स्कन्दपुराणम्/खण्डः ३ (ब्रह्मखण्डः)/ब्रह्मोत्तर खण्डः/अध्यायः ५

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

।। सूत उवाच ।। ।।
शिवो गुरुः शिवो देवः शिवो बंधुः शरीरिणाम् ।।
शिव आत्मा शिवो जीवःशिवादन्यन्न किञ्चन ।।१।।।
शिवमुद्दिश्य यत्किंचिद्दत्तं जप्तं हुतं कृतम् ।।
तदनंतफलं प्रोक्तं सर्वागमविनिश्चितम् ।। २ ।।
भक्त्या निवेदितं शंभोः पत्रं पुष्पं फलं जलम् ।।
अल्पादल्पतरं वापि तदानंत्याय कल्पते ।। ३ ।।
विहाय सकलान्धर्मान्सकलागमनिश्चितान् ।।
शिवमेकं भजेद्यस्तु मुच्यते सर्वबन्धनात् ।। ४ ।।
या प्रीतिरात्मनः पुत्रे या कलत्रे धनेपि सा ।।
कृता चेच्छिवपूजायां त्रायतीति किमद्भुतम् ।। ५ ।।
तस्मात्केचिन्महात्मानः सकलान्विषयासवान् ।।
त्यजंति शिवपूजार्थे स्वदेहमपि दुस्त्यजम् ।। ६ ।।
सा जिह्वा या शिवं स्तौति तन्मनो ध्यायते शिवम् ।।
तौ कर्णौ तत्कथालोलौ तौ हस्तौ तस्य पूजकौ ।। ७ ।।
ते नेत्रे पश्यतः पूजां तच्छिरः प्रणतं शिवे ।।
तौ पादौ यौ शिवक्षेत्रं भक्त्या पर्यटतः सदा ।। ८ ।।
यस्येन्द्रियाणि सर्वाणि वर्तंते शिवकर्मसु ।।
स निस्तरति संसारं भुक्तिं मुक्तिं च विंदति ।। ९ ।।
शिवभक्तियुतो मर्त्यश्चांडालः पुल्कसोपि च ।।
नारी नरो वा षंढो वा सद्यो मुच्येत संसृतेः ।। ३.३.५.१० ।।
किं कुलेन किमाचारैः किंशीलेन गुणेन वा ।।
भक्तिलेशयुतः शंभोः स वंद्यः सर्वदेहिनाम् ।। ११ ।।
उज्जयिन्यामभूद्राजा चन्द्रसेनसमाह्वयः ।।
जातो मानवरूपेण द्वितीय इव वासवः ।। १२ ।।
तस्मिन्पुरे महाकालं वसंतं परमेश्वरम् ।।
संपूजयत्यसौ भक्त्या चन्द्रसेनो नृपोत्तमः ।। १३ ।।
तस्याभवत्सखा राज्ञः शिवपारिषदाग्रणीः ।।
मणिभद्रो जिताभद्रः सर्वलोकनमस्कृतः ।। १४ ।।
तस्यै कदा महीभर्तुः प्रसन्नः शंकरानुगः ।।
चिन्तामणिं ददौ दिव्यं मणिभद्रो महामतिः ।। १५ ।।
स मणिः कौस्तुभ इव द्योतमानोर्कसन्निभः ।।
दृष्टः श्रुतो वा ध्यातो वा नृणां यच्छति चिंतितम् ।। १६ ।।
तस्य कांतिलवस्पृष्टं कांस्यं ताम्रमयस्त्रपु ।।
पाषाणादिकमन्यद्वा सद्यो भवति कांचनम् ।। ।। १७ ।।
स तं चिन्तामणिं कंठे बिभ्रद्राजासनं गतः ।।
रराज राजा देवानां मध्ये भानुरिव स्वयम् ।। १८ ।।
सदा चिन्तामणिग्रीवं तं श्रुत्वा राजसत्तमम् ।।
प्रवृद्धतर्षा राजानः सर्वे क्षुब्धहृदोऽभवन् ।। १९ ।।
स्नेहात्केचिदयाचंत धार्ष्ट्यात्केचन दुर्मदाः ।।
दैवलब्धमजानंतो मणिं मत्सरिणो नृपाः।३.३.५.२०।।
सर्वेषां भूभृतां याञ्चा यदा व्यर्थीकृतामुना।।
 राजानः सर्वदेशानां संरंभं चक्रिरे तदा।।२१।।
सौराष्ट्राः कैकयाः शाल्वाः कलिंगशकमद्रकाः ।।
पांचालावंतिसौवीरा मागधा मत्स्यसृंजयाः ।। २२ ।।
एते चान्ये च राजानः सहाश्वरथकुमजराः ।।
चन्द्रसेनं मृधे जेतुमुद्यमं चक्रुरोजसा ।। २३ ।।
ते तु सर्वे सुसंरब्धाः कंपयंतो वसुन्धराम् ।।
उज्जयिन्याश्चतुर्द्वारं रुरुधुर्बहुसैनिकाः ।। २४ ।।
संरुध्यमानो स्वपुरीं दृष्ट्वा राजभिरुद्धतैः ।।
चंद्रसेनो महाकालं तमेव शरणं ययौ ।। २५ ।।
निर्विकल्पो निराहारः स राजा दृढनिश्चयः ।।
अर्चयामास गौरीशं दिवा नक्त मनन्यधीः ।। २६ ।।
एतस्मिन्नंतरे गोपी काचित्तत्पुरवासिनी ।।
एकपुत्रा भर्तृहीना तत्रैवासीच्चिरंतना ।। २७ ।।
सा पंचहायनं बालं वहंती गत भर्तृका ।।
राज्ञा कृतां महापूजां ददर्श गिरिजापतेः ।। २८ ।।
सा दृष्ट्वा सर्वमाश्चर्यं शिवपूजामहोदयम् ।।
प्रणिपत्य स्वशिबिरं पुनरेवाभ्यपद्यत ।। ।। २९ ।।
एतत्सर्वमशेषेण स दृष्ट्वा बल्लवीसुतः ।।
कुतूहलेन विदधे शिवपूजां विरक्तिदाम्।। ३.३.५.३० ।।
आनीय हृद्यं पाषाणं शून्ये तु शिबिरोत्तमे ।।
नातिदूरे स्वशिबिराच्छिवलिंगमकल्पयत् ।। ३१ ।।
यानि कानि च पुष्पाणि हस्तलभ्यानि चात्मनः ।।
आनीय स्नाप्य तल्लिंगं पूजयामास भक्तितः ।। ३२ ।।
गंधालंकारवासांसि धूपदीपाक्षतादिकम् ।।
विधाय कृत्रिमैर्दिव्यैर्नैवेद्यं चाप्यकल्पयत् ।। ३३ ।।
भूयोभूयः समभ्यर्च्य पत्रैः पुष्पैर्मनोरमैः ।।
नृत्यं च विविधं कृत्वा प्रणनाम पुनःपुनः ।।३४।।
एवं पूजां प्रकुर्वाणं शिवस्यानन्यमानसम् ।।
सा पुत्रं प्रणयाद्गोपी भोजनाय समा ह्वयत्।।३५।।
मात्राहूतोपि बहुशः स पूजासक्तमानसः ।।
बालोपि भोजनं नच्छत्तदा माता स्वयं ययौ।। ३६।।
तं विलोक्य शिवस्याग्रे निषण्णं मी लितेक्षणम्।।
चकर्ष पाणिं संगृह्य कोपेन समताडयत्।। ३७ ।।
आकृष्टस्ताडितो वापि नागच्छत्स्वसुतो यदा ।।
तां पूजां नाशयामास क्षिप्त्वा लिंगं विदूरतः ।। ३८ ।।
हाहेति रुदमानं तं निर्भर्त्स्य स्वसुतं तदा ।।
पुनर्विवेश स्वगृहं गोपी रोषसमन्विता ।। ३९ ।।
मात्रा विनाशितां पूजां दृष्ट्वा देवस्य शूलिनः ।।
देवदेवेति चुक्रोश निपपात स बालकः ।। ३.३.५.४० ।।
प्रनष्टसंज्ञः सहसा बाष्पपूरपरिप्लुतः ।।
लब्धसंज्ञो मुहूर्तेन चक्षुषी उदमीलयत्।। ।। ४१ ।।
ततो मणिस्तंभविराजमानं हिरण्मयद्वारकपाटतोरणम् ।।
महार्हनीलामलवज्रवेदिकं तदेव जातं शिबिरं शिवालयम् ।। ४२ ।।
संतप्तहेम कलशैर्बहुभिर्विचित्रैः प्रोद्भासितस्फटिकसौधतलाभिरामम् ।।
रम्यं च तच्छिवपुरं वरपीठमध्ये लिंगं च रत्नसहितं स ददर्श बालः ।। ४३ ।।
स दृष्ट्वा सहसोत्थाय भीतविस्मितमानसः ।।
निमग्न इव संतोषात्परमानंदसागरे ।। ४४ ।।
विज्ञाय शिवपूजाया माहात्म्यं तत्प्रभावतः ।।
ननाम दंडवद्भूमौ स्वमातुरघशांतये ।। ४५ ।।
देव क्षमस्व दुरितं मम मातुरुमापते ।।
मूढायास्त्वामजानंत्याः प्रसन्नो भव शंकर ।। ४६ ।।
यद्यस्ति मयि यत्किंचित्पुण्यं त्वद्भक्तिसंभवम् ।।
तेनापि शिव मे माता तव कारुण्यमाप्नुयात् ।। ४७ ।।
इति प्रसाद्य गिरिशं भूयोभूयः प्रणम्य च ।।
सूर्ये चास्तं गते बालो निर्जगाम शिवालयात् ।। ४८ ।।
अथापश्यत्स्वशिबिरं पुरंदरपुरोपमम् ।।
सद्यो हिरण्मयीभूतं विचित्रविभवोज्ज्वलम् ।। ४९ ।।
सोंतः प्रविश्य भवनं मोदमानो निशामुखे ।।
महामणिगणाकीर्णं हेमराशिसमुज्ज्वलम् ।। ३.३.५.५० ।।
तत्रापश्यत्स्वजननीं स्मरंतीमकुतोभयाम् ।।
महार्हरत्न पर्यंके सितशय्यामधिश्रिताम् ।। ५१ ।।
रत्नालंकारदीप्तांगीं दिव्यांबरविराजिनीम् ।।
दिव्यलक्षणसंपन्नां साक्षात्सुरवधूमिव ।। ५२ ।।
जवेनोत्थापयामास संभ्रमोत्फुल्ललोचनः ।।
अंब जागृहि भद्रं ते पश्येदं महदद्भुतम्।। ५३ ।।
इति प्रबोधिता गोपी स्वपुत्रेण महात्मना ।।
ततोऽपश्यत्स्वजननी स्मयन्ती मुकुटोज्ज्वला ।। ५४ ।।
ससंभ्रमं समुत्थाय तत्सर्वं प्रत्यवेक्षत ।।
अपूर्वमिव चात्मानमपूर्वमिव बालकम् ।। ५५ ।।
अपूर्वं च स्वसदनं दृष्ट्वा सीत्सुखविह्वला ।।
श्रुत्वा पुत्रमुखात्सर्वं प्रसादं गिरिजापतेः ।। ५६ ।।
राज्ञे विज्ञापयामास यो भजत्यनिशं शिवम् ।।
स राजा सहसागत्य समाप्त नियमो निशि ।। ५७ ।।
ददर्श गोपिकासूनोः प्रभावं शिवतोषजम् ।।
हिरण्मयं शिवस्थानं लिंगं मणिमयं तथा ।। ५८ ।।
गोपवध्वाश्च सदनं माणि क्यवरकोज्ज्वलम्।।
दृष्ट्वा महीपतिः सर्वं सामात्यः सपुरोहितः ।।५९ ।।
मुहूर्तं विस्मितधृतिः परमानंदनिर्भरः ।।
प्रेम्णा वाष्पजलं मुंचन्परिरेभे तम र्भकम् ।। ३.३.५.६० ।।
एवमत्यद्भुताकाराच्छिवमाहात्म्यकीर्त्तनात् ।।
पौराणां संभ्रमाच्चैव सा रात्रिः क्षणतामगात् ।। ६१ ।।
अथ प्रभाते युद्धाय पुरं संरुध्य संस्थिताः ।।
राजानश्चारवक्त्रेभ्यः शुश्रुवुः परमाद्भुतम् ।। ६२ ।।
ते त्यक्तवैराः सहसा राजानश्चकिता भृशम् ।।
न्यस्तशस्त्रा निविविशुश्चंद्रसेनानुमोदिताः ।। ६३ ।।
तां प्रविश्य पुरीं रम्यां महाकालं प्रणम्य च ।।
तद्गोपवनितागेहमाजग्मुः सर्वभूभृतः ।। ६४ ।।
ते तत्र चंद्रसेनेन प्रत्युद्गम्याभि पूजिताः ।।
महार्हविष्टरगताः प्रीत्यानंदन्सुविस्मिताः ।। ६५ ।।
गोपसूनोः प्रसादाय प्रादुर्भूतं शिवालयम् ।।
लिंगं च वीक्ष्य सुमहच्छिवे चक्रुः परां मतिम् ।। ६६ ।।
तस्मै गोपकुमाराय प्रीतास्ते सर्वभूभुजः ।।
वासोहिरण्यरत्नानि गोमहिष्यादिकं धनम् ।। ६७ ।।
गजानश्वान्रथान्रौक्माञ्छत्र यानपरिच्छदान् ।।
दासान्दासीरनेकाश्च ददुः शिवकृपार्थिनः ।। ६८ ।।
येये सर्वेषु देशेषु गोपास्तिष्ठंति भूरिशः ।।
तेषां तमेव राजानं चक्रिरे सर्व पार्थिवाः ।।६९।।
अथास्मिन्नंतरे सर्वैस्त्रिदशैरभिपूजितः ।।
प्रादुर्बभूव तेजस्वी हनूमान्वानरेश्वरः ।।३.३.५.७०।।
तस्याभिगमनादेव राजानो जातसंभ्रमाः ।।
प्रत्युत्थाय नमश्चक्रुर्भक्तिनम्रात्ममूर्त्तयः ।। ७१ ।।
तेषां मध्ये समासीनः पूजितः प्लवगेश्वरः ।।
गोपात्मजं समाश्लिष्य राज्ञो वीक्ष्येदमववीत् ।। ।। ७२ ।।
सर्वे शृणुत भद्रं वो राजानो ये च देहिनः ।।
शिवपूजामृते नान्या गतिरस्ति शरीरिणाम ।। ७३ ।।
एष गोपसुतो दिष्ट्या प्रदोषे मंदवा सरे ।।
अमंत्रेणापि संपूज्य शिवं शिवमवाप्तवान् ।। ७४ ।।
मंदवारे प्रदोषोऽयं दुर्लभः सर्वदेहिनाम् ।।
तत्रापि दुर्लभतरः कृष्णपक्षे समागते ।। ।। ७५ ।।
एष पुण्यतमो लोके गोपानां कीर्तिवर्धनः ।।
अस्य वंशेऽष्टमो भावी नंदोनाम महायशाः ।।
प्राप्स्यते तस्य पुत्रत्वं कृष्णो नारा यणः स्वयम् ।। ७६ ।।
अद्यप्रभृति लोकेस्मिन्नेष गोपालनंदनः ।।
नाम्ना श्रीकर इत्युच्चैर्लोके ख्यातिं गमिष्यति ।। ७७ ।।
।। सूत उवाच ।।
एवमुक्त्वांजनीसूनुस्तस्मै गोपकसूनवे ।।
उपदिश्य शिवाचारं तत्रैवांतरधीयत ।। ७८ ।।
ते च सर्वे महीपालाः संहृष्टाः प्रतिपूजिताः ।।
चन्द्रसेनं समामंत्र्य प्रतिजग्मुर्यथागतम् ।। ७९ ।।
श्रीकरोऽपि महातेजा उपदिष्टो हनूमता ।।
ब्राह्मणैः सह धर्मज्ञैश्चक्रे शम्भोः समर्हणम् ।। ३.३.५.८० ।।
कालेन श्रीकरः सोऽपि चंद्रसेनश्च भूपतिः ।।
समाराध्य शिवं भक्त्या प्रापतुः परमं पदम् ।। ८१ ।।
इदं रहस्यं परमं पवित्रं यशस्करं पुण्यमहर्द्धिवर्धनम् ।।
आख्यानमाख्यातमघौघनाशनं गौरीशपादांबुजभक्तिवर्धनम् ।। ८२ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मोत्तर खण्डे गोपकुमारचरितवर्णनं नाम पञ्चमोऽध्यायः ।। ५ ।।