स्कन्दपुराणम्/खण्डः ३ (ब्रह्मखण्डः)/धर्मारण्य खण्डः/अध्यायः ३०

विकिस्रोतः तः
Jump to navigation Jump to search


।। व्यास उवाच ।। ।।
पुरा त्रेतायुगे प्राप्ते वैष्णवांशो रघूद्वहः ।।
सूर्यवंशे समुत्पन्नो रामो राजीवलोचनः ।। १ ।।
स रामो लक्ष्मणश्चैव काकपक्षधरावुभौ ।।
तातस्य वचनात्तौ तु विश्वामित्रमनुव्रतौ ।। २ ।।
यज्ञसंरक्षणार्थाय राज्ञा दत्तौ कुमारकौ ।।
धनुःशरधरौ वीरौ पितुर्वचनपालकौ ।। ३ ।।
पथि प्रव्रजतो यावत्ताडकानाम राक्षसी ।।
तावदागम्य पुरतस्तस्थौ वै विघ्नकारणात् ।। ।। ४ ।।
ऋषेरनुज्ञया रामस्ताडकां समघातयत्।।
प्रादिशच्च धनुर्वेदविद्यां रामाय गाधिजः ।।५।।
तस्य पादतलस्पर्शाच्छिला वासवयोगतः ।।
अहल्या गौतमवधूः पुनर्जाता स्वरूपिणी ।। ६ ।।
विश्वामित्रस्य यज्ञे तु संप्रवृत्ते रघूत्तमः ।।
मारीचं च सुबाहुं च जघान परमेषुभिः ।।७।।
ईश्वरस्य धनुर्भग्नं जनकस्य गृहे स्थितम् ।।
रामः पंचदशे वर्षे षड्वर्षां चैव मैथिलीम् ।। ८ ।।
उपयेमे तदा राजन्रम्यां सीतामयोनिजाम् ।।
कृतकृत्यस्तदा जातः सीतां संप्राप्य राघवः ।। ९ ।।
अयोध्यामगमन्मार्गे जामदग्न्यमवेक्ष्य च ।।
संग्रामोऽभूत्तदा राजन्देवानामपि दुःसहः ।। 3.2.30.१० ।।
ततो रामं पराजित्य सीतया गृहमागतः ।।
ततो द्वादशवर्षाणि रेमे रामस्तया सह ।। ११ ।।
एकविंशतिमे वर्षे यौवराज्यप्रदायकम् ।।
राजानमथ कैकेयी वरद्वयमयाच त ।। १२ ।।
तयोरेकेन रामस्तु ससीतः सहलक्ष्मणः ।।
जटाधरः प्रव्रजतां वर्षाणीह चतुर्दश ।। १३ ।।
भरतस्तु द्वितीयेन यौवराज्याधिपोस्तु मे ।।
मंथरावचनान्मूढा वरमेतमयाचत ।। १४ ।।
जानकीलक्ष्मणसखं रामं प्राव्राजयन्नृपः ।।
त्रिरात्रमुदकाहारश्चतुर्थेह्नि फलाशनः ।। १५ ।।
पञ्चमे चित्रकूटे तु रामो वासमकल्पयत् ।।
तदा दशरथः स्वर्गं गतो राम इति ब्रुवन् ।। १६ ।।
ब्रह्मशापं तु सफलं कृत्वा स्वर्गं जगाम किम् ।।
ततो भरत शत्रुघ्नौ चित्रकूटे समागतौ ।। १७ ।।
स्वर्गतं पितरं राजन्रामाय विनिवेद्य च ।।
सांत्वनं भरतस्यास्य कृत्वा निवर्तनं प्रति ।। १८ ।।
ततो भरत शत्रुघ्नौ नंदिग्रामं समागतौ ।।
पादुकापूजनरतौ तत्र राज्यधरावुभौ ।। १९ ।।
अत्रिं दृष्ट्वा महात्मानं दण्डकारण्यमागमत ।।
रक्षोगणवधारम्भे विराधे विनिपातिते ।। 3.2.30.२० ।।
अर्द्धत्रयोदशे वर्षे पंचवट्यामुवास ह ।।
ततो विरूपयामास शूर्पणखां निशाचरीम् ।।
वने विचरतरतस्य जानकीसहितस्य च ।। २१ ।।
आगतो राक्षसो घोरः सीतापहरणाय सः ।।
ततो माघासिताष्टम्यां मुहूर्ते वृन्दसंज्ञके ।। २२ ।।
राघवाभ्यां विना सीतां जहार दश कन्धरः ।।
मारीचस्याश्रमं गत्वा मृगरूपेण तेन च ।। २३ ।।
नीत्वा दूरं राघवं च लक्ष्मणेन समन्वितम् ।।
ततो रामो जघानाशु मारीचं मृगरू पिणम् ।। २४ ।।
पुनः प्राप्याश्रमं रामो विना सीतां ददर्श ह ।।
तत्रैव ह्रियमाणा सा चक्रंद कुररी यथा ।। २५ ।।
रामरामेति मां रक्ष रक्ष मां रक्षसा हृताम्।।
यथा श्येनः क्षुधायु्क्तः क्रन्दंतीं वर्तिकां नयेत् ।। २६ ।।
तथा कामवशं प्राप्तो राक्षसो जनकात्मजाम् ।।
नयत्येष जनकजां तच्छ्रुत्वा पक्षिराट् तदा ।। २७ ।।
युयुधे राक्षसेंद्रेण रावणेन हतोऽपतत् ।।
माघासितनवम्यां तु वसंतीं रावणालये ।। २८ ।।
मार्गमाणौ तदा तौ तु भ्रातरौ रामलक्ष्मणौ ।। २९ ।।
जटायुषं तु दृष्ट्वैव ज्ञात्वा राक्षससंहृताम् ।।
सीतां ज्ञात्वा ततः पक्षी संस्कृतस्तेन भक्तितः ।। 3.2.30.३० ।।
अग्रतः प्रययौ रामो लक्ष्मणस्तत्पदानुगः ।।
पंपाभ्याशमनुप्राप्य शबरीमनुगृह्य च ।।३१।।
तज्जलं समुपस्पृश्य हनुमद्दर्शनं कृतम् ।।
ततो रामो हनुमता सह सख्यं चकार ह ।। ३२ ।।
ततः सुग्रीवमभ्येत्य अहनद्वालिवानरम् ।।
प्रेषिता रामदेवेन हनुमत्प्रमुखाः प्रियाम् ।। ३३ ।।
अंगुलीयकमादाय वायुसूनुस्तदागतः ।।
संपातिर्दशमे मासि आचख्यौ वानराय ताम् ।।३४।।
ततस्तद्वचनादब्धिं पुप्लुवे शतयोजनम् ।।
हनुमान्निशि तस्यां तु लंकायां परितोऽचिनोत्।।३५।।
तद्रात्रिशेषे सीताया दर्शनं तु हनूमतः ।।
द्वादश्यां शिंशपावृक्षे हनुमान्पर्यवस्थितः ।। ३६ ।।
तस्यां निशायां जानक्या विश्वासायाह संकथाम् ।।
अक्षादिभिस्त्रयोदश्यां ततो युद्धमवर्त्तत ।। ३७ ।।
ब्रह्मास्त्रेण त्रयोदश्यां बद्धः शक्रजिता कपिः ।।
दारुणानि च रूक्षाणि वाक्यानि राक्षसाधिपम् ।। ।। ३८ ।।
अब्रवीद्वायुसूनुस्तं बद्धो ब्रह्मास्त्रसंयुतः ।।
वह्निना पुच्छयुक्तेन लंकाया दहनं कृतम् ।। ३९ ।।
पूर्णिमायां महेंद्राद्रौ पुनरागमनं कपेः ।।
मार्गशीर्षप्रतिपदः पंचभिः पथि वासरैः ।। 3.2.30.४० ।।
पुनरागत्य वर्षेह्नि ध्वस्तं मधुवनं किल ।।
सप्तम्यां प्रत्यभिज्ञानदानं सर्वनिवेदनम् ।। ४१ ।।
मणिप्रदानं सीतायाः सर्वं रामाय शंसयत् ।।
अष्टम्युत्तरफाल्गुन्यां मुहूर्ते विजयाभिधे ।। ४२ ।।
मध्यं प्राप्ते सहस्रांशौ प्रस्थानं राघवस्य च ।।
रामः कृत्वा प्रतिज्ञां हि प्रयातुं दक्षिणां दिशम्।। ४३ ।।
तीर्त्वाहं सागरमपि हनिष्ये राक्षसेश्वरम् ।।
दक्षिणाशां प्रयातस्य सुग्रीवोऽथाभव त्सखा ।। ४४ ।।
वासरैः सप्तभिः सिंधोस्तीरे सैन्यनिवेशनम् ।।
पौषशुक्लप्रतिपदस्तृतीयां यावदंबुधौ ।।
उपस्थानं ससैन्यस्य राघवस्य बभूव ह।।४५।।
विभीषणश्चतुर्थ्यां तु रामेण सह संगतः ।।
समुद्रतरणार्थाय पंचम्यां मंत्र उद्यतेः ।। ४६ ।।
प्रायोपवेशनं चक्रे रामो दिनचतुष्टयम् ।।
समुद्राद्वरलाभश्च सहोपायप्रदर्शनः ।। ४७ ।।
सेतोर्दशम्यामारंभस्त्रयोदश्यां समापनम् ।।
चतुर्दश्यां सुवेलाद्रौ रामः सेनां न्यवे शयत् ।। ४८ ।।
पूर्णिमास्या द्वितीयायां त्रिदिनैः सैन्यतारणम् ।।
तीर्त्वा तोयनिधिं रामः शूरवानरसैन्यवान् ।। ४९ ।।
रुरोध च पुरीं लंकां सीतार्थं शुभलक्षणः ।।
तृतीयादिदशम्यंतं निवेशश्च दिनाष्टकः ।। 3.2.30.५० ।।
शुकसारणयोस्तत्र प्राप्तिरेकादशीदिने ।।
पौषासिते च द्वादश्यां सैन्यसंख्यानमेव च ।। ५१ ।।
शार्दूलेन कपींद्राणां सारासारोपवर्णनम् ।।
त्रयोदश्याद्यमांते च लंकायां दिवसैस्त्रिभिः ।। ५२ ।।
रावणः सैन्यसं ख्यानं रणोत्साहं तदाऽकरोत् ।।
प्रययावंगदो दौत्ये माघशुक्लाद्यवासरे ।। ५३ ।।
सीतायाश्च तदा भर्तुर्मायामूर्धादिदर्शनम् ।।
माघशुक्लद्वितीया यां दिनैः सप्तभिरष्टमीम् ।। ५४ ।।
रक्षसां वानराणां च युद्धमासीच्च संकुलम् ।।
माघशुक्लनवम्यां तु रात्राविंद्रजिता रणे ।। ५५ ।।
रामलक्ष्मणयोर्ना गपाशबंधः कृतः किल ।।
आकुलेषु कपीशेषु हताशेषु च सर्वशः ।। ५६ ।।
वायूपदेशाद्गरुडं सस्मार राघवस्तदा ।।
नागपाशविमोक्षार्थं दशम्यां गरु डोऽभ्यगात् ।। ५७ ।।
अवहारो माघशुक्लैस्यैकादश्यां दिनद्वयम् ।।
द्वादश्यामांजनेयेन धूम्राक्षस्य वधः कृतः ।। ५८ ।।
त्रयोदश्यां तु तेनैव निहतोऽकंपनो रणे ।।
मायासीतां दर्शयित्वा रामाय दशकंधरः ।। ५९ ।।
त्रासयामास च तदा सर्वान्सैन्यगतानपि ।।
माघशुक्लचतुर्द्दश्यां यावत्कृष्णादिवासरम् ।। 3.2.30.६० ।।
त्रिदिनेन प्रहस्तस्य नीलेन विहितो वधः ।।
माघकृष्णद्वितीयायाश्चतुर्थ्यंतं त्रिभिर्दिनैः ।। ६१ ।।
रामेण तुमुले युद्धे रावणो द्रावितो रणात् ।।
पञ्चम्या अष्टमी यावद्रावणेन प्रबोधितः ।। ६२ ।।
कुंभकर्णस्तदा चक्रेऽभ्यवहारं चतुर्दिनम् ।।
कुम्भकर्णोकरोद्युद्धं नवम्यादिचतुर्दिनैः ।। ६३ ।।
रामेण निहतो युद्धे बहुवानरभक्षकः ।।
अमावास्यादिने शोकाऽभ्यवहारो बभूव ह ।। ६४ ।।
फाल्गुनप्रतिपदादौ चतुर्थ्यंतैश्चतुर्दिनैः ।।
नरांतकप्रभृतयो निहताः पञ्च राक्षसाः ।। ६५ ।।
पंचम्याः सप्तमीं यावदतिकायवधस्त्र्यहात् ।।
अष्टम्या द्वादशीं यावन्निहतो दिनपंचकात् ।। ६६ ।।
निकुम्भकुम्भौ द्वावेतौ मकराक्षश्चतुर्दिनैः ।।
फाल्गुनासितद्वितीयाया दिने वै शक्रजिज्जितः ।। ६७ ।।
तृतीयादौ सप्तम्यंतदिनपञ्चकमेव च ।।
ओषध्यानयवैयग्र्यादवहारो बभूव ह ।। ६८ ।।
अष्टम्यां रावणो मायामैथिलीं हतवान्कुधीः।।
शोकावेगात्तदा रामश्चक्रे सैन्यावधारणम् ।। ६९ ।।
ततस्त्रयोदशीं यावद्दिनैः पंचभिरिंद्रजित् ।।
लक्ष्मणेन हतो युद्धे विख्यातबलपौरुषः ।। 3.2.30.७० ।।
चतुर्द्दश्यां दशग्रीवो दीक्षामापावहारतः ।।
अमावास्यादिने प्रागाद्युद्धाय दशकंधरः ।। ७१ ।।
चैत्रशुक्लप्रतिपदः पंचमीदिनपंचके ।।
रावणो युध्यमानो ऽभूत्प्रचुरो रक्षसां वधः ।। ७२ ।।
चैत्रशुक्लाष्टमीं यावत्स्यंदनाश्वादिसूदनम् ।।
चैत्रशुक्लनवम्यां तु सौमित्रेः शक्तिभेदने ।। ७३ ।।
कोपाविष्टेन रामेण द्रावितो दशकंधरः ।।
विभीषणोपदेशेन हनुमद्युद्धमेव च ।। ७४ ।।
द्रोणाद्रेरोषधीं नेतुं लक्ष्मणार्थमुपागतः ।।
विशल्यां तु समादाय लक्ष्मणं तामपाययत् ।। ७५ ।।
दशम्यामवहारोऽभूद्रात्रौ युद्धं तु रक्षसाम् ।।
एकादश्यां तु रामाय रथो मातलिसारथिः ।। ७६ ।।
प्राप्तो युद्धाय द्वादश्यां यावत्कृष्णां चतुर्दशीम् ।।
अष्टादशदिने रामो रावणं द्वैरथेऽवधीत् ।। ७७ ।।
संस्कारा रावणादीनाममावा स्यादिनेऽभवन् ।।
संग्रामे तुमुले जाते रामो जयमवाप्तवान् ।। ७८ ।।
माघशुक्लद्वितीयादिचैत्रकृष्णचतुर्द्दशीम् ।।
सप्ताशीतिदिनान्येवं मध्ये पंवदशा हकम् ।। ७९ ।।
युद्धावहारः संग्रामो द्वासप्ततिदिनान्यभूत् ।।
वैशाखादि तिथौ राम उवास रणभूमिषु ।।
अभिषिक्तो द्वितीयायां लंकाराज्ये विभी षणः ।। 3.2.30.८० ।।
सीताशुद्धिस्तृतीयायां देवेभ्यो वरलंभनम् ।।
दशरथस्यागमनं तत्र चैवानुमोदनम् ।। ८१ ।।
हत्वा त्वरेण लंकेशं लक्ष्मणस्याग्रजो विभुः।।।
गृहीत्वा जानकीं पुण्यां दुःखितां राक्षसेन तु ।। ८२ ।।
आदाय परया प्रीत्या जानकीं स न्यवर्तत ।।
वैशाखस्य चतुर्थ्यां तु रामः पुष्पकमा श्रितः ।। ८३ ।।
विहायसा निवृत्तस्तु भूयोऽयोध्यां पुरीं प्रति ।।
पूर्णे चतुर्दशे वर्षे पंचम्यां माधवस्य च ।। ८४ ।।
भारद्वाजाश्रमे रामः सगणः समु पाविशत् ।।
नंदिग्रामे तु षष्ठ्यां स पुष्पकेण समागतः ।। ८५ ।।
सप्तम्यामभिषिक्तोऽसौ भूयोऽयोध्यायां रघूद्वहः ।।
दशाहाधिकमासांश्च चतुर्दश हि मैथिली ।। ८५ ।।
उवास रामरहिता रावणस्य निवेशने ।।
द्वाचत्वारिंशके वर्षे रामो राज्यमकारयत् ।। ८७ ।।
सीतायास्तु त्रयस्त्रिंशद्वर्षाणि तु तदा भवन् ।।
स चतुर्दशवर्षांते प्रविष्टः स्वां पुरीं प्रभुः ।। ८८ ।।
अयोध्यां नाम मुदितो रामो रावणदर्पहा ।।
भ्रातृभिः सहितस्तत्र रामो राज्यमकार यत् ।। ८९ ।।
दशवर्षसहस्राणि दशवर्षशतानि च ।।
रामो राज्यं पालयित्वा जगाम त्रिदिवालयम् ।। 3.2.30.९० ।।
रामराज्ये तदा लोका हर्षनिर्भरमा नसाः ।।
बभूवुर्धनधान्याढ्याः पुत्रपौत्रयुता नराः ।। ९१ ।।
कामवर्षी च पर्जन्यः सस्यानि गुणवंति च ।।
गावस्तु घटदोहिन्यः पादपाश्च सदा फलाः ।। ९२ ।।
नाधयो व्याधयश्चैव रामराज्ये नराधिप ।।
नार्यः पतिव्रताश्चासन्पितृभक्तिपरा नराः ।। ९३ ।।
द्विजा वेदपरा नित्यं क्षत्रिया द्विज सेविनः ।।
कुर्वते वैश्यवर्णाश्च भक्तिं द्विजगवां सदा ।। ९४ ।।
न योनिसंकरश्चासीत्तत्र नाचारसंकरः ।।
न वंध्या दुर्भगा नारी काकवंध्या मृत प्रजा ।। ९५ ।।
विधवा नैव काप्यासीत्सभर्तृका न लप्यते ।।
नावज्ञां कुर्वते केपि मातापित्रोर्गुरोस्तथा ।। ९६ ।।
न च वाक्यं हि वृद्धानामुल्लं घयति पुण्यकृत् ।।
न भूमिहरणं तत्र परनारीपराङ्मुखाः ।। ९७ ।।
नापवादपरो लोको न दरिद्रो न रोगभाक् ।।
न स्तेयो द्यूतकारी च मैरेयी पापिनो नहि ।। ९८ ।।
न हेमहारी ब्रह्मघ्नो न चैव गुरुतल्पगः ।।
न स्त्रीघ्नो न च बालघ्नो न चैवानृतभाषणः ।। ९९ ।।
न वृत्तिलोपकश्चासीत्कूट साक्षी न चैव हि ।।
न शठो न कृतघ्नश्च मलिनो नैव दृश्यते ।। 3.2.30.१०० ।।
सदा सर्वत्र पूज्यंते ब्राह्मणा वेदपारगाः ।।
नावैष्णवोऽव्रती राजन्राम राज्येऽतिविश्रुते ।। १०१ ।।
राज्यं प्रकुर्वतस्तस्य पुरोधा वदतां वरः ।।
वसिष्ठो मुनिभिः सार्द्धं कृत्वा तीर्थान्यनेकशः ।। २ ।।
आजगाम ब्रह्मपुत्रो महाभागस्तपोनिधिः ।।
रामस्तं पूजयामास मुनिभिः सहितं गुरुम् ।। ३ ।।
अभ्युत्थानार्घपाद्यैश्च मधुपर्कादिपूजया ।।
प्रपच्छ कुशलं रामं वसिष्ठो मुनिपुंगवः ।। ४ ।।
राज्ये चाश्वे गजे कोशे देशे सद्भ्रातृभृत्ययोः ।।
कुशलं वर्त्तते राम इति पृष्टे मुनेस्तदा ।। ५ ।।
।। राम उवाच ।। ।।
सर्वत्र कुशलं मेऽद्य प्रसादाद्भवतः सदा ।।
पप्रच्छ कुशलं रामो वसिष्ठं मुनिपुंगवम् ।। ६ ।।
सर्वतः कुशली त्वं हि भार्यापुत्रसमन्वितः ।।
स सर्वं कथयामास यथा तीर्थान्यशेषतः ।। ७ ।।
सेवितानि धरापृष्ठे क्षेत्राण्यायतनानि च ।।
रामाय कथयामास सर्वत्र कुशलं तदा ।। ८ ।।
ततः स विस्मयाविष्टो रामो राजीवलोचनः ।।
पप्रच्छ तीर्थमाहात्म्यं यत्तीर्थेषूत्तमोत्तमम् ।। १०९ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मारण्यमाहात्म्ये रामचरित्रवर्णनंनाम त्रिंशोऽध्यायः ।। ३० ।। ।। छ ।। ।।