स्कन्दपुराणम्/खण्डः ३ (ब्रह्मखण्डः)/धर्मारण्य खण्डः/अध्यायः २३

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

।। व्यास उवाच।। ।।
अतः परं प्रवक्ष्यामि ब्रह्मणा यत्कृतं पुरा ।।
तत्सर्वं कथयाम्यद्य शृणुष्वैकाग्रमानसः ।। १ ।।
देवानां दानवानां च वैराद्युद्धं बभूव ह ।।
तस्मिन्युद्धे महादुष्टे देवाः संक्लिष्टमानसाः ।। २ ।।
बभूवुस्तत्र सोद्वेगा ब्रह्माणं शरणं ययुः ।। ३ ।।
।। देवा ऊचुः ।। ।।
ब्रह्मन्केन प्रकारेण दैत्यानां वधमेव च ।।
करोम्यद्य उपायं हि कथ्यतां शीघ्रमेव मे ।।४।।
।। ब्रह्मोवाच ।। ।।
मया हि शंकरेणैव विष्णुना हि तथा पुरा ।।
यमस्य तपसा तुष्टैर्धर्मारण्यं विनिर्मितम् ।। ५ ।।
तत्र यद्दीयते दानं यज्ञं वा तप उत्तमम् ।।
तत्सर्वं कोटिगुणितं भवेदिति न संशयः ।। ६ ।।
पापं वा यदि वा पुण्यं सर्वं कोटि गुणं भवेत् ।।
तस्माद्दैत्यैर्न धर्षितं कदाचिदपि भोः सुराः ।। ७ ।।
श्रुत्वा तु ब्रह्मणो वाक्यं देवाः सर्वे सविस्मयाः ।।
ब्रह्माणं त्वग्रतः कृत्वा धर्मार ण्यमुपाययुः ।। ८ ।।
सत्रं तत्र समारभ्य सहस्राब्दमनुत्तमम् ।।
वृत्वाऽऽचार्यं चांगिरसं मार्कंण्डेयं तथैव च ।। ९ ।।
अत्रिं च कश्यपं चैव होता कृत्वा महामतिः ।।
जमदग्निं गौतमं च अध्वर्युत्वं न्यवेदयन् ।। १० ।।
भरद्वाजं वसिष्ठं तु प्रत्यध्वर्युत्वमादिशन् ।।
नारदं चैव वाल्मीकिं नोदना याकरोत्तदा ।। ११ ।।
ब्रह्मासने च ब्रह्माणं स्थापयामासुरादरात् ।।
क्रोशचतुष्कमात्रां च वेदिं कृत्वा सुरैस्ततः ।। १२ ।।
द्विजाः सर्वे समाहूता यज्ञस्यार्थे हि जापकाः ।।
ऋग्यजुःसामाथर्वान्वै वेदानुद्गिरयंति ये ।। १३ ।।
गणनाथं शंभुसुतं कार्त्तिकेयं तथैव च ।।
इन्द्रं वज्रधरं चैव जयंतं चन्द्रसूनुकम् ।। १४ ।।
चत्वारो द्वारपालाश्च देवाः शूरा विनिर्मिताः ।।
ततो राक्षोघ्नमंत्रेण हूयते हव्यवाहनः ।। १५ ।।
तिलांश्च यवमिश्रांश्च मध्वाज्येन च मिश्रितान् ।।
जुहुवुस्ते तदा देवा वेदमंत्रैर्नरेश्वर ।। १६ ।।
आघारावाज्यभागौ च हुत्वा चैव ततः परम् ।।
द्राक्षेक्षुपूगनारिंग जंबीरं बीजपूरकम् ।। १७ ।।
उत्तरतो नालिकेरं दाडिमं च यथाक्रमम् ।।
मध्वाज्यं पयसा युक्तं कृशरशर्करायुतम् ।। १८ ।।
तंडुलैः शतपत्रैश्च यज्ञे वाचं नियम्य च ।।
विचिंत्य च महाभागाः कृत्वा यज्ञं सदक्षिणम् ।। १९ ।।
उत्तमं च शुभं स्तोमं कृत्वा हर्षमुपाययुः ।।
अवारितान्नमददन्दीनांधकृपणेष्वपि ।। २० ।।
ब्राह्मणेभ्यो विशेषेण दत्तमन्नं यथेप्सितम् ।।
पायसं शर्करायुक्तं साज्यशाकसमन्वितम् ।। २१ ।।
मंडका वटकाः पूपास्तथा वै वेष्टिकाः शुभाः ।।
सहस्रमोदकाश्चापि फेणिका घुर्घुरादयः ।। २२ ।।
ओदनश्च तथा दाली आढकीसंभवा शुभा ।।
तथा वै मुद्गदाली च पर्पटा वटिका तथा ।। २३ ।।
प्रलेह्यानि विचित्राणि युक्तास्त्र्यूषणसंचयैः ।।
कुल्माषा वेल्लकाश्चैव कोमला वालकाः शुभाः ।। २४ ।।
कर्कटिकाश्चार्द्रयुता मरिचेन समन्विताः ।।
एवंविधानि चान्नानि शाकानि विविधानि च ।। २५ ।।
भोजयित्वा द्विजान्सर्वान्धर्मारण्य निवासिनः ।।
अष्टादशसहस्राणि सपुत्रांश्च तदा नृप ।। २६ ।।
प्रतिदिनं तदा देवा भोजयंति स्म वाडवान् ।।
एवं वर्षसहस्रं वै कृत्वा यज्ञं तदामराः ।। २७ ।।
कृत्वा दैत्यवधं राजन्निर्भयत्वमवाप्नुयुः ।।
स्वर्गं जग्मुस्ते सहसा देवाः सर्वे मरुद्गणाः ।। २८ ।।
तथैवाप्सरसः सर्वा ब्रह्मवि ष्णुमहेश्वराः ।।
कैलासशिखरं रम्यं वैकुंठं विष्णुवल्लभम् ।। २९ ।।
ब्रह्मलोकं महापुण्यं प्राप्य सर्वे दिवौकसः ।।
परं हर्षमुपाजग्मुः प्राप्य नंदनमुत्तम् ।। ३० ।।
स्वेस्वे स्थाने स्थिरीभूत्वा तस्थुः सर्वे हि निर्भयाः ।। ३१ ।।
ततः कालेन महता कृताख्ययुगपर्यये ।।
लोहासुरो मदोन्मत्तो ब्रह्मवेषधरः सदा ।। ३२ ।।
आगत्य सर्वान्विप्रांश्च धर्षयेद्धर्मवित्तमान् ।।
शूद्रांश्च वणिजश्चैव दंडघातेन ताडयेत् ।। ३३ ।।
विध्वंसयेच्च यज्ञादीन्होमद्रव्याणि भक्षयेत् ।।
वेदिका दीर्घिका दृष्ट्वा कश्मलेन प्रदूषयेत् ।। ३४ ।।
मूत्रोत्सर्गपुरीषेण दूषयेत्पुण्यभूमिकाः ।।
गहनेन तथा राजन्स्त्रियो दूषयते हि सः ।। ३५ ।।
ततस्ते वाडवाः सर्वे लोहासुरभयातुराः ।।
प्रनष्टाः सपरीवारा गतास्ते वै दिशो दश ।। ३६ ।।
वणिजस्ते भयोद्विग्ना विप्राननुययुर्नृप ।।
महाभयेन संभीता दूरं गत्वा विमृश्य च।।३७।।
सह शूद्रैद्विजैः सर्व एकीभूत्वा गतास्तदा ।।
मुक्तारण्यं पुण्यतमं निर्जनं हि ययुश्च ते ।। ३८ ।।
निवासं कारयामासुर्नातिदूरे नरेश्वर ।।
वजिङ्नाम्ना हि तद्ग्रामं वासयामासुरेव ते ।। ३९ ।।
लोहासुरभयाद्राजन्विप्र नाम्ना विनिर्मितम् ।।
शंभुना वणिजा यस्मात्तस्मात्तन्नामधारणम् ।। ४० ।।
शंभुग्राममिति ख्यातं लोके विख्यातिमागतम् ।।
अथ केचिद्भयान्नष्टा वणिजः प्रथमं तदा ।। ४१ ।।
ते नातिदूरे गत्वा वै मंडलं चक्रुरुत्तमम् ।।
विप्रागमनकांक्षास्ते तत्र वासमकल्पयन् ।। ४२ ।।
मंडलेति च नाम्ना वै ग्रामं कृत्वा न्यवीवसन् ।।
विप्रसार्थपरिभ्रष्टाः केचित्तु वणिजस्तदा ।। ४३ ।।
अन्यमार्गे गता ये वै लोहासुरभयार्दिताः ।।
धर्मारण्यान्नाति दूरे गत्वा चिंतामुपाययुः ।। ४४ ।।
कस्मिन्मार्गे वयं प्राप्ताः कस्मिन्प्राप्ता द्विजातयः ।।
इति चिंतां परं प्राप्ता वासं तत्र त्वकारयन् ।। ४५ ।।
अन्यमार्गे गता यस्मात्तस्मात्तन्नामसंभवम् ।।
ग्रामं निवासयामासुरडालंजमिति क्षितौ ।। ४६ ।।
यस्मिन्ग्रामे निवासी यो यत्संज्ञश्च वणिग्भवेत् ।।
तस्य ग्रामस्य तन्नाम ह्यभवत्पृथिवीपते ।। ४७ ।।
वणिजश्च तथा विप्रा मोहं प्राप्ता भयार्दिताः ।।
तस्मान्मोहेतिसंज्ञास्ते राजन्सर्वे निरब्रुवन् ।। ।। ४८ ।।
एवं प्रनषणं नष्टास्ते गताश्च दिशो दिश ।।
धर्मारण्ये न तिष्ठंति वाडवा वणिजोऽपि वा ।। ४९ ।।
उद्वसं हि तदा जातं धर्मारण्यं च दुर्लभम् ।।
भूषणं सर्वतीर्थानां कृतं लोहासुरेण तत् ।। ५० ।।
नष्टद्विजं नष्टतीर्थं स्थानं कृत्वा हि दानवः ।।
परां मुदमवाप्यैव जगाम स्वालयं ततः ।। ५१ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मारण्यमाहात्म्ये ज्ञातिभेदवर्णनंनाम त्रयोविंशो ऽध्यायः ।। २३ ।। ।। छ ।।