स्कन्दपुराणम्/खण्डः ३ (ब्रह्मखण्डः)/ब्रह्मोत्तर खण्डः/अध्यायः १

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

॥श्रीगणेशाय नमः॥।॥
श्रीगुरुभ्यो नमः ॥ ॥
अथ ब्रह्मोत्तरखंडमारंभः ॥
॥ ॐ नमः शिवाय ॥ ॥
ज्योतिर्मात्रस्वरूपाय निर्मलज्ञानचक्षुषे ॥
नमः शिवाय शांताय ब्रह्मणे लिंगमूर्त्तये ॥ १ ॥
॥ ऋषय ऊचुः ॥ ॥
आख्यातं भवता सूत विष्णोर्माहात्म्यमुत्तमम्॥
समस्ताघहरं पुण्यं समसेन श्रुतं च नः॥ २॥
इदानीं श्रोतुमिच्छामो माहात्म्यं त्रिपुरद्विषः ॥
तद्भक्तानां च माहात्म्यमशेषाघहरं परम्॥ ३॥
तन्मंत्राणां च माहात्म्यं तथैव द्विजसत्तम ॥
तत्कथायाश्च तद्भक्तेः प्रभावमनुवर्णय॥ ४॥
॥ सूत उवाच ॥ ॥
एतावदेव मर्त्यानां परं श्रेयः सनातनम्॥
यदीश्वरकथायां वै जाता भक्तिरहैतुकी ॥ ५॥
अतस्तद्भक्तिलेशस्य माहात्म्यं वर्ण्यते मया ॥
अपि कल्पायुषा नालं वक्तुं विस्तरतः क्वचित्॥ ६॥
सर्वेषामपि पुण्यानां सर्वेषां श्रेयसामपि ॥
सर्वेषामपि यज्ञानां जपयज्ञः परः स्मृतः॥ ७॥
तत्रादौ जपयज्ञस्य फलं स्वस्त्ययनं महत् ॥
शैवं षडक्षरं दिव्यं मंत्रमाहुर्महर्षयः॥ ८॥
देवानां परमो देवो यथा वै त्रिपुरांतकः ॥
मंत्राणां परमो मंत्रस्तथा शैवः षडक्षरः ॥ ९॥
एष पंचाक्षरो मंत्रो जप्तॄणां मुक्तिदायकः॥
संसेव्यते मुनिश्रेष्ठैरशेषैः सिद्धिकांक्षिभिः॥३.३.१.१०
१० ॥ अस्यैवाक्षरमाहात्म्यं नालं वक्तुं चतुर्मुखः॥
श्रुतयो यत्र सिद्धांतं गताः परमनिर्वृताः॥ ११ ॥
सर्वज्ञः परिपूर्णश्च सच्चिदानंदलक्षणः ॥
स शिवो यत्र रमते शैवे पंचाक्षरे शुभे ॥ १२ ॥
एतेन मंत्रराजेन सर्वोपनिषदात्मना ॥
लेभिरे मुनयः सर्वे परं ब्रह्म निरामयम्॥१३॥
नमस्कारेण जीवत्वं शिवेऽत्र परमात्मनि ॥
ऐक्यं गतमतो मंत्रः परब्रह्ममयो ह्यसौ ॥ १४ ॥
भवपाशनिबद्धानां देहिनां हितकाम्यया ॥
आहोंनमः शिवायेति मंत्रमाद्यं शिवः स्वयम् ॥ १५॥
किं तस्य बहुभिर्मंत्रैः किं तीर्थैः किं तपोऽध्वरैः ॥
यस्योंनमः शिवायेति मंत्रो हृदयगोचरः॥ १६ ॥
तावद्भ्रमंति संसारे दारुणे दुःखसंकुले ॥
यावन्नोच्चारयंतीमं मंत्रं देहभृतः सकृत् ॥ १७ ॥
मंत्राधिराजराजोऽयं सर्ववेदांतशेखरः ॥
सर्वज्ञाननिधानं च सोऽयं चैव षडक्षरः ॥ १८ ॥
कैवल्यमार्गदीपोऽयमविद्यासिंधुवाडवः ॥
महापातकदावाग्निः सोऽयं मंत्रः षडक्षरः ! ॥ १९ ॥
तस्मात्सर्वप्रदो मंत्रः सोऽयं पञ्चाक्षरः स्मृतः ॥
स्त्रीभिः शूद्रैश्च संकीर्णैर्धार्यते मुक्तिकांक्षिभिः।।३.३.१२० ॥
नास्य दीक्षा न होमश्च न संस्कारो न तर्पणम् ॥
न कालो नोपदेशश्च सदा शुचिरयं मनुः ॥ २१ ॥
महापातकविच्छित्त्यै शिव इत्यक्षरद्वयम् ॥
अलं नमस्कियायुक्तो मुक्तये परिकल्पते ॥ २२॥
उपदिष्टः सद्गुरुणा जप्तः क्षेत्रे च पावने ॥
सद्यो यथेप्सितां सिद्धिं ददातीति किमद्भुतम् ॥ २३ ॥
अतः सद्गुरुमाश्रित्य ग्राह्योऽयं मंत्रनायकः॥
पुण्यक्षेत्रेषु जप्तव्यः सद्यः सिद्धिं प्रयच्छति ॥ २४॥
गुरवो निर्मलाः शांताः साधवो मितभाषिणः ॥
कामक्रोधविनिर्मुक्ताः सदाचारा जितेंद्रियाः ॥ २५ ॥
एतैः कारुण्यतो दत्तो मंत्रः क्षिप्रं प्रसिद्ध्यति ॥
क्षेत्राणि जपयोग्यानि समासात्कथयाम्यहम् ॥ २६ ॥
प्रयागं पुष्करं रम्यं केदारं सेतुबंधनम् ॥
गोकर्णं नैमिषारण्यं सद्यः सिद्धिकरं नृणाम् ॥२७॥
अत्रानुवर्ण्यते सद्भिरितिहासः पुरातनः॥
असकृद्वा सकृद्वापि शृण्वतां मंगलप्रदः॥ २८॥
मथुरायां यदुश्रेष्ठो दाशार्ह इति विश्रुतः ॥
बभूव राजा मतिमान्महोत्साहो महाबलः ॥ २९ ॥
शास्त्रज्ञो नयवाक्छूरो धैर्यवानमितद्युतिः ॥
अप्रधृष्यः सुगंभीरः संग्रामेष्वनिवर्त्तितः ॥ ३.३.१.३०॥
महारथो महेष्वासो नानाशास्त्रार्थकोविदः॥
वदान्यो रूपसंपन्नो युवा लक्ष णसंयुतः ॥ ३१ ॥
स काशिराजतनयामुपयेमे वराननाम् ॥
कांतां कलावतीं नाम रूपशीलगुणान्विताम् ॥ ३२ ॥
कृतोद्वाहः स राजेंद्रः संप्राप्य निजमंदिरम्॥
रात्रौ तां शयनारूढां संगमाय समाह्वयत् ॥ ३३ ॥
सा स्वभर्त्रा समाहूता बहुशः प्रार्थिता सती ॥
न बबंध मनस्तस्मिन्न चागच्छ तदंतिकम्॥ ३४॥
संगमाय यदाहूता नागता निजवल्लभा ॥
बलादाहर्तुकामस्तामुदतिष्ठन्महीपतिः ॥ ३५ ॥.
।। राज्ञ्युवाच ॥ ॥
मा मां स्पृश महाराज कारणज्ञां व्रते स्थिताम् ॥
धर्माधर्मौ विजानासि मा कार्षीः साहसं मयि ॥ ३६ ॥
क्वचित्प्रियेण भुक्तं यद्रोचते तु मनीषिणाम् ॥
दंपत्योः प्रीतियोगेन संगमः प्रीतिवर्द्धनः ॥ ३७ ॥
प्रियं यदा मे जायेत तदा संगस्तु ते मयि ॥
का प्रीतिः किं सुखं पुंसां बलाद्भोगेन योषिताम् ॥ ३८ ॥
अप्रीतां रोगिणीं नारीमंतर्वत्नीं धृतव्रताम् ॥
रजस्वलामकामां च न कामेत बलात्पुमान् ॥ ३९ ॥
प्रीणनं लालनं पोषं रंजनं मार्दवं दयाम्॥
कृत्वा वधूमुपगमेद्युवतीं प्रेमवान्पतिः ॥
युवतौ कुसुमे चैव विधेयं सुखमिच्छता ॥ ३.३.१.४० ।
इत्युक्तोऽपि तया साध्व्या स राजा स्मरविह्वलः ॥
बलादाकृष्य तां हस्ते परिरेभे रिरंसया ॥ ४१ ॥
तां स्पृष्टमात्रां सहसा तप्तायःपिंडसन्निभाम् ॥
निर्दहंतीमिवात्मानं तत्याज भयविह्वलः ॥ ४२ ॥
॥ राजोवाच ॥ ॥
अहो सुमहदाश्चर्यमिदं दृष्टं तव प्रिये ॥
कथमग्निसमं जातं वपुः पल्लवकोमलम्॥ ॥ ४३ ॥
इत्थं सुविस्मितो राजा भीतः सा राजवल्लभा ॥
प्रत्युवाच विहस्यैनं विनयेन शुचिस्मिता ॥ ४४ ॥
॥ राज्ञ्युवाच ॥ ॥
राजन्मम पुरा बाल्ये दुर्वासा मुनिपुंगवः॥
शैवीं पंचाक्षरीं विद्यां कारुण्येनोपदिष्टवान् ॥४५॥
तेन मंत्रानुभावेन ममांगं कलुषोज्झितम् ॥
स्प्रष्टुं न शक्यते पुंभिः सपापैर्देवैवर्जितैः॥ ४६॥
त्वया राजन्प्रकृतिना कुलटागणिकादयः ॥
मदिरास्वादनिरता निषेव्यंते सदा स्त्रियः ॥४७॥
न स्नानं क्रियते नित्यं न मंत्रो जप्यते शुचिः ॥
नाराध्यते त्वयेशानः कथं मां स्प्रष्टुमर्हसि ॥ ४८॥
॥ राजोवाच।॥ ॥
तां समाख्याहि सुश्रोणि शैवीं पंचाक्षरीं शुभाम् ॥
विद्याविध्वस्तपापोऽहं त्वयीच्छामि रतिं प्रिये ॥ ४९ ॥
॥ राज्ञ्युवाच ॥ ॥
नाहं तवोपदेशं वै कुर्यां मम गुरुर्भवान् ॥
उपातिष्ठ गुरुं राजन्गर्गं मंत्र विदांवरम् ॥ ३.३.१.५० ॥
॥ सूत उवाच ॥ ॥
इति संभाषमाणौ तौ दंपती गर्गसन्निधिम् ॥
प्राप्य तच्चरणौ मूर्ध्ना ववंदाते कृताञ्जली ॥ ५१ ॥
अथ राजा गुरुं प्रीतमभिपूज्य पुनःपुनः ॥
समाचष्ट विनीतात्मा रहस्यात्ममनोरथम् ॥ ५२॥
॥ राजोवाच ॥ ॥
कृतार्थं मां कुरु गुरो संप्राप्तं करुणार्द्रधीः ॥
शैवीं पंचाक्षरीं विद्यामुपदेष्टुं त्वमर्हसि ॥ ५३॥
अनाज्ञातं यदाज्ञातं यत्कृतं राजकर्मणा ॥
तत्पापं येन शुद्ध्येत तन्मंत्रं देहि मे गुरो ॥ ५४॥
एवमभ्यर्थितो राज्ञा गर्गो ब्राह्मणपुंगवः ॥
तौ निनाय महापुण्यं कालिंद्यास्तटमुत्तमम् ॥ ५५ ॥
तत्र पुण्यतरोर्मूले निषण्णोऽथ गुरुः स्वयम् ॥
पुण्यतीर्थजले स्नातं राजानं समुपोषितम्॥ ५६ ॥
प्राङ्मुखं चोपवेश्याथ नत्वा शिवपदाम्बुजम् ॥
तन्मस्तके करं न्यस्य ददौ मंत्रं शिवात्मकम् ॥ ॥ ५७॥
तन्मंत्रधारणादेव तद्गुरोर्हस्तसंगमात्॥
निर्ययुस्तस्य वपुषो वायसाः शतकोटयः ॥ ५८॥
ते दग्धपक्षाः क्रोशंतो निपतंतो महीतले ॥
भस्मीभूतास्ततः सर्वे दृश्यंते स्म सहस्रशः ॥ ५९॥
दृष्ट्वा तद्वायसकुलं दह्यमानं सुविस्मितौ ॥
राजा च राजमहिषी तं गुरुं पर्यपृच्छताम् ॥ ३.३.१.६० ॥
भगवन्निदमाश्चर्यं कथं जातं शरीरतः ॥
वायसानां कुलं दृष्टं किमेतत्साधु भण्यताम् ॥ ६१ ॥
॥ श्रीगुरुरुवाच ॥ राजन्भवसहस्रेषु भवता परिधावता ॥
संचितानि दुरन्तानि संति पापान्यनेकशः ॥ ६२॥
तेषु जन्मसहस्रेषु यानि पुण्यानि संति ते ॥
तेषामाधिक्यतः क्वापि जायते पुण्ययोनिषु ॥ ६३॥
तथा पापीयसीं योनिं क्वचित्पापेन गच्छति ॥
साम्ये पुण्यान्ययोश्चैव मानुषीं योनिमाप्तवान् ॥ ६४ ॥
शैवी पंचाक्षरी विद्या यदा ते हृदयं गता।
अघानां कोटयस्त्वत्तः काकरूपेण निर्गताः ॥ ६९॥
कोटयो ब्रह्महत्यानामगम्यागम्यकोटयः॥
स्वर्णस्तेयसुरापानभ्रूणहत्या दिकोटयः ॥
भवकोटिसहस्रेषु येऽन्ये पातकराशयः ॥ ६६॥
क्षणाद्भस्मीभवंत्येव शैवे पंचाक्षरे धृते ॥
आसंस्तवाद्य राजेंद्र दग्धाः पातककोटयः ॥ ॥ ६७ ॥
अनया सह पूतात्मा विहरस्व यथासुखम् ॥
इत्याभाष्य मुनिश्रेष्ठस्तं मंत्रमुपदिश्य च ॥६८॥
ताभ्यां विस्मितचित्ताभ्यां सहितः स्वगृहे ययौ ॥
गुरुवर्यमनुज्ञाप्य मुदितौ तौ च दंपती ॥ ६९॥
ततः स्वभवनं प्राप्य रेजतुःस्म महाद्युती।॥
राजा दृढं समाश्लिष्य पत्नीं चन्दनशीतलाम्॥
संतोषं परमं लेभे निःस्वः प्राप्य यथा धनम् ॥ ३.३.१.७० ॥
अशेषवेदोपनिषत्पुराणशास्त्रावतंसोऽयमघांतकारी ॥
पंचाक्षरस्यैव महाप्रभावो मया समासात्कथितो वरिष्ठः ॥७१॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मोत्तरखण्डे पंचाक्षरमन्त्रमाहात्म्यवर्णनं नाम प्रथमोऽध्यायः ॥ १ ॥