स्कन्दपुराणम्/खण्डः ३ (ब्रह्मखण्डः)/धर्मारण्य खण्डः/अध्यायः ०५

विकिस्रोतः तः
Jump to navigation Jump to search

।। व्यास उवाच ।। ।।
अतः परं प्रवक्ष्यामि धर्मारण्यनिवासिना ।।
यत्कार्यं पुरुषेणेह गार्हस्थ्यमनुतिष्ठता ।। १ ।।
धर्मारण्येषु ये जाता ब्राह्मणाः शुद्धवंशजा ।।
अष्टादशसहस्राश्च काजेशैश्च विनिर्मिताः ।। २ ।।
सदाचाराः पवित्राश्च ब्राह्मणा ब्रह्मवित्तमाः ।।
तेषां दर्शनमात्रेण महापापैर्विमुच्यते ।। ३ ।।
।। युधिष्ठिर उवाच ।। ।।
पाराशर्य समाख्याहि सदाचारं च मे प्रभो ।।
आचाराद्धर्ममाप्नोति आचाराल्लभते फलम्।।
आचाराच्छ्रियमाप्नोति तदाचारं वदस्व मे ।। ४ ।।
।। व्यास उवाच ।। ।।
स्थावराः कृमयोऽब्जाश्च पक्षिणः पशवो नराः ।।
क्रमेण धार्मिकास्त्वेत एतेभ्यो धार्मिकाः सुराः ।। ५ ।।
सहस्रभागात्प्रथमे द्वितीयानुक्रमास्तथा ।।
सर्व एते महाभागाः पापान्मुक्तिसमाश्रयाः ।। ६ ।।
चतुर्णामपि भूतानां प्राणिनोतीव चोत्तमाः ।।
प्राणिकेभ्योपि मुनिश्रेष्ठाः सर्वे बुद्ध्युपजीविनः ।। ७ ।।
मतिमद्भ्यो नराः श्रेष्ठास्तेभ्य श्रेष्ठास्तु वाडवाः ।।
विप्रेभ्योऽपि च विद्वांसो विद्वद्भ्यः कृतबुद्धयः ।। ८ ।।
कृतधीभ्योऽपि कर्तारः कर्तृभ्यो ब्रह्मतत्पराः ।।
न तेभ्योऽभ्यधिकः कश्चित्त्रिषु लोकेषु भारत ।। ९ ।।
अन्योन्यपूजकास्ते वै तपो विद्याविशेषतः ।।
ब्राह्मणो ब्रह्मणा सृष्टः सर्वभूतेश्वरो यतः ।। 3.2.5.१० ।।
अतो जगत्स्थितं सर्वं ब्राह्मणोऽर्हति नापरः ।।
सदाचारो हि सर्वार्हो नाचाराद्विच्युतः पुनः ।। ११ ।।
तस्माद्विप्रेण सततं भाव्यमाचारशीलिना ।।
विद्वेषरागरहिता अनुतिष्ठन्ति यं मुने ।। १२ ।।
सद्धि यस्तं सदाचारं धर्ममूलं विदुर्बुधाः ।।
लक्षणैः परिहीनोऽपि सम्यगाचारतत्परः ।। १३ ।।
श्रदालुरनसूयुश्च नरो जीवेत्समाः शतम् ।।।
श्रुतिस्मृतिभ्यामुदितं स्वेषुस्वेषु च कर्मसु ।। १४ ।।
सदाचारं निषेवेत धर्ममूलमतन्द्रितः ।।
दुराचाररतो लोके गर्हणीयः पुमा न्भवेत् ।। १५ ।।
व्याधिभिश्चाभिभूयेत सदाल्पायुः सुदुःखभाक् ।।
त्याज्यं कर्म पराधीनं कार्यमात्मवशं सदा ।। १६ ।।
दुःखी यतः पराधीनः सदैवात्मवशः सुखी ।।
यस्मिन्कर्मण्यंतरात्मा क्रियमाणे प्रसीदति ।। १७ ।।
तदेव कर्म कर्त्तव्यं विपरीतं न च क्वचित् ।।
प्रथमं धर्म्मसर्वस्वं प्रोक्तं यन्नियमा यमाः ।। १६ ।।
अतस्तेष्वेव वै यत्नः कर्तव्यो धर्ममिच्छता ।।
सत्यं क्षमार्तवं ध्यानमानृशंस्यमहिंसनम् ।। १९ ।।
दमः प्रसादो माधुर्यं मृदुतेति यमा दश ।।
शौचं स्नानं तपो दानं मौनेज्याध्ययनं व्रतम् ।। 3.2.5.२० ।।
उपोषणोपस्थदंडो दशैते नियमाः स्मृताः ।।
कामं क्रोधं दमं मोहं मात्सर्यं लोभमेव च ।। २१ ।।
अमून्षड्वैरिणो जित्वा सर्वत्र विजयी भवेत् ।।
शनैः संचिनुयाद्धर्मं वल्मीकं शृंगवान्यथा ।। २२ ।।
परपीडामकुर्वाणः पर लोकसहायिनम् ।।
धर्म एव सहायी स्यादमुत्र परिरक्षितः ।। २३ ।।
पितृमातृसुतभ्रातृयोषिद्बंधुजनाधिकः ।।
जायते चैकलः प्राणी म्रियते च तथै कलः ।। २४ ।।
एकलः सुकृतं भुंक्ते भुंक्ते दुष्कृतमेकलः ।।
देहे पंचत्वमापन्ने त्यक्त्वैकं काष्ठलोष्टवत् ।। २५ ।।
बांधवा विमुखा यांति धर्मो यांतमनु व्रजेत् ।।
अतः संचिनुयाद्धर्म्ममत्राऽमुत्र सहायिनम् ।। २६ ।।
धर्मं सहायिनं लब्ध्वा संतरेद्दुस्तरं तमः ।।
संबंधानाचारेन्नित्यमुत्तमैरुत्तमैः सुधीः ।। ।।२७।।
अधमानधमांस्त्यक्त्वा कुलमुत्कर्षतां नयेत् ।।
उत्तमानुत्तमानेव गच्छेद्धीनांश्च वर्जयेत् ।।
ब्राह्मणः श्रेष्ठतामेति प्रत्यवायेन शूद्रताम् ।। २८ ।।
अनध्ययनशीलं च सदाचारविलंघिनम् ।।
सालसं च दुरन्नादं ब्राह्मणं बाधतेंऽतकः ।। २९ ।।
अतोऽभ्यस्येत्प्रयत्नेन सदाचारं सदा द्विजः ।।
तीर्थान्यप्यभिलष्यंति सदाचारिसमागमम् ।। 3.2.5.३० ।।
रजनीप्रांतयामार्द्धं ब्राह्मः समय उच्यते ।।
स्वहितं चिंतयेत्प्राज्ञस्तस्मिंश्चोत्थाय सर्वदा ।। ।। ३१ ।।
गजास्यं संस्मरेदादौ तत ईशं सहांबया ।।
श्रीरंगं श्रीसमेतं तु ब्रह्माणं कमलोद्भवम्।। ३२।।
इंद्रादीन्सकलान्देवान्वसिष्ठादीन्मुनीनपि ।।
गंगायाः सरितः सर्वाः श्रीशैलायखिलान्गिरीन्।। ३३ ।।
क्षीरोदादीन्समुद्रांश्च मानसादिसरांसि च ।।
वनानि नंदनादीनि धेनूः कामदुघादयः ।। ।। ३४ ।।
कल्पवृक्षादिवृक्षांश्च धातून्कांचनमुख्यतः ।।
दिव्यस्त्रीरुर्वशीमुख्याः प्रह्रादावद्यान्हरेः प्रियान् ।। ३५ ।।
जननीचरणौ स्मृत्वा सर्वतीर्थोक्त्त मोत्तमौ ।।
पितरं च गुरूंश्चापि हदि ध्यात्वा प्रसन्नधीः ।। ३६ ।।
ततश्चावश्यकं कर्त्तुं नैर्ऋतीं दिशमाव्रजेत् ।।
ग्रामाद्धनुःशतं गच्छेन्नगराच्च चतुर्गुण म् ।। ३७ ।।
तृणैराच्छाद्य वसुधां शिरः प्रावृत्य वाससा ।।
कर्णोपवीत उदग्वक्त्रो दिवसे संध्ययोरपि ।। ३८ ।।
विण्मूत्रे विसृजेन्मौनी निशायां दक्षिणामुखः ।।
न तिष्ठन्नाशु नो विप्र गोवन्ह्यनिलसंमुखः ।। ३९ ।।
न फालकृष्टे भूभागे न रथ्यासेव्यभूतले ।।
नालोकयेद्दिशो भागञ्ज्यो तिश्चक्रं नभो मलम् ।। 3.2.5.४० ।।
वामेन पाणिना शिश्नं धृत्वोत्तिष्ठेत्प्रयत्नवान् ।।
अथो मृदं समादद्याज्जंतुकर्क्करवर्जिताम् ।। ४१ ।।
विहाय मूषको त्खातां चोच्छिष्टां केशसंकुलाम् ।।
गुह्ये दद्यान्मृदं चैकां प्रक्षाल्य चांबुना ततः ।। ४२ ।।
पुनर्वामकरेणेति पंचधा क्षालयेद्गुदम् ।।
एकैक पादयोर्दद्यात्तिस्रः पाण्योर्मृदस्तथा ।। ४३ ।।
इत्थं शौचं गृही कुर्याद्गंधलेपक्षयावधि ।।
क्रमाद्वैगुण्यतः कुर्याद्ब्रह्मचर्यादिषु त्रिषु ।। ४४ ।।
दिवाविहितशौचाच्च रात्रावर्द्धं समाचरेत् ।।
परग्रामे तदर्धं च पथि तस्यार्धमेव च ।। ४५ ।।
तदर्धं रोगिणां चापि सुस्थे न्यूनं न कार येत् ।।
अपि सर्वनदीतोयैर्मृत्कूटैश्चाप्यगोपमैः ।। ४६ ।।
आपातमाचरेच्छौचं भावदुष्टो न शुद्धिभाक् ।।
आर्द्रधात्रीफलोन्माना मृदः शौचे प्रकीर्तिताः ।। ४७ ।।
सर्वाश्चाहुतयोऽप्येवं ग्रासाश्चांद्रायणेपि च ।।
प्रागास्य उदगास्यो वा सूपविष्टः शुचौ भुवि ।। ४८ ।।
उपस्पृशेद्विहीनाभिस्तुषांगारास्थिभस्मभिः ।।
अतिस्वच्छाभिरद्भिश्च यावद्धृद्गाभिरत्वरः ।। ४९ ।।
ब्राह्मणो ब्रह्मतीर्थेन दृष्टिपूताभिराचमेत् ।।
कण्ठगाभिर्नृपः शुध्येत्तालुगाभिस्तथोरुजः ।। 3.2.5.५० ।।
स्त्रीशूद्रावाथ संस्पर्शमात्रेणापि विशुध्यतः ।।
शिरः शब्दं सकंठं वा जले मुक्तशिखोऽपि वा ।। ५१ ।।
अक्षालितपदद्वद्व आचांतोऽप्यशुचिर्म्मतः ।।
त्रिः पीत्वांबु विशुद्ध्यर्थं ततः खानि विशोधयेत् ।। ५२ ।।
अंगुष्ठमूलदेशेन ह्यधरोष्ठौ परि मृजेत् ।।
स्पृष्ट्वा जलेन हृदयं समस्ताभिः शिरः स्पृशेत् ।। ५३ ।।
अंगुल्यग्रैस्तथा स्कन्धौ सांबु सर्व्वत्र संस्पृशेत् ।।
आचांतः पुनराचामेत्कृत्वा रथ्योपसर्पणम्।। ५४ ।।
स्नात्वा भुक्त्वा पयः पीत्वा प्रारंभे शुभकर्मणाम् ।।
सुप्त्वा वासः परीधाय दृष्ट्वा तथाप्यमंगलम् ।। ५५ ।।
प्रमादादशुचि स्मृत्वा द्विराचांतः शुचिर्भवेत् ।।
दंतधावनं प्रकुर्वीत यथोक्त धर्मशास्त्रतः ।।
आचांतोऽप्यशुचिर्यस्मादकृत्वा दंतधावनम् ।। ५६ ।।
प्रतिपद्दर्शषष्ठीषु नवम्यां रविवासरे ।।
दंतानां काष्ठसंयोगो दहेदासप्तमं कुलम् ।। ५७ ।।
अलाभे दंतकाष्ठानां निषिद्धे वाथ वासरे ।।
गंडूषा द्वादश ग्राह्या मुखस्य परिशुद्धये ।। ५८ ।।
कनिष्ठाग्रपरीमाणं सत्वचं निर्व्रणारुजम् ।।
द्वादशांगुलमानं च सार्द्रं स्याद्दंतधावनम् ।। ५९ ।।
एकेकांगुलमानं तच्चर्वयेद्दंतधावनम् ।।
प्रातः स्नानं चरित्वा च शुद्ध्यै तीर्थे विशेषतः ।। 3.2.5.६० ।।
प्रातः स्नानाद्यतः शुद्ध्येत्कायोऽयं मलिनः सदा।।
यन्मलं नवभिश्छिद्रैः स्रवत्येव दिवानिशम् ।। ६१ ।।
उत्साहमेधासौभाग्यरूपसंपत्प्रवर्द्धकम् ।।
प्राजापत्यसमं प्राहुस्तन्महाघविनाशकृत् ।। ६२ ।।
प्रातः स्नानं हरेत्पापमलक्ष्मीं ग्लानिमेव च ।।
अशुचित्वं च दुःस्वप्नं तुष्टिं पुष्टिं प्रयच्छति ।। ६३ ।।
नोपसर्पंति वै दुष्टाः प्रातस्नायिजनं क्वचित् ।।
दृष्टादृष्टफलं यस्मात्प्रातःस्नानं समाचरेत् ।। ६४ ।।
प्रसंगतः स्नानविधिं प्रवक्ष्यामि नृपोत्तमाः ।।
विधिस्नानं यतः प्राहुः स्नाना च्छतगुणोत्तरम् ।। ६५ ।।
विशुद्धां मृदमादाय बर्हिषस्तिलगोमयम् ।।
शुचौ देशे परिस्थाप्य ह्याचम्य स्नानमाचरेत् ।। ६६ ।।
उपग्रही बद्ध शिखो जलमध्ये समाविशेत् ।।
स्वशाखोक्तविधानेन स्नानं कुर्याद्यथाविधि ।। ६७ ।।
स्नात्वेत्थं वस्त्रमापीड्य गृह्णीयाद्धौतवाससी ।।
आचम्य च ततः कुर्यात्प्रातःसंध्यां कुशान्वितः ।। ६८ ।।
प्राणायामांश्चरन्विप्रो नियम्य मानसं दृढम् ।।
अहोरात्रकृतैः पापैर्मुक्तो भवति तत्क्षणात् ।। ।। ६९ ।।
दश द्वादशसंख्या वा प्राणायामाः कृता यदि ।।
नियम्य मानसं तेन तदा तप्तं महत्तपः ।। 3.2.5.७० ।।
सव्याहृतिप्रणवकाः प्राणायामास्तु षोडश ।।
अपि भ्रूणहनं मासात्पुनंत्यहरहः कृताः ।। ७१ ।।
यथा पार्थिवधातूनां दह्यते धमनान्मलाः ।।
तथेंद्रियैः कृता दोषा ज्वाल्यंते प्राणसंयमात्।। ७२ ।।
एकाक्षरं परं ब्रह्म प्राणायामः परं तपः ।।
गायत्र्यास्तु परं नास्ति पावनं च नृपोत्तम ।। ७३ ।।
कर्मणा मनसा वाचा यद्रात्रौ कुरुते त्वघम्।।
उत्तिष्ठन्पूर्वसंध्यायां प्राणायामैर्विशोधयेत् ।। ७४ ।।
यदह्ना कुरुते पापं मनोवाक्कायकर्मभिः ।।
आसीनः पश्चिमां संध्यां प्राणायामैर्व्यपोहति ।।
पश्चिमां तु समासीनो मलं हंति दिवाकृतम् ।। ७५ ।।
नोपतिष्ठेत्तु यः पूर्व्वां नोपास्ते यस्तु पश्चिमाम् ।।
स शूद्रवद्बहिष्कार्यः सर्वस्माद्द्विजकर्मणः ।। ७६ ।।
अपां समीपमासाद्य नित्यकर्म समाचरेत् ।।
तत आचमनं कुर्याद्यथाविध्यनु पूर्वशः ।। ७७ ।।
आपोहिष्ठेति तिसृभिर्मार्जनं तु ततश्चरेत् ।।
भूमौ शिरसि चाकाश आकाशे भुवि मस्तके ।। ७८ ।।
मस्तके च तथाकाशं भूमौ च नवधा क्षिपेत् ।।
भूमिशब्देन चरणावाकाशं हृदयं स्मृतम् ।।
शिरस्येव शिरःशब्दो मार्जनं तैरुदाहृतम् ।। ७९ ।।
वारुणादपि चाग्नेयाद्वायव्यादपि चेंद्रतः ।।
मंत्रस्थानादपि परं ब्राह्मं स्नानमिदं परम् ।।
ब्राह्मस्नानेन यः स्नातः स बाह्याभ्यंतरं शुचिः ।। 3.2.5.८० ।।
सर्वत्र चार्हतामेति देवपूजादिकर्मणि ।।
नक्तंदिनं निमज्ज्याप्सु कैवर्ताः किमु पावनाः ।। ८१ ।।
शतशोऽपि तथा स्नाता न शुद्धा भावदूषिताः ।।
अंतःकरणशुद्धांश्च तान्विभूतिः पवित्रयेत् ।। ८२ ।।
किं पावनाः प्रकीर्त्यंते रासभा भस्मधूसराः ।।
स स्नातः सर्वतीर्थेषु मलैः सर्वैर्विवर्जितः ।।८३।।
तेन क्रतुशतैरिष्टं चेतो यस्येह निर्मलम् ।।
तदेव निर्मलं चेतो यथा स्यात्तन्मुने शृणु ।। ८४ ।।
विश्वेशश्चेत्प्रसन्नः स्यात्तदा स्यान्नान्यथा क्वचित् ।।
तस्माच्चेतो विशुद्ध्यर्थं काशीनाथं समाश्रयेत्।।८५।।
इदं शरीरमुत्सृज्य परं ब्रह्माधिगच्छति।।
द्रुपदांतं ततो जप्त्वा जलमादाय पाणिना।।
।। ८६ ।। कुयादृतं च मंत्रेण विधिज्ञस्त्वघमर्षणम् ।।
निमज्ज्याप्सु च यो विद्वाञ्जपेत्त्रिरघमर्षणम् ।। ८७ ।।
जले वापि स्थले वापि यः कुर्यादघमर्ष णम् ।।
तस्याघौघो विनश्येत यथा सूर्योदये तमः ।। ८८ ।।
गायत्रीं शिरसा हीनां महाव्याहृतिपूर्व्विकाम् ।।
प्रणवाद्यां जपंस्तिष्ठन्क्षिपेदंभोंजलि त्रयम्।। ८९ ।।
तेन वज्रोदकेनाशु मंदेहा नाम राक्षसाः ।।
सूर्यतेजः प्रलोपंते शैला इव विवस्वतः ।। 3.2.5.९० ।।
सहायार्थं च सूर्यस्य यो द्विजो नांजलि त्रयम्।।
क्षिपेन्मंदेहनाशाय सोपि मंदेहतां व्रजेत् ।।९१।।
प्रातस्तावज्जपंस्तिष्ठेद्यावत्सूर्यस्य दर्शनम् ।।
उपविष्टो जपेत्सायमृक्षाणामाविलोकनात् ।। ।। ९२ ।।
काललोपो न कर्त्तव्यो द्विजेन स्वहितेप्सुना।।
अर्द्धोदयास्तसमये तस्माद्वज्रोदकं क्षिपेत् ।। ९३ ।।
विधिनापि कृता संध्या कालातीता ऽफला भवेत् ।।
अयमेव हि दृष्टांतो वंध्यास्त्रीमैथुनं यथा ।।९४।।
जले वामकरं कृत्वा या संध्याऽऽचरिता द्विजैः ।।
वृषली सा परिज्ञेया रक्षोगणमुदा वहा ।। ९५ ।।
उपस्थानं ततः कुर्याच्छाखोक्तविधिना ततः ।।
सहस्रकृत्वो गायत्र्याः शतकृत्वोथवा पुनः ।। ९६ ।।
दशकृत्वोऽथ देव्यै च कुर्यात्सौ रीमुपस्थितिम् ।।
सहस्रपरमां देवीं शतमध्यां दशावराम् ।। ९७ ।।
गायत्रीं यो जपेद्विप्रो न स पापैः प्रलिप्यते ।।
रक्तचंदनमिश्राभिरद्भिश्च कुसुमैः कुशैः ।। ९८ ।।
वेदोक्तैरागमोक्तैर्वा मंत्रैरर्घं प्रदापयेत् ।।
अर्चितः सविता येन तेन त्रैलोक्यमर्च्चितम् ।। ९९ ।।
अर्चितः सविता दत्ते सुतान्पशुव सूनि च ।।
व्याधीन्हरेद्ददात्यायुः पूरयेद्वांछितान्यपि ।। 3.2.5.१०० ।।
अयं हि रुद्र आदित्यो हरिरेष दिवाकरः ।।
रविर्हिरण्यरूपोऽसौ त्रयीरूपोऽयमर्यमा ।। १०१ ।।
ततस्तु तर्पणं कुर्यात्स्वशाखोक्तविधानतः ।।
ब्रह्मादीनखिलान्देवान्मरीच्यादींस्तथा मुनीन् ।। १०२ ।।
चंदनागुरुकर्प्पूरगंधव त्कुसमैरपि ।।
तर्पयेच्छुचिभिस्तोयैस्तृप्यंत्विति समुच्चरेत् ।। ३ ।।
सनकादीन्मनुष्यांश्च निवीती तर्पयेद्यवैः ।।
अंगुष्ठद्वयमध्ये तु कृत्वा दर्भानृजून्द्विजः ।। ४ ।।
कव्यवाडनलादींश्च पितॄन्दिव्यान्प्रतर्प्पयेत् ।।
प्राचीनावीतिको दर्भैर्द्विगुणैस्तिलमिश्रितैः ।। ५ ।।
रवौ शुक्ले त्रयोदश्यां सप्तम्यां निशि संध्ययोः ।।
श्रेयोर्थी ब्राह्मणो जातु न कुर्यात्तिलतर्प्पणम् ।। ६ ।।
यदि कुर्यात्ततः कुर्याच्छुक्लैरेव तिलैः कृती ।।
चतुर्दश यमान्पश्चात्तर्पयेन्नाम उच्चरन् ।।७।।
ततः स्वगोत्रमुच्चार्य तर्पयेत्स्वान्पितॄन्मुदा ।।
सव्यजानुनिपातेन पितृतीर्थेन वाग्यतः ।।८।।
एकैकमंजलिं देवा द्वौद्वौ तु सनकादिकाः ।।
पितरस्त्रीन्प्रवांछंति स्त्रिय एकैकमंजलिम् ।। ९ ।।
अंगुल्यग्रेण वै दैवमार्षमंगुलिमूलगम् ।।
ब्राह्ममंगुष्ठमूले तु पाणिमध्ये प्रजापतेः ।। 3.2.5.११० ।।
मध्येंगुष्ठप्रदेशिन्योः पित्र्यं तीर्थं प्रचक्षते ।।
आब्रह्मस्तंबपर्यंतं देवर्षिपितृमानवाः ।। ११ ।।
तृप्यंतु सर्व्वे पितरो मातृमातामहादयः ।।
अन्ये च मंत्राः प्रोक्ता ये वेदोक्ताः पुराणसंभवाः ।। १२ ।।
सांगं च तर्प्पणं कुर्यात्पितॄणां च सुखप्रदम् ।।
अग्निकार्यं ततः कृत्वा वेदाभ्यासं ततश्चरेत् ।। १३ ।।
श्रुत्यभ्यासः पंचधा स्यात्स्वीकारोऽर्थविचारणम् ।।
अभ्यासश्च तपश्चापि शिष्येभ्यः प्रतिपादनम् ।। १४ ।।
लब्धस्य प्रतिपालार्थमलब्धस्य च लब्धये ।।
प्रातःकृत्यमिदं प्रोक्तं द्विजातीनां नृपोत्तम ।। १५ ।।
अथवा प्रातरुत्थाय कृत्वावश्यकमेव च ।।
शौचाचमनमादाय भक्षयेद्दन्तधावनम् ।। ।। १६ ।।
विशोध्य सर्वगात्राणि प्रातःसंध्यां समाचरेत् ।।
वेदार्थानधिगच्छेद्वै शास्त्राणि विविधान्यपि ।। १७ ।।
अध्यापयेच्छुचीञ्छिष्यान्हितान्मे धासमन्वितान् ।।
उपेयादीश्वरं चापि योगक्षेमादिसिद्धये ।। १८ ।।
ततो मध्याह्नसिद्ध्यर्थं पूर्वोक्तं स्नानमाचरेत् ।।
स्नात्वा माध्याह्निकीं संध्या मुपासीत विचक्षणः ।। १९ ।।
देवतां परिपूज्याथ नैमित्तिकं विधिं चरेत् ।।
पवनाग्निं समुज्ज्वाल्य वैश्वदेवं समाचरेत् ।। 3.2.5.१२० ।।
निष्पावान्को द्रवान्माषान्कलापांश्चणकांस्त्यजेत् ।।
तैलपक्वमपक्वान्नं सर्वं लवणयुक्त्यजेत् ।। २१ ।।
आढक्यन्नं मसूरान्नं वर्तुलधान्यसंभवम् ।।
भुक्तशेषं पर्युषितं वैश्वदेवे विवर्जयेत् औ। २२ ।।
दर्भपाणिः समाचम्य प्राणायामं विधाय च ।।
पृषोदिवीति मंत्रेण पर्य्युक्षणमथाचरेत् ।। २३ ।।
प्रदक्षिणं च पर्युक्ष्य द्विः परिस्तीर्य वै कुशान् ।।
रापोर्द्ध (?) देवमन्त्रेण कुर्याद्वह्निं स्वसंमुखे ।। २४ ।।
वैश्वानरं समभ्यर्च्य गन्धपुष्पाक्षतैस्तथा ।।
स्वशाखोक्तप्रकारेण होमं कुर्याद्विचक्षणः ।। २५ ।।
अध्वगः क्षीणवृत्तिश्च विद्यार्थी गुरुपोषकः ।।
यतिश्च ब्रह्मचारी च षडेते धर्मभिक्षकाः ।। २६ ।।
अतिथिः पांथिको ज्ञेयोऽनूचानः श्रुतिपारगः ।।
मान्यावेतौ गृहस्थानां ब्रह्मलोकमभीप्सताम् ।। २७ ।।
अपि श्वपाके शुनि वा नैवान्नं निष्फलं भवेत् ।।
अत्रार्थिनि समायाते पात्रापात्रं न चिंतयेत् ।। २८ ।।
शुनां च पतितानां च श्वपचां पापरोगिणाम् ।।
काकानां च कृमीणां च बहिरन्नं किरेद्भुवि ।। २९ ।।
ऐन्द्रवारुणवायव्याः सौम्या वै नैर्ऋताश्च ये ।।
प्रतिगृह्णंत्विमं पिंडं काका भूमौ मयार्पितम् ।। 3.2.5.१३० ।।
इत्थं भूत बलिं कृत्वा कालं गोदोहमात्रकम् ।।
प्रतीक्ष्यातिथिमायातं विशद्भोज्यगृहं ततः ।। ३१ ।।
अदत्त्वा वायसबलिं नित्यश्राद्धं समाचरेत् ।।
नित्यश्राद्धे स्वसामर्थ्यात्त्रीन्द्वावेकमथापि वा ।। ३२ ।।
भोजयेत्पितृयज्ञार्थं दद्यादुद्धत्य वारि च ।।
नित्यश्राद्धं दैवहीनं नियमादिविवर्जितम् ।। ।। ३३ ।।
दक्षिणारहितं त्वेतद्दातृभोक्तृसुतृप्तिकृत् ।।
पितृयज्ञं विधायेत्थं स्वस्थबुद्धिरनातुरः ।। ३४ ।।
अदुष्टासनमध्यास्य भुंजीत शिशुभिः सह ।।
सुगन्धिः सुमनाः स्रग्वी शुचिवासोद्वयान्वितः ।। ३५ ।।
प्रागास्य उदगास्यो वा भुंजीत पितृसेवितम् ।।
विधायान्नमनग्नं तदुपरिष्टादधस्तथा ।। ३६ ।।
आपोशानविधानेन कृत्वाश्नीयात्सुधीर्द्विजः ।।
भूमौ बलित्रयं कुर्यादपो दद्यात्तदोपरि ।। ३७ ।।
सकृच्चाप उपस्पृश्य प्राणाद्याहुतिपंचकम् ।।
दद्याजठरकुंडाग्नौ दर्भपाणिः प्रसन्नधीः ।। ३८ ।।
दर्भपाणिस्तु यो भुंक्ते तस्य दोषो न विद्यते ।।
केशकीटादिसंभूतस्तदश्नीयात्सदर्भकः ।। ३९ ।।
ततो मौनेन भुञ्जीत न कुर्याद्दंतघर्षणम् ।।
प्रक्षालितव्यहस्तस्य दक्षिणांगुष्ठमूलतः ।। 3.2.5.१४० ।।
रौरवेऽपुण्यनि लये अधोलोकनिवासिनाम् ।।
उच्छिष्टोदकमिच्छूनामक्षय्यमुपतिष्ठताम् ।। ४१ ।।
पुनराचम्य मेधावी शुचिर्भूत्वा प्रयत्नतः ।।
मुखशुद्धिं ततः कृत्वा पुराणश्रवणादिभिः ।। ४२ ।।
अतिवाह्य दिवाशेषं ततः संध्यां समाचरेत् ।।
गृहेषु प्राकृता संध्या गोष्टे दशगुणा स्मृता ।। ४३ ।।
नद्यामयुतसंख्या स्यादनंता शिवसन्निधौ ।।
अनृतं मद्यगन्धं च दिवामैथुनमेव च ।।
पुनाति वृषलस्थानं संध्या बहिरुपासिता ।। ४४ ।।
उद्देशतः समाख्यात एष नित्यतनो विधिः ।।
इत्थं समाचरन्विप्रो नावसीदति कर्हिचित्।।१४५ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहरुया संहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मारण्यमाहात्म्ये सदाचारवर्णनंनाम पंचमोऽध्यायः ।। ५ ।। ।। छ ।। ।।