स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/वेङ्कटाचलमाहात्म्यम्/विषयानुक्रमणिका

विकिस्रोतः तः

अथ वैष्णवखण्डे प्रथमं वेङ्कटाचलमाहात्म्यम् ।। (२- १) ।।

१ सूतशौनकसंवादे नारदस्य सुमेरुशिखरस्थयज्ञवराहदर्शनम्, ततः स्वामिपुष्करिण्याः सर्वतीर्थातिशायित्ववर्णनम्, कुमारधारामाहात्म्यम्, तुंबतीर्थमाहात्म्यम्, पाण्डवतीर्थमाहात्म्यम्, पापनाशन-देवतीर्थयोर्माहात्म्यम्, धरणीकृतवराहस्तुतिः, वराहस्य धरण्या साकं शेषाचलं प्रत्यागमनम, वेङ्कटाचलमाहात्म्यश्रवणावसरः, अध्यायफलश्रुतिः.. १

२ वराहमंत्राराधनविधिः. .. ... ४

३ अथागस्त्यप्रार्थनया भगवतः सर्वजनदृग्गोचरत्ववर्णनम्, ततो मित्रवर्मण आकाशराजाख्यसुतोत्पत्तिवर्णनम्, धरणीतलात्पद्मावत्युत्पत्तिक्रमः, आकाशराजस्य धरण्याख्यपत्न्यां वसुदानाख्यसुतोत्पत्तिः.... ४

४ उद्यानवासिन्याः पद्मावत्याः समीपे नारदागमनम्, नारदोदीरितपद्मावतीशरीरलक्षणानि, पद्मावत्याः स्वसखीभिः साकं पुप्पाटवीगमनम्, मृगयार्थं पुप्पाटवीं प्रति श्रीनिवासागमनम् , भगवतः कन्यकानां चान्योन्यसंवादः ५

५ अथ पद्मावतीदर्शनेन श्रीनिवासस्य मोहप्राप्तिः, मुह्यमानं श्रीनिवासं प्रति बकुलमालिकोक्तिः, श्रीनिवासोक्तपद्मावतीपरिणयकारणानि, वियद्राजपुरं प्रति बकुलमालिकागमनम्, दिव्योद्यानस्थपद्मावतसखीः प्रति बकुलमालिकोक्तिः.. ७

६ अथ बकुलमालिकां प्रति सखीविनिवेदितपद्मावत्युदन्तः, पद्मावतीमुद्दिश्य दैवज्ञं प्रति वियद्राजकृतप्रश्नादिः- दैवज्ञोक्त्याऽगस्त्यलिंगार्चनाय विप्रादिप्रेषणम्, धरणीकृतप्रश्नस्य पुलिन्दिनीप्रतिवचनम् ,पद्मावतीनिवेदितभगवद्भागवतयोर्लक्षणानि, बकुलमालिकया सार्धं सखीनां धरणीसमीप आगमनम्. ८

७ धरणीदेव्यै बकुलमालिकानिवेदितश्रीनिवासोदन्त:, श्रीनिवासोक्त्या शंखनृपस्य स्वामितीर्थे तपःकरणम्, बकुलमालिकोक्त्या धरण्यादिकृतविवाहनिश्चयः, विश्वकर्मकृतपुरालंकारादिक्रमः, शुक्रेण सह बकुलायाः श्रीनिवाससमीपे गमनम्।, श्रीनिवासायै शुकावेदितपद्मावतीपरिणयवृत्तान्तः, पद्मावत्याः शुकदत्त - श्रीनिवासमालाधारणम् --- --- --- --- --- ---

८ अथ श्रीनिवासस्य लक्ष्म्यादिकृतपरिणयालंकार:, ब्रह्मादिभिः साकं श्रीनिवासस्य वियद्राजपुरगमनम् वधूवरयोर्वियद्राजवितीर्णप्राभृतादिकम् , श्रीनिवासकृपया वियद्राजस्य भक्तिरूपवरप्राप्ति:, विवाहार्थमागतानां ब्रह्मादीनां स्ववासगमनम्.

९ अथ वसु नामकनिषादवृत्तान्तः, सुतहननोद्युक्तं वसुं प्रति भगवदुक्ति:, रंगदासस्य श्रीनिवाससेवायै श्रीशेषाचलागमनम्, श्रीनिवासार्थं रंगदासकृतदिव्योद्यानमण्डपादिनिर्माणानि, रंगदासस्य गंधर्वक्रीडादर्शनेन भगवत्कैंकर्यविस्मृतिः, स्वरूपानुसंधानेन लज्जितं रंगदासं प्रति श्रीनिवासवचनम् , तोण्डमान्नामकनृपवृत्तान्त:, तस्य मृगयार्थं श्रीशेषाचलगमनम् , श्रीनिवाससमीपस्थपञ्चवर्णशुकवृत्तान्तः, तोण्डमान्नृपस्य निषादेन सह श्रीनिवाससमीपगमनम् , तोण्डमान्नृपं प्रति रेणुकोक्ति:, देवादिकृतश्रीलक्ष्मीस्तुति:, --- --- - - -

१० अथ तोंडमान्नृपस्य स्वपितुः सकाशाद्राज्यप्राप्तिः, तोण्डमान्नृपाय वसुनिवेदितवाराहोदन्तः, नृपस्य निषादवाक्यस्वप्नाभ्यां बिलमागेंण शेषाचलगमनम् , भगवदुक्त्या तोण्डमान्नृपकृतक्षीराभिषेकवप्रनिर्माणादिकम् , अस्थिसरोवरमाहात्म्यम्, कुर्वधामस्थकुलालवंशजभीमाख्यभक्तोदन्तः कुर्वधामस्थभीमाख्यभक्तस्य पत्न्या सह वैकुण्ठप्राप्तिः, श्रीनिवासकृपया तोंडमान्नृपस्य सारूप्यप्राप्तिः, एतन्माहात्म्य पठनश्रवणफलश्रुतिः ... - - - - - - - - --- --- ---

११ अथ काश्यपस्य स्वामिपुष्करिणीस्नानेन महापातकनाश:, शाकल्योक्तधर्मकथनम. १७

१२ स्वामिपुष्करिणीस्नानात्तामिस्रादिनरकनिस्तारः, स्वामितीर्थमहिमाऽश्रद्धालूनां महानरकप्राप्तिः १९ १

१३ अथ धर्मगुप्तचरित्रवर्णनम्, जैमिनिवाक्यात्स्वामितीर्थस्नातस्य धर्मगुप्तस्योन्मादनिवृत्तिः - २० १

१४ सुमत्याख्यद्विजवृत्तान्तः, अथ सुमत्याख्यद्विजस्य किरातीसङ्गान्महापातकप्राप्तिः, सुमतिं प्रति दुर्वासःकथितब्रह्महत्यामु्क्त्युपायः, सुमतेः स्वामिपुष्करिणीस्नानाद्ब्रह्महत्याविमुक्तिः... २१ २

१५ अथ रामकृष्णतीर्थमाहात्म्यम्, रामकृष्णाख्यमहर्षितपःप्रसन्नभगवदाविर्भावः २२ २

१६ अथ वेङ्कटाद्रौ जलदानप्रशंसा, श्रुतदेवपादोदकसेवनेन हेमाङ्गस्य जातिस्मरणम्, श्रुतदेवदत्तपुण्येन हेमाङ्गस्य गोधिकात्वविमुक्तिः . २३ १

१७ अथ वेङ्कटाचलक्षेत्रादिवर्णनम् २४ १

१८ अथ श्रीवेङ्कटेश्वरवैभववर्णनम,.. ....... २४ २

१९ अथ ब्रह्मादीनां नैरन्तर्येण श्रीवेङ्कटाचले स्थितिवर्णनम्, श्रीवेङ्कटाचलारोहणसमयानुसंधानक्रमः, पापविनाशनाख्यतीर्थमाहात्म्यम्, दृढमत्याख्यशूद्रवृत्तान्तः, दृढमतये सुमत्याख्यविप्रप्रकाशितकर्मानुष्ठानक्रमः, शूद्रस्य वैदिककर्मोपदेशेन सुमत्यनुभूतदुर्गतिः, अथागस्त्योक्त्या दुर्गत्यपनोदार्थं सुमतेर्वेङ्कटाद्रिगमनम्, सुमतेः पापनाशनस्नानेन दुर्गत्यपनोदनम्, वैदिककर्मानुष्ठातुर्दृढमतेर्दुर्गतिप्राप्त्यपनोदनम् २५ २

२० अथ पापविनाशनतीर्थमाहात्म्यवर्णनम्, भद्रमत्याख्यदरिद्रद्विजवृत्तान्तः, भद्रमतेः कामिन्या वेङ्कटाद्रिगमनप्रोत्साहनकरणम्, कामिनीकथितभूदानप्रशंसा, भद्रमतये भूप्रदानात्सुघोषस्य सद्गतिः, भद्रमतेः पापनाशनतीरे भूदानार्थं वेङ्कटाद्रिगमनम्, भूदानप्रभावेण भद्रमतेर्भगवत्साक्षात्कारः. . ... २७ १

२१ अथ रामानुजाख्यद्विजवृत्तान्तः, आकाशगंगातीरे रामानुजतपस्तुष्टभगवदाविर्भावः, रामानुजाख्यविप्रकृतभगवत्स्तुतिः, रामानुजाख्यविप्रकृतभगवत्प्रार्थना, भगवद्वर्णिताकाशगगातीर्थस्नानकालः, भगवद्वर्णित भागवत लक्षणानि... २९ १

२२ दानार्हसत्पात्रनिर्णयः, आकाशगंगामाहात्म्यम्, पुण्यशीलस्य वन्ध्यापतिनिमन्त्रणेन गर्दभमुखवत्त्वप्राप्तिः वन्ध्यापतेः श्राद्धनिमन्त्रणानर्हत्वकथनम्, आकाशगंगास्नानेन पुण्यशीलस्य तद्विकृतिनिवृत्तिः............... ३०

२३ अथ चक्रतीर्थमाहात्म्यम्, पद्मनाभाख्यद्विजकृततपःप्रकारः, चक्रतीर्थें पद्मनाभद्विजकृततपस्तुष्टभगवदाविर्भावः, पद्मनाभाख्यद्विजकृतश्रीनिवासस्तुतिः, पद्मनाभस्य चक्रतीर्थे निरन्तरवासाय भगवन्नियमनम्, पद्मनाभहननोद्यतासुरवधाय भगवत्कृते चक्रप्रेषणम्, भगवत्प्रेषितचक्रकृतासुरवधः, द्विजप्रार्थनया चक्रकृतवरदानादिः.,..... -............ ३१

२४ अथ सुन्दराख्यगन्धर्वस्य राक्षसत्वप्राप्तिनिवृत्त्योरुपोद्घातः, सुन्दराख्यस्य वसिष्ठोक्तराक्षसत्वनिवृत्त्युपायः, सुन्दराख्यस्य राक्षसत्वविमुक्तिपूर्वकं स्वस्वरूप प्राप्तिः... ......... .... ३२ २

२५ अथ जाबालितीर्थमाहात्म्यवर्णनम् , कावेरीतीरवासि दुराचाराख्यद्विजोदन्तः, जाबालितीर्थस्नानाद्दुराचारवेतालयोर्महापातकादिनिवृत्तिः, जाबालिवर्णितपार्वणश्राद्धाकरणदोषकथनम्...... ३३ २

२६ अथ तुम्बरु (घोण) तीर्थमाहात्म्यम्, घोणतीर्थस्नानविमुखानां महादोषवर्णनम्, घोणस्नानस्य सर्वपापापनोदकवर्णनम्, तुंबर्वाख्यगन्धर्वचरितम्, स्वभार्यायै तुम्बरूपदिष्टमाधवस्नानविधिप्रकारः, भार्यां प्रति तुम्बरुदत्तशाप तद्विमुक्तिप्रकारौ, घोणतीर्थेऽगस्त्यदर्शनेन तुम्बरुपत्न्या वर्पाभूत्वनिवृत्तिः, अगस्त्यकथितपतिव्रताधर्माः, घोणतीर्थस्नातॄणां नानाविधफलप्राप्तिः... ३४ २

२७ अथ वेङ्कटाचलस्य सर्वपुण्यतीर्थाधारत्ववर्णनम्, स्वामिपुष्करिण्यादिषट्तीर्थस्नानकालनिर्णयः, पुराणश्रवणस्य विशेषतः प्राशस्त्यवर्णनम्, पुराणवक्तुः सर्वपूजनीयत्ववर्णनम्.. ३६ २

२८ कटाहतीर्थमाहात्म्यम्, कटाहतीर्थमहिमश्रद्धाशून्यानां जनानां महानरकप्राप्तिः, कटाहतीर्थपानक्रमः, केशवाख्यद्विजवृतान्तः, गणिकालंपटस्य केशवद्विजस्य ब्रह्महत्याप्राप्तिक्रमः, स्वसुतरक्षणोद्युक्ते पद्मनाभे ब्रह्महत्योक्तिः, पद्मनाभं प्रति भारद्वाजकथितो ब्रह्महत्याविमुक्त्युपायः, भारद्वाजोक्त्या कटाहतीर्थपानेन केशवस्य ब्रह्महत्याविमुक्तिः व्रह्महत्याविमुक्तसुतेन सहितं पद्मनाभं प्रति भगवदुक्तिः... ३८ १

२९ अथार्जुनतीर्थयात्रोपोद्घातः, अर्जुनस्य गङ्गादितीर्थावगाहनपूर्वकं सुवर्णमुखर्या गमनम् ४० १

३० अथ सुवर्णमुखरीवर्णनम्, अर्जुनस्य सुवर्णमुखरीतीरस्थकालहस्तीश्वरादिसेवाप्राप्तिः, अर्जुनस्य स्वर्णमुखरीतीरस्थभरद्वाजाश्रमगमनम्, अर्जुनकृतभरद्वाजसेवाक्रमः, अर्जुनं प्रति भरद्वाजकृताऽऽतिथ्यसत्कारः.. ४१ १

३१ अथ स्वर्णमुखरीप्रभावशुश्रूषया भरद्वाजं प्रत्यर्जुनप्रश्नः, भरद्वाजकथितशंकरविवाहप्रक्रिया, भूसाम्यकरणायागस्त्यस्य हिमाद्रेर्दक्षिणदिग्गमनम्.. ४२ १

३२ अथ नद्युत्पादनायागस्त्यं प्रति अशरीर्युक्तिः, सुवर्णमुखर्युत्पादनायागस्त्यं प्रति महर्षिप्रार्थना, सुवर्णमुखर्याविर्भावायागस्त्यकृततपःप्रकारः, अगस्त्याश्रमं प्रति चतुर्मुखागमनम्, अगस्त्यप्रार्थनया गंगां प्रति चतुर्मुखचोदना, अगस्त्यसमीपे स्वांशत्वेन गंगया कृतो नद्युत्पत्त्यभ्युपगमः........... ४२ २

३३ सुवर्णमुखरीं प्रति शक्रादिस्तुतिः वायुकथितसुवर्णमुखरीनामनिष्पत्तिः, अगस्त्यकृतस्यानीतसुवर्णमुखरीमहिमानुवर्णनम्, भारद्वाजवर्णितसुवर्णमुखरीमाहात्म्यम्, अगस्त्यप्रतिमादानविधिः.... ४४ १

३४ अथागस्त्यतीर्थाऽगस्त्येश्वरयोः प्रभावः, सुवर्णमुखरीस्नानकालनिर्णयः देवर्षिपितृती र्थमाहात्म्यम्, वेणासुवर्णमुखरीसंगमवर्णनम् सुवर्णमुखर्या व्याघ्रपदाह्वयनदीसंगमः, शंखतीर्थवर्णनम्....... ४५ २

३५ अथ सुवर्णमुखर्याः कल्पानदीसंगमः, सुवर्णमुखरीतीरस्थश्रीवेंकटाचलवर्णनम्, वेंकटाचलवासि भगवद्वैभववर्णनम्, भगवत्कृतभूतसृष्ट्यादिवर्णनम्.. ४६

३६ वराहकृतधरण्युद्धारक्रमः, कल्पवृत्तान्तवर्णनपूर्वकं श्वेतवराहावतारवर्णनम . ४८ १

३७ शंखाभिधाननृपवृत्तान्तः, भगवदुक्त्या शंखनृपस्य श्रीवेंकटाचलागमनम्, भगवद्दर्शनार्थमगस्त्यस्य श्रीवेङ्कटाचलागमनम्, अगस्त्यं प्रति गुरुवस्वाद्युक्तिः, अगस्त्यादिकृतश्रीवेङ्कटाचलस्थरम्यवस्तुदर्शनम्..... - .... - - ४९ २

३८ अगस्त्यशंखादितपस्तुष्टस्य भगवत आविर्भावः ब्रह्मादिप्रार्थनया भगवद्गृहीतसौम्यभूत रूपप्रकारः, अगस्त्यप्रार्थनया स्वर्णमुखरीनद्या भगवद्दत्तसर्वाधिकत्वप्राप्तिः, शंखनृपवरप्रदानपूर्वकं भगवदन्तर्धानम्, भरद्वाजवर्णितश्रीवेङ्कटाचलमाहात्म्यनिरूपणम् ५० २

३९ पुत्रार्थमञ्जनाकृततपःप्रकारः.............. ५२ १

४० व्यासप्रोक्ताकाशगङ्गास्नानकालनिर्णयः, व्यासप्रोक्तश्रीवेंकटाचलकरणीयदानप्रशंसा. ५३ १ ।

इति वैष्णवखण्डे प्रथमं वेंकटाचलमाहात्म्यम् ।। (२-१) ।।