स्कन्दपुराणम्/खण्डः ३ (ब्रह्मखण्डः)/धर्मारण्य खण्डः/अध्यायः ४०

विकिस्रोतः तः
Jump to navigation Jump to search

।। नारद उवाच ।। ।।
ज्ञातिभेदे तु संजाते तस्मिन्मोहेरके पुरे ।।
त्रैविद्यैः किं कृतं ब्रह्मंस्तन्ममाचक्ष्व पृच्छतः ।। १ ।।। ।।
।। ब्रह्मोवाच ।। ।।
स्वस्थाने वाडवाः सर्वे हर्षनिर्भरमानसाः ।।
अग्निहोत्रपरा केऽपि केऽपि यज्ञपरायणाः ।। २ ।।
केऽपि चाग्निसमाधानाः केऽपि स्मार्ता निरंतरम् ।।
पुराणन्यायवेत्तारो वेदवेदांगवादिनः ।। ३ ।।
सुखेन स्वान्सदाचारान्कुर्वन्तो ब्रह्मवादिनः ।।
एवं धर्मसमाचारान्कुर्वतां कुशलात्मनाम् ।। ४ ।।
स्थानाचारान्कुलाचारानधिदेव्याश्च भाषितान् ।।
धर्मशास्त्रस्थितं सर्वं काजेशैरुदितं च यत् ।। ५ ।।
परंपरागतं धर्म मूचुस्ते वाडवोत्तमाः ।। ६ ।।
।। ब्राह्मणा ऊचुः ।। ।।
उपास्ते यश्च लिखितं रक्तपादैस्तु वाडवाः ।।
ज्ञातिश्रेष्ठः स विज्ञेयो वलिर्देयस्ततः परम् ।। ७ ।।
रक्तचंदनं प्रसाध्याथ प्रसिद्धं स्वकुलं तथा ।।
कुंकुमारक्तपादैस्तैर्गंधपुष्पादिचर्चितैः ।। ८ ।।
संभूय लिखितं तच्च रक्तपादं तदुच्यते ।।
रामस्य लेख्यं ते सर्वे पूजयंतु समाहिताः ।। ९ ।।
रामस्य करमुद्रां च पूजयंतु द्विजाः सदा ।।
येषां दोषाः सदाचारे व्यभिचारादयो यदि ।। ।। 3.2.40.१० ।।
तेषां दण्डो विधेयस्तु य उक्तो विधिवद्विजैः ।।
चिह्नं न राममुद्राया यावद्दंडं ददाति न ।। ११ ।।
विना दण्डप्रदानेन मुद्राचिह्नं न धार्यते ।।
मुद्राहस्ताश्च विज्ञेया वाडवा नृपसत्तम ।। १२ ।।
पुत्रे जाते पिता दद्द्याच्छ्रीमात्रे तु बलिं सदा ।।
पलानि विंशतिः सर्प्पिर्गुडः पंचप लानि च ।। १३ ।।
कुंकुमादिभिरभ्यर्च्य जातमात्रः सुतस्तदा ।।
षष्ठे च दिवसे राजन्षष्ठीं पूजयते सदा ।। १४ ।।
दद्यात्तत्र बलिं साज्यं कुर्याद्धि बलिपंचकम् ।।
पंचप्रस्थान्बलीन्दद्यात्सवस्त्राञ्छ्रीफलैर्युतान् ।। १५ ।।
कुंकुमादिभिरभ्यर्च्य श्रीमात्रे भक्तिपूर्वकम् ।।
वितशाठ्यं न कुर्वीत कुले संततिवृद्धये ।। १६ ।।
तद्धि चार्पयता द्रव्यं वृद्धौ यद्ध्रीणितं पुनः ।।
जन्मनो नंतरं कार्यं जातकर्म यथाविधि ।। १७ ।।
विप्रानुकीर्तिता याश्च वृत्तिः सापि विभज्यते ।।
प्रथमा लभ्यमाना च वृत्तिर्वै यावती पुनः ।। १८।।
तस्या वृत्तेरर्द्धभागो गोत्रदेव्यै तु कल्प्यताम् ।।
द्विगुणं वणिजा चैव पुत्रं जाते भवेदिति ।। १९ ।।
मांडलीयाश्च ये शूद्रास्तेषामर्ककरं त्विदम् ।।
अडालजानां त्रिगुणं गोभुजानां चतुर्गुणम् ।। 3.2.40.२० ।।
इत्येतत्कथितं सर्वमन्यच्च शूद्रजातिषु ।।
यस्य दोषस्तु हत्यायाः समुद्भूतो विधेर्वशात् ।। २१ ।।
दण्डस्तु विधिवत्तस्य कर्त्तव्यो वेदशास्त्रिभिः ।।
अन्यायो न्यायवादी स्यान्निर्द्दोषे दोषदायकः ।। २२ ।।
पंक्तिभेदस्य कर्ता च गोसहस्रवधः स्मृतः ।।
वृत्तिभागविभजनं तथा न्यायविचारणम् ।।
श्रीरामदूतकस्याग्रे कर्त्तव्यमिति निश्चयः ।। २३ ।।
तस्य पूजां प्रकुर्वीत तदा कालेऽथवा सदा।।
तैलेन लेपयेत्तस्य देहे वै विघ्नशांतये ।। २४ ।।
धूपं दीपं फलं दद्यात्पुष्पैर्नानाविधैः किल ।।
पूजितो हनुमानेव ददाति तस्य वांछितम् ।। २५ ।।
प्रतिपुत्रं तु तस्याग्रे कुर्यान्नान्यत्र कुत्रचित् ।।
श्रीमाताबकुलस्वामिभागधेयं तु पूर्वतः ।। २६ ।।
पश्चात्प्रतिग्रहं विप्रैः कर्त्तव्यमिति निश्चितम् ।।
समागमेषु विप्राणां न्यायान्यायविनिर्णये ।। ।। २७ ।।
निर्णयं हृदये धृत्वा तत्रस्थं श्रावयेद्द्विजान् ।।
केवलं धर्मबुद्ध्या च पक्षपातं विवर्जयेत् ।। २८ ।।
सर्वेषां संमतं कार्यं तद्ध्यविकृतमेव च ।।
आकारितस्ततो विप्रः सभायां भयमेति चेत् ।। २९ ।।
न तस्य वाक्यं श्रोतव्यं निर्णीतार्थनिवारणे ।।
यस्य वर्जस्तु क्रियते मिलित्वा सर्व वाडवैः ।। 3.2.40.३० ।।
खानपानादिकं सर्वं कार्यं तेन विवर्जयेत् ।।
तस्य कन्या न दातव्या तत्संसर्गी च तादृशः ।। ३१ ।।
ततो दंडं प्रकुर्वीत सर्वैरेव द्विजोत्तमैः ।।
भोजनं कन्यकादानमिति दाशरथेर्मतम् ।। ३२ ।।
यत्किंचित्कुरुते पापं लब्धुं स्थलमथापि वा ।।
शुष्कार्द्रं वसते चान्ने तस्मादन्नं परि त्यजेत् ।। ३३ ।।
कुर्वंस्तत्पापभागी स्यात्तस्य दंडो यथाविधि ।।
न्यायं न पश्यते यस्तु शक्तौ सत्यां सदा यतः ।।३४।।
पापभागी स विज्ञेय इति सत्यं न संशयः ।।
उत्कोचं यस्तु गृह्णाति पापिनां दुष्टकर्मिणाम् ।।
सकलं च भवेत्तस्य पापं नैवात्र सशयः ।।३५।।
तस्यान्नं गृह्यते नैव कन्यापि न कदाचन ।।
हितमाचरते यस्तु पुत्राणामपि वै नरः ।। ३६ ।।
स एतान्नियमान्सर्वान्पालयेन्नात्र संशयः ।।
एवं पत्रं लिखित्वा तु वाडवास्ते प्रह र्षिताः ।। ३७ ।।
प्राप्ते कलियुगे घोरे यथा पापं न कुर्वते ।।
इति ज्ञात्वा तु सर्वे ते न्यायधर्मं प्रचक्रिरे ।। ३८ ।।
।। व्यास उवाच ।। ।।
कलौ प्राप्ते द्विजाः सर्वे स्थानभ्रष्टा यतस्ततः।।
पक्षमुत्कलं ग्रहीष्यंति तथा स्युः पक्षपातिनः ।। ३९ ।।
भोक्ष्यंते म्लेच्छकग्रामान्कोलाविध्वंसिभिः किल ।।
वेदभ्रष्टाश्च ते विप्रा भविष्यंति कलौ युगे॥ 3.2.40.४० ॥
॥ युधिष्ठिर उवाच॥ ॥
देशेदेशे गमिष्यंति ते विप्रा वणिजस्तथा॥
कथं वै ज्ञायते सर्वै केन चिह्नेन मारिष।॥११॥
यस्मिन्गोत्रे समुत्पन्ना वाडवा ये महाबलाः ॥४२॥
व्यास उवाच।॥
ज्ञायते गोत्रसंज्ञाऽथ केचिच्चैव पराक्रमैः ॥
यस्ययस्य च यत्कर्म तस्य तस्यावटंककः॥४३॥
अवटंकैर्हि ज्ञायंते नान्यथा ज्ञायते क्वचित्॥
गोत्रैश्च प्रवरैश्चैव अवटंकैर्नृपात्मज॥४४॥
ज्ञायंते हि द्विजा राजन्मोढ ब्राह्मणसत्तमाः॥१९॥
॥ युधिष्ठिर उवाच ॥ ॥
गोत्रैश्च प्रवरैश्चैव श्रुता एते तवाननात् ॥
कां वा शाखामधीयानास्तन्मे ब्रूहि पितामह ॥ १६॥ ॥
॥ व्यास उवाच ॥ ॥
ज्ञायंते यत्रयत्रस्था माध्यंदिनीया महाबलाः ॥
कौथमीं च समाश्रित्य केचिद्विप्रा गुणान्विताः ॥४७॥
ऋगथर्वणजा शाखा नष्टा सा च महामते॥
एवं वै वर्तमानास्ते वाडवा धर्मसंभवाः॥४८॥
धर्मारण्ये महाभागाः पुत्रपौत्रान्विताऽभवन् ॥
शूद्राः सर्वे महाभागाः पुत्रपौत्र समावृताः ॥ ४९॥
धर्मारण्ये महातीर्थे सर्वे ते द्विजसेवकाः ॥
अभवन्रामभक्ताश्च रामाज्ञां पालयंति च ॥ 3.2.40.५० ॥
आज्ञामत्याऽऽदरेणेह हनूमंतश्च वीर्यवान् ॥
पालयेत्सोऽपि चेदानीं सुप्राप्ते वै कलौ युगे ॥ ५१ ।
अदृष्टरूपी हनुमांस्तत्र भ्रमति नित्यशः॥
त्रैविद्या वाडवा यत्र चातुर्विद्यास्तथैव च ॥ ५२ ॥
सभायामुपविष्टा येऽन्यायात्पापं प्रकुर्वते ॥
जयो हि न्यायकर्तॄणामजयोऽन्यायकारिणाम् ॥ ५३ ॥
सापराधे यस्तु पुत्रे ताते भ्रातरि चापि वा ।।
पक्षपातं प्रकुर्वीत तस्य कुप्यति वायुजः॥ ५४॥
कुपितो हनुमानेष धननाशं करोति वै॥
पुत्रनाशं करोत्येव धामनाशं तथैव च ॥ ५५ ॥
सेवार्थं निर्मितः शूद्रो न विप्रान्परिषेवते ॥
वृत्तिं वा न ददात्येव हनुमांस्तस्य कुप्यति ॥ ५६ ॥
अर्थनाशं पुत्रनाशं स्थाननाशं महा भयम् ॥
कुरुते वायुपुत्रो हि रामवाक्यमनुस्मरन् ॥ ५७॥
यत्र कुत्र स्थिता विप्राः शूद्रा वा नृपसत्तम ॥
न निर्द्धना भवेयुस्ते प्रसादाद्राघवस्य च ॥५८॥
यो मूढश्चाप्यधर्मात्मा पापपाषंडमाश्रितः ।
निजान्विप्रान्परित्यज्य परज्ञातींश्च मन्यते ॥ ५९॥
तस्य पूर्वकृतं पुण्यं भस्मीभवति नान्यथा ॥
अन्येषां दीयते दानं स्वल्पं वा यदि वा बहु ॥ 3.2.40.६० ॥
यथा भवति वै पूर्वं ब्रह्मविष्णुशिवैः कृतम् ॥
तस्य देवा न गृह्णंति हृव्यं कव्यं च पूर्वजाः ॥ ६१॥
वंचयित्वा निजान्विप्रानन्येभ्यः प्रददेत्तु यः ॥
तस्य जन्मार्जितं पुण्यं भस्मीभवति तत्क्षणात् ॥६२॥
ब्रह्मविष्णुशिवैश्चैव पूजिता ये द्विजोत्तमाः।। ते
षां ये विमुखाः शूद्रा रौरवे निवसंति ते।। ६३।।
यो लौल्याच्च कुलाचारं गोत्राचारं प्रलोपयेत्।।
स्वाचारं यो न कुर्वीत कदाचिद्वै विमोहितः।।६४।।
सर्वनाशो भवेत्तस्य भस्मीभवति तत्क्षणात् ॥
तस्मात्सर्वः कुलाचारः स्थानाचारस्तथैव च ॥ ६५॥
गोत्राचारः पालनीयो यथावित्तानुसारतः ॥
एवं ते कथितं राजन्धर्मारण्यं पुरातनम्॥ ६६॥
स्थापितं देवदेवैश्च ब्रह्मविष्णुशिवादिभिः ॥
धर्मारण्यं कृतयुगे त्रेतायां सत्यमंदिरम्॥
द्वापरे वेदभवनं कालौ मोहेरकं स्मृतम् ॥ ६७ । । !
ब्रह्मोवाच ॥ ॥
य इदं शृणुयात्पुत्र श्रद्धया परया युतः॥
धर्मारण्यस्य माहात्म्यं सर्वकिल्बिषनाशनम् ॥ ६८॥
मनोवाक्कायजनितं पातकं त्रिविधं च यत्॥
तत्सर्वं नाशमायाति श्रवणात्कीर्तनात्सुकृत् ॥ ६९॥
धन्यं यशस्यमायुष्यं सुखसंतानदायकम्॥
माहात्म्यं शृणुयाद्वत्स सर्वसौख्याप्तये नरः ॥ 3.2.40.७० ॥
सर्वतीर्थेषु यत्पुण्यं सर्वक्षेत्रेषु यत्फलम्॥
तत्फलं समवाप्नोति धर्मारण्यस्य सेवनात् ॥ ७१ ॥
॥ नारद उवाच ॥ ॥
धर्मारण्यस्य माहात्म्यं यच्छ्रुतं त्वन्मुखांबुजात् ॥
धर्मवाप्यां यत्र धर्म्मस्तपस्तेपे सुदुष्कुरम् ॥ ७२॥
तस्य क्षेत्रस्य महिमा मया त्वत्तोऽवधारितः ॥
स्वस्ति तेऽस्तु गमिष्यामि धर्मारण्यदिदृक्षया ॥७३।।
तत्र वाक्यजलौघेन पावितोऽहं चतुर्मुख ॥ ७४ । ।
व्यास उवाच ॥ ॥
इदमाख्यानकं सर्वं कथितं पांडुनंदन ॥
यच्छ्रुत्वा गोसहस्रस्य फलं प्राप्नोति मानवः ॥ ॥७५॥
अपुत्रो लभते पुत्रान्निर्द्धनो धनवान्भवेत् ॥
रोगी रोगात्प्रमुच्येत बद्धो मुच्येत बंधनात् ॥ ७६ ॥
विद्यार्थी लभते विद्यामुत्तमां कर्मसाधनाम् ॥
तीर्थयात्राफलं तस्य कोटिकन्याफलं लभेत् ॥ ७७ ॥
यः श्रृणोति नरो भक्त्या नारी वाथ नरोत्तम ॥
निरयं नैव पश्यंति एकोत्तरशतैः सह ॥ ७८॥
शुभे देशे निवेश्याथ क्षौमवस्त्रादिभिस्तथा ॥
पुराणपुस्तकं राजन्प्रयतः शिष्टसंमतः ॥ ७९॥
अर्चयेच्च यथा न्यायं गंधमाल्यैः पृथक्पृथक् ॥
समाप्तौ नृप ग्रंथस्य वाचकस्यानुपूजनम् ॥ 3.2.40.८० ॥
दानादिभिर्यथान्यायं संपूर्णफलहेतवे ॥
मुद्रिकां कुंडले चैव ब्रह्मसूत्रं हिरण्मयम् ॥ ८१ ॥
वस्त्राणि च विचित्राणि गंधमाल्यानुलेपनैः ॥
देववत्पूजनं कृत्वा गां च दद्यात्पयस्विनीम् ॥ ८२ ॥
एवं विधानतः श्रुत्वा धर्मारण्यकथानकम्॥
धर्मारण्यनिवासस्य फलमाप्नोत्यसंशयम् ॥ ८३ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मारण्यमाहात्म्ये धर्मारण्यनिवासिव्यवस्थावर्णनपूर्वक धर्मारण्यपुराणश्रवणमाहात्म्यवर्णनंनाम चत्वारिंशोऽध्यायः ॥ ४० ॥