स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/वेङ्कटाचलमाहात्म्यम्/अध्यायः २८

विकिस्रोतः तः
Jump to navigation Jump to search

।। अथ कटाहतीर्थमाहात्म्यम् ।।
।। ऋषय ऊचुः ।। ।।
सूत सर्वार्थतत्त्वज्ञ वेदवेदान्तपारग ।।
श्रीवेंकटाचले तीर्थं कटाहाख्यं सुपावनम् ।। ।।१।।
श्रूयते तस्य माहात्म्यं घुष्यते च जगत्त्रये ।।
अस्माकमेतद्ब्रूहि त्वं कृपया व्यासशासित ।। २ ।।
पुरा वै नारदः श्रीमान्ब्रह्मपुत्रो महानृषिः ।।
दृष्ट्वा वै नैमिषारण्यं संप्राप्तो द्विजसत्तमः ।। ३ ।।
तदानीं ब्रह्मपुत्रं तमर्घ्यपाद्यादिभिः शुभैः ।।
पूजयित्वा यथान्यायं पवित्रे च कुशासने ।। ।। ४ ।।
सन्निवेश्य महाभक्त्या विनयानतकन्धराः ।।
प्रणम्य प्रार्थयामासुरिमे सर्वे महर्षयः ।। ५ ।।
त्वां विना नारद श्रीमन्नस्माकं भुवनत्रये ।।
धर्मोपदेशकः कश्चिन्नास्ति नास्ति महर्षिषु ।। ६ ।।
वेंकटाद्रौ महापुण्ये सर्वदेवनिषेविते।।
वैकुण्डादागते दिव्ये सिद्धगन्धर्वसेविते ।। ७ ।।
कटाहतीर्थमाहात्म्यं वर्णयाद्य वनौकसाम् ।। ८ ।।
।। श्रीनारद उवाच ।। ।।
शृणुध्वमृषयः सर्वे शौनकाद्या महौजसः ।।
कटाहतीर्थमाहात्म्यं को वेत्ति भुवनत्रये ।। ९ ।।
महादेवो विजानाति तस्य तीर्थस्य वैभवम् ।।
यानि कानि च पुण्यानि ब्रह्माण्डान्तर्गतानि वै ।। 2.1.28.१० ।।
तानि गंगादितीर्थानि स्वपापपरिशुद्धये ।।
कटाहतीर्थसेवां च कुर्वन्ति द्विजसत्तमाः ।। ११ ।।
ब्राह्मणाः क्षत्त्रिया वैश्याः शूद्राश्चेतरजातयः ।।
स्पृशन्ति तज्जलमिति न पिबेद्यो विमूढधीः ।। १२ ।।
स हि चण्डालतां प्राप्य कुम्भीपाके पतिष्यति ।।
ब्रह्मचारी गृहस्थो वा वानप्रस्थो यतीश्वरः ।। १३ ।।
सेवया तस्य तीर्थस्य प्राप्नोति परमं पदम् ।।
श्रुतिस्मृतिपुराणेषु तत्तीर्थस्य प्रशंसनम् ।। १४ ।।
बहुधा वर्ण्यते पंचमहापातकनाशनम् ।।
अत्यद्भुततरं विप्राः सर्वलोकैकपावनम् ।। १५ ।।
ब्रह्महत्यायुतं चापि सुरापानायुतं तथा ।।
अयुतं गुरुदाराणां गमनं पापकारणम् ।। १६ ।।
स्तेयायुतं सुवर्णानां तत्संसर्गाश्च कोटयः ।।
शीघ्रं विलयमायांति तस्य तीर्थस्य सेवया ।। १७ ।।
यानि निष्कृतिहीनानि पापानि विविधानि च ।।
तानि सर्वाणि नश्यंति तीर्थस्यास्य निषेवणात् ।। १८ ।।
इदं तीर्थं महापुण्यं भगवत्पादनिस्सृतम् ।।
कुष्ठादिरोगयुक्तो यः प्रत्यहं च पिबेदिदम् ।। १९ ।। ।।
।। अथ कटाहतीर्थमहिमश्रद्धाशून्यानां महानरकप्राप्तिः ।। ।।
सोऽपि रोगविहीनः सन्विष्णुलोकं च गच्छति ।।
भगवाञ्छंकरो देवो रहस्यानुभवे पुरा ।। 2.1.28.२० ।।
पार्वत्यै कथयामास तस्य तीर्थस्य वैभवम् ।।
उक्तेष्वेतेषु सन्देहो न कर्तव्यः कदाचन ।। २१ ।।
अर्थवादोऽयमिति च न वक्तव्यं कदाचन ।।
येऽर्थवादमिदं ब्रूयुस्तेषां वै नास्तिकात्मनाम् ।। २२ ।।
जिह्वाग्रे परशुं तप्तं प्रक्षिपन्ति च किंकराः ।।
तस्मात्कटाहतीर्थं तु सेवनीयं प्रयत्नतः ।।२३।।
सर्वदुःखप्रशमनमपवर्गफलप्रदम् ।।
यत्र पीत्वा नरो भक्त्या सर्वान्कामानवाप्नुयात्।।२४।।
एवमुक्त्वा महाभागः काशीं त्रैलोक्यपावनीम् ।।
संप्राप्तो नारदः श्रीमान्सूत पौराणिकोत्तम ।। २५ ।।
संक्षेपतश्च भगवान्नैमिषे ह्युक्तवान्खलु ।।
इदानीं श्रोतुमिच्छामः कटाहस्य च वैभवम् ।। २६ ।।
सुविस्तरेण चास्माकं वद सूत कृपावशात् ।। २७ ।।
।। अथ कटाहतीर्थपानक्रमः ।।
।। श्रीसूत उवाच ।। ।।
भोभोस्तपोधनाः सर्वे नैमिषारण्यवासिनः ।।
कटाहतीर्थमाहात्म्यं शृणुध्वं द्विजसत्तमाः ।। २८ ।।
कटाहतीर्थं भो विप्राः सर्व लोकेषु विश्रुतम् ।।
सर्वसम्पत्करं शुद्धं सर्वपापप्रणाशनम् ।। २९ ।।
दुःस्वप्ननाशनं ह्येतन्महापातकनाशनम् ।।
महाविघ्नप्रशमनं महाशान्तिकरं नृणाम् ।। 2.1.28.३० ।।
स्मृतिमात्रेण यत्पुंसां सर्वपापनिषूदनम् ।।
मन्त्रेणाष्टाक्षरेणैव पिबेत्तीर्थं मनोहरम् ।। ३१ ।।
अथवा केशवाद्यैश्च नामभिर्वा पिबेज्जलम् ।।
यद्वा नामत्रयेणाऽपि पिबेत्तीर्थं शुभप्रदम् ।। ३२ ।।
आहोस्विद्वेंकटेशस्य मन्त्रेणाष्टाक्षरेण वै ।।
पिबेत्कटाहतीर्थं तद्भुक्तिमुक्तिप्रदायकम् ।। ३३ ।।
विना मंत्रेण यो विप्रः संपिबेत्तीर्थमुत्तमम् ।।
पापं मे नाशय क्षिप्रं जन्मान्तरकृतं महत् ।। ३४ ।।
इत्युक्त्वा स पिबेन्नित्यं मोक्षमार्गैकसाधनम् ।।
स्वामिपुष्करिणीस्नानं वराहश्रीशदर्शनम् ।। ३५ ।।
कटाहतीर्थपानं च त्रयं त्रैलोक्यदुर्लभम् ।।
बहुना किमिहोक्तेन ब्रह्महत्यादिनाशनम् ।। ३६ ।।
।। अथ केशवाख्यद्विजवृत्तान्तः ।। ।।
पुरा कश्चिद्द्विजो मोहात्केशवाख्यो बहुश्रुतम् ।।
हत्वा खड्गेन दुर्बुद्ध्या ब्रह्महत्यामवाप्तवान् ।। ३७ ।।
सोऽपि तस्मिन्महातीर्थे पीत्वा जलमनुत्तमम् ।।
केशवाख्यो महापापी विमुक्तो ब्रह्महत्यया ।। ३८ ।।
।। ऋषय ऊचुः ।। ।।
कस्य पुत्रः केशवाख्यः कथं प्राप्तो भयंकरीम् ।।
ब्रह्महत्यामतिक्रूरामस्माकं वक्तुमर्हसि ।। ३९ ।।
।। श्रीसूत उवाच ।। ।।
तुङ्गभद्रातटे रम्ये गन्धर्वैरुपसेविते ।।
अग्रहारो महानासीद्वेदाढ्य इति नामतः ।। 2.1.28.४० ।।
तस्मिन्वेदपुरे रम्ये ब्राह्मणा वेदपारगाः ।।
शब्दशास्त्रपराः सर्वे ज्योतिःशास्त्रप्रवर्तकाः ।। ४१ ।।
मीमांसातर्कशास्त्रज्ञाः सर्वे वेदान्तवादिनः ।।
धर्मशास्त्रेषु निरता अन्नदानपराः सदा ।। ४२ ।।
पुत्रवन्तश्च ते सर्वे ह्यग्रहारे महाजनाः ।।
वेदाढयेऽप्यग्रहारे वै पद्मनाभ इति श्रुतः ।। ४३ ।।
।। अथ गणिकालंपटस्य केशवद्विजस्य ब्रह्महत्याप्राप्तिक्रमः ।। ।।
तस्य पुत्रः केशवाख्यः सर्वकर्मबहिष्कृतः ।।
मातरं पितरं त्यक्त्वा भार्यामपि पतिव्रताम् ।। ४४ ।।
सर्वदा गणिकासक्तो वेश्यागारं विवेश ह ।।
दिनद्वये च तां वेश्यामनुभूय द्विजस्ततः ।। ४५ ।।
निष्कद्वयं प्रदातव्यं हस्ते दत्त्वा गतः सुखम् ।।
वेश्यया चाधनस्त्यक्तस्तत्संयोगैकतत्परः ।। ४६ ।।
इतस्ततश्चोरयित्वा बहुद्रव्याणि सन्ततम् ।।
दत्त्वा तया चिरं रेमे तद्गृहे बुभुजे च सः ।। ४७ ।।
एकेन चषकेणासौ तया सह सुरां पपौ ।।
स कदाचित्किरातैस्तु द्रव्यं हर्तुं ययौ द्विजः ।।।। ४८ ।।
विप्रस्य कस्यचिद्गेहे सोऽपि कैरातवेषधृक् ।।
केशवो विप्रबन्धुर्वै साहसी खङ्गहस्तवान् ।। ४९ ।।
तद्गृहस्वामिनं विप्रं हत्वा खड्गेन साहसात् ।।
समादाय बहु द्रव्यं वेश्यागारं विवेश ह ।। 2.1.28.५० ।।
तं यान्तमनुयाति स्म ब्रह्महत्या भयंकरी ।।
नीलवस्त्रधरा भीमा भृशं रक्तशिरोरुहा ।।।। ५१ ।।
गर्जन्ती साट्टहासं सा कम्पयन्ती च रोदसी ।।
अनुद्रुतस्तया विप्रो बभ्राम जगतीतले ।। ५२ ।।
एवं भ्रमन्धरां सर्वां विप्रबन्धुर्दुरात्मवान् ।।
स्वग्रामं प्रययौ भीत्या शौनकाद्या महौजसः ।। ५३ ।।
अनुद्रुतस्तया भीतः प्रययौ स्वनिकेतनम्।।
ब्रह्महत्याप्यनुद्रुत्य तेन साकं गृहं ययौ ।।५४।।
जनकं रक्ष रक्षेति केशवः शरणं ययौ ।।
मा भैषीरिति स प्रोच्य पिता रक्षितुमुद्यतः ।। ५५ ।।
।। अथ स्वसुतरक्षणोद्युक्ते पद्मनाभे ब्रह्महत्योक्तिः ।।
क्रूरैनं ब्रह्महत्या सा जनकं प्रत्यभाषत ।। ५६ ।।
।। ब्रह्महत्योवाच ।। ।।
मैनं त्वं प्रतिगृह्णीष्व पद्मनाभ द्विजोत्तम ।।
अयं सुरापी स्तेयी च ब्रह्महा चातिपातकी ।। ५७ ।।
मातृद्रोही पितृद्रोही भार्यात्यागी च दुष्टधीः ।।
गणिकासक्तचित्तश्च ह्येनं मुञ्च दुरात्मकम् ।। ५८ ।।
गृह्णासि चेत्सुतं विप्र महापातकिनं वृथा ।।
त्वद्भार्यामस्य भार्यां च त्वां च पुत्रमिमं द्विज ।। ५९ ।।
भक्षयिष्यामि वंशं च तस्मान्मुञ्च दुरात्मकम् ।।
इमं त्यजसि चेत्पुत्रं युष्मान्मुञ्चामि सांप्रतम् ।। 2.1.28.६० ।।
नैकस्यार्थे कुलं हन्तुमर्हसि त्वं महामते ।।
इत्युक्तः स तया तत्र पद्मनाभोऽब्रवीच्च ताम् ।। ६१ ।। ।।
।। पद्मनाभ उवाच ।। ।।
बाधते मां सुतस्नेहः कथं पुत्रं परित्यजे ।।
ब्रह्महत्या तदाकर्ण्य पद्मनाभं तमब्रवीत् ।। ६२ ।।
।। ब्रह्महत्योवाच ।। ।।
पुत्रोऽयं पतितोऽभूत्ते वर्णाश्रमबहिष्कृतः ।।
पुत्रेस्मिन्मा कुरु स्नेहं निंदितं तस्य दर्शनम् ।। ६३ ।।
इत्युक्त्वा ब्रह्महत्या सा पद्मनाभस्य पश्यतः ।।
हस्तेन प्रजहारास्य सुतं केशवनामकम् ।। ६४ ।।
रुरोद ताततातेति जनकं प्रब्रुवन्मुहुः ।।
रुरुदुर्जनको माता भार्या तस्य दुरात्मनः ।। ६५ ।।
।। अथ पद्मनाभं प्रति भरद्वाजकथितो ब्रह्महत्याविमुक्त्युपायः ।। ।।
तस्मिन्काले महाभागो भरद्वाजो महामुनिः ।।
दिष्ट्या समाययौ योगी शौनकाद्या महौजसः ।। ६६ ।।
पद्मनाभोऽथ तं दृष्ट्वा भरद्वाजं महामुनिम् ।।
स्तुत्वा प्रणम्य शरणं ययाचे पुत्रकारणात् ।। ६७ ।।
भरद्वाज महाभाग साक्षाद्विष्ण्वंशको भवान् ।।
त्वद्दर्शनमपुण्यानां भविता न कदाचन ।। ६८ ।।
ब्रह्महा च सुरापी च स्तेयी चाभूत्सुतो मम ।।
पुत्रं प्रहर्तुमा याता ब्रह्महत्या भयंकरी ।। ६९ ।।
भूयाद्यथा मे पुत्रोयं महापातकमोचितः ।।
घोरेयं ब्रह्महत्या च यथा शीघ्रं लयं व्रजेत् ।। 2.1.28.७० ।।
तमुपायं वदस्वाद्य मम पुत्रे दयां कुरु ।।
एक एव हि पुत्रो मे नान्योऽस्ति तनयो मुने ।। ७१ ।।
सुते मृते तु वंशो मे समुच्छिद्येत मूलतः ।।
ततः पितृभ्यः पिण्डानां दाताऽपि न भवेद्ध्रुवम् ।। ७२ ।।
ततः कृपां कुरुष्व त्वमस्मासु भगवन्मुने ।।
इत्युक्तः स भरद्वाजः साक्षान्नारायणांशकः ।। ७३ ।।
ध्यात्वा तु सुचिरं कालं पद्मनाभं वचोऽब्रवीत् ।। ७४ ।।
।। भरद्वाज उवाच ।। ।।
पद्मनाभ कृतं पापमतिक्रूरं सुतेन ते ।।
नास्य पापस्य शान्तिः स्यात्प्रायश्चित्तायुतैरपि ।। ७५ ।।
तथाऽपि ते सुतस्याहमस्य पापस्य शान्तये ।।
प्रायश्चित्तं वदिष्यामि पद्मनाभ शृणु द्विज ।। ७६ ।।
गङ्गाया दक्षिणे भागे द्विशतीयोजने द्विज ।।
पूर्वाम्भोधेः पश्चिमे तु पञ्चभिर्योजनैर्मिते ।। ७७ ।।
सुवर्णमुखरीतीरे चोत्तरे क्रोशमात्रके ।।
वेंकटाद्रिति ख्यातः सर्वलोकनमस्कृतः ।। ७८ ।।
मेरुपुत्रो महापुण्यः सर्वदेवाभिवन्दितः ।।
वैकुण्ठलोकादानीतो विष्णोः क्रीडाचलो महान् ।। ७९ ।।
गरुत्मता वेगवता स्वर्णमुख्यास्तटे शुभे ।।
वर्तते देवसंघैश्च ऋषिसंघैश्च पूजितः ।। 2.1.28.८० ।।
तस्मिन्वेंकटशैलेन्द्रे साक्षान्नारायणः स्वयम् ।।
लक्ष्मीदेव्या च भूदेव्या नीलादेव्या समागतः ।। ८१ ।।
वर्तते वेंकटेशः स साक्षान्मोक्षप्रदायकः ।।
तस्य वेंकटनाथस्य ह्यालयस्य तथोत्तरे ।। ८२ ।।
कटाहतीर्थं विप्रेन्द्र वर्तते मङ्गलप्रदम् ।।
ब्रह्महत्यादिपापघ्नं वाञ्छितार्थप्रदायकम् ।। ८३ ।।
सुतेन साकं विप्रेंद्र पिब तीर्थं मनोहरम् ।।
भरद्वाजस्य वाक्यं तच्छ्रुत्वा वै वेदसंमितम् ।। ८४ ।।
शिरसा तं प्रणम्याथ ययौ वेंकटपर्वतम् ।। ।। ८५ ।।
।। अथ भरद्वाजोक्त्या कटाहतीर्थपानेन केशवस्य ब्रह्महत्याविमुक्तिः ।। ।।
तं गत्वा वेंकटं शैलं स्वामिपुष्करिणीजले ।।
सुतेन साकं विप्रेंद्रः सस्नौ नियमपूर्वकम् ।। ८६ ।।
वराहस्वामिनं नत्वा श्रीनिवासालयं गतः ।।
प्रदक्षिणं ततः कृत्वा विमानं संप्रणम्य च ।। ८७ ।।
पद्मनाभोऽथ पुत्रेण केशवेन दुरात्मना ।।
पपौ कटाहतीर्थं तद्ब्रह्महत्याविनाशकम् ।। ८८ ।।
तदानीं ब्रह्महत्या सा शीघ्रमेव लयं गता ।।
अनन्तरं ततो गत्वा वेंकटेशं कृपानिधिम् ।। ८९ ।।
पुत्रेण सह विप्रेन्द्रः पद्मनाभो ददर्श सः ।।
तदा प्रादुरभूद्देवो वेङ्कटेशो दयानिधिः ।। 2.1.28.९० ।।
कटाहतीर्थपानेन तोषितो वाक्यमब्रवीत् ।। ९१ ।।
।। अथ ब्रह्महत्याविमुक्तसुतेन सहितं पद्मनाभं प्रति भगवदुक्तिः ।।
।। श्रीभगवानुवाच ।। ।।
पद्मनाभ महाबुद्धे वेदवेदान्तपारग ।।
भरद्वाजस्य वाक्येन प्राप्य वेंकटपर्वतम् ।। ९२ ।।
कटाहतीर्थं त्वं पीत्वा कृतार्थोऽसि न संशयः ।।
तव पुत्रः केशवाख्यो विमुक्तो ब्रह्महत्यया ।। ९३ ।।
तस्मात्कटाहतीर्थं तु सेवनीयं प्रयत्नतः ।।
तस्मिंस्तीर्थे महाभाग पीत्वा जलमनुत्तमम् ।। ९४ ।।
पापिनोऽपि कृतार्थाः स्युः सत्यं सत्यं न संशयः ।।
मामकं लोकमागत्य सुखी भव महामते ।। ९५ ।।
इत्युक्त्वा वेंकटेशोऽसावन्तर्धानं गतस्ततः ।। ९६ ।।
।। श्रीसूत उवाच ।। ।।
तस्मात्तपोधनाः सर्वे शौनकाद्या महौजसः ।।
कटाहतीर्थमाहात्म्यमितिहाससमन्वितम् ।। ९७ ।।
यथाश्रुतं मया सम्यक्तथोक्तं भवतां द्विजाः ।। ९८ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहात्म्ये सूतशौनक संवादे कटाहतीर्थप्रशंसनंनामाष्टाविंशोऽध्यायः ।। २८ ।।