसन्त्यां सत्यां कदाचिद्दैवयोगेन तस्या बालकस्य व्रणादिरोगेण मरणम्, तदानीं तया राजपत्न्यातिविलापकरणम्, दैव- योगात्तस्मिन्नेव दिने तस्यैव पद्माकरवैश्यस्य गृहे पूर्वोक्तस्यर्षभाख्यशिवयोगिनो यात्राप्रसंगेनागमनम्, तेनर्षभशिवयोगिना वैश्यकृतं पूजासत्कारं गृहीत्वा पुत्र- मरणेन भृशं शोचन्त्यास्तस्या राजपत्न्याः समीपं गत्वा तां प्रति परमार्थयोधोपदेशेन शिवभक्तिकरणायाज्ञाकरणपूर्वकं तस्या मृतस्य पुत्रस्य समीपं गत्वा शिवमन्त्राभिमन्त्रितभस्मना तस्य प्राणसंजीवनकरणम्, ततो बालके संजीविते सति राज्ञ्याः सर्वजनानां चात्यानन्दप्राप्तिः, तत ऋषभशिवयोगिना तयोर्मातापुत्रयोर्देहयोः शिवमन्त्राभिमन्त्रितेन भस्मना स्पर्शनम्, तद्भस्मस्पर्शमात्रेण तयो- र्मातापुत्रयोर्दिव्यदेहत्वप्राप्तिः, ततस्तस्य बालकस्यर्षभशिवयोगिना भद्रायुरिति नामकरणपूर्वकमुभयोरपि भाविभाग्योदयं वर्णयित्वा शिशोर्विद्याप्राप्तिपर्यन्तं पद्माकरवैश्यस्य गृहे निवासायाज्ञां कृत्वा यात्राकरणार्थं स्थानांतरं प्रति गमनम १९३ २.

११ अथ पिङ्गलावेश्यायाः श्रीशिवभक्तर्षभाख्यशिवयोगिपूजनसत्कारप्रभावेण जन्मा- न्तरे चित्राङ्गदराजपत्न्यां सीमन्तिन्याख्यायां जन्मवर्णनम्, अथ भद्रायोः पद्माकरवैश्यगृहे तस्य पद्माकरवैश्यस्य पुत्रेण सुनयेन सह बाल्यत्तः सख्यपूर्वकं वृद्धिः सहक्रीडादिकं च, अथ तयोर्वैश्यकुमारराजकुमारयोः पद्माकरवैश्येन ब्राह्म- णद्वारोपनयनादिसंस्कारकरणपूर्वकविद्याध्ययनसंपन्नताकरणम्, अथ भद्रायो राजकुमारस्य षोडशे वर्षे संप्राप्ते तत्समीपे पूर्वोक्तस्यर्षभयोगीशस्यागमनम्, तस्य- र्षभयोगिनो भद्रायुमात्रा स्वपुत्रेण सह वन्दनकरणं भद्रायोः सन्मार्गोपदेशाय प्रार्थनाकरणं च, तत ऋषभशिवयोगिना भद्रायुषे राजपुत्राय श्रुतिस्मृतिपुराणप्रोक्त सनातनवर्णाश्रमानुरूपधर्मोपदेशकरणम्, अथ सर्वसंकटविमुक्तये श्रीशिवसेवो-
पदेशकरणम्...... १९५ २

१२ अथ श्रीमतर्षभशिवयोगिना सर्वरक्षाकरश्रीशिवकवचस्तोत्रोपदेशं कृत्वा तस्मै भद्रा-
युनाम्ने राजपुत्राय विजयकरं सर्वशत्रुविनाशकं शंखं प्रदाय शिवमन्त्रमन्त्रितेन
भस्मना तदंगं स्पृष्ट्वा तस्मै द्वादशसहस्रगजबलं दत्त्वा दर्शनमात्राच्छत्रुविजयकरं
खङ्गं प्रदाय करणीयकृत्योपदेशं कृत्वा शुभाशीर्वचनेन समनुशास्य ताभ्यां पूजा-
सत्कारमवाप्याभीष्टदेशं प्रति गमनम्..... १९६ २

१३ अथ ततः कदाचित्स्वल्पीयसैव समयेन तस्य शिवभक्तिं प्रकुर्वतो भद्रायोः
पितुर्वज्रबाहुनामकस्य दशार्णदेशभूपालस्य शत्रुणा मगधराजेन महता सैन्येन सह युद्धायागमनम्, ततो मगधराजेन दशार्णदेशभूपेन सह युद्धं कृत्वा युद्धे तं निर्जित्य तस्य सर्वं सैन्यं निर्णाश्य दशार्णदेशराष्ट्रं स्वायत्तीकृत्य तं रथे बद्ध्वा स्वदेशं प्रति गमनम्, इत्थं वैश्यनगरे निवसता भद्रायुराजपुत्रेण जनमुखान्निज-
पितृराष्ट्रविप्लववार्तां श्रुत्वा पद्माकरवैश्यपुत्रेण सुनयेन सहायेन हयमधिरुह्य महता जवेन निजपितृपालितं दशार्णदेशं मगधेश्वराख्यशत्रुभूपसैनिकैर्विध्वस्तं निरीक्ष्य ततः क्रोधावेशेन तूर्णमेव शत्रुसेनां प्रविश्य शिवयोगिदत्तविजयशंखमाध्माय विजयखड्गं चोद्यम्य सर्वाञ्छत्रुगणान्मूर्च्छनया विमोह्य बहुशः शत्रून्हत्वा शत्रुभी रथे निबद्धस्यात्मनः पितुर्बन्धान्मोक्षयित्वा शत्रुवशगाः सर्वाः स्वपितृपत्नीः पुरवासिजनानां पत्नीश्च कन्याश्च गोधनादीनि च मोचयित्वा स्वपित्रादीन्सर्वानाश्वास्य स्वपुर्यां संप्रेषणम्, ततोऽरिसैन्ये प्रवेशं कृत्वा तेषां स्त्रीगजाश्वरथदासदास्यादिसर्वसंपत्तिं हृत्वा मगधेशं पराजित्य समन्त्र्यादिपरिजनं तं निर्बध्य च स्वपुरीं प्रत्यागमनम्, अथ तेन भद्रायुना सुव्यक्तस्वनामाद्यकथयित्वैव
सामान्यतः क्षत्रियपुत्रत्वकथनपूर्वकं स्वपितुः पादाभिवन्दनकरणम्, अथ पितुर्नमनानंतरं तेन सुनयाख्येन वैश्यपुत्रेण सह भद्रायुणा वैश्यपुरं प्रत्यागत्य निजमात्रे तस्मै पद्माकराख्याय वैश्यवर्याय च सर्वयुद्धादिवृत्तान्तनिवेदनम्, अथ द्वितीयेऽह्नि चन्द्रांगदापरपर्यायं चित्राङ्गदं नृपं प्रति तस्य पूर्वोक्तस्यर्ष- भाख्यशिवयोगिन आगमनं चित्रांगदं प्रति भद्रायुषे राजपुत्राय कन्याप्रदा- नार्थमुपदेशपूर्वकमाज्ञाकरणं च, तत ऋषभयोगिवचनाच्चित्राङ्गदेन भूपेन भद्रा- युषमाहूय तस्मै कीर्तिमालिन्याख्यां निजकन्यां प्रदाय वैवाहिकविधिकरणाय समारम्भकरणम्, अथ तत्पितुर्वज्रबाहोः समीपे दूतं प्रेषयित्वा पुत्रस्योद्वाहार्थं सत्कारपूर्वकं निमन्त्रणम्, वज्रबाहोः सपरिवारस्य तत्र निषधेशराजधान्यामाग- मनम्, तस्यागतस्य पितुर्वज्रवाहोर्भद्रायुना पुत्रेणाभिवादनम्, तथाप्यविज्ञाततत्कु- लनाम्ना वज्रबाहुना तस्य भद्रायोर्जिज्ञासया प्रश्ने कृते सति निषधेश्वरेण वज्रबाहुं प्रति 'अयं त्वया मात्रा सह वने त्यक्तस्तवैव पुत्रो भद्रायुनामास्ति इति तस्य वृत्ते कथिते सति वज्रबाहोर्निजकर्मणः ससुतपत्नीत्यागरूपस्य लज्जया गर्हणानन्तरं प्रतापशालिनिजपुत्रप्राप्त्याऽत्यन्तानन्दप्राप्तिः, अथ चित्राङ्गदेन भूपेन कृतं पूजास- त्कारमादायात्मनोऽग्रमहिषीं तां भद्रायोर्मातरं स्वस्नुषया समेतं भद्रायुषं स्वपुत्रं च गृहीत्वा वज्रबाहोर्निजपरिवारजनैः सह महता समारम्भेण सानन्दं स्वपुरीं प्रत्यागमनम्, ततो भद्रायुना पूर्वं पितुराज्ञया यौवराज्यं कृत्वा पितुः स्वर्गा- रोहणानन्तरं सर्वभूमण्डलराज्यकरणम्, राज्याधिरोहणानन्तरं भद्रायुना पूर्वं निबद्धस्य हेमरथाख्यमागधभूपस्य मैत्रीं संधाय बन्धनान्मोचनम्, ततो भद्रायुना स्वपत्न्या कीर्तिमालिन्या सह सुखोपभोगपूर्वकराज्यकरणम्, इत्थं पूर्वजन्म- कृतशिवयोगिपूजासत्कारप्रभाववर्णनम् ..... ..... १९८ १

१४ अथ प्राप्तराज्यसिंहासनस्य भद्रायोः कदाचिन्निजभार्यया सह वनं गत्वा स्वच्छन्द- विहारकरणम्, तस्मिन्नेव समये तस्मिन्वने कयोश्चिद्द्विजदम्पत्योर्मध्ये व्याघ्रे- णानुगत्योपद्रवे क्रियमाणे ताभ्यां निजरक्षणार्थमुच्चैः शब्देन राज्ञः प्रार्थनाकरणम्, तदैव व्याघ्रेणागत्य द्विजपत्न्या ग्रहणम्, तस्योपरि भद्रायुणा वृतेऽपि शस्त्रप्रहारे सर्वशस्त्राणां व्यर्थीभावः, व्याघ्रेण च द्विजपत्न्यां हृतायां द्विजेन शोकपूर्वकं राज्ञो धिक्कारकरणम् अथ राज्ञा भद्रायुणा व्याघ्रनाशितपत्नीकस्य तस्य द्विजस्य सान्त्वनाय वहुविधप्रार्थनाकरणम्, ततो द्विजेन राजानं प्रति निजकामोपभो- गशान्त्यर्थं राजपत्नीं प्रति याचनाकरणम्, ततो भद्रायुणा तस्मै ब्राह्मणाय निजपत्नीं दत्त्वाग्निं प्रज्वाल्य शिवं ध्यात्वाऽग्नौ पतनायोद्यमनम्, तस्मिन्नेवावसरे तद्भक्तिपरीक्षार्थं द्विजरूपधारिणा तेनैव श्रीशंकरेण स्वस्वरूपेण प्रादुर्भवनम् तस्य श्रीशंकरस्य भद्रायुणा स्तुतिकरणम्, तत्स्तुतिप्रसन्नेन भगवता श्रीशंकरेण सप- त्नीकाय भद्रायुषे वरप्रदानम्, भद्रायुषः शिवप्रसादाद्राज्यसुखोपभोगप्राप्तिवर्ण- नम्, अन्ते च पुत्रेषु राज्यं विन्यस्य भद्रायुषः शिवसायुज्यप्राप्तिः, भद्रायुश्वशु- रस्य चित्राङ्गदस्य निजपत्न्या सीमन्तिन्या सह शाम्भवपदावाप्तिवर्णनम्, इत्थं शिवभक्तिमाहात्म्यवर्णनम्... ....... ..... २०० १

१५ अथ भस्ममाहात्म्यवर्णनम् तत्प्रसङ्गेन वामदेवाख्यशिवयोगिनो वृत्तान्तवर्णनम्, तत्रैकदा क्रौञ्चारण्ये विचरंतं तं वामदेवशिवयोगिनं प्रति भक्षितुं समागच्छता ब्रह्मराक्षसेन निजदोर्भ्यां दृढनिपीडने कृते तदंगस्पर्शमात्रादेव तस्य सद्यो विध्व- स्तकल्मषताप्राप्तिः, ततो निजपूर्वदुष्कर्मस्मरणेन निर्विण्णमानसेन तेन ब्रह्मराक्ष- सेन वामदेवशिवयोगिनं प्रति निजपूर्वपञ्चविंशतितमजन्माचरितदुष्कर्मतत्परि- पाकयाम्ययातनाब्रह्मराक्षसत्वप्राप्त्यादिवर्णनम्, ततश्च वामदेवं प्रति 'त्वद्देह- स्पर्शमात्रेण मे पूर्वसहस्रजन्मस्मृतिजातास्ति, मम चित्तं च सुप्रसन्नं वर्ततेऽत एतादृशः प्रभावस्त्वया कथं लब्धः' इति प्रश्ने कृते वामदेवशिवयोगिना निजदेह- लिप्तस्य भस्मनोऽयं प्रभाव इति कथयित्वा भस्मसामर्थ्यवर्णनम्, तत्प्रसंगेन च द्रविडदेशस्थदुराचारवर्तिब्राह्मणस्य प्रेतोपरि भस्मलिप्तपादस्य शुनोंऽघ्रिलग्नभस्म- स्पर्शनमात्रेण तस्य ब्राह्मणस्य शिवलोकावाप्तिवृत्तान्तवर्णनम्, इत्थं वामदेवोक्तं
भस्ममाहात्म्यं श्रुत्वा ब्रह्मराक्षसेन पुनर्विस्तरेण भस्ममाहात्म्यं श्रोतुं वामदेवं
प्रति प्रश्नकरणम्..... - ...... .... - - २०१ २

१६ अथ वामदेवेन सविस्तरं भस्ममाहात्म्यं वर्णयितुमुपक्रमे क्रियमाणे मन्दरशैलेन्द्रे श्रीमहेशं प्रति शक्रादिसर्वदेवानामागमनवर्णनम्, तत्र महोत्सवे सर्वदेवै रत्नसिंहास-
नोपरि स्थितस्य भगवतो महेश्वरस्योपासनापूर्वकं स्तुतिकरणम्, ततश्च सुप्रसन्नं
श्रोरुद्रदेवं प्रति सनत्कुमारेण महर्षिणा वेदशास्त्रोक्तधर्मविषयप्रश्नप्रसङ्गेन त्रिपु-
ण्ड्रधारणविधिजिज्ञासया प्रश्नकरणम्, तत्कृतं प्रश्नमाकर्ण्य भगवता श्रोरुद्रदेवेन
सविस्तरभस्मत्रिपुण्ड्रधारणमाहात्म्यवर्णनम्... -..... ... २०३ १

१७ अथ भस्ममाहात्म्यकथनप्रसंगेन शबरवृत्तान्तवर्णनम् तत्र पांचालदेशीयराजपुत्रस्य
सिंहकेतोः कदाचिन्मृगयार्थं वने विचरतः साहाय्यार्थं गतवता केनचित्तदनुचरेण शबरेण वने कस्यचित्स्थंडिलस्योपरि भिन्नपिण्डिकं शिवलिङ्गं दृष्ट्वा तद्गृहीत्वा
राजपुत्रस्य सविधे गत्वा तं प्रत्येव शिवलिङ्गपूजाविधिजिज्ञासया प्रश्नकरणम्,
ततस्तेन राजपुत्रेण तं प्रति परिहासेन नित्यं चिताभस्मपूर्वकोपचारैः शिवपूजा-
विध्युपदेशकरणम्, तेन शबरेण च स्वगृहे तल्लिंगं नीत्वा भक्तिभावपूर्वकं राज-
पुत्रोक्तमार्गेणैव नित्यं चिताभस्मानीय श्रीशंकरस्य यथोपचारैः पूजाकरणम्, अथैकदा तस्य शबरस्य शिवपूजार्थ चिताभस्मनोऽलाभाच्चिन्तातुरत्वे सति तस्य पत्न्या शबर्या स्वभर्तारं सांत्वयित्वा निजगृहं वह्निना सन्दीप्य तन्मध्ये स्वयं प्रविश्य स्वशरीरदहनम्, ततस्तेन शबरेण तस्य दग्धस्वगृहस्य समीप एव तेन निजपत्नीदेहदहनंजनितेन जिताभस्मना श्रीशंकरस्य यथासाङ्गपूजां विधाय पूजावसानान्ते श्रीशिवप्रसादग्रणार्थं निजपत्न्याः शबर्याः प्रतिदिनवदाह्वाने कृते सति
तदानीमेव तत्पृष्ठे तस्याः शबर्याः प्रतिदिनवद्यथापूर्वमागत्य स्थितिः, तस्य गृहस्य च यथापूर्वं स्थितिः, ततश्चकितेन तेन भार्यया सह संभाषणे क्रियमाणे दिव्यविमानप्राप्तिः, तद्विमानमारुह्य तयोः शबरदंपत्योः शिवलोकं गत्वा शिवसारूप्यमुक्तिः प्रातिः, इत्थं दृढश्रद्धामाहात्म्यवर्णनम्... ...... २०४ २

१८ अथ सर्वार्थसिद्धिप्रदोमामहेश्वरव्रतमाहात्म्यवर्णंनम्, तत्प्रसंगेनानर्तदेशस्थितवेदरथाख्यद्विजकन्यायाः शारदानाम्न्याश्चरित्रवर्णनम्, तत्र तस्याः शारदायाः पत्युः पद्मनाभद्विजस्य सर्पदंशेन मरणे सति प्राप्तवैधव्यायाः शारदायाः स्वपितुर्गृहे निवासे कदाचित्तत्र पितृगृहे समागतस्य नैध्रुवाख्यमहर्षेः समीपे गत्वा तया शारदया तं वृद्धमन्धं नैध्रुवमुनिं प्रति नमस्कारे कृते सति तेन मुनिना तस्यै 'सौभाग्यवती पुत्रवती भव' इति मङ्गलाशीःप्रदानम्, ततो ज्ञाततद्वैधव्यवृत्तान्तेन नैध्रुवमुनिना तस्यै शारदायै सौभाग्यप्राप्तये सविस्तरोमामहेश्वरव्रतविधानोपदेशकरणम्, ततस्तया शारदया मुनिप्रोक्तोमामहेश्वरव्रतग्रहणम्, ततस्तस्याः पितृमात्रादिभिः शारदाया वैधव्यदुःखविनाशाय नैध्रुवमहर्षेस्तस्या व्रतस्य यथासांगसमाप्तिपर्यन्तन्तं
निवासकरणाय प्रार्थनाकरणम्, तत्प्रार्थनया नैध्रुवमहषेः शारदाकृतस्य
व्रतस्य यथासांगसमाप्तिपर्यन्तं तत्रैव मठेऽवस्थितिकरणम् -.... - २०६ १

१९ अथ शारदया तस्य स्वगुरोर्नैध्रुवमहर्षेः संनिधौ स्थित्वैकवर्षपर्यन्तं यथावि-
ध्युमामहेश्वरव्रताचरणम्, ततः संवत्सरांते तस्य व्रतस्योद्यापनकरणम्, उद्याप-
नदिनस्य रात्रौ तेन नैध्रुवमहर्षिणा तया शारदया सह जपध्यानतपोभिः श्रीजगदम्बायाः संतोषकरणम्, तस्मिन्नवसरे तयोर्भक्तिप्रभावाच्छ्रीजगदम्बायाः प्रादु-
भावः, तदानीमेव श्रीजगदम्बाप्रसादात्तस्यान्धस्य नैध्रुवमहर्षेश्चक्षुर्द्वयप्राप्तिः, ततो
नैध्रुवमहर्षिणा तया शारदया सह जगदम्बायाः स्तुतौ कृतायां सुप्रसन्नया जगदम्बया नैध्रुवमहर्षिप्रार्थनया शारदायाः पूर्वजन्मकर्मवर्णनपूर्वकम् 'एतस्याः स्वप्ने स्वपतिना सह रतिसुखप्राप्तिर्भविष्यति' इति वरं प्रदाय शारदायै 'निजगर्भजातपुत्र स्वप्ने कृतभोगस्य पुरुषस्य यदा प्रत्यक्षं दर्शनं करिष्यसि तदा तस्मै देहि' इत्याज्ञां कृत्वान्तर्धानकरणम्, ततः सुप्रसन्नया तया शारदया बालया स्वगुरोनैध्रुवमुनेः पूजासत्कारकरणम्, ततो नैध्रुवमुनेः शारदापित्रो रहसि जगदम्बावर- प्रदानादिवृत्तं संश्राव्य सर्वानामन्त्र्य स्वेच्छया देशान्तरं प्रति गमनम् ,अथ शारदायाः श्रीजगदम्बायाः प्रसादेन स्वप्ने स्वभर्त्रा सह रतिसंभोगकरणाद्गर्भधारणम्,. ततो विधवां तां शारदां गर्भिणीं श्रुत्वा सर्वजनैर्धिक्कारकरणपूर्वकं तस्याः स्वग्रामाद्बहि- र्निर्वासनाय सर्वैः सहैकत्र मिलित्वा मन्त्रकरणम्, एवं तैर्जनैर्दुर्विचारे क्रियमाणे सत्याकाशवाण्या तस्याः शारदाया निर्दोषत्वकथनम्, तच्छुत्वा सुप्रसन्नैस्तैः सर्वजनैः स्त्रीजनैश्च शारदायाः सकाशादेकान्ते सहर्षं सत्यवृत्तान्तं विज्ञाय तस्याः प्रशंसां कृत्वा स्वस्वगृहं प्रति गमनम्, अथ शारदायाः पुत्रसन्तानोत्पत्तिः, तस्य शारदे- याख्यत्य शारदापुत्रस्य गुरुणोपनयने कृते सत्युपनयनादनन्तरं चतुर्भिरेव वर्षै- श्चतुर्वेदादिसाङ्गोपाङ्गसमग्रविद्यापारंगतावर्णनम् ,अथ कदाचिद्गोकर्णेश्वरमहादेवक्षेत्रं प्रति कस्मिंश्चिच्छिवमहापर्वणि तद्ग्रामस्थितानां यात्रार्थं प्रयाणे सति तैः सर्वस्व- ग्रामनिवासिभिर्जनैः सह तस्याः शारदाया अपि तेन स्वपुत्रेण सह गमनम् , तत्र तया शारदया नित्यं प्रति स्वप्ने रतिदायिनः पूर्वजन्मीयस्य विप्रस्य स्वभर्तु- दर्शनम्, तेनापि पुरुषेण प्रतिदिनं स्वप्ने रतिदायिन्यास्तस्याः शारदायाः स्वप्ने दृष्टस्य स्वस्मादुत्पन्नस्य तस्य पुत्रस्य च प्रत्यक्षदर्शनम्, ततस्तेन विप्रेण विस्मया- विष्टचित्ततया तत्समीपमागत्य शारदां प्रति तस्या वृत्तान्तजिज्ञासया प्रश्नक- रणम्, ततः शारदया तस्मै सर्वस्ववृत्तान्तनिवेदनम, ततस्तेन विप्रेण तद्दत्तं कुमारं तां शारदां च तस्याः पित्रोरनुज्ञया गृहीत्वा स्वगृहं प्रति गमनम्, ततः कालान्तरे तस्य विप्रस्य मरणोत्तरं चिताग्नौ शारदायास्तेन स्वभर्त्रा सहानुग- मनम, ततस्तयोर्दंपत्योः शिवलोकं प्रति गमनम. इत्थमुमामहेश्वरव्रतप्रभाववर्णनम्. ... ... ... २०७ २

२० अथ रुद्राक्षमाहात्म्यवर्णनम्, तत्र रुद्राक्षधारणपुण्यवर्णनप्रसंगेन काश्मीरदेशनृपति- भद्रसेनसुतस्य सुधर्माख्यस्य राजामात्यसुतस्य तारकाख्यस्य चेत्युभयो राजपुत्रामात्यपुत्रयोर्बाल्यत आरभ्य परममैत्रीभावेन वर्तनम्, उभयोरपि सदैव हेमरत्न- मयालङ्कारपरित्यागपूर्वकं रुद्राक्षधारणेऽत्यन्तप्रेमाणं दृष्ट्वाऽतिविस्मयाविष्टेन राज्ञा भद्रसेनेनेकदा स्वगृहं प्रत्यागतं पराशरमुनिं प्रति पूजाविधिना सत्कृत्य तयोर्बाल- कयो रुद्राक्षधारणाभिरुचिकारणजिज्ञासया प्रश्नकरणम्, ततस्तेन पराशरमह- र्षिणा तयो राजपुत्रामात्यपुत्रयोः पूर्वजन्मवृत्तान्तवर्णनम्, तत्र पूर्वं नन्दिग्राम- निवासिन्या महावैभवशालिन्याः सदा सदाशिवपूजानिरताया महानन्दानाम्न्याः कस्याश्चिद्वेश्यायाः सद्मनि निवसतोः कुक्कुटमर्कटयो रुद्राक्षकृतकर्ण-बाहु-चूडा- भरणयोर्वेश्यया प्रतिदिनं कृतायां नृत्यशिक्षायां प्रावीण्यं प्राप्तयोः प्रतिदिनं तस्या वेश्यायाः शिवाग्रतो नृत्यसमये नृत्यम्, अथ कदाचित्तस्या भवनं कस्य- चिच्छिवव्रतधारिणः शिवयोगिनो वैश्यस्यागमनम्, तत्करे दिव्यरत्नकंकणं दृष्ट्वा तल्लिप्सया तया वेश्यया तस्मै वैश्याय स्वस्या वारांगनात्वे सत्यपि 'त्रिदिन- पर्यन्तं ' तव पत्नीत्वं स्वीकृत्य सहधर्मचारिणीधर्मेणाऽहं त्वां सेविष्ये' इति प्रतिज्ञाकरणम्, ततश्च तेन शिवव्रतपरायणेन वैश्येन तस्या वचनमाकर्ण्य बाढमित्युक्त्वा तस्या हस्ते निजनित्यपूजनीयरत्नमयशिवलिङ्गं दत्त्वैतस्य रत्नमयशिवलिङ्गस्य नाशे मम प्राणनाशः स्यादिति कथयित्वा तस्य लिङ्गस्यातिप्रयत्नेन संरक्षणायाज्ञाकरणम्, तया महानन्दावेश्यया तस्य वैश्यस्याज्ञां संमान्य तद्दत्तं लिङ्गमादाय नाट्यमण्डपिकास्तम्भोपरि तल्लिंगं निधाय स्वगृहं प्रविश्य रात्रौ तेन वैश्येन पर्यंके सुखेन संगतया निद्राकरणम्, ततो निशीथसमयेऽकस्मादुत्थितेन वह्निना तस्या वेश्यायाः सर्वनाट्यमण्डपस्य दहनम् ,तस्मिन्नवसरे सद्यः प्रबुद्धया तया वेश्यया तत्र सत्वरमेत्य रज्ज्वा शृंखलया च निबद्धयोः तयोः कुक्कुटमर्कटयोः सत्वरं बन्धनतो मोचनम्, मोचितयोस्तयोः कुक्कुटमर्कटयोस्तस्मान्मण्डपस्थलाद्वह्निभीत्या दूरे पलायनम्, सर्वमण्डपदाहे सति मण्डपस्थस्तम्भस्य तदुपरि निहितस्य वैश्यदत्तरत्नमयलिङ्गस्य च दहनेन शकलीभवनम्, तल्लिङ्गनाशं दृष्ट्वा तेन वैश्येन मरणाय निश्चयं कृत्वा चिता- निर्माणाय तां महानन्दावेश्यां प्रत्याज्ञाकरणम्, ततस्तस्य वैश्यस्य दृढनिर्बन्धं दृष्ट्वा तया वेश्यया ग्रामाद्बहिः काष्ठैश्चिताया निर्माणम्, ततः प्रज्वालितायां तस्यां चितायां तेन शिवभक्तेन वैश्येन प्रवेशकरणम्, तं वैश्यं चितां प्रविष्टं दृष्ट्वाऽतिखिन्नया तया महानन्दया वेश्यया तेन त्रिरात्रं पत्नीत्वप्रतिज्ञाना- त्सहधर्मचारिणीधर्मं पुरस्कृत्य शिवभक्तेभ्यः स्वकीयं सर्वस्वं प्रदाय तमग्निं त्रिः परिक्रम्य शिवं स्मृत्वा तस्मिन्नग्नौ पत्यनुगमनाय प्रवेशकरणायोद्यमनम्, तदानीं साक्षाद्भगवता शंकरेण तत्र प्रादुर्भूय तस्या निवारणं कृत्वा स्वस्यैव भक्तिपरीक्षणाय वैश्यरूपेणागमनादि कथयित्वा सर्वपरिवारजनैः सह तस्या महानन्दाया वेश्यायाः शिवलोकं प्रति नयनम्, तत्परिवारजनेष्ववशिष्टयोर्गृह- दहनसमये बन्धनाद्विमुच्य दूरं पलायितयोस्तयोः कुक्कुटमर्कटयोः स्वस्वकालेन मरणे सति मर्कटस्य राजपुत्रत्वं कुक्कुटस्य चामात्यपुत्रत्वं संप्रति संप्राप्तमिति पराशरेण राजपुत्रामात्यपुत्रयोः पूर्वजन्मवृत्तान्तकथनम्... ...... २१०

२१ अथ राज्ञा भद्रसेनेन तस्य राजकुमारस्य भविष्यद्भाग्यविषये पराशरमुनिं प्रति पृच्छायां कृतायां पराशरमुनिना तस्य सुधर्माख्यस्य राजपुत्रस्याद्यदिनात्सप्तमेऽह्नि मृत्युर्भविष्यतीति भविष्यत्कथनम्, तच्छुत्वाऽतिदुःखितं भद्रसेनभूपं प्रति बोध- वचनैः समाश्वास्य तस्य सुधर्माख्यराजपुत्रस्य मृत्युनिवारणाय रुद्राध्यायजपा- नुष्ठानकथनम्, अथ राज्ञः प्रार्थनया रुद्राध्यायपाठपूर्वकं तेन पराशरमुनिना व्रततपःसदाचारसंपन्नैर्ब्राह्मणैः सह तस्य राजकुमारस्य प्रतिदिनमभिषेके क्रिय- माणे सप्तमेऽह्न्यकस्मात्क्षणमात्रं मूर्छना प्राप्य पुनः सद्य एव प्रबोधनम्, तदानीं तेन कुमारेण मूर्छनावस्थायां मृत्योः शिवदूतस्य चागमनपूर्वकं शिवदूतकृत- मृत्युपराभवकथनम्, ततः पराशरादिभिः सर्वैर्ऋषिभिस्तस्य राजकुमारस्याशीर्वचनं प्रदाय तत्पित्रे राज्ञेऽभयशंसनम्, ततो राज्ञा सर्वेषां ब्राह्मणानां विपुलअम्बायाः भोजनप्रदानादिना सत्कारकरणम्, ततः स्वपुत्रेण पराशरगुरुप्रभृतिमहर्षिभिश्च
सह सिंहासन उपविष्टस्य सुप्रसन्नस्य तस्य भद्रसेननृपस्य स्रमीपे महायोगिनः
श्रीनारदमहर्षेरागमनम्, ततो भद्रसेनेन राज्ञा कृतपूजासत्क्रियेण नारदेन राजानं प्रति 'तव पुत्रं नेतुं यमस्यात्रागमने सति शंकरेण प्रेषितेन वीरभद्रेण यमस्य शासनं कृतम् इति वर्णनं यमेन वीरभद्रस्य प्रणामपूर्वकं स्तुतिकरणानंतरं वीरभ-
द्राद्यममोचनादिवृत्तान्तवर्णनं च, 'रुद्राध्यायपठनपूर्वकाभिषेचनप्रभावात्तव पुत्रस्य
मृत्युभीतिनिवारणं जातमस्यायुतवर्षपर्यंतमायुः सकलसौख्यावाप्तिश्च भविष्यति'
इत्याशीः प्रदाय नारदस्य गमनम्, पराशरादिमहर्षीणां च सहपुत्राय राज्ञ आशीः
प्रदाय स्वस्वाश्रमगमनम्, इत्थं रुद्राध्यायप्रभाववर्णनम्... ..... २११ २

२२ अथ शिबभक्तिमाहात्म्यप्रतिपादक पुण्यमयपुराणकथापठनश्रवणविधिपूर्वक फलवर्णनम्, पुराणश्रवणमाहात्म्यवर्णनप्रसंगेन जारकर्मप्रवृत्तयोर्विदुराख्य ब्राह्मणाधमबिन्दुलाख्यतत्पत्न्योर्वृत्तान्तवर्णनम्, तत्र जारकर्मणा वेश्यासक्तेन विदुराख्यब्राह्मणाधमेन नित्यं जारेण सह संगतामपि कस्मिंश्चिदेकस्मिन्दिने जारेण सह रतासक्तां जारिणीं स्वभार्यां दृष्ट्वा तां प्रति संताड्य 'त्वं जारेभ्यो रतिं दत्त्वा तेभ्यो धनमादाय मह्यं वेश्यायै धनप्रदानाय देहि तेनाहं वेश्यायां रमिष्ये त्वं जारै रमस्व' इत्युक्त्या प्रतिदिनमुभयोरप्यधमयोस्तयोर्दुराचारे प्रवृत्तिः, इत्थं कियता कालेन तस्य ब्राह्मणाधमस्य मरणानंतरं किंचिदुत्क्रान्तयौवनायास्तस्या बिंदुलाख्याया जारोत्पन्नैर्निजपुत्रैः स्वकीयैर्बांधवैश्च सह कदाचित्पर्वविशेषे गोकर्णक्षेत्रं प्रति यात्रार्थं गमनम्, तत्र गत्वा कस्मिश्चिद्देवालये पौराणिकेन पुराणे वाच्यमाने तया बिंदुलया
तस्य पौराणिकस्य मुखात्पुराणश्रवणसमये जारसक्तानां नारीणां स्मरमन्दिरे यमकिङ्कराः संतप्तलोहपरिघं क्षिपन्ति ' इति यमयातनावृत्तांतं श्रुत्वा सततकृत-
स्वकीयजारदुष्कर्मस्मरणसंतप्तहृदयया तया बिंदुलया रहसि तं पौराणिकं ब्राह्मणं प्रति गत्वा निजदुष्कर्मपरिशान्तय उपायजिज्ञासया प्रश्नकरणम्, ततस्तेन पौराणिकेन तस्याः पुराणश्रवणमात्रेण निजघोरव्यभिचारपापस्मरणेनात्युग्रयमयातनाभीताया बिंदुलाख्यायाः सांत्वनपूर्वकं शिवभक्तिपुरःसरशिवनाममन्त्रोच्चारणपूर्वक शिवभक्तिप्रतिपादक पुराणकथाश्रवणोपदेशकरणम्, ततस्तया बिन्दुलया तस्मादेव पौराणिकात्सद्गुरोः सकाशाच्छिवभक्तिवर्द्धकपुराणकथाश्रवणम्, पुराणश्रवणप्रभावात्तस्या विन्दुलायाः शनैःशनै रजस्तमोमलध्वंसे जाते सति हृदये
श्रीशङ्करस्य प्रवेशः, ततः प्रतिदिनं तया गुरूपदिष्टमार्गेण श्रीशङ्करस्य भक्तिक-
रणम्, श्रीशिवभक्तिप्रभावात्तया निखिलकर्मबंधं समाच्छिद्यान्ते शिवलोकं प्रति
गमनम्, तत्र शिवलोके श्रीपार्वतीजगदम्बायाः समीपे गतायास्तस्याः पार्वत्या
संमानकरणम्, ततः पार्वत्याः सकाशान्निजभर्तुः पिशाचत्वप्राप्तिं श्रुत्वा तस्य निजभर्तुः पिशाचयोनेर्मोक्षाय तया तुंबरुंनाम गन्धर्वं प्रति विंध्यशैले स्थिताय निजभर्त्रे पुराणश्रावणार्थं प्रार्थनाकरणम्, तया प्रार्थितेन तुंबरुणा विंध्यशैलं गत्वा
तं पिशाचं प्रति श्रीगौरीपतिकथायाः श्रावणे कृते तस्य पिशाचत्वं प्राप्तस्य बिंदुला-
पतेः पिशाचयोनितो मुक्तिपूर्वकं विमानमारुह्य शिवलोकं प्रति गमनवर्णनम् ,
ततस्तयोर्दंपत्योः श्रीमहेश्वरसद्गुणगायनेन कैवल्यमुक्तिप्राप्तिवर्णनम्, श्रीशिवभ-
क्तिप्रतिपादकब्राह्मोत्तरखण्डपुण्याख्यानवैभववर्णनपूर्वकं ब्राह्मोत्तरखण्डसमाप्तिव-
र्णनम्. - .. - ... २१३ २

इति ब्राह्मखण्डे तृतीयं ब्राह्मोत्तरखण्डं समाप्तम् ।। ( ३-३) ।।

इति श्रीस्कान्दे महापुराणे तृतीयं ब्राह्मखण्डम् ।। ३ ।।