स्कन्दपुराणम्/खण्डः ३ (ब्रह्मखण्डः)/धर्मारण्य खण्डः/अध्यायः ०७

विकिस्रोतः तः
← अध्यायः ६ स्कन्दपुराणम्
अध्यायः ७
वेदव्यासः
अध्यायः ८ →

।। व्यास उवाच ।। ।।
संप्राप्य धर्मवाप्यां च यः कुर्यात्पितृतर्पणम् ।।
तृप्तिं प्रयांति पितरो यावदिंद्राश्चतुर्दश ।। १ ।।
पितरश्चात्र पूज्याश्च स्वर्गता ये च पूर्वजाः ।।
पिंडांश्च निर्वपेत्तेषां प्राप्येमां मुक्तिदायिकाम् ।। २ ।।
त्रेतायां पंच दिवसैर्द्वापरे त्रिदिनेन तु ।।
एकचित्तेन यो विप्राः पिंडं दद्यात्कलौ युगे ।। ३ ।।
लोलुपा मानवा लोके संप्राप्ते तु कलौ युगे ।।
परदाररता लोकाः स्त्रियोऽतिचपलाः पुनः।।४।।
परद्रोहरताः सर्वे नरनारीनपुंसकाः।।
परनिन्दापरा नित्यं परच्छिद्रोपदर्शकाः।।५।।
परोद्वेगकरा नूनं कलहा मित्रभेदिनः।।
सर्वे ते शुद्धतां यांति काजेशाः स्वयमब्रुवन् ।।६।।
एतदुक्तं महाभाग धर्मारण्यस्य वर्णनम् ।।
फलं चैवात्र सर्वं हि यदुक्तं शूलपाणिना ।। ७ ।।
वाङ्मनः कायशुद्धाश्च परदारपराङ्मुखाः ।।
अद्रोहाश्च समाः क्रुद्धा मातापितृपरायणाः ।। ८ ।।
अलौल्या लोभरहिता दानधर्मपरायणाः ।।
आस्तिकाश्चैव धर्मज्ञाः स्वामिभक्तिरताश्च ये ।। ९ ।।
पतिव्रता तु या नारी पतिशुश्रूषणे रता ।।
अहिंसका आतिथेयाः स्वधर्मनिरताः सदा।। 3.2.7.१० ।।
।। शौनक उवाच ।। ।।
शृणु सूत महाभाग सर्वधर्मविदांवर ।।
गृहस्थानां सदाचारः श्रुतश्च त्वन्मुखान्मया ।। ११ ।।
एकं मनेप्सितं मेद्य तत्कथयस्व सूतज ।।
पतिव्रतानां सर्वासां लक्षणं कीदृशं वद ।। १२ ।।
।। सूत उवाच ।। ।।
पतिव्रता गृहे यस्य सफलं तस्य जीवनम् ।।
यस्यांगच्छायया तुल्या यत्कथा पुण्यकारिणी ।। १३ ।।
पतिव्रतास्त्वरुंधत्या सावित्र्याप्यनसूयया ।।
शांडिल्या चैव सत्या च लक्ष्म्या च शतरूपया ।। ।। १४ ।।
मेनया च सुनीत्या च संज्ञया स्वाहया समाः ।।
पतिव्रतानां धर्मा हि मुनिना च प्रकीर्तिताः ।। १५ ।।
भुंक्ते भुक्ते स्वामिनि च तिष्ठ ति त्वनुतिष्ठति ।।
विनिद्रिते या निद्राति प्रथमं परिबुध्यति ।। १६ ।।
अनलंकृतमात्मानं देशांते भर्तरि स्थिते ।।
कार्यार्थं प्रोषिते क्वापि सर्व्वमंड नवर्जिता ।। १७ ।।
भर्तुर्नाम न गृह्णाति ह्यायुषोऽस्य हि वृद्धये ।।
पुरुषांतरनामापि न गृह्णति कदाचन ।। १८ ।।
आकृष्टापि च नाक्रोशेत्ताडितापि प्रसीदति ।।
इदं कुरु कृतं स्वामिन्मन्यतामिति वक्ति च ।। १९ ।।
आहूता गृहकार्याणि त्यक्त्वा गच्छति सत्वरम् ।।
किमर्थं व्याहृता नाथ स प्रसादो विधीयताम् ।। 3.2.7.२० ।।
न चिरं तिष्ठति द्वारि न द्वारमुपसेवते ।।
अदातव्यं स्वयं किंचित्कर्हिचिन्न ददात्यपि।। २१ ।।
पूजोपकरणं सर्वम नुक्ता साधयेत्स्वयम् ।।
नियमोदकबर्हींषि यत्र पुष्पाक्षतादिकम् ।। २२ ।।
प्रतीक्षमाणा च वरं यथाकालोचितं हि यत् ।।
तदुपस्थापयेत्सर्वमनुद्वि ग्नातिहृष्टवत् ।।२३।।
सेवते भर्त्तुरुच्छिष्टमिष्टमन्नं फलादिकम् ।।
दूरतो वर्ज्जयेदेषा समाजोत्सवदर्शनम् ।। २४ ।।
न गच्छेत्तीर्थयात्रादिविवाहप्रेक्षणा दिषु ।।
सुखसुप्तं सुखासीनं रममाणं यदृच्छया ।। २५ ।।
अंतरायेऽपि कार्येषु पतिं नोत्थापयेत्क्वचित् ।।
स्त्रीधर्मिणी त्रिरात्रं तु स्वमुखं नैव दर्शयेत् ।। २६ ।।
स्ववाक्यं श्रावयेन्नापि यावत्स्नात्वा न शुध्यति ।।
सुस्नाता भर्तृवदनमीक्षेतान्यस्य न क्वचित् ।।
अथवा मनसि ध्यात्वा पतिं भानुं विलोकयेत् ।।२७।।
हरिद्रां कुकुमं चैव सिंदूरं कज्जलं तथा ।।
कूर्पासकं च तांबूलं मांगल्याभरणं शुभम् ।। २८ ।।
केशसंस्कारकं चैव करकर्णादिभूषणम् ।।
भर्तुरायुष्यमिच्छंती दूरयेन्न पतिव्रता ।। २९ ।।
भर्तृविद्वेषिणीं नारीं नैषा संभाषते क्वचित् ।।
नैकाकिनी क्वचिद्भूयान्न नग्ना स्नाति च क्वचित् ।।3.2.7.३०।।
नोलूखले न मुशले न वर्द्धन्यां दृषद्यपि ।।
न यंत्रके न देहल्यां सती चोपविशेत्क्वचित् ।। ३१ ।।
विना व्यवायसमयात्प्रागल्भ्यं न क्वचिच्चरेत ।।
यत्रयत्र रुचिर्भर्तुस्तत्र प्रेमवती सदा ।। ३२ ।।
इदमेव व्रतं स्त्रीणामयमेव परो वृषः ।।
इयमेव च पूजा च भर्तुर्वाक्यं न लंघयेत् ।। ।। ३३ ।।
क्लीबं वा दुरवस्थं वा व्याधितं वृद्धमेव वा ।।
सुस्थिरं दुःस्थिरं वापि पतिमेकं न लंघयेत् ।। ३४ ।।
सर्पिर्लव(?)णहिंग्वादिक्षयेऽपि व पति व्रता ।।
पतिं नास्तीति न ब्रूयादायसीषु न भोजयेत् ।। ३५ ।।
तीर्थस्नानार्थिनी चैव पतिपादोदकं पिबेत् ।।
शंकरादपि वा विष्णोः पतिरेवाधि कः स्त्रियः ।। ३६ ।।
व्रतोपवामनियमं पतिमुल्लंघ्य या चरेत् ।।
आयुष्यं हरते भर्तुर्मृता निरयमृच्छति ।। ३७ ।।
उक्ता प्रत्युत्तरं दद्यान्नारी या क्रोधत त्परा ।।
सरमा जायते ग्रामे शृगाली निर्जने वने ।। ३८ ।।
स्त्रीणां हि परमश्चैको नियमः समुदाहृतः ।।
अभ्यर्च्य चरणौ भतुर्भो क्तव्यं कृतनिश्चया ।। ३९ ।।
उच्चासनं न सेवेत न व्रजेत्परवेश्मसु ।।
तत्र पारुष्यवाक्यानि ब्रूयान्नैव कदाचन ।।3.2.7.४०।।
गुरूणां सन्निधौ वापि नोच्चैर्ब्रु यान्नवाहयेत् ।। ४१ ।।
या भर्तारं परित्यज्य रहश्चरति दुर्मतिः ।।
उलूकी जायते क्रूरा वृक्षकोटरशायिनी ।। ४२ ।।
ताडिता ताडयेच्चेत्तं सा व्याघ्री वृषदंशिका ।।
कटाक्षयति याऽन्यं वै केकराक्षी तु सा भवेत् ।। ४३ ।।
या भर्तारं परित्यज्य मिष्टमश्नाति केवलम् ।।
ग्रामे सा सूकरी भूयाद्वल्गुली वाथ विङ्भुजा ।। ४४ ।।
 हुन्त्वंकृत्याप्रियं ब्रूते मूका सा जायते खलु ।।
या सपत्नीं सदैर्ष्येत दुर्भगा सा पुनःपुनः ।।
दृष्टिं विलुप्य भर्तुर्या कंचिदन्यं समीक्षते ।। ४५ ।।
काणा च विमुखा वापि कुरूपापि च जायते ।।
बाह्यादायांतमालोक्य त्वरिता च जलासनैः ।।
तांबूलैर्व्यजनैश्चैव पादसंवाहनादिभिः ।। ४६ ।।
तथैव चारुवचनैः स्वेदसंनोदनैः परैः ।।
या प्रियं प्रीणयेत्प्रीता त्रिलोकी प्रीणिता तया ।।
मितं ददाति हि पिता मितं भ्राता सुतं सुतः ।। ४७ ।।
अमितस्य हि दातारं भर्तारं का न पूजयेत् ।।
भर्ता देवो गुरुर्भर्ता धर्मतीर्थव्रतानि च ।।
तस्मात्सर्वं परित्यज्य पतिमेकं समर्चयेत् ।। ४८ ।।
जीवहीनो यथा देही क्षणादशुचितां व्रजेत् ।।
भर्तृहीना तथा योषित्सुस्नाताप्य शुचिः सदा ।। ४९ ।।
अमंगलेभ्यः सर्वेभ्यो विधवा स्यादमंगला ।।
विधवादर्शनात्सिद्धिः क्वापि जातु न जायते ।। 3.2.7.५० ।।
विहाय मातरं चैकां सर्वा मंगलवर्जिताः ।।
तदाशिषमपि प्राज्ञस्त्यजेदाशीविषोपमाम् ।। ५१ ।।
कन्याविवाहसमये वाचयेयुरिति द्विजाः ।।
भर्तुः सहचरी भूयाज्जीवतो ऽजीवतोपि वा ।। ५२ ।।
अनुव्रजन्ती भर्तारं गृहात्पितृवनं मुदा ।।
पदेपदेश्वमेधस्य फलं प्राप्नोत्यसंशयम् ।। ५३ ।।
व्यालग्राही यथा व्यालं बलादुद्धरते बिलात् ।।
एवमुत्क्रम्य दूतेभ्यः पतिं स्वर्गं व्रजेत्सती ।। ५४ ।।
यमदूताः पलायंते तामालोक्य पतिव्रताम् ।।
तपनस्तप्यते नूनं दहनोपि च दह्यते ।। ५५ ।।
कंपंते सर्वतेजांसि दृष्ट्वा पातिव्रतं महः ।।
यावत्स्वलोमसंख्यास्ति तावत्कोट्ययुतानि च ।। ५६ ।।
भर्त्रा स्वर्गसुखं भुंक्ते रममाणा पतिव्रता ।।
धन्या सा जननी लोके धन्योऽसौ जनकः पुनः ।। ५७ ।।
धन्यः स च पतिः श्रीमान्येषां गेहे पतिव्रता ।।
पितृवंश्या मातृवंश्याः पतिवंश्यास्त्रयस्त्रयः ।।
पतिव्रतायाः पुण्येन स्वर्गसौख्यानि भुंजते ।। ५८ ।।
शीलभंगेन दुर्वृत्ताः पातयंति कुलत्रयम् ।।
पितुर्मातुस्तथा पत्युरिहारमुत्र च दुःखिताः ।। ५९ ।।
पतिव्रतायाश्चरणो यत्रयत्र स्पृशेद्भुवम् ।।
सा तीर्थभूमिर्म्मान्येति नात्र भारोऽस्ति पावनः ।। 3.2.7.६० ।।
बिभ्यत्पतिव्रतास्पर्शं कुरुते भानुमानपि ।।
सोमो गन्धर्व एवापि स्वपावित्र्याय नान्यथा ।। ६१ ।।
आपः पतिव्रतास्पर्शमभिलष्यंति सर्वदा ।।
गायत्र्याघविनाशो नो पातिव्रत्येन साऽघनुत् ।। ६२ ।।
गृहेगृहे न किं नार्य्यो रूपलावण्यगर्विताः ।।
परं विश्वेशभक्त्यैव लभ्यते स्त्री पति व्रता ।। ६३ ।।
भार्या मूलं गृहस्थस्य भार्या मूलं सुखस्य च ।।
भार्या धर्मफलायैव भार्या संतानवृद्धये ।। ६४ ।।
परलोकस्त्वयं लोको जीयते भार्यया द्वयम् ।।
देवपित्रतिथीनां च तृप्तिः स्याद्भार्यया गृहे ।।
गृहस्थः स तु विज्ञेयो गृहे यस्य पतिव्रता ।। ६५ ।।
यथा गंगावगाहेन शरीरं पावनं भवेत् ।।
तथा पतिव्रतां दृष्ट्वा सदनं पावनं भवेत् ।। ६६ ।।
पर्यंकशायिनी नारी विधवा पातयेत्पतिम्।।
तस्माद्भूशयनं कार्य्यं पतिसौख्यसमीहया ।। ६७ ।।
नैवांगोद्वर्त्तनं कार्य्यं स्त्रिया विधवया क्वचित् ।।
गन्धद्रव्यस्य संभोगो नैव कार्य्यस्तया क्वचित् ।। ६८ ।।
तर्प्पणं प्रत्यहं कार्यं भर्तुः कुशतिलोदकैः।।
तत्पितुस्तत्पितुश्चापि नामगोत्रादिपूर्वकम् ।। ६९ ।।
विष्णोः संपूजनं कार्यं पतिबुद्ध्या न चान्यथा ।। ।।
पतिमेव सदा ध्यायेद्विष्णुरूपधरं हरिम् ।। 3.2.7.७० ।।
यद्यदिष्टतमं लोके यद्यत्पत्युः समीहितम् ।।
तत्तद्गुणवते देयं पतिप्रीणनकाम्यया ।। ७१ ।।
वैशाखे कार्त्तिके मासे विशेषनियमांश्चरेत् ।।
स्नानं दानं तीर्थयात्रां पुराणश्रवणं मुहुः ।। ७२ ।।
वैशाखे जलकुम्भाश्च कार्त्तिके घृतदीपिकाः ।।
माघे धान्यतिलोत्सर्गः स्वर्गलोके विशिष्यते ।। ७३ ।।
प्रपा कार्या च वैशाखे देवे देया गलंतिका ।।
उशीरं व्यजनं छत्रं सूक्ष्मवासांसि चंदनम् ।। ।।७४।।
सकर्पूरं च तांबूलं पुष्पदानं तथैव च ।।
जलपात्राण्यनेकानि तथा पुष्पगृहाणि च ।। ७५ ।।
पानानि च विचित्राणि द्राक्षारंभाफलानि च ।।
देयानि द्विजमुख्येभ्यः पतिर्मे प्रीयतामिति ।।७६।।
ऊर्ज्जे यवान्नमश्नीयादेकान्नमथवा पुनः।।
वृन्ताकं सूरणं चैव शूकशिंबीं च वर्जयेत्।।७७।।
कार्त्तिके वर्जयेत्तैलं कांस्यं चापि विवर्जयेत् ।।
कार्त्तिके मौननियमे चारुघण्टां प्रदापयेत् ।। ७८ ।।
पत्रभोजी कांस्यपात्रं घृतपूर्णं प्रयच्छति ।।
भूमिशय्याव्रते देया शय्या श्लक्ष्णा सतूलिका ।।७९।
फलत्यागे फलं देयं रसत्यागे च तद्रसः ।।
धान्यत्यागे च तद्धान्यमथवा शालयः स्मृताः ।।
धेनुं दद्यात्प्रयत्ने न सालंकारा सकांचनाम् ।।।3.2.7.८ ०।।
एकतः सर्वदानानि दीपदानं तथैकतः ।।
कार्त्तिके दीपदानस्य कलां नार्हंति षोडशीम् ।।५१।।
इत्यादिविधवानां च नियमाः संप्रकीर्तिताः ।।
तेषां फलमिदं राजन्नान्येषां च कदाचन ।। ८२ ।।
धर्मवापीं समासाद्य दानं दद्याद्विचक्षणः ।।
कोटिधा वर्द्धते नित्यं ब्रह्मणो वचनं यथा ।। ८३ ।।
तिलधेनुं च यो दयाद्धर्मेश्वरपुरः स्थितः ।।
तिलसंख्यानि वर्षाणि स्वर्गे लोके महीयते ।। ६४ ।।
धर्मक्षेत्रे तु संप्राप्य श्राद्धं कुर्यादतंद्रितः ।।
तस्य संवत्सरं यावत्तृप्ताः स्युः पितरो धुवम् ।। ८५ ।।
ये चान्ये पूर्वजाः स्वर्गे ये चान्ये नरकौकसः ।।
ये च तिर्यक्त्वमापन्ना ये च भूतादिसंस्थिताः ।। ८६ ।।
तान्सर्वान्धर्मकूपे वै श्राद्धं कुर्याद्यथाविधि ।।
अत्र प्रकिरणं यत्तु मनुष्यैः क्रियते भुवि ।।
तेन ते तृप्तिमायांति ये पिशाचत्वमागताः ।। ८७ ।।
येषां तु स्नानवस्त्रोत्थं भूमौ पतति पुत्रक ।।
तेन ये तरुतां प्राप्तास्तेषां तृप्तिः प्रजायते ।। ८८ ।।
या वै यवानां कणिकाः पतंति धरणीतले ।।
ताभिराप्यायनं तेषां ये तु देवत्वमागताः ।। ८९ ।।
उद्धृतेष्यथ पिंडेषु यावान्नकणिका भुवि ।।
ताभिराप्यायनं तेषां ये च पातालमागताः ।। 3.2.7.९० ।।
ये वा वर्णाश्रमाचारक्रियालोपा ह्यसंस्कृताः ।।
विपन्नास्ते भवंत्यत्र संमार्जनजलाशिनः ।। ९१ ।।
भुक्त्वा वाचमनं यच्च जलं पतति भूतले ।।
ब्राह्मणानां तथैवान्ये तेन तृप्तिं प्रयांति वै ।। ९२ ।।
एवं यो यजमानश्च यच्च तेषां द्विजन्मनाम् ।।
क्वचिज्जलान्नविक्षेपः शुचिरस्पृष्ट एव च ।। ९३ ।।
ये चान्ये नरके जातास्तत्र योन्यंतरं गताः ।।
प्रयांत्याप्यायनं वत्स सम्यक्छ्राद्धक्रियावताम् ।। ।। ९४ ।।
अन्यायोपार्जितैर्द्रव्यैः श्राद्धं यत्क्रियते नरैः ।।
तृप्यंति तेन चण्डालपुल्कसादिषु योनिषु ।। ९५ ।।
एवमाप्यायिता वत्स तेन चानेक
बांधवाः ।। श्राद्धं कर्तुमशक्तिश्चेच्छाकैरपि हि जायते ।। ९६ ।।
तस्माच्छ्राद्धं नरो भक्त्या शाकैरपि यथाविधि ।।
कुरुते कुर्वतः श्राद्धं कुलं क्वचिन्न सीदति ।। ९७ ।।
पापं यदि कृतं सर्वं पापं च वर्द्धते ध्रुवम् ।।
कुर्वाणो नरके घोरे पच्यते नात्र संशयः ।। ९८ ।।
यथा पुण्यं तथा पापं कृतं कर्म शुभाशुभम् ।।
तत्सर्वं वर्द्धते नूनं धर्मारण्ये नृपोत्तम ।। ९९ ।।
कामिकं कामदं देवं योगिनां मुक्तिदायकम् ।।
सिद्धानां सिद्धिदं प्रोक्तं धर्मारण्यं तु सर्वदा ।। 3.2.7.१०० ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्माण्यक्षेत्रमाहात्म्ये धर्माचारवर्णनंनाम सप्तमोऽध्यायः ।। ७ ।।