स्कन्दपुराणम्/खण्डः ३ (ब्रह्मखण्डः)/धर्मारण्य खण्डः/अध्यायः ३६

विकिस्रोतः तः
Jump to navigation Jump to search

।। नारद उवाच ।। ।।
अतः परं किमभवत्तन्मे कथय सुव्रत ।।
पूर्वं च तदशेषेण शंस मे वदताम्बर ।। १ ।।
स्थिरीभूतं च तत्स्थानं कियत्कालं वदस्व मे ।।
केन वै रक्ष्यमाणं च कस्याज्ञा वर्तते प्रभो ।। २ ।।
।। ब्रह्मोवाच ।। ।।
त्रेतातो द्वापरांतं च यावत्कलिसमागमः ।।
तावत्संरक्षणे चैको हनूमान्पवनात्मजः ।। ३ ।।
समर्थो नान्यथा कोपि विना हनुमता सुत ।।
लंका विध्वंसिता येन राक्षसाः प्रबला हताः ।।४।।
स एव रक्षते तत्र रामादेशेन पुत्रक ।।
द्विजस्याज्ञा प्रवर्तेत श्रीमातायास्तथैव च ।। ५ ।।
दिनेदिने प्रहर्षोभूज्जनानां तत्र वासिनाः ।।
पठंति स्म द्विजास्तत्र ऋग्युजुःसामलक्षणान् ।। ६ ।।
अथर्वणमपि तत्र पठंति स्म दिवानिशम् ।।
वेदनिर्घोषजः शब्दस्त्रैलोक्ये सचराचरे ।। ७ ।।
उत्सवास्तत्र जायंते ग्रामेग्रामे पुरेपुरे ।।
नाना यज्ञाः प्रवर्तंते नानाधर्मसमाश्रिताः ।। ८ ।।
।। युधिष्ठिर उवाच ।। ।।
कदापि तस्य स्थानस्य भंगो जातोथ वा न वा ।।
दैत्यैर्जितं कदा स्थानमथवा दुष्टराक्षसैः ।। ९ ।।
।। व्यास उवाच ।। ।।
साधु पृष्टं त्वया राजन्धर्मज्ञस्त्वं सदा शुचिः ।।
आदौ कलियुगे प्राप्ते यद्दत्तं तच्छृणुष्व भोः ।। 3.2.36.१० ।।
लोकानां च हितार्थाय कामाय च सुखाय च ।।
यज्ञं च कथयिष्यामि तत्सर्वं शृणु भूपते ।।११।।
इदानीं च कलौ प्राप्त आमो नामा वभूव ह ।।
कान्यकुब्जाधिपः श्रीमान्धर्मज्ञो नीतितत्परः ।। १२ ।।
शांतो दांतः सुशीलश्च सत्यधर्मपरायणः ।।
द्वापरांते नृपश्रेष्ठ अनागमे() कलौ युगे ।। १३ ।।
भयात्कलिविशेषेण अधर्मस्य भयादिभिः ।।
सर्वे देवाः क्षितिं त्यक्त्वा नैमिषारण्यमाश्रिताः ।। १४ ।।
रामोपि सेतुबंधं हि ससहायो गतो नृप ।। १५ ।।
।। युधिष्ठिर उवाच ।। ।।
कीदृशं हि कलौ प्राप्ते भयं लोके सुदुस्तरम् ।।
यस्मिन्सुरैः परित्यक्ता रत्नगर्भा वसुन्धरा ।। १६ ।।
।। व्यास उवाच ।। ।।
शृणुष्व कलिधर्मास्त्वं भविष्यंति यथा नृप ।।
असत्यवादिनो लोकाः साधुनिन्दापरायणाः ।। १७ ।।
दस्युकर्मरताः सर्वे पितृभक्तिविवर्जिताः ।।
स्वगोत्रदाराभिरता लौल्यध्यानपरायणाः ।। १८ ।।
ब्रह्मविद्वेषिणः सर्वे परस्परविरोधिनः ।।
शरणागतहंतारो भविष्यंति कलौ युगे ।। १९ ।।
वैश्याचाररता विप्रा वेदभ्रष्टाश्च मानिनः ।।
भविष्यंति कलौ प्राप्ते संध्यालोपकरा द्विजाः ।। 3.2.36.२० ।।
शांतौ शूरा भये दीनाः श्राद्धतर्पणवर्जिताः ।।
असुराचारनिरता विष्णुभक्तिविवर्जिताः ।। २१ ।।
परवित्ताभिलाषाश्च उत्कोच ग्रहणे रताः ।।
अस्नातभोजिनो विप्राः क्षत्रिया रणवर्जिताः ।। २२ ।।
भविष्यंति कलौ प्राप्ते मलिना दुष्टवृत्तयः ।।
मद्यपानरताः सर्वेप्यया ज्यानां हि याजकाः ।। २३ ।।
भर्तृद्वेषकरा रामाः पितृद्वेषकराः सुताः ।।
भ्रातृद्वेषकराः क्षुद्रा भविष्यंति कलौ युगे ।। २४ ।।
गव्यविक्रयिणस्ते वै ब्राह्मणा वित्ततत्पराः ।।
गावो दुग्धं न दुह्यंते संप्राप्ते हि कलौ युगे ।। २५ ।।
फलंते नैव वृक्षाश्च कदाचिदपि भारत ।।
कन्याविक्रय कर्त्तारो गोजाविक्रयकारकाः ।। २६ ।।
विषविक्रयकर्त्तारो रसविक्रयकारकाः ।।
वेदविक्रयकर्त्तारो भविष्यंति कलौ युगे ।। २७ ।।
नारी गर्भं समाधत्ते हायनैकादशेन हि ।।
एकादश्युपवासस्य विरताः सर्वतो जनाः ।। २८ ।।
न तीर्थसेवनरता भविष्यंति च वाडवाः ।।
बह्वाहारा भविष्यंति बहुनिद्रासमाकुलाः ।। २९ ।।
जिह्मवृत्तिपराः सर्वे वेदनिंदापरायणाः ।।
यतिनिंदापराश्चैव च्छद्मकाराः परस्परम् ।। 3.2.36.३० ।।
स्पर्शदोषभयं नैव भविष्यति कलौ युगे ।।
क्षत्रिया राज्यहीनाश्च म्लेच्छो राजा भविष्यति ।। ३१ ।।
विश्वासघातिनः सर्वे गुरुद्रोहरतास्तथा ।।
मित्रद्रोहरता राजञ्छिश्नोदरपरायणाः ।। ३२ ।।
एकवर्णा भविष्यंति वर्णाश्चत्वार एव च ।।
कलौ प्राप्ते महाराज नान्यथा वचनं मम ।। ३३ ।।
एतच्छ्रुत्वा गुरोरेव कान्यकुब्जाधिपो बली ।।
राज्यं प्रकुरुते तत्र आमो नाम्ना हि भूतले ।। ३४ ।।
सार्वभौमत्वमापन्नः प्रजापालनतत्परः ।।
प्रजानां कलिना तत्र पापे बुद्धिरजायत ।। ३५ ।।
वैष्णवं धर्ममुत्सज्य वौद्धधर्ममुपागताः ।।
प्रजास्तमनुवर्तिन्यः क्षपणैः प्रतिबोधिताः।।३६।।
तस्य राज्ञो महादेवी मामानाम्न्यतिविश्रुता ।।
गर्भं दधार सा राज्ञो सर्वलक्षणसंयुता ।। ३७ ।।
संपूर्णे दशमे मासि जाता तस्याः सुरूपिणी ।।
दुहिता समये राज्ञ्याः पूर्णचन्द्रनिभानना ।। ३८ ।।
रत्नगंगेति नाम्ना सा मणिमाणिक्यभूषिता ।।
एकदा दैवयोगेन देशांतरादुपागतः ।। ३९ ।।
नाम्ना चैवेंद्रसूरिर्वै देशेस्मिन्कान्यकुब्जके ।।
षोडशाब्दा च सा कन्या नोपनीता नृपात्मजा ।।3.2.36.४०।।
दास्यांतरेण मिलिता इन्द्रसूरिश्च जीविकः ।।
शाबरीं मंत्रविद्यां च कथयामास भारत ।।४१।।
एकचित्ताभवत्सा तु शूलिकर्मविमोहिता ।।
ततः सा मोहमापन्ना तत्तद्वाक्यपरायणा।।४२।।
क्षपणैर्बोधिता वत्स जैनधर्मपरायणा ।।
ब्रह्मावर्ताधिपतये कुंभीपालाय धीमते ।।४३।।
रत्नगंगां महादेवीं ददौ तामिति विक्रमी।।
मोहेरेकं ददौ तस्मै विवाहे दैवमोहितः ।। ४४ ।।
धर्मारण्यं समागत्य राजधानी कृता तदा ।।
देवांश्च स्थापयामास जैनधर्मप्रणीतकान् ।। ४५ ।।
सर्वे वर्णास्तथाभूता जैन धर्मसमाश्रिताः ।।
ब्राह्मणा नैव पूज्यंते न च शांतिकपौष्टिकम् ।। ४६ ।।
न ददाति कदा दानमेवं कालः प्रवर्तते ।।
लब्धशासनका विप्रा लुप्तस्वाम्या अहर्निशम् ।। ४७ ।।
समाकुलितचित्तास्ते नृपमामं समाययुः ।।
कान्यकुब्जस्थितं शूरं पाखण्डैः परिवेष्टितम् ।। ४८ ।।
कान्यकुब्जपुरं प्राप्य कतिभिर्वासरैर्नृप ।।
गंगोपकण्ठे न्यवसञ्छ्रांतास्ते मोढवाडवाः ।। ४९ ।।
चारैश्च कथितास्ते च नृपस्याग्रे समागताः ।।
प्रातराकारिता विप्रा आगता नृपसंसदि ।। 3.2.36.५० ।।
प्रत्युत्थानाभिवादादीन्न चक्रे सादरं नृपः ।।
तिष्ठतो ब्राह्मणान्सर्वान्पर्यपृच्छदसौ ततः ।। ५१ ।।
किमर्थमागता विप्राः किंस्वित्कार्यं ब्रुवंतु तत् ।। ५२ ।।
।। विप्रा ऊचुः ।। ।।
धर्मारण्यादिहायातास्त्वत्समीपं नराधिप ।।
राजंस्तव सुतायास्तु भर्ता कुमारपालकः ।। ५३ ।।
तेन प्रलुप्तं विप्राणां शासनं महदद्भुतम् ।।
वर्तता जैनधर्मेण प्रेरितेनेंद्रसूरिणा ।। ५४ ।।
।। राजोवाच ।। ।।
केन वै स्थापिता यूयमस्मिन्मोहेरके पुरे ।।
एतद्धि वाडवाः सर्वं ब्रूत वृत्तं यथातथम् ।। ५५ ।।
।। विप्रा ऊचुः ।। ।।
काजेशैः स्थापिताः पूर्वं धर्मराजेन धीमता ।।
कृता चात्र शुभे स्थाने रामेण च ततः पुरी ।। ५६ ।।
शासनं रामचंद्रस्य दृष्ट्वाऽन्यैश्चैव राजभिः ।।
पालितं धर्मतो ह्यत्र शासनं नृपसत्तम ।। ५७ ।।
इदानीं तव जामाता विप्रान्पालयते न हि ।।
तच्छ्रुत्वा विप्रवाक्यं तु राजा विप्रानथाब्रवीत् ।। ५८ ।।
यांतु शीघ्रं हि भो विप्राः कथयंतु ममाज्ञया ।।
राज्ञे कुमारपालाय देहि त्वं ब्राह्मणालयम् ।। ५९ ।।
श्रुत्वा वाक्यं ततो विप्राः परं हर्षमुपागताः ।।
जग्मुस्ततोऽतिमुदिता वाक्यं तत्र निवेदितम् ।। 3.2.36.६० ।।
श्वशुरस्य वचः श्रुत्वा राजा वचनमब्रवीत् ।।
।। कुमारपाल उवाच ।। ।।
रामस्य शासनं विप्राः पालयिष्याम्यहं नहि ।। ६१ ।।
त्यजामि ब्राह्मणान्यज्ञे पशुहिंसापरायणान् ।।
तस्माद्धि हिंसकानां तु न मे भक्तिर्भवेद्द्विजाः ।। ६२ ।। ।।
।। ब्राह्मणा ऊचुः ।। ।।
कथं पाखंडधर्मेण लुप्तशासनको भवान् ।।
पालयस्व नृपश्रेष्ठ मा स्म पापे मनः कृथाः ।। ६३ ।।
।। राजोवाच ।। ।।
अहिंसा परमो धर्मो अहिंसा च परं तपः ।।
अहिंसा परमं ज्ञानमहिंसा परमं फलम् ।। ६४ ।।
तृणेषु चैव वृक्षेषु पतंगेषु नरेषु च ।।
कीटेषु मत्कुणाद्येषु अजाश्वेषु गजेषु च ।। ६५।।
लूतासु चैव सर्पेषु महिष्यादिषु वै तथा ।।
जंतवः सदृशा विप्राः सूक्ष्मेषु च महत्सु च ।। ६६ ।।
कथं यूयं प्रवर्तध्वे विप्रा हिंसापरायणाः ।।
तच्छ्रुत्वा वज्रतुल्यं हि वचनं च द्विजोत्तमाः ।। ६७ ।।
प्रत्यूचुर्वाडवाः सर्वे क्रोधरक्तेक्षणा दृशा ।। ६८ ।। ।।
।। ब्राह्मणा ऊचुः ।। ।।
अहिंसा परमो धर्मः सत्यमेतत्त्वयोदितम् ।।
परं तथापि धर्मोऽस्ति शृणुष्वैकाग्रमानसः ।। ६९ ।।
या वेदविहिता हिंसा सा न हिंसेति निर्णयः ।।
शस्त्रेणाहन्यते यच्च पीडा जंतुषु जायते ।। 3.2.36.७० ।।
स एवाधर्म एवास्ति लोके धर्मविदां वर ।।
वेदमंत्रैविहन्यंते विना शस्त्रेण जंतवः ।। ७१ ।।
जंतुपीडाकरा नैव सा हिंसा सुखदायिनी ।।
परोपकारः पुण्याय पापाय परपीडनम् ।। ७२ ।।
वेदोदितां विधायापि हिंसां पापैर्न लिप्यते ।।
विप्राणां वचनं श्रुत्वा पुनर्वचनमब्रवीत् ।। ७३ ।।
।। राजोवाच ।। ।।
ब्रह्मादीनां परं क्षेत्रं धर्मारण्यमनुत्तमम् ।।
ब्रह्मविष्णु महेशाद्या नेदानीमत्र संति ते ।। ७४ ।।
न धर्मो विद्यते वात्र उक्तो रामः स मानुषः ।।
क्व वापि लंबपुछोऽसौ यो मुक्तो रक्षणाय वः ।। ७५ ।।
शासनं चेन्न दृष्टं वो नैव तत्पालयाम्यहम् ।।
द्विजाः कोपसमाविष्टा ददुः प्रत्युत्तरं तदा ।। ७६ ।।
।। द्विजा ऊचुः ।। ।।
रे मूढ त्वं कथं वेत्थ भाषसे मदलोलुपः ।।
स दैत्यानां विनाशाय धर्मसंरक्षणाय च ।। ७७ ।।
रामश्चतुर्भुजः साक्षान्मानुषत्वं गतो भुवि ।।
अगतीनां च गतिदः स वै धर्मपरायणः ।।
दयालुश्च कृपालुश्च जंतूनां परिपालकः ।। ७८ ।।
।। राजोवाच ।। ।।
कुतोऽद्य वर्त्तते रामः कुतो वै वायुनंदनः ।।
भ्रष्टाभ्रमिव ते सर्वे क्व रामो हनुमानिति ।। ७९ ।।
परंतु रामो हनुमान्यदि वर्त्तेत सर्वतः ।।
इदानीं विप्रसाहाय्य आगमिष्यति मे मतिः ।। 3.2.36.८० ।।
दर्शयध्वं हनूमंतं रामं वा लक्ष्मणं तथा ।।
यद्यस्ति प्रत्ययः कश्चित्स नो विप्राः प्रदर्श्यताम् ।।८१।।
उक्तं तै रामदेवेन दूतं कृत्वांजनीसुतम् ।।
चतुश्चत्वारिंशदधिकं दत्तं ग्रामशतं नृप ।। ६२ ।।
पुनरागत्य स्थानेऽस्मिन्दत्ता ग्रामास्त्रयोदश ।।
काश्यप्यां चैव गंगायां महादानानि षोडश ।। ८३ ।।
दत्तानि विप्रमुख्येभ्यो दत्ता ग्रामाः सुशोभनाः ।।
पुनः संकल्पिता वीर षट्पंचाशकसंख्यया ।। ८४ ।।
षट्त्रिंशच्च सहस्राणि गोभुजा जज्ञिरे वराः ।।
सपादलक्षा वणिजो दत्ता मांडलिकाभिधाः ।। ८५ ।।
तेनोक्तं वाडवाः सर्वे दर्शयध्वं हि मारुतिम् ।।
यस्याभिज्ञानमात्रेण स्थितिं पूर्वां ददाम्यहम् ।। ८६ ।।
विप्रवाक्यं करिष्यामि प्रत्ययो दर्श्यते यदि ।।
ततः सर्वे भविष्यंति वेदधर्मपरायणाः ।। ८७ ।।
अन्यथा जैनधर्मेण वर्त्तयध्वं हि सर्वशः ।।
नृपवाक्यं तु ते श्रुत्वा स्वेस्वे स्थाने समागताः ।। ८८ ।।
वाडवः खिन्नमनसः क्रोधेनांधीकृता भुवि ।।
निश्वासान्मुंचमानास्ते हाहेति प्रवदंति च ।।८९।।
दंतान्प्राघर्षयन्सर्वान्न्यपीडंश्च करैः करान् ।।
परस्परं भाषमाणाः कथं कुर्मो वयं त्वितः ।।3.2.36.९०।।
मिलित्वा वाडवाः सर्वे चक्रुस्ते मंत्रमुत्तमम् ।।
रामवाक्यं हृदि ध्यात्वा ध्यात्वा चैवांजनीसुतम्।।९१।।
द्विजमेलापकं चक्रुर्बाला वृद्धतमा अपि ।।
तेषां वृद्धतमो विप्रो वाक्यमूचे शुभं तदा ।। ९२ ।।
चतुःषष्टिश्च गोत्राणामस्माकं ये द्विसप्ततिः ।।
स्वस्वगोत्रस्यावटंका एकग्रामाभिभाषिणः ।। ९३ ।।
प्रयातु स्वस्ववर्गस्य एको ह्येको द्विजः सुधीः ।।
रामेश्वरं सेतु बंधं हनूमांस्तत्र विद्यते ।। ९४ ।।
सर्वे प्रयांतु तत्रैव रामपार्श्वे निरामयाः ।।
निराहारा जितक्रोधा मायया वर्जिताः पुनः ।। ९५ ।।
एकाग्रमानसाः सर्वे स्तुत्वा ध्यात्वा जपंतु तम् ।।
ततो दाशरथी रामो दयां कृत्वा द्विजन्मसु ।।९६।।
शासनं च प्रदास्यति अचलं च युगेयुगे ।।
महता तपसा तुष्टः प्रदास्यति समीहितम् ।। ९७ ।।
यस्य वर्गस्य यो विप्रो न प्रयास्यति तत्र वै ।।
स च वर्गात्परित्याज्यः स्थानधर्मान्न संशयः ।।९८।।
वणिग्वृत्ते न संबंधे न विवाहे कदाचन ।।
ग्रामवृत्ते न संबंधः सर्वस्थाने बहिष्कृताः ।। ९९ ।।
सभावाक्यं च तच्छ्रुत्वा तन्मध्ये वाडवः शुचिः ।।
वाग्मी दक्षः सुशब्दश्च त्रिरवैः श्रावयन्द्विजान् ।। 3.2.36.१०० ।।
प्रतिवाक्यं दत्ततालं तिष्ठन्नेतद्वचोऽब्रवीत् ।।
असत्यवादिनां यच्च पातकं परिनिंदके ।।
परदाराभिगमने परद्रोहरते नरे ।। १ ।।
मद्यपेषु च यत्पापं यत्पापं हेमहारिषु ।।
तत्पापं च भवेत्तस्य गमने यः पराङ्मुखः ।।
अथ किं बहुनोक्तेन यांतु सत्यं द्विजोत्तमाः ।। २ ।।
तच्छ्रुत्वा दारुणं वाक्यं गमनाय मनो दधे ।।
गच्छतस्तान्द्विजाञ्छ्रुत्वा राजा कुमारपालकः ।। ३ ।।
समाहूय कृषेः कर्म भिक्षाटनमथापि वा ।।
नानागोत्रेभ्यो ब्राह्मणेभ्यः प्रापयिष्ये न संशयः ।। ४ ।।
तच्छ्रुत्वा व्यथिताः सर्वे किं भविष्यत्यतः परम् ।।
तथा त्रीणि सहस्राणि प्रबंधं चक्रिरे तदा ।। ५ ।।
गमिष्यामो वयं सर्वे रामं प्रति न संशयः ।।
हस्ताक्षरप्रदानं वै अन्योन्यं तु कृतं द्विजैः ।। ६ ।।
कृतांजलिपुटा विप्रा वाक्यमेतदथाब्रुवन् ।।
नश्यतेऽत्र त्रयी विद्या त्रयीमूर्तिः प्रकुप्यति ।। ७ ।।
तस्मात्तत्रैव गंतव्यमष्टादशसहस्रकैः ।।
ततः स वणिजः सर्वान्समाहूय च गोभुजान् ।। ८ ।।
वाक्यमूचे नृपश्रेष्ठो वारयध्वं द्विजानिति ।। ९ ।।
।। व्यास उवाच ।।
न जैनधर्मे ये लिप्ता गोभुजा वणिगुत्तमाः ।।
वृत्तिभंगभयात्तत्र मौनमेव समाचरन् ।। 3.2.36.११० ।।
वारयाम कथं विप्रान्वह्निरूपान्दहंति ते ।।
शापाग्निना नरपते द्विजा मृत्युपरायणाः ।। ११ ।।
अडालयेषु ये जाताः शूद्रा आहूय तान्नृपः ।।
निवार्यंतामिति प्राह वाडवा गमनोद्यताः ।। ।। १२ ।।
तेषां मध्ये कतिपया जैनधर्मसमाश्रिताः ।।
गता वाडवपुंजेषु राजादेशान्निवारणे ।। १३ ।।
।। केचिच्छ्रूद्रा ऊचुः ।। ।।
क्व रामो लक्ष्मणोपेतः क्व च वायुसुतो बली ।।
वर्तमानेन कालेन वक्तव्यं द्विजसत्तमाः ।। १४ ।।
व्याघ्रसिंहाकुले दुर्गे वने वनगजाश्रिते ।।
परित्यज्य प्रियान्प्राणान्पुत्रान्दारान्निकेतनान्।। १५ ।।
किमर्थं गम्यते विप्रा राज्ये वै दुष्टशासने ।।
तच्छ्रुत्वा वाडवाः केचिद्वाक्येन मनसाऽस्मरन् ।। १६ ।।
पंचदशसहस्रास्ते वाडवा नृपसत्तमात् ।।
भयाल्लोभाच्च दानाच्च तत्सर्वं भवतामिति ।। १७ ।।
वृत्तोपकल्पनेनैव करिष्यामः कदाचन ।।
कृषि कर्म करिष्यामो भिक्षाटनमथापि वा ।। १८ ।।
ततश्च ते पंचदशसहस्रा द्विजसत्तमाः ।।
दारुणं वाक्यमूचुस्तान्यांतु चान्ये यथोचितम् ।। १९ ।।
शासनं भवतामस्तु रामदत्तं न संशयः ।।
त्रयीविद्यास्तु विख्याताः सर्वे वाडवपुंगवाः ।। 3.2.36.१२० ।।
सहस्राणि च त्रीण्येव त्रैविद्या अभवन्ध्रुवम्।।।। २१ ।।
।। राजोवाच ।। ।।
चतुर्धांशेन राज्यं च किंचिद्दत्ता वसुन्धरा ।।
तस्माच्चतुर्विधेत्येवं ज्ञातिबन्धमतः परम् ।। २२ ।।
च्यवनो दास्यते कन्यां यूयं कन्यामवाप्नुत ।।
न वृत्तिर्न च संबंधो भवतां स्यात्कदापि वा ।। २३ ।।
इति तस्य वचः श्रुत्वा त्रयीविद्याश्च वाडवाः ।।
स्वेस्वे स्थाने गताः सर्वे संकेतादनिवृत्त्य च ।। २४ ।।
पंचदश सहस्राणि ततस्तु द्विजपुंगवाः ।।
यथागतं गताः सर्वे चातुर्विद्या द्विजोत्तमाः ।। २५ ।।
तद्दिने अतिवाह्याथ चिंताविष्टेन चेतसा ।।
वार्यमाणाः स्वपुत्रैस्ते दारैश्च विनयान्वितैः ।। २६ ।।
एकाग्रमानसा सर्वे न निद्रामुपलेभिरे ।।
ब्राह्मे मुहूर्ते चोत्थाय मायां त्यक्ता हि लौकिकीम् ।। २७ ।।
परित्यज्य प्रियान्पुत्रान्दारान्सनिलयानपि ।।
ग्रामोपांतेषु मिलिताः सर्वे वाडवपुंगवाः ।। २८ ।।
सहस्राणि तदा त्रीणि कृतनित्याह्निकक्रियाः ।।
विप्रेभ्यो दक्षिणां दत्त्वा संपूज्य कुलमातरम् ।। २९ ।।
विप्रसंघविनाशाय दक्षिणद्वारसंस्थितः ।।
सिंदूरपुष्पमालाभिः पूजितो गणनायकः।।3.2.36.१३०।।
पूजितो बकुलस्वामी सूर्य- सर्वार्थसाधकः।।
आदराच्च महाशक्तिः श्रीमाता पूजिता तथा।।३१।।
शांतां चैव नमस्कृत्य ज्ञानजां गोत्रमातरम्।।
गमनेनोद्यमानास्ते परं हर्षमुपाययुः।।३२।।
चातुर्विद्या द्विजाश्चैव पुनरामंत्र्य तान्प्रति।।
पप्रच्छुश्च मुहुः सर्वं समागमनकारणम् ।। ३३ ।।
।। विप्रा ऊचुः ।। ।।
न गंतव्यं भवद्भिर्वै गत्वा वाऽऽयांतु सत्वराः ।। ३४ ।।
यथा रामप्रदत्तं हि उपकल्पयसेऽचिरात् ।।
श्रुत्वा पुनरथोचुस्ते चातुर्विद्या द्विजोत्तमाः ।। ३५ ।।
न स्थानेन द्विजैर्वापि न च वृत्त्यां कथंचन ।।
वयं नैवागमिष्यामः कथनीयं न वै पुनः ।। ३६ ।।
रघूद्वहेन दत्ता वै वृत्तिर्वो द्विजसत्तमाः ।।
तां वृत्तिं प्रति यास्यामो जपहोमार्चनादिभिः ।। ३७ ।।
ते पंचदशसाहस्राः पुनस्तानूचुरादरात् ।।
अस्माभिरत्र स्थातव्यमग्निसेवार्थतत्परैः ।। ३८ ।।
युष्माभिस्तत्र गंतव्यं सर्वेषां कार्यसिद्धये ।।
अन्योन्यं सर्वसाहाया वृत्तिं याम न संशयः ।। ३९ ।।
त्यक्तस्वकीयवचना वृत्तिहीना भविष्यथ ।।
ततस्तन्मध्यतः कश्चिच्चातुर्विद्य उवाच ह।।3.2.36.१४०।।
चातुर्विद्य उवाच।।
पूर्वं हि वृत्तिमस्माकं रामो वै दत्तवान्द्विजाः।।
चातुर्विद्या महासत्त्वाः स्वधर्मप्रतिपालकाः ।। ४१ ।।
याजनाध्ययनायुक्ताः काजेशेन विनिर्मिताः ।।
दानं दत्त्वा तु रामेण उक्तं हि भवतां पुनः ।। ४२ ।।
स्थानं त्यक्त्वा न गंतव्यमित्थं हि नियमः कृतः ।।
आपत्काले तु स्मर्तव्यो वायुपुत्रो महाबलः ।। ४३ ।।
इति रामेण पूर्वं हि स्वे स्थाने स्थापितास्तदा ।।
राम वाक्यमन्यथा तत्कृत्वा गच्छेत्कथं पुनः ।। ४४ ।।
तस्माद्युष्मान्वयं ब्रूमो गच्छत कार्यसिद्धये ।।
भवतां कार्यसिद्ध्यर्थं वयं होमार्चनादिभिः ।। ४५ ।।
झटिति कार्यसिद्धिः स्यात्सत्यं सत्यं न संशयः ।।
इति वाक्यं ततः श्रुत्वा ते द्विजा गमनं प्रति ।। ४६ ।।
प्रस्थानं च विधायादौ गमनाय मनो दधुः ।।
त्रिसाहस्रास्तदा तस्मात्प्रस्थिता द्विजसत्तमाः ।। ४७ ।।
देशाद्देशांतरं गत्वा वनाच्चैव वनांतरम् ।।
तीर्थेतीर्थे कृतश्राद्धाः सुसंत सत्यव्रतपरायणाः ।।
ते गता दूरमध्वानं हनुमद्दर्शनार्थिनः।।3.2.36.१५०।।
संध्यामुपासते नित्यं त्रिकालं चैकमानसाः।।
एवं तु गच्छतां तेषां शकुना अभवच्छुभाः ।। ५१ ।।
एवं तु गच्छतां तेषां पाथेयं त्रुटितं तदा ।।
श्रांता ग्लानिं गताः सर्वे पदं परममास्थिताः ।। ५२ ।।
क्रमित्वा कियती भूमिं पदं गंतुं न तु क्षमाः ।।
मनसा निश्चयं कृत्वा दृढीकृत्य स्वमानसम् ।। ५३ ।।
हनtमंतमदृष्ट्वैव न यास्यामो वयं गृहान् ।। त्रै
विद्यास्तु गतास्तत्र यत्र रामेश्वरो हरिः ।। ५४ ।।
दृढव्रताः सत्यपराः कन्दमूलफलाशनाः ।।
ध्यायंतो रामरामेति हनूमंतेति वै पुनः ।। ५५ ।।
गृहीत्वा नियमं तेऽपि त्यक्त्वा चान्नं तथोदकम् ।।
तृषार्ताश्च क्षुधार्ताश्च ययुर्व्रतपरायणाः ।। ५६ ।।
एवं तु क्लिश्यमानानां द्विजानां भक्तिभाजनः ।।
उद्विग्नमानसो रामो हनूमंतमथाब्रवीत् ।। ५७ ।।
शीघ्रं गच्छ द्विजार्थे त्वं पवनात्मज धर्मवित् ।।
क्लिश्यंते वाडवाः सर्वे धर्मारण्यनिवासिनः ।। ५८ ।।
दह्यते मानसं मेऽद्य नान्यथा शान्तिरस्ति मे ।।
विप्राणां दुःखकर्त्ता च शास्तव्यो नात्र संशयः ।। ५९ ।।
येन वै दुःखिता विप्रास्तेनाहं दुःखितः कपे ।।3.2.36.१६०।।
रामस्य वचनं श्रुत्वा नमस्कृत्य च राघवम्।।
कृपया परयाविष्टः प्रादुरासीद्धरीश्वरः।। ।।६१।।
वृद्धब्राह्मणरूपेण परीक्षार्थं द्विजन्मनाम्।।
उवाच परया भक्त्या ब्राह्मणाञ्छ्रमदुर्बलान्।।६२।।
कृतांजलिपुटो भूत्वा करान्मुक्त्वा कमंडलुम् ।।
सर्वान्प्रत्यभिवाद्याथ वचनं चेदमब्रवीत् ।। ६३ ।।
कुतः स्थानादिह प्राप्ता गंतुकामाश्च वै कुतः ।।
किमर्थं वै भवद्भिश्च गम्यते दारुणं वनम् ।। ६४।।
।। विप्रा ऊचुः ।। ।।
धर्मारण्यात्समायाता निजदुःखं निवेदितुम् ।।
रामस्य दर्शनार्थं हि गंतुकामा वयं द्विजाः ।। ६५ ।।
सेतुबंधं महातीर्थं सर्वकामप्रदायकम्।।
नियमस्थाः क्षीणदेहा रामं द्रष्टुं समुत्सुकाः ।। ६६ ।।
यत्र रामेश्वरो देवः साक्षाद्वायुसुतः कपिः ।।
तच्छ्रुत्वा स द्विजः प्राह क्व रामः क्व च वायुजः ।। ६७ ।।
क्व सेतुबंधरामेशो दूराद्दूरतरो द्विजाः ।।
व्याघ्रसिंहाकुलं चोग्रं वनं घोरतरं महत्।।
गत्वा यस्मान्न वर्तंते तदुग्रमनुजीविनः ।।
निवर्तध्वं महाभागा यदि कार्यं हि मद्वचः ।। ६९ ।।
अथवा गम्यतां विप्राश्चिरं जीव सुखी भव ।।
वृद्धस्य वाक्यं तच्छ्रुत्वा वाडवाश्चैकमानसाः ।।3.2.36.१७०।।
विप्र गच्छामहे सर्वे रामपार्श्वमसंशयः ।।
म्रियेत यदि मार्गेऽस्मिन्रामलोक मवाप्नुय्रात् ।। ७१ ।।
जीवन्वृत्तिमवाप्नोति रामदेव न संशयः ।।
अन्यथा शरणं नास्ति अस्माकं राघवं विना ।। ७२ ।।
इत्युक्त्वा निर्गताः सर्वे रामदर्शनतत्पराः ।।
दिनांतमतिवाह्याथ प्रभाते विमले पुनः ।। ७३ ।।
हनुमान्ब्रह्मरूपी स वृद्धः पूर्वगुणान्वितः ।।
कमंडलुधरो धीमानभिवादनत त्परः ।। ७४ ।।
कुत्रस्थानादिह प्राप्ताः सर्वे यूयं हि वाडवाः ।।
कुत्रास्ति वा महालाभो विवाहोत्सव एव वा ।। ७५ ।।
इति तस्य वचः श्रुत्वा वाडवा विस्मयं गताः ।।
प्रणामपूर्वां विज्ञप्तिं कथयामासुरादृताः ।। ७६ ।।
अस्माकं तु पुरा वृत्तं महदाश्चर्यकारकम् ।।
भूमिदेव शृणुष्व त्वं दयालुर्दृश्यसे यतः ।। ७७ ।।
आदौ सृष्टिसमारंभे स्थापिता केशवेन च ।।
शिवेन ब्रह्मणा चैव त्रिमूर्तिस्थापिता वयम् ।। ७८ ।।
श्री रामेण ततः पश्चाज्जीर्णोद्धारेण स्थापिताः ।।
ग्रामाणां वेतनं दत्तं हरिराजेन चादरात्।।७९।।
चतुश्चत्वारिंशदधिकचतुःशतमितात्मनाम् ।।
ग्रामास्त्रयोदशार्चार्थं सीतापुरसमन्विताः।।। ।।3.2.36.१८०।।
षट्त्रिंशच्च सहस्राणि वणिजो द्विजपालने ।।
गोभूजसंज्ञास्ते शूद्रास्तेभ्यः सपादलक्षकाः ।। ८१ ।।
ते च जातास्त्रिधा तात गोभूजाडालजा स्तथा ।।
मांडलीयास्तथा चैते त्रिविधाश्च मनोरमाः ।।८२।।
वृत्त्यर्थं तेन दत्ता वै ह्यनर्घ्या रत्नकोटयः ।।
तदा ते मोढ १८००० गोभूजा१८० ०० ।
मांडलीया १२५००० अडालजाः १८००० ।।८३।।
अधुना वाडवश्रेष्ठ आमोनाम महीपतिः ।।
शासनं रामचंद्रस्य न मानयति दुर्मतिः ।।८४।।।
जामाता तस्य दुष्टो वै नाम्ना कुमारपालकः ।।
पाषंडैर्वेंष्टितो नित्यं कलिधर्मेण संमतः ।। ८५ ।।
इन्द्रसूत्रेण जैनेन प्रेरितो बौद्धधर्मिणा ।।
शासनं तेन लुप्तं हि रामदत्तं न संशयः ।। ८६ ।।
वाणिजस्तादृशाः केऽपि तन्मनस्का बभूविरे ।।
निषेधयंति रामं ते हनुमंतं महामतिम् ।।८७।।
प्रत्ययं तु विना विप्रा न दास्यामीति निश्चितम् ।।
तं ज्ञात्वा तु इमे विप्रा रामं शरणमाययुः ।।८८।।
हनुमंतं महावीरं रामशासनपालकम् ।।
तस्माद्गच्छामहे सर्वे रामं प्रति महामते ।। ८९ ।।
आंजनेयो यदास्माकं न दास्यति समीहितम् ।।
अनाहारव्रतेनैव प्राणांस्त्यक्ष्यामहे वयम् ।। 3.2.36.१९० ।।
अस्माभिस्ते विशेषेण कथितं परिपृच्छते ।।
स्नेहभावं विचिंत्याशु निजवृत्तिं प्रकाशय ।।९१।।
हनुमानुवाच ।।
प्राप्ते कलियुगे विप्राः क्व देवदर्शनं भवेत् ।।
निवर्त्तध्वं हि विप्रेन्द्रा यदीच्छथ सुखं महत् ।। ९२ ।।
व्याघ्रसिंहाकुले शून्ये वने वनगजाश्रिते ।।
बहुदावसमाविष्टे प्रवेष्टुं नैव शक्यते ।। ९३ ।।
।। विप्रा ऊचुः ।। ।
अतीते दिवसे विप्र एकं कथितवानिदम् ।।
अद्यैव त्वं समागम्य एवमेव प्रभाषसे ।। ९४ ।।
कस्त्वं वाडवरूपेण रामो वाप्यथ वायुजः ।।
सत्यं कथय नः स्वास्मिन्दयां कृत्वा महाद्विज ।। ९५ ।।
हनुमान्कथयामास गोपितं यद्द्विजाग्रतः ।।
हनुमानित्यहं विप्रा बुध्यध्वं निश्चिता हि माम् ।। ९६ ।।
स्वरूपं प्रकटीकृत्य लांगूलं दर्शयन्महत् ।। ९७ ।। ।।
हनुमानुवाच ।। ।।
अयमंभोनिधिः साक्षात्सेतुबंधो मनोरमः ।।
अयं रामेश्वरो देवो गर्भवासविनाशकृत् ।। ९८ ।।
इयं तु नगरी श्रेष्ठा लंकानामेति विश्रुता ।।
यत्र सीता मया प्राप्ता रामशोकापहारिणी ।। ९९ ।।
तर्जन्यग्रे द्विजश्रेष्ठा अगम्या मां विना परैः ।।
सा सुवर्णमयी भाति यस्यां राज्ये विभीषणः ।। 3.2.36.२०० ।।
स्थापितो रामदेवेन सेयं लंका महापुरी ।।
नियमस्थैः साधुवृंदैस्तीर्थयात्राप्रसंगतः ।। २०१ ।।
आनीय गंगासलिलं रामेशमभिषिच्य च ।।
क्षिप्ता एते महाभारा दृश्यंते सागरांतरे ।।२०२।।।
निष्पापास्तेन संजाताः साधवस्ते दृढव्रताः ।।
नूनं पुण्योदये वृद्धिः पापे हानिश्च जायते ।। २०३ ।।
स्थानभ्रष्टाः कृताः पूर्वं चातुर्विद्या द्विजातयः ।।
जीर्णोद्धारेण रामेण स्थापिताः पुनरेव हि ।।
पूर्वजन्मनि भो विप्रा हरिपूजा कृता मया ।। २०४ ।।
सांप्रतं निश्चला भक्तिर्भवत्सेवा हि दृश्यते ।।
तेन पुण्यप्रभावेण तुष्टो दास्यामि वो वरम् ।। २०५ ।।
धन्योहं कृतकृत्योहं सुभाग्योहं धरातले ।।
अद्य मे सफलं जन्म जीवितं च सुजीवितम् ।। २०६ ।।
यदहं ब्राह्मणानां च प्राप्तवांश्चरणांतिकम् ।। २०७ ।।
।। व्यास उवाच ।। ।।
दृष्ट्वैव हनुमन्तं ते पुलकांकितविग्रहाः ।।
सगद्गदं यथोचुस्ते वाक्यं वाक्यविशारदाः ।। २०८ ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे धर्मारण्य माहात्म्ये हनुमत्समागमो नाम षट्त्रिंशोऽध्यायः।।३६।।