स्कन्दपुराणम्/खण्डः ३ (ब्रह्मखण्डः)/धर्मारण्य खण्डः/अध्यायः १०

विकिस्रोतः तः

व्यास उवाच ।। ।।
शृणु राजन्यथावृत्तं धर्म्मारण्ये शुभं मतम् ।।
यदिदं कथयिष्यामि अशेषाघौघनाशनम् ।।।१ ।।
अजेशेन तदा राजन्प्रेरितेन स्वयंभुवा ।।
कामधेनुः समाहूता कथयामास तां प्रति ।। २ ।।
विप्रेभ्योऽनुचरान्देहि एकैकस्मै द्विजातये ।।
द्वौ द्वौ शुद्धात्मकौ चैवं देहि मातः प्रसीद मे ।। ३ ।।
तथेत्युक्त्वा महाधेनुः क्षीरेणोल्लेखयद्धराम् ।।
हुंकारात्तस्य निष्क्रांताः शिखासूत्रधरा नराः ।। ४ ।।
षट्त्रिंशच्च सहस्राणि वणिजश्च महाबलाः ।।
सोपवीता महादक्षाः सर्वशास्त्रविशारदाः ।। ५ ।।
द्विजभक्तिसमायुक्ता ब्रह्मण्यास्ते तपोन्विताः ।।
पुराणज्ञाः सदाचारा धार्मिका बह्मभोजकाः ।। ६ ।।
स्वर्गे देवाः प्रशंसंति धर्मारण्यनिवासिनः ।।
तपोऽध्ययनदानेषु सर्वकालेप्यतींद्रियाः ।। ७ ।।
एकैकस्मै द्विजायैव दत्तं जातु चरद्वयम् ।।
वाडवस्य च यद्गोत्रं पुरा प्रोक्तं महीपते ।। ८ ।।
परस्परं च तद्गोत्रं तस्य चानुचरस्य च ।।
इति कृत्वा व्यवस्थां च न्यवसंस्तत्र भूमिषु ।।९।।
ततश्च शिष्यता देवैर्दत्ता चानुचरान्भुवि ।।
ब्रह्मणा कथितं सर्वं तेषामनुहिताय वै ।।3.2.10.१०।।
कुरुध्वं वचनं चैषां ददध्वं च यदिच्छितम् ।।
समित्पुष्पकुशादीनि आनयध्वं दिनेदिने ।। ११ ।।
अनुज्ञयैषां वर्तध्वं मावज्ञां कुरुत क्वचित् ।।
जातकं नामकरणं तथान्नप्राशनं शुभम् ।। १२ ।।
क्षौरं चैवोपनयनं महानाम्न्यादिकं तथा ।।
क्रियाकर्मादिकं यच्च व्रतं दानोपवासकम् ।। १३ ।।
अनुज्ञयैषां कर्तव्यं काजेशा इदमबुवन् ।।
अनुज्ञया विनैषां यः कार्यमारभते यदि ।। १४ ।।
दर्शं वा श्राद्धकार्यं वा शुभं वा यदि वाऽशुभम् ।।
दारिद्र्यं पुत्रशोकं च कीर्तिनाशं तथैव च ।। १५ ।।
रोगैर्निपीड्यते नित्यं न क्वचित्सुखमाप्नुयुः ।।
तथेति च ततो देवाः शक्राद्याः सुरसत्तमाः ।। १६ ।।
स्तुतिं कुर्वंति ते सर्वे काम धेनोः पुरः स्थिताः ।।
कृतकृत्यास्तदा देवा ब्रह्मविष्णुमहेश्वराः ।। १७ ।।
त्वं माता सर्वदेवानां त्वं च यज्ञस्य कारणम् ।।
त्वं तीर्थं सर्वतीर्थानां नमस्तेऽस्तु सदानघे ।। १८ ।।
शशिसूर्यारुणा यस्या ललाटे वृषभध्वजः ।।
सरस्वती च हुंकारे सर्वे नागाश्च कंबले ।। १९ ।।
क्षुरपृष्ठे च गन्धर्वा वेदाश्चत्वार एव च ।।
मुखाग्रे सर्वतीर्थानि स्थावराणि चराणि च ।। 3.2.10.२० ।।
एवंविधैश्च बहुशो वचनैस्तोषिता च सा ।।
सुप्रसन्ना तदा धेनुः किं करोमीति चाब्रवीत् ।। २१ ।।
।। देवा ऊचुः ।। ।।
सृष्टाः सर्वे त्वया मातर्देव्यैतेऽनुचराः शुभाः ।।
त्वत्प्रसादान्महाभागे ब्राह्मणाः सुखिनोऽ भवन् ।। २२ ।।
ततोऽसौ सुरभी राजन्गता नाकं यशस्विनी ।।
ब्रह्मविष्णुमहेशाद्यास्तत्रैवांतरधुस्ततः ।। २३ ।।
।। युधिष्ठिर उवाच ।। ।।
अभार्यास्ते महातेजा गोजा अनुचरास्तथा ।।
उद्वाहिता कथं ब्रह्मन्त्सुतास्तेषां कदाऽभवन् ।। २४ ।।
।। व्यास उवाच ।। ।।
परिग्रहार्थं वे तेषां रुद्रेण च यमेन च ।।
गन्धर्वकन्या आहृत्य दारास्तत्रोपकल्पिताः ।। २५ ।।
।। युधिष्ठिर उवाच ।। ।।
को वा गन्धर्वराजासौ किंनामा कुत्र वा स्थितः ।।
कियन्मात्रास्तस्य कन्याः किमाचारा ब्रवीहि मे ।। २६ ।।
।। व्यास उवाच ।। ।।
विश्वावसुरिति ख्यातो गन्धर्वाधिपतिर्नृप ।।
षष्टिकन्यासहस्राणि आसते तस्य वेश्मनि ।। २७ ।।
अंतरिक्षे गृहं तस्य गधर्वनगरं शुभम् ।।
यौवनस्थाः सुरूपाश्च कन्या गन्धर्वजाः शुभाः ।। २८ ।।
रुद्रस्यानुचरौ राजन्नंदी भृंगी शुभाननौ ।।
पूर्वदृष्टाश्च ताः कन्याः कथयामासतुः शिवम्।। २९ ।।
दृष्टाः पुरा महादेव गन्धर्वनगरे विभो ।।
विश्वावसुगृहे कन्या असंख्याताः सहस्रशः ।। 3.2.10.३० ।।
ता आनीय वलादेव गोभुजेभ्यः प्रयच्छ भो ।।
एवं श्रुत्वा ततो देवस्त्रिपुरघ्नः सदाशिवः ।। ३१ ।।
प्रेषयामास दूतं तु विजयं नाम भारत ।।
स तत्र गत्वा यत्रास्ते विश्वावसुररिंदमः ।। ३२ ।।
उवाच वचनं चैव पथ्यं चैव शिवेरितम् ।।
धर्मारण्ये महाभाग काजेशेन विनिर्मिताः ।। ३३ ।।
स्थापिता वाडवास्तत्र वेदवेदांगपारगाः ।।
तेषां वै परिचर्यार्थं कामधेनुश्च प्रार्थिता ।। ३४ ।।
तया कृताः शुभाचारा वणिजस्ते त्वयोनिजा ।।
षट्त्रिंशच्च सहस्राणि कुमारास्ते महाबलाः ।। ३५ ।।
शिवेन प्रेषितोऽहं वै त्वत्समीपमुपागतः ।।
कन्यार्थं हि महाभाग देहिदेहीत्युवाच ह ।। ३६ ।।
।। गन्धर्व उवाच ।। ।।
देवानां चैव सर्वेषां गन्धर्वाणां महामते ।।
परित्यज्य कथं लोके मानुषाणां ददामि वै ।। ३७ ।।
श्रुत्वा तु वचनं तस्य निवृत्तो विजयस्तदा ।।
कथयामास तत्सर्वं गन्धर्व चरितं महत् ।।३८ ।।
।। व्यास उवाच ।। ।।
ततः कोपसमाविष्टो भगवाँल्लोकशंकरः ।।
वृषभे च समारूढः शूलहस्तः सदाशिवः ।। ३९ ।।
भूतप्रेतपिशाचाद्यैः सहस्रैरावृतः प्रभुः ।।
ततो देवास्तथा नागा भूतवेतालखेचराः ।। 3.2.10.४० ।।
क्रोधेन महताविष्टाः समाजग्मुः सहस्रशः ।।
हाहाकारो महानासीत्तस्मिन्सैन्ये विसर्पति ।। ४१ ।।
प्रकंपिता धरादेवी दिशापाला भयातुराः ।।
घोरा वातास्तदाऽशांताः शब्दं कुर्वंति दिग्गजाः ।। ।। ४२ ।।
।। व्यास उवाच ।। ।।
तदागतं महासैन्यं दृष्ट्वा भयविलोलितम् ।।
गन्धर्वनगरात्सर्वे विनेशुस्ते दिशो दश ।। ४३ ।।
गन्धर्वराजो नगरं त्यक्त्वा मेरुं गतो नृप ।।
ताः कन्या यौवनोपेता रूपौदार्यसमन्विताः ।। ४४ ।।
गृहीत्वा प्रददौ सर्वा वणिग्भ्यश्च तदा नृप ।।
वेदोक्तेन विधानेन तथा वै देवसन्निधौ ।। ४५ ।।
आज्यभागं तदा दत्त्वा गन्धर्वाय गवात्मजाः ।।
देवानां पूर्वजानां च सूर्याचंद्रमसोस्तथा ।। ४६ ।।
यमाय मृत्यवे चैव आज्यभागं तदा ददुः ।।
दत्त्वाज्यभागान्विधिवद्वव्रिरे ते शुभव्रताः ।। ४७ ।।
ततः प्रभृति गान्धर्वविवाहे समुपस्थिते ।।
आज्यभागं प्रगृह्णन्ति अद्यापि सर्वतो भृशम् ।। ४८ ।।
षट्त्रिंशच्च सहस्राणि कुमारा यन्न्यवेदयन् ।।
तेषां पुत्राश्च पौत्राश्च शतशोऽथ सहस्रशः ।।
अत एव हि ताः सर्वा दासत्वे हि विनिर्मिताः ।।३
क्षत्रियाश्च महावीरा किंकरत्वे हि निर्मिताः ।। 3.2.10.५० ।।
ततो देवाऽस्तदा राजञ्जग्मुः सर्वे यथातथा।।
गते देवे द्विजाः सर्वे स्थानेऽस्मिन्निवसंति ते।।५१।।
पुत्रपौत्रयुता राजन्निवसंत्यकुतोभयाः।।
पठंति वेदान्वेदज्ञाः क्वचिच्छास्त्रार्थमुद्गिरन्।।५२।।
केचिद्विष्णुं जपंतीह शिवं केचिज्जपंति हि।।
ब्रह्माणं च जपंत्येके यमसूक्तं हि केचन।।
यजंति याजकाश्चैव अग्निहोत्रमुपासते ।।
स्वाहाकारस्वधाकारवषट्कारैश्च सुव्रत ।। ५४ ।।
शब्दैरापूयते सर्वं त्रैलोक्यं सचराचरम् ।।
वणिजश्च महादक्षा द्विजशुश्रूणोत्सुकाः ।। ५५ ।।
धर्मारण्ये शुभे दिव्ये ते वसंति सुनिष्ठिताः ।।
अन्नपानादिकं सर्वं समित्कुशफलादिकम् ।। ५६ ।।
आपूरयन्द्विजातीनां वणिजस्ते गवात्मजाः ।। ५७ ।।
पुष्पोपहारनिचयं स्नानवस्त्रादिधावनम् ।।
उपलादिकनिर्माणं मार्जनादिशुभक्रियाः ।। ५८ ।।
वणिक्स्त्रियः प्रकुर्वंति कंडनं पेषणादिकम् ।।
शुश्रूषंति च तान्विप्रान्काजेशवचनेन हि ।। ५९ ।।
स्वस्था जातास्तदा सर्वे द्विजा हर्षपरायणाः ।।
काजेशादीनुपासंते दिवारात्रौ हि संध्ययोः ।। 3.2.10.६० ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मार ण्यमाहात्म्ये वणिक्परिग्रहवर्णनंनाम दशमोऽध्यायः ।। १० ।।