स्कन्दपुराणम्/खण्डः ३ (ब्रह्मखण्डः)/ब्रह्मोत्तर खण्डः/अध्यायः ६

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

।। ऋषय ऊचुः ।। ।।
यदुक्तं भवता सूत महदाख्यानमद्भुतम् ।।
शम्भोर्माहात्म्यकथनमशेषाघहरं परम् ।। १ ।।
भूयोपि श्रोतुमिच्छामस्तदेव सुसमाहिताः ।।
प्रदोषे भगवाञ्छंभुः पूजितस्तु महात्मभिः ।। २ ।।
संप्रयच्छति कां सिद्धिमेतन्नो ब्रूहि सुव्रत ।।
श्रुतमप्यसकृत्सूत भूयस्तृष्णा प्रवर्धते ।। ३ ।।
।। सूत उवाच ।। ।।
साधु पृष्टं महाप्राज्ञा भवद्भिर्लोकविश्रुतैः ।।
अतोऽहं संप्रवक्ष्यामि शिवपूजाफलं महत् ।। ४ ।।
त्रयोदश्यां तिथौ सायं प्रदोषः परिकीर्त्तितः ।।
तत्र पूज्यो महादेवो नान्यो देवः फलार्थिभिः ।। ५ ।।
प्रदोषपूजामाहात्म्यं को नु वर्णयितुं क्षमः ।।
यत्र सर्वेऽपि विबुधास्तिष्ठंति गिरिशांतिके ।। ६ ।।
प्रदोषसमये देवः कैलासे रजतालये ।।
करोति नृत्यं विबुधैरभिष्टुतगुणोदयः ।। ७ ।।
अतः पूजा जपो होमस्तत्कथास्तद्गुणस्तवः ।।
कर्त्तव्यो नियतं मर्त्यैश्चतुर्वर्गफला र्थिभिः ।। ८ ।।
दारिद्यतिमिरांधानां मर्त्यानां भवभीरुणाम् ।।
भवसागरमग्नानां प्लवोऽयं पारदर्शनः ।। ९ ।।
दुःखशोकभयार्त्तानां क्लेशनिर्वाणमिच्छताम् ।।
प्रदोषे पार्वतीशस्य पूजनं मंगलायनम् ।। ३.३.६.१० ।।
दुर्बुद्धिरपि नीचोपि मन्दभाग्यः शठोऽपि वा ।।
प्रदोषे पूज्य देवेशं विपद्भ्यः स प्रमुच्यते ।। ११ ।।
शत्रुभिर्हन्यमानोऽपि दश्यमानोपि पन्नगैः ।।
शैलैराक्रम्यमाणोऽपि पतितोऽपि महांबुधौ ।। १२ ।।
आविद्धकालदण्डोऽपि नानारोगहतोऽपि वा ।।
न विनश्यति मर्त्योऽसौ प्रदोषे गिरिशार्चनात् ।। १३ ।।
दारिद्र्यं मरणं दुःखमृणभारं नगोपमम् ।।
सद्यो विधूय संपद्भिः पूज्यते शिवपूजनात् ।। १४ ।।
अत्र वक्ष्ये महापुण्यमितिहासं पुरातनम् ।।
यं श्रुत्वा मनुजाः सर्वे प्रयांति कृतकृत्यताम् ।। १५ ।।
आसीद्विदर्भविषये नाम्ना सत्यरथो नृपः ।।
सर्वधर्मरतो धीरः सुशीलः सत्यसंगरः ।। १६ ।।
तस्य पालयतो भूमिं धर्मेण मुनिपुंगवाः ।।
व्यतीयाय महान्कालः सुखेनैव महामतेः ।। १७ ।।
अथ तस्य महीभर्तुर्बभूवुः शाल्वभूभुजः ।।
शत्रवश्चोद्धतबला दुर्मर्षणपुरोगमाः ।। १८ ।।
कदाचिदथ ते शाल्वाः संनद्धबहुसैनिकाः ।।
विदर्भनगरीं प्राप्य रुरुधुर्विजिगीषवः ।। १९ ।।
दृष्ट्वा निरुद्ध्यमानां तां विदर्भाधिपतिः पुरीम् ।।
योद्धुमभ्याययौ तूर्णं बलेन महता वृतः ।। ३.३.६.२० ।।
तस्य तैरभवयुद्धं शाल्वैरपि बलोद्धतैः ।।
पाताले पन्नगेन्द्रस्य गन्धर्वैरिव दुर्मदैः ।। २१ ।।
विदर्भनृपतिः सोऽथ कृत्वा युद्धं सुदारुणम् ।।
प्रनष्टोरुबलैः शाल्वैर्निहतो रणमूर्धनि ।। २२ ।।
तस्मिन्महारथे वीरे निहते मंत्रिभिः सह ।।
दुद्रुवुः समरे भग्ना हतशेषाश्च सैनिकाः ।। २३ ।।
अथ युद्धेभिविरते नदत्सु रिपुमंत्रिषु ।।
नगर्यां युद्ध्यमानायां जाते कोलाहले रवे ।। २४ ।।
तस्य सत्यरथस्यैका विदर्भाधिपतेः सती ।।
भूरिशोकसमाविष्टा क्वचिद्यत्नाद्विनिर्ययौ ।। २५ ।।
सा निशासमये यत्नादंतर्वत्नी नृपांगना ।।
निर्गता शोक संतप्ता प्रतीचीं प्रययौ दिशम् ।। २६ ।।
अथ प्रभाते मार्गेण गच्छन्ती शनकैः सती ।।
अतीत्य दूरमध्वानं ददर्श विमलं सरः ।। २७ ।।
तत्रागत्य वरारोहा तप्ता तापेन भूयसा ।।
विलसंतं सरस्तीरे छायावृक्षं समाश्रयत् ।। २८ ।।
तत्र दैववशाद्राज्ञी विजने तरुकुट्टिमे ।।
असूत तनयं साध्वी मूहूर्ते सद्गुणान्विते ।। २९ ।।
अथ सा राजमहिषी पिपासाभिहता भृशम् ।।
सरोऽवतीर्णा चार्वंगी ग्रस्ता ग्राहेण भूयसा ।। ३.३.६.३० ।।
जातमात्रः कुमारोऽपि विनष्टपितृमातृकः ।।
रुरोदोच्चैः सरस्तीरे क्षुत्पिपासार्दितोऽबलः ।। ३१ ।।
तस्मिन्नेवं क्रन्दमाने जातमात्रे कुमारके ।।
काचिदभ्याययौ शीघ्रं दिष्ट्या विप्रवरांगना ।। ३२ ।।
साप्येकहायनं बालमुद्वहन्ती निजात्मजम् ।।
अधना भर्तृरहिता याचमाना गृहेगृहे ।। ३३ ।।
एकात्मजा बंधुहीना याञ्चामार्गवशंगता।।
उमानाम द्विजसतीददर्श नृपनंदनम्।। ३४ ।।
सा दृष्ट्वा राजतनयं सूर्यबिंवमिव च्युतम्।।
अनाथमेनं क्रंदंतं चिंतयामास भूरिशः ॥ ३५॥
अहो सुमहदाश्चर्यमिदं दृष्टं मयाधुना ॥
अच्छिन्ननाभिसूत्रोऽयं शिशुर्माता क्व वा गता ॥ ३६ ॥
पिता नास्ति न चान्योस्ति नास्ति बंधुजनोऽपि वा ॥
अनाथः कृपणो बालः शेते केवल भूतले ॥ ३७ ॥
एष चांडालजो वापि शूद्रजो वैश्यजोपि वा ॥
विप्रात्मजो वा नृपजो ज्ञायते कथमर्भकः ॥ ३८॥
शिशुमेनं समुद्धृत्य पुष्णाम्यौरसवद्ध्रुवम् ॥
किं त्वविज्ञातकुलजं नोत्सहे स्प्रष्टुमुत्तमम् ॥ ३९ ॥
इति मीमांसमानायां तस्यां विप्रवरस्त्रियाम् ॥ ३.३.६.४० ॥
कश्चित्समाययौ भिक्षुः साक्षाद्देवः शिवः स्वयम् ॥
तामाह भिक्षुवर्योथ विप्रभामिनि मा खिदः ॥ ११ ॥
रक्षैनं बालकं सुभ्रुर्विसृज्य हृदि संशयम्॥
अनेन परमं श्रेयः प्राप्स्यसे ह्यचिरादेिह ॥ ४२ ॥
एतावदुक्त्वा त्वरितो भिक्षुः कारुणिको ययौ ॥
अथ तस्मिन्गते भिक्षौ विश्रब्धा विप्रभामिनी ॥ ४३ ॥
तमर्भकं समादाय निजमेव गृहं ययौ ॥
भिक्षुवाक्येन विश्रब्धा सा राज तनयं सती ॥ ४४ ॥
आत्मपुत्रेण सदृशं कृपया पर्यपोषयत्॥
एकचक्राह्वये रम्ये ग्रामे कृतनिकेतना ॥ ४९ ॥
स्वपुत्रं राजपुत्रं च भिक्षान्नेन व्यवर्धयत् ॥
ब्राह्मणीतनयश्चैव स राजतनयस्तथा ॥ १६ ॥
ब्राह्मणैः कृतसंस्कारौ ववृधाते सुपूजितौ।॥
कृतोपनयनौ काले बालकौ नियमे स्थितौ ॥ ॥ ४७ ॥
भिक्षार्थं चेरतुस्तत्र मात्रा सह दिनेदिने ॥
ताभ्यां कदाचिद्बालाभ्यां सा विप्रवनिता सह ॥ ४८ ॥
भैक्ष्यं चरंती दैवेन प्रविष्टा देवतालयम्॥
तत्र वृद्धैः समाकीर्णे मुनिभिर्देवतालये ॥ १९ ॥
तौ दृष्ट्वा बालकौ धीमाञ्छांडिल्यो मुनिरब्रवीत् ॥
अहो दैवबलं चित्रमहो कर्म दुरत्ययम् ॥ ३.३.६.५० ॥
एष बालोऽन्यजननीं श्रितो भैक्ष्येण जीवति ॥
इमामेव द्विजवधूं प्राप्य मातरमुत्तमाम् ॥ ५१ ॥
सहैव द्विजपुत्रेण द्विजभावं समाश्रितः ॥
इति श्रुत्वा मुनेर्वाक्यं शांडिल्यस्य द्विजांगना ॥ ५२॥
सा प्रणम्य सभामध्ये पर्यपृच्छत्सविस्मया ॥
ब्रह्मन्नेषोर्भको नीतो मया भिक्षोर्गिरा गृहम् ॥ ५३ ॥
अविज्ञातकुलोद्यापि सुतवत्परिपोष्यते ॥
कस्मिन्कुले प्रसूतोऽयं का माता जनकोस्य कः ॥ ५४ ॥
सर्वं विज्ञातुमिच्छामि भवतो ज्ञानचक्षुषः ॥.५५ ।॥
इति पृष्टो मुनिः सोथ ज्ञानदृष्टिर्द्विजस्त्रियां ॥
आचख्यौ तस्य बालस्य जन्म कर्म च पौर्विकम् ॥ ५६ ॥
विदर्भराजपुत्रस्तु तत्पितुः समरे मृतिम्॥
तन्मातुर्नक्रहरणं साकल्येन न्यवेदयत् ॥ ५७ ॥
अथ सा विस्मिता नारी पुनः प्रपच्छ तं मुनिम् ॥
स राजा सकलान्भोगान्हित्वा युद्धे कथं मृतः ॥ ५८ ॥
दारिद्र्यमस्य बालस्य कथं प्राप्तं महामुने ॥
दारिद्र्यं पुनरुद्धूय कथं राज्यमवाप्स्यति ॥ ॥ ५९ ॥
अस्यापि मम पुत्रस्य भिक्षान्नेनैव जीवतः ।
दारिद्र्यशमनोपायमुपदेष्टुं त्वमर्हसि ॥३.३.६.६०॥
॥ शांडिल्य उवाच ॥॥
अमुष्य बालस्य पिता स विदर्भमहीपतिः ।।
पूर्वजन्मनि पांड्येशो बभूव नृपसत्तमः ।। ६१ ।।
स राजा सर्वधर्मज्ञः पालयन्सकलां महीम् ।।
प्रदोषसमये शंभुं कदा चित्प्रत्यपूजयत् ।। ६२ ।।
तस्य पूजयतो भक्त्या देवं त्रिभुवनेश्वरम् ।।
आसीत्कलकलारावः सर्वत्र नगरे महान् ।। ६३ ।।
श्रुत्वा तमुत्कटं शब्दं राजा त्यक्तशिवार्चनः ।।
निर्ययौ राजभवनान्नगरक्षोभशंकया ।। ६४ ।।
एतस्मिन्नेव समये तस्यामात्यो महाबलः ।।
शत्रुं गृहीत्वा सामंतं राजांतिकमुपागमत् ।। ६५ ।।
अमात्येन समानीतं शत्रुं सामंतमुद्धतम् ।।
दृष्ट्वा क्रोधेन नृपतिः शिरच्छेदमकारयत् ।। ६६ ।।
स तथैव महीपालो विसृज्य शिवपूजनम् ।।
असमाप्तात्मनियमश्चकार निशि भोजनम् ।। ६७ ।।
तत्पुत्रोपि तथा चक्रे प्रदोषसमये शिवम् ।।
अनर्चयित्वा मूढात्मा भुक्त्वा सुष्वाप दुर्मदः ।। ६८ ।।
जन्मांतरे स नृपतिर्विदर्भक्षितिपोऽभवत् ।।
शिवार्चनांतरायेण परैर्भोगांतरे हतः ।। ६९ ।।
तत्पुत्रो यः पूर्वभवे सोस्मिञ्जन्मनि तत्सुतः ।।
भूत्वा दारिद्र्यमापन्नः शिवपूजाव्यतिक्रमात् ।। ३.३.६.७० ।।
अस्य माता पूर्वभवे सपत्नीं छद्मनाहनत् ।।
तेन पापेन महता ग्राहेणास्मिन्भवे हता ।। ७१ ।।
एषा प्रवृत्तिरेतेषां भवत्यै समुदाहृता ।।
अनर्चितशिवा मर्त्याः प्राप्नुवंति दरिद्रताम् ।। ।। ७२ ।।
सत्यं ब्रवीमि परलोकहितं ब्रवीमि सारं ब्रवीम्युपनिषद्धृदयं ब्रवीमि ।।
संसारमुल्बणमसारमवाप्य जंतोः सारो यमीश्वरपदांबुरुहस्य सेवा ।। ७३ ।।
ये नार्चयंति गिरिशं समये प्रदोषे ये नार्चितं शिवमपि प्रणमंति चान्ये ।।
एतत्कथां श्रुतिपुटैर्न पिबंति मूढास्ते जन्मजन्मसु भवंति नरा दरिद्राः ।। ७४ ।।
ये वै प्रदोषसमये परमेश्वरस्य कुर्वंत्यनन्यमनसोंऽघ्रिसरोजपूजाम् ।।
नित्यं प्रवृद्धधन धान्यकलत्रपुत्रसौभाग्यसंपदधिकास्त इहैव लोके ।। ७५ ।।
कैलासशैलभवने त्रिजगजनित्रीं गौरीं निवेश्य कनकांचितरत्नपीठे ।।
नृत्यं विधातु मभिवाञ्छति शूलपाणौ देवाः प्रदोषसमयेऽनुभजंति सर्वे ।। ७६ ।।
वाग्देवी धृतवल्लकी शतमखो वेणुं दधत्पद्मजस्तालोन्निद्रकरो रमा भगवती गेयप्रयोगान्विता ।।
विष्णुः सांद्रमृदंगवादनपटुर्देवाः समंतात्स्थिताः सेवंते तमनु प्रदोषसमये देवं मृडानीपतिम् ।। ७७ ।।
गंधर्वयक्षपतगोरगसिद्ध साध्या विद्याधरामरवराप्सरसां गणाश्च ।।
येऽन्ये त्रिलोकनिलयाः सह भूतवर्गाः प्राप्ते प्रदोषसमये हरपार्थसंस्थाः ।। ७८ ।।
अतः प्रदोषे शिव एक एव पूज्योऽथ नान्ये हरिपद्मजाद्याः ।।
तस्मिन्महेशे विधिनेज्यमाने सर्वे प्रसीदंति सुराधिनाथाः ।। ७९ ।।
एष ते तनयः पूर्वजन्मनि ब्राह्मणोत्तमः ।।
प्रतिग्रहैर्वयो निन्ये न यज्ञाद्यैः सुकर्मभिः।।३.३.६.८०।।
अतो दारिद्र्यमापन्नः पुत्रस्ते द्विजभामिनि।।
तद्दोष परिहारार्थं शरणं यातु शंकरम् ।। ८१ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मोत्तरखण्डे प्रदोषमाहात्म्यवर्णनंनाम षष्ठोऽध्यायः ।। ६ ।। ।। छ ।।