स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/वेङ्कटाचलमाहात्म्यम्/अध्यायः ३५

विकिस्रोतः तः
Jump to navigation Jump to search

।। अथ सुवर्णमुखर्या कल्यानदीसंगमः ।।
।। भरद्वाज उवाच ।। ।।
सुवर्णमुखरी तत्र संगता मंगलप्रदा ।।
कल्यानाम नदी पुण्या कालिन्दी जाह्नवीमिव ।। १ ।।
वृषभाचलसंभूता तीर्थराजविराजिता ।।
नदीनामुत्तमा कल्या कलुषौघविनाशिनी ।। २ ।।
नानातरुलताव्रातविभूषिततटद्वया ।।
मुनिसंघसुखावासा पुण्याश्रमसमुत्कटा ।। ३ ।।
द्विजदत्तार्ध्यविलसत्कुशाक्षतलसत्तटा ।।
अप्सरःकुचकस्तूरीपंकक्षालनपंकिला ।। ४ ।।
दन्तावलकटच्योतन्मदाम्बुसुरभीकृता ।।
विप्रभूपालविततमखयूप शतावृता ।। ५ ।।
अनाविलजलापूरतोषिताशेषमानवा ।।
एकैवालं परा कर्तुं महानद्योस्तु पातकम् ।। ६ ।।
तयोः संगतयोः स्तोतुं महिमानं क ईशते ।।
यत्र ब्रह्मशिलानाम सरिन्मध्ये च वर्तते ।। ७ ।।
अगस्त्यतपसा पश्चाद्गया सांनिध्यमेति च ।।
नदीद्वयजले तत्र स्नाताः पुण्ये कुरूद्वह ।।८।।
मखानां पौण्डरीकाणां शतस्य फलमाप्नुयुः ।।
ब्रह्महत्यादिपापानि समायांति परिक्षयम् ।। ९ ।।
तत्राभिषेकपूतानां नदीद्वितयसंगमे ।।
सङ्गता भवनाशिन्या कृष्णवेणीव पावनी ।। 2.1.35.१० ।।
।। अथ सुवर्णमुखरीतीरस्थितश्रीवेंकटाचलवर्णनम् ।। ।।
राजते स्वर्णमुखरी कल्यया संगता तदा ।। ११ ।।
अथोदीच्यां महानद्या योजनार्द्धे विराजते ।।
योजनोत्सेधसहितो विख्यातो वेंकटाचलः ।। १२ ।।
सर्वेषामेव तीर्थानामाश्रयोऽयं नगोत्तमः ।।
अञ्जनानन्तवृषभनीलकेसरिपोत्रिणः ।। १३ ।।
एतान्युपवनान्यद्रेः स्युर्नारायणवेंकटौ।।
वराहवपुषा पूर्वं स्वीकृतत्वान्मधुद्विषा ।।।। १४ ।।
वराहक्षेत्रमित्यार्यैः कीर्तितोऽयं महीधरः ।।
सुवर्णमुखरीतीरे विख्याते वेंकटाचले ।। १५ ।।
निवसत्यच्युतो नित्यमब्धीन्द्रतनयान्वितः।।
तस्मिन्गिरौ श्रिया सार्द्धं वसन्ते वेंकटाधिपम्।। १६।।
सेवन्ते सिद्धगन्धर्वमुनिमानवदानवाः।।
तस्मिन्विन्यस्तचित्तानां भक्तानां पुरुषोत्तमे।। १७।।
वांछितान्याशु सिध्यंति नश्यंति विपदोऽर्जुन ।।
ये स्मरंति जगन्नाथं वेंकटाद्रिनिवासिनम् ।।१८।।
निरस्तदोषास्ते यांति शाश्वतं पदमव्ययम् ।।१९।।
।। ।। अर्जुन उवाच ।। ।।
वेंकटाद्रौ महापुण्ये सुरासुरनमस्कृतः ।।
कथं प्रादुरभूद्देवो भगवान्कमलापतिः ।। 2.1.35.२० ।।
कस्य वा कृतिनस्तत्र प्रसन्नो निजमद्भुतम् ।।
रूपं प्रकाशयांचक्रे भुक्तिमुक्तिफलप्रदम् ।। २१ ।।
विष्णोर्देवादिदेवस्य महिमानं महामुने ।।
श्रोतुमिच्छामि तत्त्वेन तन्मे कथय विस्तरात् ।। २२ ।।
।। अथ श्रीवेंकटाचलवासिभगवद्वैभववर्णनम् ।।
।। भरद्वाज उवाच ।। ।।
शृणु वेंकटनाथस्य महिमानं समाहितः ।।
विस्तरेण समाख्यातुं ब्रह्मणापि न शक्यते ।। २३ ।।
धन्योऽसि देवदेवस्य माहात्म्यं मधुविद्विषः ।।
यद्भक्तियुक्ताभूत्तात श्रोतुं मतिररिन्दम ।। २४ ।।
कृतपुण्योऽस्म्यहं पार्थ सर्वभूतपतेर्हरेः ।।
पवित्राणि चरित्राणि स्तोष्यन्ते यन्मयाऽधुना ।। २५ ।।
पुरा भागीरथीतीरे जनकाय महात्मने ।।
क्रतुदीक्षाप्रसक्ताय विशुद्धज्ञानशालिने ।। २६ ।।
वामदेवेन कथितां कथां पापप्रणाशिनीम् ।।
कथयिष्यामि ते पार्थ विष्णुकीर्तनपावनीम् ।। २७ ।।
सर्वेषामेव भूतानामाद्यो नारायणः प्रभुः ।।
जगन्मयो जगत्कर्ता चित्स्वरूपो निरंजनः ।। ।। २८ ।।
सहस्रशीर्षा भगवान्सहस्राक्षः सहस्रपात् ।।
यस्य भासा जगदिदं विभाति सचराचरम् ।। २९ ।।
तस्मात्परतरं तेजस्तस्मात्परतरं तपः ।।
तस्मात्परतरं ज्ञानं योगस्तस्मात्परो न च ।। 2.1.35.३० ।।
विद्या तस्मादपि परा नास्ति पार्थ नरर्षभ ।।
सर्वेष्वपि च भूतेषु सदा सन्निहितः प्रभुः ।। ३१ ।।
सर्वाण्यपि च भूतानि तस्मिन्नेवासते सुखम् ।।
स एव यज्ञो यज्वा च साधनं स्रुक्स्रुवादिकम् ।। ३२ ।।
फलं फलप्रदाता च तत्संप्राप्या गतिस्तथा ।।
वह्नौ प्रणीते पशुना प्रोक्षितेन प्रजुह्वति ।।
ये तं प्रयांति ते यांति गतिं तत्प्रतिपादिताम् ।। ३३ ।।
कर्मबन्धं पशुं कृत्वा ज्ञानाग्नौ संप्रवर्तिते ।।
ये जुह्वते तमुद्दिश्य ते तत्सायुज्यभागिनः ।। ३४ ।।
हरिः सदाशिवो ब्रह्मा महेन्द्रः परमः स्वराट् ।।
सर्वेश्वरस्य तस्यैते पर्यायाः परिकीर्तिताः ।। ३५ ।।
ममाहितोऽनुसंधत्ते य इदं परमात्मनः ।।
नारायणस्य माहात्म्यं स न याति पुनर्भवम् ।। ३६ ।।
चिदानन्दमयः साक्षी निर्गुणो निरुपाधिकः ।।
नित्योऽपि भजते तांतामवस्थां स यदृच्छया ।। ३७ ।।
पवित्राणां पवित्रं यो ह्यगतीनां परा गतिः ।।
दैवतं देवतानां च श्रेयसां श्रेय उत्तमम् ।। ३८ ।।
बोध्यानां बोध्य एकोऽसौ ध्येयानां ध्येय उत्तमः ।।
विनयानां समधिको विनयो नयसंयुतः ।। ३९ ।।
तेजसां जनकं तेजः प्रकृष्टं तपसां तपः ।।
आधारः सर्वभूतानामनाद्यन्तो जनार्दनः ।। 2.1.35.४० ।।
तस्येदं भावविज्ञाने मूढा ब्रह्मादयोऽपि च ।।
अजो गृह्णाति जननं सर्वात्मा हन्ति विद्विषः ।। ४१ ।।
स्वतन्त्रोऽपि स्वभक्तानां परतन्त्रः प्रवर्तते ।।
स साक्षी कर्मणां देवः सर्वज्ञो गरुडध्वजः ।। ४२ ।।
तस्य स्वरूपं मुनयो मृगयन्ते समाहिताः ।।
सङ्कर्षणो वासुदेवः प्रद्युम्नश्च तथा पुनः ।। ४३ ।।
अनिरुद्ध इति ख्यातं तन्मूर्तीनां चतुष्टयम् ।।
कीर्तितः प्रणवः पश्चाद्धृदयं तस्य भास्वरम् ।। ४४ ।।
भगवान्वासुदेवश्च मन्त्रोऽयं तत्प्रकाशकः ।। ४५ ।।
मन्त्रराजमिमं नित्यं प्रजपेद्यः समाहितः ।।
स विष्णोः करुणायोगात्सिद्धीनां भाजनं भवेत् ।। ४६ ।।
।। अथ भगवत्कृतभूतसृष्ट्यादिवर्णनम् ।। ।।
आपन्निवारकः संपत्प्रापको भुक्तिमुक्तिदः ।।
यथा ससर्ज भूतानि कल्पादावेव माधवः ।। ४७ ।।
तत्सर्वं कथयिष्यामि समाहितमनाः शृणु ।।
तस्य चिन्तयतः सर्गं तेजोरूपं परं हरेः ।। ४८ ।।
विरिंच इति विख्यातं राजसं गुणमाश्रितम् ।।
तस्य देवस्य वदनाच्छक्रो देवः सपावकः ।।
जज्ञे यश्च त्रिलोकेशः पाककर्मणि यः प्रभुः ।। ४९ ।।
मनसश्चाभवच्चन्द्रः करुणानित्यशीतलात् ।।
अपां सर्वौषधीनां च विप्राणां रक्षकः सदा ।। ।। 2.1.35.५० ।।
नेत्राभ्यामुदभूत्सूर्यस्तस्य विश्वप्रकाशकः ।।
शीतोष्णवर्षकृत्कालकारणं तेजसां निधिः ।। ५१ ।।
प्राणेभ्योऽस्य जगत्प्राणः समीरः समजायत ।।
धर्ता ग्रहर्क्षस्वर्गंगा विमानानां महाबलः ।। ५२ ।।
नाभिदेशात्समुत्पन्नमन्तरिक्षं महात्मनः ।।
तस्यासीच्छिरसो व्योम भूतसंभवकारणम् ।। ५३ ।।
पादाम्बुजाभ्यामुदभूद्भूमिर्भूतगणाश्रया ।।
विनिःसृता दिशः सर्वाः श्रोत्राभ्यां परमात्मनः ।। ५४ ।।
भूर्भुवाद्यास्तथा लोकाः स्मरणात्तस्य जज्ञिरे ।।
रसातलादिलोकाश्च यक्षरक्षोगणादयः ।। ५५ ।।
मुखबाहूरुपादेभ्यो जनयामास स क्रमात् ।।
ब्राह्मणान्क्षत्त्रियान्वैश्याञ्छूद्रादींश्च कुरूद्वह ।। ५६ ।।
छन्दांसि यज्ञस्तुरगा गावो मेषाविकादयः ।।
अतर्क्यप्रभवां तस्मादुत्पत्तिं प्रतिपेदिरे ।। ५७ ।।
संकल्पाद्देवदेवस्य तस्य स्थावरजंगमम् ।।
भूतजातमभूत्कालो भूतो भावी भवंस्तथा ।। ५८ ।।
पिबत्यम्बु समुद्राणां बडवानलरूपधृक ।।
कल्पान्तकाले तत्सर्वं विसृजत्यात्मनि स्थितम् ।। ५९ ।।
सञ्चारयति भूतानां वृत्तिं सूर्येन्दुरूपधृक् ।।
तमोनिरसनाच्चापि कालधर्मप्रवर्तनात् ।। 2.1.35.६० ।।
जगन्ति कल्पविरमे विन्यस्य स्वोदरान्तरे ।।
लीलाबालाकृतिः शेते वटपत्रे महाम्बुधौ ।। ६१ ।।
अथ चोदग्रभोगीन्द्रभोगतल्पे सुखोचिते ।।
योगनिद्रामवाप्नोति सद्वितीयोऽब्जवासया ।। ६२ ।।
नाभिकासारसंभूताज्जनयामास पंकजात् ।। ६३ ।।
सर्वेषां जगतां नाथो विधातारं चतुर्मुखम् ।। ६४ ।।
लीला ह्येषा मुकुन्दस्य स्वेच्छायोगप्रवर्तिनः ।।
विज्ञायते न केनाऽपि याथार्थ्येन स ईश्वरः ।। ६४ ।।
यदा धर्मस्य हानिः स्यादधर्मो वर्धते यदा ।।
यदा वा महतीं पीडां भजन्ते देवतागणाः ।। ६५ ।।
यदावलेपदुर्वारा यांति वृद्धिं सुरद्रुहः ।।
भूमेर्भूमिजनानां च यदोदेति महद्भयम् ।। ६६ ।।
यदा वा निजभक्तानां साधूनामनिवारिता ।।
दुरन्तातंकजननी विपत्समुपजायते ।। ६७ ।।
तदा तदनुरूपाणि रूपाण्यास्थाय कौतुकात् ।।
अधर्ममवधूयाशु कुरुते जगतो हितम् ।। ६८ ।।
सृजति विधिसमाख्यो राजसेनात्मनाऽसौ वहति हरिसमाख्यः सत्त्वनिष्ठः प्रपञ्चम् ।।
हरति हरसमाख्यस्तामसीमेत्य वृत्तिं मधुमथनमहिम्नामस्ति वेत्ता न कोऽपि ।। ६९ ।।
यज्ञांगैः कृतसकलांगसंधिबंधं वाराहं वपुरधिगम्य लोकनाथः ।।
शैलेऽस्मिन्नभजदसौ यथा निवासं तद्वक्ष्ये शृणु विबुधाधिनाथसूनो ।। 2.1.35.७० ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहात्म्ये सुवर्णमुखरीमाहात्म्ये विष्णुमाहात्म्यप्रस्तावे सृष्ट्यादिवर्णनंनाम पञ्चत्रिंशोऽध्यायः ।। ३५ ।। ।।