स्कन्दपुराणम्/खण्डः ३ (ब्रह्मखण्डः)/ब्रह्मोत्तर खण्डः/अध्यायः १३
।। सूत उवाच ।। ।।
दशार्णाधिपतेस्तस्य वज्रबाहोर्महाभुजः ।।
बभूव शत्रुर्बलवान्राजा मगधराट् ततः ।। १ ।।
स वै हेमरथो नाम बाहुशाली रणोत्कटः ।।
बलेन महतावृत्य दशार्णं न्यरुधद्बली ।। २ ।।
चमूपास्तस्य दुर्धर्षाः प्राप्य देशं दशार्णकम् ।।
व्यलुंपन्वसुरत्नानि गृहाणि ददहुः परे ।।३।।
केचिद्धनानि जगृहुः केचिद्बालान्स्त्रियोऽपरे ।।
गोधनान्यपरेऽगृह्णन्केचिद्धान्यपरिच्छदान् ।।
केचिदारामसस्यानि गृहोद्यानान्यनाशयत् ।।४।।
एवं विनाश्य तद्राज्यं स्त्रीगोधनजिघृक्षवः ।।
आवृत्य तस्य नगरीं वज्रबाहोस्तु मागधः ।। ५ ।।
एवं पर्याकुलं वीक्ष्य राजा नगरमेव च ।।
युद्धाय निर्जगामाशु वज्रबाहुः ससै निकः ।। ६ ।।
वज्रबाहुश्च भूपालस्तथा मंत्रिपुरःसराः ।।
युयुधुर्मागधैः सार्धं निजघ्नुः शत्रुवाहिनीम् ।।७।।
वज्रबाहुर्महेष्वासो दंशितो रथमास्थितः।।
विकिरन्बाणवर्षाणि चकार कदनं महत् ।।८।।
दशार्णराजं युध्यंतं दृष्ट्वा युद्धे सुदुःसहम् ।।
तमेव तरसा वव्रुः सर्वे मागधसैनिकाः ।। ९ ।।
कृत्वा तु सुचिरं युद्धं मागधा दृढविक्रमाः ।।
तत्सैन्यं नाशयामासुर्लेभिरे च जयश्रियम् ।।३.३.१३.१०।।
केचित्तस्य रथं जघ्नुः केचित्तद्धनुराच्छिनम् ।।
सूतं तस्य जघानैकस्त्वपरः खड्गमाच्छिनत् ।। ११।।
संछिन्नखड्गधन्वानं विरथं हतसारथिम् ।।
बलाद्गृहीत्वा बलिनो बबंधुर्नृपतिं रुषा ।।१२।।
तस्य मंत्रिगणं सर्वं तत्सैन्यं च विजित्य ते ।।
मागधास्तस्य नगरीं विविशुर्जयकाशिनः ।। १३ ।।
अश्वान्नरान्गजानुष्ट्रान्पशूंश्चैव धनानि च ।।
जगृहुर्युवतीः सर्वाश्चार्वंगीश्चैव कन्यकाः ।। १४ ।।
राज्ञो बबंधुर्महिषीर्दासीश्चैव सहस्रशः ।।
कोशं च रत्नसंपूर्णं जह्रुस्तेऽप्याततायिनः ।। १५ ।।
एवं विनाश्य नगरीं हृत्वा स्त्रीगोधनादिकम् ।।
वज्रबाहुं बलाद्बद्ध्वा रथे स्थाप्य विनिर्ययुः ।। १६ ।।
एवं कोलाहले जाते राष्ट्रनाशे च दारुणे ।।
राजपुत्रोऽथ भद्रायुस्तद्वार्तामशृणोद्बली ।। १७ ।।
पितरं शत्रुनिर्बद्धं पितृपत्नीस्तथा हृताः ।।
नष्टं दशार्णराष्ट्रं च श्रुत्वा चुक्रोश सिंहवत् ।। १८ ।।
स खड्गशंखावादाय वैश्यपुत्रसहायवान् ।।
दंशितो हयमारुह्य कुमारो विजिगीषया ।। १९ ।।
जवेनागत्य तं देशं मागधैरभिपूरितम् ।।
दह्यमानं क्रंदमानं हृतस्त्रीसुतगोधनम् ।। ३.३.१३.२० ।।
दृष्ट्वा राजजनं सर्वं राज्यं शून्यं भयाकुलम् ।।
क्रोधाध्मातमनास्तूर्णं प्रविश्य रिपुवाहिनीम् ।।
आकर्णाकृष्टकोदंडो ववर्ष शरसंततीः ।। २१ ।।
ते हन्यमाना रिपवो राजपुत्रेण सायकैः ।।
तमभिद्रुत्य वेगेन शरैर्विव्यधुरुल्बणैः ।। २२ ।।
हन्यमानोऽस्त्रपूगेन रिपुभिर्युद्धदुर्मदैः ।।
न चचाल रणे धीरः शिववर्माभिरक्षितः ।। २३ ।।
सोऽस्त्रकर्षं प्रसह्याशु प्रविश्य गजलीलया ।।
जघानाशु रथान्नागान्पदातीनपि भूरिशः ।। २४ ।।
तत्रैकं रथिनं हत्वा ससूतं नृपनंदनः ।।
तमेव रथमास्थाय वैश्यनंदनसारथिः ।।
विचचार रणे धीरः सिंहो मृगकुलं यथा ।। २५ ।।
अथ सर्वे सुसंरब्धाः शूराः प्रोद्यतकार्मुकाः ।।
अभिसस्रुस्तमेवैकं चमूपा बलशालिनः ।। २६ ।।
तेषामापततामग्रे खड्गमुद्यम्य दारुणम् ।।
अभ्युद्ययौ महावीरान्दर्शयन्निव पौरुषम् ।। २७ ।।
करालांतकजिह्वाभं तस्य खड्गं महोज्ज्वलम् ।।
दृष्ट्वैव सहसा मम्रुश्च मूपास्तत्प्रभावतः ।। २८ ।।
येये पश्यंति तं खड्गं प्रस्फुरंतं रणांगणे ।।
ते सर्वे निधनं जग्मुर्वज्रं प्राप्येव कीटकः ।। २९ ।।
अथासौ सर्वसैन्यानां विनाशाय महाभुजः ।।
शंखं दध्मौ महारावं पूरयन्निव रोदसी ।। ३.३.१३.३० ।।
तेन शंखनिनादेन विषाक्तेनैव भूयसा ।।
श्रुतमात्रेण रिपवो मूर्च्छिताः पतिता भुवि ।।३१ ।।
येऽश्वपृष्ठे रथे ये च ये च दंतिषु संस्थिताः।।
ते विसंज्ञाः क्षणात्पेतुः शंखनादहतौजसः।।३२।।
तान्भूमौ पतितान्सर्वान्नष्टसंज्ञा न्निरायुधान्।।
विगणय्य शवप्रायाननावधीद्धर्मशास्त्रवित्।।३३।।
आत्मनः पितरं बद्धं मोचयित्वा रणाजिरे।।
तत्पत्नीः शत्रुवशगाः सर्वाः सद्यो व्यमोचयत् ।। ३४ ।।
पत्नीश्च मंत्रिमुख्यानां तथान्येषां पुरौकसाम् ।।
स्त्रियो बालांश्च कन्याश्च गोधनादीन्यनेकशः ।। ३५ ।।
मोचयित्वा रिपुभयात्तमाश्वासयदाकुलः ।।
अथारिसैन्येषु चरंस्तेषां जग्राह योषितः ।। ३६ ।।
मरुन्मनोजवानश्वान्मातंगान्गिरिसन्निभान् ।।
स्यंदनानि च रौक्माणि दासीश्च रुचिराननाः ।। ३७ ।।
युग्मम् ।।
सर्वमाहृत्य वेगेन गृहीत्वा तद्धनं बहु ।।
मागधेशं हेमरथं निर्बबंध पराजितम् ।। ३८ ।।
तन्मंत्रिणश्च भूपांश्च तत्र मुख्यांश्च नायकान्।।
गृहीत्वा तरसा बद्ध्वा पुरीं प्रावेशयद्द्रुतम् ।। ३९ ।।
पूर्वं ये समरे भग्ना विवृत्ताः सर्वतोदिशम् ।।
ते मंत्रिमुख्या विश्वस्ता नायकाश्च समाययुः ।। ३.३.१३.४० ।।
कुमारविक्रमं दृष्ट्वा सर्वे विस्मितमानसाः ।।
तं मेनिरे सुरश्रेष्ठं कारणादागतं भुवम् ।। ।। ४१ ।।
अहो नः सुमहाभाग्यमहो नस्तपसः फलम् ।।
केनाप्यनेन वीरेण मृताः संजीविताः खलु ।। ४२ ।।
एष किं योगसिद्धो वा तपःसिद्धो ऽथवाऽमरः ।।
अमानुषमिद कर्म यदनेन कृतं महत् ।। ४३ ।।
नूनमस्य भवेन्माता सा गौरीति शिवः पिता ।।
अक्षौहिणीनां नवकं जिगायानंतशक्तिधृक् ।। ४४ ।।
इत्याश्चर्ययुतैर्हृष्टैः प्रशंसद्भिः परस्परम् ।।
पृष्टोऽमात्यजनेनासावात्मानं प्राह तत्त्वतः ।। ४५ ।।
समागतं स्वपितरं विस्मयाह्लादविप्लुतम् ।।
मुंचंतमानंदजलं ववंदे प्रेमविह्वलः ।। ४६ ।।
स राजा निजपुत्रेण प्रणयादभिवंदितः ।।
आश्लिष्य गाढं तरसा बभाषे प्रेमकातरः ।। ४७ ।।
कस्त्वं देवो मनुष्यो वा गन्धर्वो वा महामते ।।
का माता जनकः को वा को देशस्तव नाम किम् ।। ४८ ।।
कस्मान्न शत्रुभिर्बद्धान्मृतानिव हतौजसः ।।
कारुण्यादिह संप्राप्य सपत्नीकान्मुमोच यः ।। ४९ ।।
कुतो लब्धमिदं शौर्यं धैर्यं तेजो बलोन्नतिः ।।
जिगीषसीव लोकांस्त्रीन्सदेवासुरमानुषान् ।। ३.३.१३.५० ।।
अपि जन्मसहस्रेण तवानृण्यं महौजसः ।।
कर्तुं नाहं समर्थोस्मि सहैभिर्दारबांधवैः ।।५१।।
इमान्पुत्रानिमाः पत्नीरिदं राज्यमिदं पुरम् ।।
सर्वं विहाय मच्चित्तं त्वय्येव प्रेमबंधनम् ।।५२।।
सर्वं कथय मे तात मत्प्राणपरिरक्षक ।।
एतासां मम पत्नीनां त्वदधीनं हि जीवितम् ।। ५३ ।।
।। सूत उवाच ।। ।।
इति पृष्टः स भद्रायुः स्वपित्रा तमभाषत ।।
एष वैश्यसुतो राजन्सुनयो नाम मत्सखा ।। ५४ ।।
अहमस्य गृहे रम्ये वसामि सहमातृकः ।।
भद्रायुर्नाम मद्वृत्तं पश्चाद्विज्ञापयामि ते ।। ५५ ।।
पुरं प्रविश्य भद्रं ते सदारः ससुहृज्जनः ।।
त्यक्त्वा भयमरातिभ्यो विहरस्व यथासुखम् ।। ५६ ।।
नैतान्मुंच रिपूंस्तावद्यावदागमनं मम ।।
अहमद्य गमिष्यामि शीघ्रमात्मनिवेशनम् ।। ५७ ।।
इत्युक्त्वा नृपमामंत्र्य भद्रायुर्नृपनंदनः ।।
आजगाम स्वभवनं मात्रे सर्वं न्यवेदयत् ।। ५८।।
सापि हृष्टा स्वतनयं परिरेभेऽश्रुलोचना ।।
स च वैश्यपतिः प्रेम्णा परिष्वज्याभ्यपूजयत् ।। ५९ ।।
वज्रबाहुश्च राजेंद्रः प्रविष्टो निजमंदिरम् ।।
स्त्रीपुत्रामात्य सहितः प्रहर्षमतुलं ययौ ।। ३.३.१३.६० ।।
तस्यां निशायां व्युष्टायामृषभो योगिनां वरः ।।
चंद्रांगदं समागत्य सीमंतिन्याः पतिं नृपम् ।। ६१ ।।
भद्रायुषः समुत्पत्तिं तस्य कर्माप्यमानुषम् ।।
आवेद्य रहसि प्रेम्णा त्वत्सुतां कीर्तिमालिनीम् ।। ६२ ।।
भद्रायुषे प्रयच्छेति बोधयित्वा च नैषधम् ।।
ऋषभो निर्जगामाथ देशकालार्थतत्त्ववित् ।। ६३ ।।
विशेषकम् ।।
अथ चंद्रांगदो राजा मुहूर्त्ते मंगलोचिते ।।
भद्रायुषं समाहूय प्रायच्छत्कीर्त्तिमालिनीम् ।। ६४ ।।
कृतोद्वाहः स राजेंद्रतनयः सह भार्यया ।।
हेमासनस्थः शुशुभे रोहिण्येव निशाकरः ।। ६५ ।।
वज्रबाहुं तत्पितरं समाहूय स नैषधः ।।
पुरं प्रवेश्य सामात्यः प्रत्युद्गम्याभ्यपूजयत् ।। ६६ ।।
तत्रापश्यत्कृतोद्वाहं भद्रायुषमरिंदमम् ।।
पादयोः पतितं प्रेम्णा हर्षात्तं परिषस्वजे ।। ।। ६७ ।।
एष मे प्राणदो वीर एष शत्रुनिषूदनः ।।
अथाप्यज्ञातवंशोऽयं मयानंतपराक्रमः ।। ६८ ।।
एष ते नृप जामाता चंद्रांगद महाबलः ।।
अस्य वंशमथोत्पत्तिं श्रोतुमिच्छामि तत्त्वतः ।। ६९ ।।
इत्थं दशार्णराजेन प्रार्थितो निषधाधिपः ।।
विविक्त उपसंगम्य प्रहसन्निदमब्रवीत् ।। ३.३.१३.७० ।।
एष ते तनयो राजञ्छैशवे रोगपीडितः ।।
त्वया वने परित्यक्तः सह मात्रा रुजार्तया ।। ७१ ।।
परिभ्रमंती विपिने सा नारी शिशुनामुना ।।
दैवाद्वैश्यगृहं प्राप्ता तेन वैश्येन रक्षिता ।। ७२ ।।
अथासौ बहुरोगार्तो मृतस्तव कुमारकः ।।
केनापि योगिराजेन मृतः संजीवितः पुनः ।। ७३ ।।
ऋषभाख्यस्य तस्यैव प्रभावाच्छिवयोगिनः ।।
रूपं च देवसदृशं प्राप्तौ मातृकुमारकौ ।। ७४ ।।
तेन दत्तेन खड्गेन शंखेन रिपुघातिना ।।
जिगाय समरे शत्रूञ्छिववर्माभिरक्षितः ।। ७५ ।।
द्विषट्सहस्रनागानां बलमेको बिभर्त्यसौ ।।
सर्वविद्यासु निष्णातो मम जामातृतां गतः ।। ७६ ।।
अत एनं समादाय मातरं चास्य सुव्रताम्।।
गच्छस्व नगरीं राजन्प्राप्स्यसि श्रेय उत्तमम् ।। ७७ ।।
इति चंद्रांगदः सर्वमाख्यायांतर्गृहे स्थिताम् ।।
तस्याग्र पत्नीमाहूय दर्शयामास भूषिताम् ।। ७८ ।।
इत्यादि सर्वमाकर्ण्य दृष्ट्वा च स महीपतिः ।।
व्रीडितो नितरां मौढ्यात्स्वकृतं कर्म गर्हयन् ।। ७९ !।
प्राप्तश्च परमानन्दं तयोर्दर्शनकौतुकात् ।।
पुलकांकितसर्वांगस्तावुभौ परिषस्वजे ।। ३.३.१३.८० ।।
युग्मम् ।।
एवं निषधराजेन पूजितश्चाभिनन्दितः ।।
स भोजयित्वा तं सम्यक्स्वयं च सह मंत्रिभिः ।। ८१ ।।
तामात्मनोग्रमहिषीं पुत्रं तमपि तां स्नुषाम् ।।
आदाय सपरीवारो वज्रबाहुः पुरीं ययौ ।।८२।।
स संभ्रमेण महता भद्रायुः पितृमंदिरम्।।
संप्राप्य परमानंदं चक्रे सर्वपुरौकसाम्।।८३।।
कालेन दिवमारूढे पितरि प्राप्तयौवनः।।
भद्रायुः पृथिवीं सर्वां शशासाद्भुतविक्रमः ।। ८४ ।।
मागधेशं हेमरथं मोचयामास बंधनात् ।।
संधाय मैत्रीं परमां ब्रह्मर्षीणां च सन्निधौ।। ८५।।
इत्थं त्रिलोकमहितां शिवयोगिपूजां कृत्वा पुरातनभवेऽपि स राजसूनुः ।।
निस्तीर्य दुःसहविपद्गणमाप्तराज्यश्चंद्रांगदस्य सुतया सह साधु रेमे ।। ८६ ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मोत्तरखंडे भद्रायुविवाहकथनं नाम त्रयोदशोऽध्यायः ।। १३ ।।