स्कन्दपुराणम्/खण्डः ३ (ब्रह्मखण्डः)/ब्रह्मोत्तर खण्डः/अध्यायः ८

विकिस्रोतः तः
Jump to navigation Jump to search

।। सूत उवाच ।। ।।
नित्यानंदमयं शांतं निर्विकल्पं निरामयम् ।।
शिवतत्त्वमनाद्यंतं ये विदुस्ते परं गताः ।। १ ।।
विरक्ताः कामभोगेभ्यो ये प्रकुर्वंत्यहैतुकीम् ।।
भक्तिं परां शिवे धीरास्तेषां मुक्तिर्न संसृतिः ।।२।।
विषयानभिसंधाय ये कुर्वंति शिवे रतिम् ।।
विषयैर्नाभिभूयंते भुंजानास्तत्फलान्यपि ।। ३ ।।
येन केनापि भावेन शिवभक्तियुतो नरः ।।
न विनश्यति कालेन स याति परमां गतिम् ।। ४ ।।
आरुरुक्षुः परं स्थानं विषयासक्तमानसः ।।
पूजयेत्कर्मणा शंभुं भोगांते शिवमाप्नुयात् ।। ५ ।।
अशक्तः कश्चिदुत्स्रष्टुं प्रायो विषयवासनाम् ।।
अतः कर्ममयी पूजा कामधेनुः शरीरिणाम् ।।६।।
मायामयेपि संसारे ये विहृत्य चिरं सुखम् ।।
मुक्तिमिच्छन्ति देहांते तेषां धर्मोयमीरितः ।। ७।।
शिवपूजा सदा लोके हेतुः स्वर्गापवर्गयोः ।।
सोमवारे विशेषेण प्रदोषादिगुणान्विते ।। ८ ।।
केवलेनापि ये कुर्युः सोमवारे शिवार्चनम् ।।
न तेषां विद्यते किंचिदिहामुत्र च दुर्लभम् ।। ९ ।।
उपोषितः शुचिर्भूत्वा सोमवारे जितेंद्रियः ।।
वैदिकैर्लौकिकैर्वापि विधिवत्पूजयेच्छिवम् ।।3.3.8.१०।।
ब्रह्मचारी गृहस्थो वा कन्या वापि सभर्त्तृका।।
विभर्तृका वा संपूज्य लभते वरमीप्सितम्।।११।।
अत्राहं कथयिष्यामि कथां श्रोतृमनोहराम्।।
श्रुत्वा मुक्तिं प्रयांत्येव भर्तिर्भवति शांभवी।।१२।।
आर्यावर्ते नृपः कश्चिदासीद्धर्मभृतां वरः।।
चित्रवर्मेति विख्यातो धर्मराजो दुरात्मनाम्।। ।। १३ ।।
स गोप्ता धर्मसेतूनां शास्ता दुष्पथगामिनाम् ।।
यष्टा समस्तयज्ञानां त्राता शरणमिच्छताम्।।१४।।
कर्त्ता सकलपुण्यानां दाता सकलसंपदाम् ।।
जेता सपत्नवृंदानां भक्तः शिवमुकुन्दयोः ।। १५ ।।
सोनुकूलासु पत्नीषु लब्ध्वा पुत्रान्महौजसः ।।
चिरेण प्रार्थितां लेभे कन्यामेकां वराननाम् ।। १६ ।।
स लब्ध्वा तनयां दिष्ट्या हिमवानिव पार्वतीम् ।।
आत्मानं देवसदृशं मेने पूर्णमनोरथम् ।। १७ ।।
स एकदा जातकलक्षणज्ञानाहूय साधून्द्विजमुख्यवृंदान् ।।
कुतूहलेनाभिनिविष्टचेताः पप्रच्छ कन्याजनने फलानि ।। १८ ।।
अथ तत्राब्रवीदेको बहुज्ञो द्विजसत्तमः ।।
एषा सीमंतिनी नाम्ना कन्या तव महीपते ।। १९ ।।
उमेव मांगल्यवती दमयंतीव रूपिणी ।।
भारतीव कलाभिज्ञा लक्ष्मीरिव महागुणा ।। ।। 3.3.8.२० ।।
सुप्रजा देवमातेव जानकीव धृतव्रता ।।
रविप्रभेव सत्कांतिश्चंद्रिकेव मनोरमा ।। २१ ।।
दशवर्षसहस्राणि सह भर्त्रा प्रमोदते ।।
प्रसूय तनयानष्टौ परं सुखमवाप्स्यति।। २२ ।।
इत्युक्तवंतं नृपतिर्धनैः संपूज्य तं द्विजम् ।।
अवाप परमां प्रीतिं तद्वागमृतसेवया ।। २३ ।।
अथान्योऽपि द्विजः प्राह धैर्यवानमितद्युतिः ।।
एषा चतुर्दशे वर्षे वैधव्यं प्रतिपत्स्यति ।। २४ ।।
इत्याकर्ण्य वचस्तस्य वज्रनिर्घातनिष्ठुरम् ।।
मुहूर्तमभवद्राजा चिंताव्याकुलमानसः ।। २५ ।।
अथ सर्वान्समुत्सृज्य ब्राह्मणान्ब्रह्मवत्सलः ।।
सर्वं दैवकृतं मत्त्वा निश्चिंतः पार्थिवोऽभवत् ।। २६ ।।
सापि सीमंतिनी बाला क्रमेण गतशैशवा ।।
वैधव्यमात्मनो भावि शुश्रावात्मसखीमुखात् ।। २७ ।।
परं निर्वेदमापन्ना चिंतयामास बालिका ।।
याज्ञवल्क्यमुनेः पत्नीं मैत्रेयीं पर्यपृच्छत।।२८।।
मातस्त्वच्चरणांभोजं प्रपन्नास्मि भयाकुला।।
सौभाग्यवर्धनं कर्म मम शंसितुमर्हसि।।२९।।
इति प्रपन्नां नृपतेः कन्यां प्राह मुनेः सती।।
शरणं व्रज तन्वंगि पार्वतीं शिवसंयुताम्।।3.3.8.३०।।
सोमवारे शिवं गौरीं पूजयस्व समाहिता।।
उपोषिता वा सुस्नाता विरजाम्बरधारिणी ।। ३१ ।।
यतवाङ्निश्चलमनाः पूजां कृत्वा यथोचिताम् ।।
ब्राह्मणान्भोजयित्वाथ शिवं सम्यक्प्रसादयत् ।।३२।।
पापक्षयोऽभिषेकेण साम्राज्यं पीठपूजनात् ।।
सौभाग्यमखिलं सौख्यं गंधमाल्याक्षतार्पणात् ।। ३३ ।।
धूपदानेन सौगंध्यं कांतिर्दीपप्रदानतः ।।
नैवेद्यैश्च महाभोगो लक्ष्मीस्तांबूलदानतः ।। ३४ ।।
धर्मार्थकाममोक्षाश्च नमस्कारप्रदानतः ।।
अष्टैश्वर्यादिसिद्धीनां जप एव हि कारणम् ।। ३५ ।।
होमेन सर्वकामानां समृद्धिरुपजायते ।।
सर्वेषामेव देवानां तुष्टिर्ब्राह्मणभोजनात् ।। ३६ ।।
इत्थमाराधय शिवं सोमवारे शिवामपि ।।
अत्यापदमपि प्राप्ता निस्तीर्णाभिभवा भवेः ।। ३७ ।।
घोराद्घोरं प्रपन्नापि महाक्लेशं भयानकम् ।।
शिवपूजाप्रभावेण तरिष्यसि महद्भयम् ।। ३८ ।।
इत्थं सीमंतिनीं सम्यगनुशास्य पुनः सती ।।
ययौ सापि वरारोहा राजपुत्री तथाऽकरोत् ।। ३९ ।।
दमयंत्यां नलस्यासीदिंद्रसेनाभिधः सुतः ।।
तस्य चंद्रांगदो नाम पुत्रोभू च्चंद्रसन्निभः ।। 3.3.8.४० ।।
चित्रवर्मा नृपश्रेष्ठस्तमाहूय नृपात्मजम् ।।
कन्यां सीमंतिनीं तस्मै प्रायच्छद्गुर्वनुज्ञया ।। ४१ ।।
सोऽभून्महोत्सवस्तत्र तस्या उद्वाहकर्मणि ।।
यत्र सर्वमहीपानां समवायो महानभूत् ।। ४२ ।।
तस्याः पाणिग्रहं काले कृत्वा चंद्रांगदः कृती ।।
उवास कतिचिन्मासांस्तत्रैव श्वशुरालये ।। ४३ ।।
एकदा यमुनां तर्तुं स राजतनयो बली ।।
आरुरोह तरीं कैश्चिद्वयस्यैः सह लीलया ।। ४४ ।।
तस्मिंस्तरति कालिंदीं राजपुत्रे विधेर्वशात् ।।
ममज्ज सह कैवतैरावर्त्ताभिहता तरी ।। ४५ ।।
हा हेति शब्दः सुमहानासीत्तस्यास्तटद्वये ।।
पश्यतां सर्वसैन्यानां प्रलापो दिवम स्पृशत् ।। ४६ ।।
मज्जंतो मम्रिरे केचित्केचिद्ग्राहोदरं गताः ।।
राजपुत्रादयः केचिन्नादृश्यंत महाजले ।। ४७ ।।
तदुपश्रुत्य राजापि चित्रवर्मातिवि ह्वलः ।।
यमुनायास्तटं प्राप्य विचेष्टः समजायत ।।४८।।
श्रुत्वाथ राजपत्न्यश्च वभूबुर्गतचेतनाः ।।
सा च सीमंतिनी श्रुत्वा पपाप डूवि मूर्च्छिता ।। ४९ ।।
तथान्ये मंत्रिमुख्याश्च नायकाः सपुरोहिताः।।
विह्वलाः शोकसंतप्ता विलेपुर्मुक्तमूर्धजाः ।।3.3.8.५०।।
इंद्रसेनोपि राजेद्रः पुत्रवार्त्तां सुदुःखितः।।
आकर्ण्य सह पत्नीभिर्नष्टसंज्ञः पपात ह ।। ५१ ।।
तन्मंत्रिणश्च तत्पौरास्तथा तद्देशवासिनः ।।
आबालवृद्धवनिताश्चुक्रुशुः शोकविह्वलाः ।। ५२ ।।
शोकात्केचिदुरो जघ्नुः शिरो जघ्नुश्च केचन ।।
हा राजपुत्र हा तात क्वासि क्वासीति बभ्रमुः ।।५३।।
एवं शोकाकुलं दीनमिंद्रसेनमहीपतेः ।।
नगरं सहसा क्षुब्धं चित्रवर्मपुरं तथा ।। ५४ ।।
अथ वृद्धैः समाश्वस्तश्चित्रवर्मा महीपतिः ।।
शनैर्नगरमागत्य सान्त्वयामास चात्मजाम् ।। ५५ ।।
स राजांभसिमग्नस्य जामातुस्तस्य बांधवैः ।।
आगतैः कारयामास साकल्यादौर्ध्वदैहिकम् ।।५६।।
सा च सीमंतिनी साध्वी भर्तृलोकमतिः सती ।।
पित्रा निषिद्धा स्नेहेन वैधव्यं प्रत्यपद्यत ।। ५७ ।।
मुनेः पत्न्योऽपदिष्टं यत्सोमवारव्रतं शुभम् ।।
न तत्याज शुभाचारा वैधव्यं प्राप्तवत्यपि ।। ५८ ।।
एवं चतुर्दशे वर्षे दुःखं प्राप्य सुदारुणम् ।।
ध्यायन्ती शिवपादाब्जं वत्सरत्रयमत्यगात् ।। ५९ ।।
पुत्रशोकादिवोन्मत्तमिंद्रसेनं महीपतिम् ।।
प्रसह्य तस्य दायादाः सप्तांगं जह्रुरोजसा ।। 3.3.8.६० ।।
हृतसिंहासनः शूरैर्दायादैः सोऽप्रजो नृपः ।।
निगृह्य काराभवने सपत्नीको निवेशितः ।। ।। ६१ ।।
चंद्रागदोऽपि तत्पुत्रो निमग्नो यमुनाजले ।।
अधोधोमज्जमानोऽसौ ददर्शोरगकामिनीः ।। ६२ ।।
जलक्रीडासु सक्तास्ता दृष्ट्वा राजकुमार कम् ।।
विस्मितास्तमथो निन्युः पातालं पन्नगालयम् ।। ६३ ।।
स नीयमानस्तरसा पन्नगीभिर्नृपात्मजः ।।
तक्षकस्य पुरं रम्यं विवेश परमाद्भुतम् ।। ।। ६४ ।।
सोऽपश्यद्राजतनयो महेंद्रभवनोपमम् ।।
महारत्नपरिभ्राजन्मयूखपरिदीपितम् ।। ६५।।
वज्रवैडूर्यपाचादिप्रासादशतसंकुलम् ।।
माणिक्य गोपुरद्वारं मुक्तादामभिरुज्ज्वलम् ।। ६६ ।।
चंद्रकांतस्थलं रम्यं हेमद्वारकपाटकम् ।।
अनेकशतसाहस्रमणिदीपविराजितम् ।। ६७ ।।
तत्रापश्यत्सभा मध्ये निषण्णं रत्नविष्टरे ।।
तक्षकं पन्नगाधीशं फणानेकशतोज्ज्वलम् ।। ६८ ।।
दिव्यांबरधरं दीप्तं रत्नकुण्डलराजितम् ।।
नानारत्नपरिक्षिप्तमुकुट द्युतिरंजितम् ।। ६९ ।।
फणामणिमयूखाढ्यैरसंख्यैः पन्नगोत्तमैः ।।
उपासितं प्रांजलिभिश्चित्ररत्नविभूषितैः ।। 3.3.8.७० ।।
रूपयौवनमाधुर्यविलासगति शोभिना ।।
नागकन्यासहस्रेण समंतात्परिवारितम् ।। ७१ ।।
दिव्याभरणदीप्तांगं दिव्यचंदनचर्चितम् ।।
कालाग्निमिव दुर्धर्षं तेजसादित्यसन्निभम् ।। ।। ७२ ।।
दृष्ट्वा राजसुतो धीरः प्रणिपत्य सभास्थले ।।
उत्थितः प्रांजलिस्तस्य तेजसाक्षिप्तलोचनः ।। ७३ ।।
नागराजोपि तं दृष्ट्वा राजपुत्रं मनोरमम् ।।
कोऽयं कस्मादिहायात इति पप्रच्छ पन्नगीः ।। ७४ ।।
ता ऊचुर्यमुनातोये दृष्टोऽस्माभिर्यदृच्छया ।।
अज्ञातकुलनामायमानीतस्तव सन्निधिम् ।। ७५ ।।
अथ पृष्टो राजपुत्रस्तक्षकेण महात्मना ।।
कस्यासि तनयः कस्त्वं को देशः कथमागतः ।। ७६ ।।
राजपुत्रो वचः श्रुत्वा तक्षकं वाक्यमब्रवीत् ।। ७७ ।।
।। राजपुत्र उवाच ।। ।।
अस्ति भूमंडले कश्चिद्देशो निषधसंज्ञकः ।।
तस्याधिपोऽभवद्राजा नलो नाम महा यशाः ।।
स पुण्यकीर्तिः क्षितिपो दमयन्तीपतिः शुभः ।। ७८ ।।
तस्मादपींद्रसेनाख्यस्तस्य पुत्रो महाबलः ।।
चंद्रांगदोस्मि नाम्नाहं नवोढः श्वशुरालये ।।
विहरन्यमुनातोये निमग्नो देवचोदितः ।। ७९ ।।
एताभिः पन्नगस्त्रीभिरानीतोस्मि तवांतिकम् ।।
दृष्ट्वाहं तव पादाब्जं पुण्यैर्जन्मांतरार्जितैः ॥ 3.3.8.८० ॥
अद्य धन्योऽस्मि धन्योऽस्मि कृतार्थो पितरौ मम ॥
यत्प्रेक्षितोऽहं कारुण्यात्त्वया संभाषितोपि च ॥ ८१ ॥
॥ सूत उवाच ॥ ॥
इत्युदारमसंभ्रांतं वचः श्रुत्वातिपेशलम् ॥
तक्षकः पुनरौत्सुक्याद्बभाषे राजनंदनम् ॥ ८२ ॥
॥ तक्षक उवाच ॥ ॥
भोभो नरेंद्रदायाद मा भैषीर्धीरतां व्रज ॥
सर्वदेवेषु को देवो युष्माभिः पूज्यते सदा ॥ ८३ ॥
॥ राजपुत्र उवाच ॥ ॥
यो देवः सर्वेदेवेषु महादेवं इति स्मृतः ॥
पूज्यते स हि विश्वात्मा शिवोऽस्माभिरुमापतिः ॥ ८४ ॥
यस्य तेजोंशलेशेन रजसा च प्रजापतिः ॥
कृतरूपोऽसृजद्विश्वं स नः पूज्यो महेश्वरः ॥ ८५ ॥
यस्यांशात्सात्त्विकं दिव्यं बिभ्रद्विष्णुः सनातनः ॥
विश्वं बिभर्त्ति भूतात्मा शिवोऽस्माभिः स पूज्यते ॥ ॥ ८६ ॥
यस्यांशात्तामसाज्जातो रुद्रः कालाग्निसन्निभः ॥
विश्वमेतद्धरत्यंते स पूज्योऽस्माभिरीश्वरः ॥ ८७ ॥
यो विधाता विधातुश्च कारणस्यापि कारणम् ॥
तेजसां परमं तेजः स शिवो नः परा गतिः ॥ ८८ ॥
योंतिकस्थोऽपि दूरस्थः पापोपहृतचेतसाम् ॥
अपरिच्छेद्य धामासौ शिवो नः परमा गतिः ॥ ८९ ॥
योऽग्नौ तिष्ठति यो भूमौ यो वायौ सलिले च यः ॥
य आकाशे च विश्वात्मा स पूज्यो नः सदाशिवः॥ 3.3.8.९० ।
यः साक्षी सर्वभूतानां य आत्मस्थो निरंजनः ॥
यस्येच्छावशगो लोकः सोऽस्माभिः पूज्यते शिवः ॥ ९१ ॥
यमेकमाद्यं पुरुषं पुराणं वदंति भिन्नं गुणवैकृतेन ॥
क्षेत्रज्ञमेकेथ तुरीयमन्ये कूटस्थमन्ये स शिवो गतिर्नः ॥ ९२ ॥
यं नास्पृशंश्चैत्यमचिंत्यतत्त्वं दुरंतधामानमतत्स्वरूपम् ॥
मनोवचोवृत्तय आत्मभाजां स एष पूज्यः परमः शिवो नः ॥ ९३॥
यस्य प्रसादं प्रतिलभ्य संतो वांछंति नैंद्रं पदमुज्ज्वलं वा ॥
निस्तीर्णकर्मार्गलकालचक्राश्चरंत्यभीताः स शिवो गतिर्नः ॥ ९४॥
यस्य स्मृतिः सकलपापरुजां विघातं सद्यः करोत्यपि चु पुल्कसजन्मभाजाम् ॥
यस्य स्वरूपमखिलं श्रुतिभिर्विमृग्यं तस्मै शिवाय सततं करवाम पूजाम् ॥ ९५ ॥
यन्मूर्ध्नि लब्धनिलया सुरलोकसिंधुर्यस्यांगगाँ भगवती जगदंबिका च ॥
यत्कुंडले त्वहह तक्षकवासुकी द्वौ सोऽस्माकमेव गतिरर्धशशांकमौलिः ॥ ९६ ॥
जयति निगमचूडाग्रेषु यस्यांघ्रिपद्मं जयति च हृदि नित्यं योगिनां यस्य मूर्तिः ॥
जयति सकलतत्त्वोद्भासनं यस्य मूर्तिः स विजितगुणसर्गः पूज्यतेऽस्माभिरीशः ॥ ९७ ॥
॥ सूत उवाच ॥ ॥
इत्याकर्ण्य वचस्तस्य तक्षकः प्रीतमानसः ॥
जातभक्तिर्महादेवे राजपुत्रमभाषत ॥ ९८ ॥
॥ तक्षक उवाच ॥ ॥
परितुष्टोऽस्मि भद्रं स्तात्तव राजेद्रनंदन ।।
बालोपि यत्परं तत्त्वं वेत्सि शैवं परात्परम् ।। ९९ ।।
एष रत्नमयो लोक एताश्चारुदृशोऽबलाः ।।
एते कल्पद्रुमाः सर्वे वाप्योमृतरसांभसः ।। 3.3.8.१०० ।।
नात्र मृत्युभयं घोरं न जरारोगपीडनम् ।।
यथेष्टं विहरात्रैव भुंक्ष्व भोगान्यथोचितान् ।। १०१ ।।
इत्युक्तो नागराजेन स राजेंद्रकुमारकः ।।
प्रत्युवाच परं प्रीत्या कृतांजलिरुदारधीः ।। २ ।।
कृतदारोऽस्म्यहं काले सुव्रता गृहिणी मम ।।
शिव पूजापरा नित्यं पितरावेकपुत्रकौ ।। ३ ।।
ते त्वद्य मां मृतं मत्त्वा शोकेन महतावृताः ।।
प्रायः प्राणैर्वियुज्यंते दैवात्प्राणान्वहंति वा ।। ४ ।।
अतो मया बहुतिथं नात्र स्थेयं कथंचन ।।
तमेव लोकं कृपया मां प्रापयितुमर्हसि ।। ५ ।।
इत्युक्तवंतं नरदेवपुत्रं दिव्यैर्वरान्नैः सुरपादपोत्थैः ।।
आप्याययित्वा वरगंधवासः स्रग्रत्नदिव्याभरणैर्विचित्रैः ।। ६ ।।
संतोषयित्वा विविधैश्च भोगैः पुनर्बभाषे भुजगाधिराजः ।।
यदायदा त्वं स्मरसि त्वदग्रे तदा तदाविष्क्रियते मयेति ।। ७ ।।
पुनश्च राजपुत्राय तक्षकोश्वं च कामगम् ।।
नानाद्वीपसमुद्रेषु लोकेषु च निरर्गलम् ।। ८ ।।
दत्तवान्रत्नाभरण दिव्याभरणवाससाम् ।।
वाहनाय ददावेकं राक्षसं पन्नगेश्वरः ।। ९ ।।
तत्सहायार्थमेकं च पन्नगेंद्रकुमारकम् ।।
नियुज्य तक्षकः प्रीत्या गच्छेति विससर्ज तम् ।। 3.3.8.११० ।।
इति चंद्रांगदः सोऽथ संगृह्य विविधं धनम् ।।
अश्वं कामगमारुह्य ताभ्यां सह विनिर्ययौ ।।११।।
स मूहूर्तादिवोन्मज्ज्य तस्मा देव सरिज्जलात् ।।
विजहार तटे रम्ये दिव्यमारुह्य वाजिनम् ।। १२ ।।
अथास्मिन्समये तन्वी सा च सीमंतिनी सती ।।
स्नातुं समाययौ तत्र सखी भिः परिवारिता ।। १३ ।।
सा ददर्श नदीतीरे विहरंतं नृपात्मजम् ।।
रक्षसा नररूपेण नागपुत्रेण चान्वितम् ।। १४ ।।
दिव्यरत्नसमाकीर्णं दिव्य माल्यावतंसकम् ।।
देहेन दिव्यगंधेन व्याक्षिप्तदशयोजनम् ।। १५ ।।
तमपूर्वाकृतिं वीक्ष्य दिव्याश्वमधिसंस्थितम् ।।
जडोन्मत्तेव भीतेव तस्थौ तन्न्यस्तलोचना ।। १६ ।।
तां च राजेंद्रपुत्रोऽसौ दृष्टपूर्वामिति स्मरन् ।।
निर्मुक्तकंठाभरणां कंठसूत्रविवर्जिताम् ।। १७ ।।
असंयोजितधम्मिल्लामंगरागविवर्जिताम् ।।
त्यक्तनीलांजनापांगीं कृशांगीं शोकदूषिताम् ।। १८ ।।
दृष्ट्वाऽवतीर्य तुरगादुपविष्टः सरित्तटे ।।
तामाहूय वरारोहामुपवेश्येदम ब्रवीत् ।। १९ ।।
का त्वं कस्य कलत्रं वा कस्यासि तनया सती ।।
किमिदं तेंगने बाल्ये दुःसहं शोकलक्षणम् ।। 3.3.8.१२० ।।
इति स्नेहेन संपृष्टा सा वधूरश्रुलोचना ।।
लज्जिता स्वयमाख्यातुं तत्सखी सर्वमब्रवीत् ।। २१ ।।
इयं सीमंतिनी नाम्ना स्नुषा निषधभूपतेः ।।
चंद्रांगदस्य महिषी तनया चित्रवर्मणः ।। २२ ।।
अस्याः पतिर्दैवयोगान्निमग्नोऽस्मिन्महाजले ।।
तेनेयं प्राप्तवैधव्या बाला दुःखेन शोषिता ।। २३ ।।
एवं वर्षत्रयं नीतं शोकेनातिबलीयसा ।।
अद्येंदुवारे संप्राप्ते स्नातुमत्र समागता ।। २४ ।।
श्वशुरोऽस्याश्च राजेंद्रो हृतराज्यश्च शत्रु भिः ।।
बलाद्गृहीतो बद्धश्च सभार्यस्तद्वशे स्थितः ।। २५ ।।
तथाप्येषा शुभाचारा सोमवारे महेश्वरम् ।।
सांबिकं परया भक्त्या पूजयत्यमलाशया ।। २६ ।।
।। सूत उवाच ।। ।।
इत्थं सखीमुखेनैव सर्वमावेद्य सुव्रता ।।
ततः सीमंतिनी प्राह स्वयमेव नृपात्मजम् ।। २७ ।।
कस्त्वं कंदर्पसंकाशः काविमौ तव पार्श्वगौ ।।
देवो नरेंद्रः सिद्धो वा गंधर्वो वाथ किन्नरः ।। २८ ।।
किमर्थं मम वृत्तांतं स्नेहवानिव पृच्छसि ।।
किं मां वेत्सि महाबाहो दृष्टवान्किमु कुत्रचित् ।। २९ ।।
दृष्टपूर्व इवाभासि मया च स्वजनो यथा ।।
सर्वं कथय तत्त्वेन सत्यसारा हि साधवः ।। 3.3.8.१३० ।।
।। सूत उवाच ।।
एतावदुक्त्वा नरदेवपुत्री सबाष्पकंठं सुचिरं रुरोद ।।
मुमोह भूमौ पतिता सखीभिर्वृता न किंचित्कथितुं शशाक ।। ३१ ।।
श्रुत्वा चंद्रांगदः सर्वं प्रियायाः शोककारणम् ।।
मुहूर्त्तमभवतूष्णीं स्वयं शोकसमाकुलः ।। ३२ ।।
अथाश्वास्य प्रियां तन्वीं विविधैर्वाक्यनैपुणैः ।।
सिद्धा नाम वयं देवाः कामगा इति सोऽब्रवीत् ।। ३३ ।।
ततो बलादिवाकृष्य पाणिग्रहणशंकिताम् ।।
पुलकांचितसर्वांगीं तां कर्णे त्विदमब्रवीत् ।। ३४ ।।
क्वापि लोके मया दृष्टस्तव भर्त्ता वरानने ।।
त्वद्व्रताचरणात्प्रीतः सद्य एवागमिष्यति ।। ।। ३५ ।।
अपनेष्यति ते शोकं द्वित्रैरेव दिनैर्ध्रुवम् ।।
एतच्छंसितुमायातस्तव भर्त्तुः सखाऽस्म्यहम् ।। ३६ ।।
अत्र कार्यो न संदेहः शपामि शिवपादयोः ।।
तावत्त्वद्धृदये स्थेयं न प्रकाश्यं च कुत्रचित् ।। ३७ ।।
सा तु तद्वचनं श्रुत्वा सुधाधाराशताधिकम् ।।
संभ्रमोद्भ्रांतनयना तमेव मुहुरैक्षत ।। ।। ३८ ।।
प्रेमबंधानुगुणितं वाक्यं चाह रसायनम् ।।
विभ्रमोदारसहितं मधुरापांगवीक्षणम् ।। ३९ ।।
स्वपाणिस्पर्शनोद्भिन्नपुलकांचितविग्रहम्।।
पूर्व दृष्टानि चांगेषु लक्षणानि स्वरादिषु ।।
वयःप्रमाणं वर्णं च परीक्ष्यैनमतर्कयत् ।। 3.3.8.१४० ।।
एष एव पतिर्मे स्याद्ध्रुवं नान्यो भविष्यति ।।
अस्मिन्नेव प्रसक्तं मे हृदयं प्रेमकातरम् ।। १४१ ।।
परलोकादिहायातः कथमेवं स्वरूपधृक् ।।
दुर्भाग्यायाः कथं मे स्याद्भर्तुर्नष्टस्य दर्शनम् ।। १४२ ।।
स्वप्नोयं किमु न स्वप्नो भ्रमोऽयं किं तु न भ्रमः ।।
एष धूर्तोऽथवा कश्चिद्यक्षो गंधर्व एव वा ।। १४३ ।।
मुनिपल्या यदुक्तं मे परमापद्गतापि च ।।
व्रतमेतत्कुरुष्वेति तस्य वा फलमेव वा।।४४।।
यो वर्षायुत सौभाग्यं ममेत्याह द्विजोत्तमः।।
नूनं तस्य वचः सत्यं को विद्यादीश्वरं विना।।४५।।
निमित्तानि च दृश्यंते मंगलानि दिनेदिने।।
प्रसन्ने पार्वतीनाथे किमसाध्यं शरीरिणाम्।। ४६।।
इत्थं विमृश्य बहुधा तां पुनर्मुक्तसंशयाम्।।
लज्जानम्रमुखीं कर्णे शशंसात्मप्रयोजनम् ।। ४७ ।।
इमं वृत्तांतमाख्यातुं तत्पित्रोः शोकतप्तयोः ।।
गच्छामः स्वस्ति ते भद्रे सद्यः पतिमवाप्स्यसि ।। ४८ ।।
इत्युक्त्वाश्वं समारुह्य जगाम नृपनंदनः ।।
ताभ्यां सह निजं राष्ट्रं प्रत्यपद्यत तत्क्षणात् ।। ४९ ।।
स पुरोपवनाभ्याशे स्थित्वा तं फणि पुत्रकम् ।।
विससर्जात्मदायादान्नृपासनगतान्प्रति ।।3.3.8.१५०।।
स गत्वोवाच ताञ्छीघ्रमिंद्रसेनो विमुच्यताम् ।।
चंद्रांगदस्तस्य सुतः प्राप्तोऽयं पन्नगाल यात् ।। १५१ ।।
नृपासनं विमुंचंतु भवंतो न विचार्यताम् ।।
नो चेच्चंद्रागदस्याशु बाणाः प्राणान्हरंति वः ।। १५२ ।।
स मग्नो यमुनातोये गत्वा तक्षकमंदिरम् ।।
लब्ध्वा च तस्य साहाय्यं पुनर्लोकादिहागतः ।। १५३ ।।
इत्याख्यातमशेषेण तद्वृत्तांतं निशम्य ते ।।
साधुसाध्विति संभ्रांताः शशंसुः परिपंथिनः ।। ५४ ।।
अथेंद्रसेनाय निवेद्य सत्वरं नष्टस्य पुत्रस्य पुनः समागमम् ।।
प्रसाद्य तं प्राप्तनरेश्वरासनं दायादमुख्यास्तु भयं प्रपेदिरे ।। ५५ ।।
अथ पौरजनाः सर्वे पुरोद्याने नृपात्मजम् ।।
दृष्ट्वा राज्ञे द्रुतं प्रोचुर्लेभिरे च महाधनम् ।। ५६ ।।
आकर्ण्य पुत्रमायांतं राजानंदजलाप्लुतः ।।
न व्यजानादिमं लोकं राज्ञी च परया मुदा ।। ५७ ।।
अथ नागरिकाः सर्वे मंत्रिवृद्धाः पुरोधसः ।।
प्रत्युद्गम्य परिष्वज्य तमानिन्युर्नृपांति कम् ।। ५८ ।।
अथोत्सवेन महता प्रविश्य निजमंदिरम् ।।
राजपुत्रः स्वपितरौ ववंदे बाष्पमुत्सृजन् ।। ५९ ।।
तं पादमूले पतितं स्वपुत्रं विवेद नासौ पृथिवीपतिः क्षणम् ।।
प्रबोधितोऽमात्यजनैः कथंचिदुत्थाय क्लिन्नेन हृदालिलिंग ।। 3.3.8.१६० ।।
क्रमेण मातॄरभिवंद्य ताभिः प्रवर्धिताशीः प्रणयाकु लाभिः ।।
आलिंगितः पौरजनानशेषान्संभावयामास स राजसूनुः ।।६१।।
तेषां मध्ये समासीनः स्ववृत्तांतमशेषतः ।।
पित्रे निवेदयामास तक्षकस्य च मित्रताम्।।६२।।
दत्तं भुजंगराजेन रत्नादिधनसंचयम् ।।
दिव्यं तद्राक्षसानीतं पित्रे सर्वं न्यवेदयत् ।।६३।।
राजपुत्रस्य चरितं दृष्ट्वा श्रुत्वा च विह्वलः ।। ।
मेने स्नुषायाः सौभाग्यं महेशाराधनार्जितम् ।।६४।।
सौमांगल्यमयीं वार्तामिमां निषधभूपतिः।।
चारैर्निवेदयामास चित्रवर्ममहीपतेः ।।६५।।
श्रुत्वाऽमृतमयीं वार्त्तां स समुत्थाय संभ्रमात् ।।
तेभ्यो दत्त्वा धनं भूरि ननर्तानंदविह्वलः।।६६।।
अथाहूय स्वतनयां परिष्वज्याश्रुलोचनः ।।
भूषणैर्भूषयामास त्यक्तवैधव्यलक्षणाम् ।। ६७ ।।
अथोत्सवो महानासीद्राष्ट्रग्रामपुरादिषु ।।
सीमंतिन्याः शुभाचारं शशंसुः सर्वतो जनाः ।। ६८ ।।
चित्रवर्माथ नृपतिः समाहूयेंद्रसेनजम् ।।
पुनर्विवाहविधिना सुतां तस्मै न्यवेदयत् ।। ६९ ।।
चन्द्रांगदोऽपि रत्नाद्यैरानीतैस्तक्षकालयात् ।।
स्वां पत्नीं भूषयां चक्रे मर्त्यानामतिदुर्लभैः ।। 3.3.8.१७० ।।
अंगरागेण दिव्येन तप्तकांचनशोभिना ।।
शुशुभे सा सुगंधेन दशयोजनगामिना ।। ७१ ।।
अम्लानमालया शश्वत्पद्मकिंजल्कवर्णया ।।
कल्पद्रुमोत्थया बाला भूषिता शुशुभे सती ।। ७२ ।।
एवं चंद्रांगदः पत्नीमवाप्य समये शुभे ।।
ययौ स्वनगरीं भूयः श्वशुरेणानुमोदितः ।। ७३ ।।
इन्द्रसेनोऽपि राजेंद्रो राज्ये स्थाप्य निजात्मजम् ।।
तपसा शिवमाराध्य लेभे संयमिनां गतिम् ।। ७४ ।।
दशवर्ष सहस्राणि सीमंतिन्या स्वभार्यया ।।
सार्धं चन्द्रांगदो राजा बुभुजे विषयान्बहून् ।। ७५ ।।
प्रासूत तनयानष्टौ कन्यामेकां वराननाम् ।।
रेमे सीमंतिनी भर्त्रा पूजयती महेश्वरम् ।।
दिनेदिने च सौभाग्यं प्राप्तं चैवेन्दुवासरात् ।। ७६ ।।
।। सूत उवाच ।। ।।
विचित्रमिदमाख्यानं मया समनुवर्णितम् ।।
भूयोऽपि वक्ष्ये माहात्म्यं सोमवारव्रतोदितम् ।। १७७ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां ब्रह्मोत्तरखण्डे सोमवारव्रतवर्णनंनामाष्टमोऽध्यायः ।। ८ ।।