स्कन्दपुराणम्/खण्डः ३ (ब्रह्मखण्डः)/धर्मारण्य खण्डः/अध्यायः ०९

विकिस्रोतः तः
Jump to navigation Jump to search

।। व्यास उवाच ।। ।।
श्रूयतां राजशार्दूल पुण्यमाख्यानमुत्तमम् ।।
स्तूयमानो
जगन्नाथ इदं वचनमब्रवीत् ।। १ ।।
।। विष्णुरुवाच ।। ।।
किमर्थमागताः सर्वे ब्रह्माद्याः सुरसत्तमाः।।
पृथिव्यां कुशलं कच्चित्कुतो वो भयमागतम् ।।२।।
ततः प्रोवाच वै हृष्टो ब्रह्मा तं केशवं वचः ।।
न भयं विद्यतेऽस्माकं त्रैलोक्ये सचराचरे ।।३।।
एकविज्ञापनार्थाय आगतोऽहं तवांतिके।।
तदहं संप्रवक्ष्यामि तदेतच्छृणु मे वचः।।४।।
परं तु पूर्वं धर्मेण स्थापितं तीर्थमुत्तमम्।।
तद्द्रष्टुकामोऽहं देव त्वत्प्रसादाज्जनार्दन ।। ५ ।।
तत्र त्वं देवदेवेश गमने कुरु मानसम् ।।
यथा सत्तीर्थतां याति धर्मारण्यमनुत्तमम् ।। ६ ।।
विष्णुरुवाच ।।
साधुसाधु महाभाग त्वर्यतां तत्र मा चिरम् ।।
ममापि चित्तं तत्रैव तद्दर्शनेस्ति लालसम् ।। ७ ।।
।। व्यास उवाच ।। ।।
तार्क्ष्यमारुह्य गोविंद स्तत्रागाच्छीघ्रमेव हि ।।
ततो धर्मेण ते देवाः सेंद्राः सर्षिगणास्तथा ।। ८ ।।
ब्रह्मविष्णुमहेशाद्या दृष्टा दूरान्मुमोद च ।।
धर्मराजोपि तान्दृष्ट्वा देवा न्विष्णुपुरोगमान् ।। ९ ।।
आगतः स्वाश्रमात्तत्र पूजां प्रगृह्य तत्पुरः ।।
आसनादुत्थितः शीघ्रं सपर्याद्यं प्रगृह्य च ।।
एकैकस्य चकाराथ पूजां चैव पृथक्पृथक् ।। 3.2.9.१० ।।
चकार पूजां विधिवत्तेषां तत्रार्कनंदनः ।।
आसनेषूपवेश्याथ पूजां कृत्वा गरीयसीम् ।। ११ ।।
।। यम उवाच ।। ।।
तीर्थरूपमिदं क्षेत्रं प्रसादाद्देवकीसुत ।।
त्वत्तोषविधिना चाद्य कृपया च शिवस्य च ।। १२ ।।
अद्य मे सफलं जन्म अद्य मे सफलं तपः ।।
अद्य मे सफलं स्थानं काजेशानां समागमात् ।। १३ ।।
।। व्यास उवाच ।। ।।
एवं स्तुतस्तदा विष्णुः प्रोवाच मधुरं वचः ।।
तुष्टोऽस्मि धर्म राजेंद्र अहं स्तोत्रेण ते विभो ।। १४ ।।
किंचित्प्रार्थय मत्तोऽहं करोमि तव वांछितम् ।।
यत्तेऽस्त्यभीप्सितं तुभ्यं तद्ददामि न संशयः ।। १५ ।।
यम उवाच ।। ।।
यदि तुष्टोऽसि देवेश वांछितं कुरुषे यदि ।।
धर्मारण्ये महापुण्ये ऋषीणामाश्रमान्कुरु ।। १६ ।।
वसंति वाडवा यत्र यजंति चैव याज्ञिकाः ।।
वेदनिर्घोषसंयुक्तं भाति तत्तीर्थमुत्तमम् ।। १७ ।।
अब्राह्मणमिदं तीर्थं पीडयिष्यंति जन्तवः ।।
तस्मात्त्वं वाडवाञ्छौरे समानय ऋषी न्बहून् ।।
धर्मारण्यं यथा भाति त्रैलोक्ये सचराचरे ।। १८ ।।
ततो विष्णुः सहस्राक्षः सहस्रशीर्षः सहस्रपात् ।।
सहस्रशस्तदा रूपं कृतवान्धर्मवत्सलः ।।
यस्मिन्स्थाने च ये विप्राः सदाचाराः शुभव्रताः ।। १९ ।।
अशेषधर्मकुशलाः सर्वशास्त्रविशारदाः ।।
तपोज्ञाने महाख्याता ब्रह्मयज्ञपरायणाः ।।
स्थापिता ऋषयः सर्वे सहस्राण्यष्टादशैव तु ।। 3.2.9.२० ।।
नानादेशात्समानीय स्थापितास्तत्र तैः सुरैः ।।
आश्रमांश्च बहूंस्तत्र काजेशैरपि निर्मितान् ।। २१ ।।
धर्मोपदेशात्कृष्णेन ब्रह्मणा च शिवेन च ।।
स्वेस्वे स्थाने यथायोग्ये स्थापयामास केशवः ।। २२ ।।
युधिष्ठिर उवाच ।। ।।
कस्मिन्वंशे समुत्पन्ना ब्राह्मणा वेदपारगाः ।।
स्थापिताः सपरीवाराः पुत्रपौत्रसमावृताः ।।
शिष्यैश्च बहुभिर्युक्ता अग्निहोत्रपरायणाः ।।
तेषां स्थानानि नामानि यथावच्च वदस्व मे ।। २३ ।। ।।
व्यास उवाच ।। ।।
श्रूयतां नृपशार्दूल धर्म्मारण्यनिवासिनाम् ।। २४ ।।
महात्मनां ब्राह्मणानामृषीणामूर्ध्वरेतसाम् ।।
तेषां वै पुत्रपौत्राणां नामानि च वदाम्यहम् ।। २५ ।।
चतुर्विशतिगोत्राणि द्विजानां पांडवर्षभ ।।
तेषां शाखाः प्रशाखाश्च पुत्रपौत्रादयस्तथा ।। २६ ।।
जज्ञिरे बहवः पुत्राः शतशोऽथ सहस्रशः ।।
चतुर्विशतिमुख्यानां नामानि प्रवदामि ते ।।
द्विजानामृषयः प्रोक्ताः प्रवराणि तथा शृणु ।। २७ ।।
भारद्वाजस्तथा वत्सः कौशिकः कुश एव च ।।
शांडिल्यः काश्यपश्चैव गौतमश्छांधनस्तथा ।। २८ ।।
जातूकर्ण्यस्तथा वत्सो वसिष्ठो धारणस्तथा ।।
आत्रेयो भांडिलश्चैव लौकिकाश्च इतः परम् ।। २९ ।।
कृष्णायनोपमन्युश्च गार्ग्यमुद्गलमौषकाः ।।
पुण्यासनः पराशरः कौंडिन्यश्च ततः परम् ।। ।। 3.2.9.३० ।।
तथा गान्यासनश्चैव प्रवराणि चतुर्विंशतिः ।।
जामदग्न्यस्य गोत्रस्य प्रवराः पंच एव हि ।। ३१ ।।
भार्गवश्च्यवनाप्नुवानौर्वश्च जमदग्निकः ।।
पंचैते प्रवरा राजन्विख्याता लोकविश्रुताः ।।३२ ।।
एवं गोत्रसमुत्पन्ना वाडवा वेदपारगाः ।।
द्विजपूजाक्रियायुक्ता नानाक्रतुक्रियापराः ।। ३३ ।।
गुणेन संहिता आसन् षट्कर्मनिरताश्च ये ।।
एवंविधा महाभागा नानादेशभवा द्विजाः ।। ३४ ।।
भामेवसं तृतीयं च प्रवराः पंच एव हि ।।
भार्गवच्यावनाप्नुवानौर्वजामदग्न्यसंयुताः ।।
आत्रेयोऽर्चनानसश्च श्यावास्येति तृतीयकः ।। ३५ ।।
अस्मिन्गोत्रे भवा विप्रा दुष्टाः कुटिलगामिनः ।।
धनिनो धर्मनिष्ठाश्च वेदवेदांगपारगाः ।।३६।।
दानभोगरताः सर्वे श्रौतस्मार्तेषु संमताः ।।
मांडव्यगोत्रे विज्ञेयाः प्रवरैः पंचभिर्युताः ।।३७।।
भार्गवश्च्यावनो ऽत्रिश्चाप्नुवानौर्वस्तथैव च ।।
अस्मिन्गोत्रे भवा विप्राः श्रुतिस्मृतिपरायणाः ।। ३८ ।।
रोगिणो लोभिनो दुष्टा यजने याजने रताः ।।
ब्रह्मक्रिया पराः सर्वे मांडव्याः कुरुसत्तम ।। ३९ ।।
गार्ग्यस्य गोत्रे ये जातास्तेषां तु प्रवरास्त्रयः ।।
अंगिराश्चांबरीषश्च यौवनाश्वस्तृतीयकः ।। 3.2.9.४० ।।
अस्मिन्गोत्रे समुत्पन्नाः सद्वृत्ताः सत्यभाषिणः ।।
शांताश्च भिन्नवर्णाश्च निर्द्धनाश्च कुचैलिनः ।। ४१ ।।
संगवात्सल्ययुक्ताश्च वेदशास्त्रेषु निश्चलाः ।।
वत्सगोत्रे द्विजा भूप प्रवराः पंच एव हि ।। ४२ ।।
भार्गवश्च्यवनाप्नुवानौर्वश्च जमदग्निकः ।।
एभिस्तु पंच विख्याता द्विजा ब्रह्मस्वरूपिणः ।। ४३ ।।
शांता दांताः सुशीलाश्च धर्मपुत्रैः सुसंयुता ।।
वेदाध्ययनहीनाश्च कुशलाः सर्वकर्मसु ।। ४४ ।।
सुरूपाश्च सदाचाराः सर्वधर्मेषु निष्ठिताः।।
दानधर्म रताः सर्वे अन्नदा जलदा द्विजाः ।। ४५ ।।
दयालवः सुशीलाश्च सर्वभूतहिते रताः ।।
काश्यपा ब्राह्मणा राजन्प्रवरत्रयसंयुताः ।। ४६ ।।
काश्यपश्चापवत्सारो नैध्रुवश्च तृतीयकः ।।
वेदज्ञा गौरवर्णाश्च नैष्ठिका यज्ञकारकाः ।। ४७ ।।
प्रियवासा महादक्षा गुरुभक्तिरताः सदा ।।
प्रतिष्ठामानव न्तश्च सर्वभूतहिते रताः ।। ४८ ।।
यजंते च महायज्ञान्काश्यपेया द्विजातयः।।
धारीणसगोत्रजाश्च प्रवरैस्त्रिभिरन्विताः ।। ४९ ।।
अगस्तिदर्विश्वेताश्व दध्यवाहनसंज्ञकाः ।।
अस्मिन्गोत्रे च ये जाता धर्मकर्मसमाश्रिताः ।। 3.2.9.५० ।।
कर्मक्रूराश्च ते सर्वे तथैवोदरिणस्तु ते ।।
लंबकर्णा महादंष्ट्रा द्विजा धनपरायणाः ।। ५१ ।।
क्रोधिनो द्वेषिणश्चैव सर्वसत्त्वभयंकराः ।।
लौगाक्षसोद्भवा ये वै वाडवाः सत्यसंश्रिताः ।। ५२ ।।
प्रवराश्च त्रयस्तेषां तत्त्वज्ञानस्वरूपकाः ।।
कश्यपश्चैव वत्सश्च वसिष्ठश्च तृतीयकः ।। ५३ ।।
सदाचारास्तु विख्याता वैष्णवा बहुवृ त्तयः ।।
रोमभिर्बहुभिर्व्याप्ताः कृष्णवर्णास्तु वाडवाः ।। ५४ ।।
शांता दाताः सुशीलाश्च स्वदारनिरताः सदा ।।
कुशिकसगोत्रे ये जाताः प्रवरैस्त्रिभिरन्विताः ।। ५५ ।।
विश्वामित्रो देवरात औदलश्च त्रयश्च ये ।।
अस्मिन्गोत्रे तु ये जाता दुर्बला दीनमानसाः ।। ५६ ।।
असत्यभाषिणो विप्राः सुरूपा नृपसत्तमाः ।।
सर्व्वविद्याकुशलिनो ब्राह्मणा ब्रह्मसत्तमाः ।। ५७ ।।
उपमन्युसगोत्रेयाः प्रवरत्रयसंयुताः ।।
वसिष्ठश्च भरद्वाजस्त्विंद्रप्रमद एव वा ।। ५८ ।।
अस्मिन्गोत्रे तु ये विप्राः क्रूराः कुटिलगामिनः ।।
दूषणा द्वेषिणस्तुच्छाः सर्वसंग्रहतत्पराः ।। ५९ ।।
कलहोत्पादने दक्षा धनिनो मानिनस्तथा ।।
सर्वदैव प्रदुष्टाश्च दुष्टसंगरतास्तथा ।। 3.2.9.६० ।।
रोगिणो दुर्बलाश्चैव वृत्त्युपकल्पवर्जिताः ।।
वात्स्यगोत्रे भवा विप्राः प्रवरैः पंचभिर्युताः ।। ६१ ।।
भार्गवच्यावनाप्नुवानौर्वश्च जमदग्निकः ।।
अस्मिन्गोत्रे भवा विप्राः स्थूलाश्च बहुबुद्धयः।।६२।।
सर्वकर्मरता श्चैव सर्वधर्मेषु निश्चलाः ।।
वेदशास्त्रार्थनिपुणा यजने याजने रताः ।। ६३ ।।
सदाचाराः सुरूपाश्च बुद्धितो दीर्घदर्शिनः ।।
वात्स्यायनसगोत्रेयाः प्रवरैः पंचभिर्युताः ।। ६४ ।।
भार्गवच्यावनाप्नुवानौर्वश्च जमदग्निकः ।।
पूर्वोक्ताः प्रवराश्चास्य कथितास्तव भारत ।। ६५ ।।
अस्मिन्गोत्रे तु ये जाता पाकयज्ञरताः सदा ।।
लोभिनः क्रोधिनश्चैव प्रजायन्ते बहुप्रजाः ।। ६६ ।।
स्नानदानादिनिरताः सर्वदाश्च जितेंद्रियाः ।।
वापीकूपतडागानां कर्तारश्च सहस्रशः ।।
व्रतशीला गुणज्ञाश्च मूर्खा वेदविवर्जिताः ।। ६७ ।।
कौशिकवंशे ये जाताः प्रवरत्रयसंयुताः ।।
विश्वामित्रोऽघर्मषी च कौशिकश्च तृतीयकः ।। ६८ ।।
अस्मिन्गोत्रे च ये जाता ब्राह्मणा ब्रह्मवेदिनः।।
शांता दांताः सुशीलाश्च सर्वधर्मपरायणाः ।। ६९ ।।
अपुत्रिण स्तथा रूक्षास्तेजोहीना द्विजोत्तमाः ।।
भारद्वाजसगोत्रेयाः प्रवरैः पंचभिर्युताः ।। 3.2.9.७० ।।
अंगिरसो बार्हस्पत्यो भारद्वाजस्तु सैन्यसः ।।
गार्ग्यश्चै वेति विज्ञेयाः प्रवराः पंच एव च ।। ७१ ।।
अस्मिन्गोत्रे च ये जाता वाडवा धनिनः शुभाः ।।
वस्त्रालंकरणोपेता द्विजभक्तिपरायणाः ।। ७२ ।।
ब्रह्मभोज्यपराः सर्वे सर्वधर्मपरायणाः ।।
काश्यपगोत्रे यै जाताः प्रवरत्रयसंयुताः ।। ७३ ।।
काश्यपश्चापवत्सारो रैभ्येति विश्रुतास्त्रयः ।।
अस्मिन्गोत्रे भवा विप्रा रक्ताक्षाः क्रूरदृष्टयः ।। ७४ ।।
जिह्वालौल्यरताः सर्वे सर्वे ते पारमार्थिनः ।।
निर्धना रोगिणश्चैते तस्करानृतभाषिणः ।। ७५ ।।
शास्त्रार्थावेदिनः सर्वे वेदस्मृतिविवर्जिताः ।।
शुनकेषु च ये जाता विप्रा ध्यानपरायणाः ।। ७६ ।।
तपस्विनो योगिनश्च वेदवेदांगपारगाः ।।
साधवश्च सदाचारा विष्णुभक्तिपरायणाः ।। ७७ ।।
ह्रस्वकाया भिन्नवर्णा बहुरामा द्विजोत्तमाः ।।
दयालाः सरलाः शांता ब्रह्मभोज्यपरायणाः ।। ।। ७८ ।।
शौनकसेषु ये जाताः प्रवरत्रयसंयुताः ।।
भार्गवशौनहोत्रेति गार्त्स्यप्रमद इति त्रयः ।। ७९ ।।
अस्मिन्देशे समुत्पन्ना वाडवा दुःसहा नृप ।।
महोत्कटा महाकायाः प्रलंबाश्च मदोद्धताः ।। 3.2.9.८० ।।
क्लेशरूपाः कृष्णवर्णाः सर्वशास्त्रविशारदाः ।।
बहुभुजो मानिनो दक्षा राग द्वेषोपवर्जिताः ।। ८१ ।।
सुवस्त्रभूषारूपा वै ब्राह्मणा ब्रह्मवादिनः ।।
वसिष्ठगोत्रे ये जाताः प्रवरत्रयसंयुताः ।। ८२ ।।
वसिष्ठो भारद्वाजश्च इन्द्रप्रमद एव च ।।
अस्मिन्गोत्रे भवा विप्रा वेदवेदांगपारगाः ।। ८३ ।।
याज्ञिका यज्ञशीलाश्च सुस्वराः सुखिनस्तथा ।।
द्वेषिणो धनवंतश्च पुत्रिणो गुणिनस्तथा ।। ८४ ।।
विशालहृदया राजञ्छूराः शत्रुनिबर्हणाः ।।
गौतमसगोत्रे ये जाताः प्रवराः पंच एव हि ।। ८५ ।।
कौत्सगार्ग्योमवाहाश्च असितो देवलस्तथा ।।
अस्मिन्गोत्रे च ये जाता विप्राः परमपावनाः ।। ८६ ।।
परोपकारिणः सर्वे श्रुतिस्मृति परायणाः ।।
बकासनाश्च कुटिलाश्छद्मवृत्तिपरास्तथा ।। ८७ ।।
नानाशास्त्रार्थनिपुणा नानाभरणभूषिताः ।।
वृक्षादिकर्मकुशला दीर्घरोषाश्च रोगिणः ।। ८८ ।।
आंगिरसगोत्रे ये जाताः प्रवरत्रयसंयुताः ।।
आंगिरसोंबरीषश्च यौवनाश्वस्तृतीयकः ।। ८९ ।।
अस्मिन्गोत्रे च ये जाताः सत्य संभाषिणस्तथा ।।
जितेंद्रियाः सुरूपाश्च अल्पाहाराः शुभाननाः ।। 3.2.9.९० ।।
महाव्रताः पुराणज्ञा महादानपरायणाः ।।
निर्द्वेषिणो लोभयुता वेदाध्य यनतत्पराः ।। ९१ ।।
दीर्घदर्शिमहातेजो महामायाविमोहिताः ।।
शांडिलसगोत्रेये प्रवरत्रयसंयुताः ।। ९२ ।।
असितो देवलश्चैव शांडिलस्तु तृतीयकः ।।
अस्मिन्गोत्रे महाभागाः कुब्जाश्च द्विजसत्तमाः ।। ९३ ।।
नेत्ररोगी महादुष्टा महात्यागा अनायुषः ।।
कलहोत्पादने दक्षाः सर्वसंग्रह तत्पराः ।।९४।।
मलिना मानिनश्चैव ज्योतिःशास्त्रविशारदाः ।।
आत्रेयसगोत्रे ये जाताः पंचप्रवरसंयुताः ।। ९५ ।।
आत्रेयोऽर्चनानसश्यावाश्वोंगिर सोऽत्रिश्च ।।
अस्मिन्वंशे च ये जाता द्विजास्ते सूर्यवर्चसः ।। ९६ ।।
चंद्रवच्छीतलाः सर्वे धर्मारण्ये व्यवस्थिताः ।।
सदाचारा महादक्षाः श्रुतिशास्त्र परायणाः ।। ९७ ।।
याज्ञिकाश्च शुभाचाराः सत्यशौचपरायणाः ।।
धर्मज्ञा दानशीलाश्च निर्मलाश्च महोत्सुकाः ।। ९८ ।।
तपःस्वाध्यायनिरता न्यायधर्मपरायणाः ।। ९९ ।। ।।
युधिष्ठिर उवाच ।। ।।
कथयस्व महाबाहो धर्मारण्यकथामृतम् ।।
यच्छ्रुत्वा मुच्यते पापाद्घोराद्ब्रह्मवधादपि ।। ।। 3.2.9.१०० ।।
।। व्यास उवाच ।। ।।
शृणु राजन्प्रवक्ष्यामि कथामेतां सुदुर्लभाम् ।। १ ।।
यक्षरक्षःपिशाचाद्या उद्वेजयंति वाडवान् ।।
जृंभकोनाम यक्षोऽभूद्धर्म्मारण्यसमीपतः ।। २ ।।
उद्वेजयति नित्यं स धर्मारण्यनिवासिनः ।।
ततस्तैश्च द्विजाग्र्यैस्तु देवेभ्यो विनिवेदितम् ।। ३ ।।
यक्षरक्षादिना चैव परिभूता वयं सुराः ।।
त्यक्ष्यामोऽद्य वरं स्थानं तद्भयान्नात्र संशयः ।। ४ ।।
ततो देवैः संगधर्वैः स्थापितास्तत्र भूमिषु ।।
 सिद्धाश्च वरयोगिन्यः श्रीमातृप्रभृतयस्तथा ।। ५ ।।
रक्षणार्थं हि विप्राणां लोकानां हितकाम्यया ।।
गोत्रान्प्रति तथैकैका स्थापिता योगिनी तदा ।। ६ ।।
यस्य गोत्रस्य या शक्ती रक्षणे पालने क्षमा ।।
सा तस्य कुलदेवीति साक्षात्तत्र बभूव ह ।। ७ ।।
श्रीमाता तारणी देवी आशापूरी च गोत्रपा ।।
इच्छाऽऽर्तिनाशिनी चैव पिप्पली विकारवशा ।।८।।
जगन्माता महामाता सिद्धा भट्टारिका तथा ।।
कदंबा विकरा मीठा सुपर्णा वसुजा तथा ।।९।।
मातंगी च महादेवी वाणी च मुकुटेश्वरी ।।
भद्री चैव महाशक्तिः संहारी च महाबला।।3.2.9.११०।।
चामुंडा च महादेवी इत्येता गोत्रमातरः ।।
ब्रह्मविष्णुमहेशाद्यैः स्थापितास्तत्र रक्षणे ।।११।।
ताः पूजयंति विप्रेंद्राः स्वधर्मनिरताः सदा ।।
ततः प्रभृति योगिन्यः स्वेस्वे काले सुरक्षिताः ।।१२।।
वाडवाः स्वस्थतां जग्मुः पुत्रपौत्रैः समावृताः ।।
ततो देवाः सगंधर्वा हर्षनिर्भरमानसाः ।।
विमानवरमारूढा जग्मुर्नाकेऽमृताशनाः ।। १३ ।।
गते वर्षशते राजन्ब्रह्मविष्णुमहेश्वराः ।।
स्मृत्वा तु धर्मारण्यस्य प्रेक्षणार्थं कुतूहलात् ।।१४।।
समाजग्मुस्तदा राजन्प्रभाते उदिते रवौ ।।
विमानवरमारुह्य अप्सरोगणसेविताः ।।१५।।
गंधर्वैर् गीयमानास्ते स्तूयमानाः प्रबोधकैः ।।
तत्र स्थाने द्विजा राजन्समित्पुष्पकुशान्बहून् ।।१६।।
आश्रमांस्तान्परित्यज्य गताः सर्वे दिशो दश ।।
तमाश्रमपदं दृष्ट्वा शून्यं चैव महेश्वरः।।१७।।
उवाच वाक्यं धर्मज्ञो वाडवान्क्लिशते विभो ।।
शुशूषार्थं हि शुश्रूषन्कल्पयेदिति मे मतिः ।।१८।।
श्रुत्वा तु वचनं शंभोर्देवदेवो जनार्दनः ।।
सत्यंसत्यमिति प्रोच्य ब्रह्माणमिदमब्रवीत् ।। १९ ।।
भोभो ब्रह्मन्द्विजातीनां शुश्रूषार्थं प्रकल्पय ।।
सृष्टिर्हि शाश्वतीवाद्य द्विजोघोपि सुखी भवेत् ।।
विष्णोर्वाक्यमभिश्रुत्य ब्रह्मा लोकपितामहः।।3.2.9.१२०।।
संस्मरन्कामधेनुं वै स्मरणेनैव तत्क्षणे।।
आगता तत्र सा धेनुर्धर्मारण्ये पवित्रके ।। १२१ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वार्धे धर्मारण्यमाहात्म्ये गोत्रप्रवरगोत्रदेवीकथनंनाम नवमोऽध्यायः ।।९।। ।।।छ।। ।।