स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/वेङ्कटाचलमाहात्म्यम्/अध्यायः २७

विकिस्रोतः तः
Jump to navigation Jump to search

अथ श्रीवेंकटाचलस्य सर्वपुण्यतीर्थाधारत्ववर्णनम् ।।
।। ऋषय ऊचुः ।। ।।
वेंकटाद्रौ महापुण्ये सर्वसंकटनाशने ।।
सन्ति वै कति तीर्थानि सूत पौराणिकोत्तम ।। १ ।।
तेषां संख्यां च मे ब्रूहि कति मुख्यानि तत्र वै ।।
तत्राप्यत्यन्तमुख्यानि वद मे मुनिसत्तम ।। २ ।।
सद्धर्मरतिदान्यत्र कति मुख्यानि तानि च ।।
कानि ज्ञानप्रदान्यत्र भक्तिवेराग्यदानि च ।। ३ ।।
मुक्तिप्रदानि कान्यत्र तानि मे वद सुव्रत ।। ४ ।। ।।
।। श्रीसूत उवाच ।। ।।
षट्षष्टिकोटितीर्थानि पुण्यान्यत्र नगोत्तमे ।।
अष्टोत्तरसहस्राणि तेषु मुख्यानि सुव्रत ।। ५ ।।
सद्धर्मरतिदान्यत्र सन्ति चाष्टोत्तरं शतम् ।।
सहस्रेभ्यश्च मुख्यानि पृथक्तेभ्यश्च तानि च ।।६।।
भक्तिवैराग्यदान्यत्र षष्टिरष्टोत्तरे शते ।। ७ ।।
।। अथ स्वामिपुष्करिण्यादिषट्तीर्थस्नानकालनिर्णयः ।। ।।
मुक्तिदान्यत्र षट् चैव वेंकटाचलमूर्धनि ।।
स्वामिपुष्करिणी चैव वियद्गङ्गा ततः परम् ।। ८ ।।
पश्चात्पापविनाशं च पाण्डुतीर्थमतःपरम् ।।
कुमारधारिकातीर्थं तुम्बोस्तीर्थमतः परम् ।। ९ ।।
कुम्भमासे पौर्णमास्यां मघायोगो यदा भवेत् ।।
कुमारधारिकां यान्ति सर्वतीर्थानि हे द्विजाः ।। 2.1.27.१० ।।
तत्र यः स्नाति विप्रेन्द्रा राजसूयफलं लभेत् ।।
मुक्तिश्च भविता तत्र नात्र कार्या विचारणा ।। ११।।
अन्नदानविधिस्तत्र सार्धं दक्षिणयाऽ द्विजाः ।।
उत्तराफल्गुनीयुक्तशुक्लपक्षीयपर्वणि ।। १२ ।।
तुम्बोस्तीर्थं मीनसंस्थे रवौ तीर्थानि सर्वशः ।।
अपराह्णे समायान्ति तत्र स्नातो न जायते।।१३।।
मौञ्जीबन्धं विवाहं च कारयेद्द्रव्यदानतः ।।
मेषसंक्रमणे भानौ चित्रानक्षत्रसंयुते ।। ।। १४ ।।
पौर्णमास्यां समायान्ति वियद्गङ्गां तथैव च ।।
तत्र स्नात्वा नरः सद्यः शतक्रतुफलं लभेत् ।। १५।।
सुवर्णं तत्र दातव्यं कन्यादानं विशेषतः ।।
वृषभस्थे रवौ विप्रा द्वादश्यां हरिवासरे ।। १६ ।।
शुक्ले वाप्यथ कृष्णे वा भौमेनापि समन्विते ।।
पाण्डुतीर्थं समायान्ति गङ्गादीनि जगत्त्रये ।। १७ ।।
तत्र स्नात्वा च गां दत्त्वा मुच्यते प्रतिबन्धकात् ।।
आश्वयुक्छुक्लपक्षे च सप्तम्यां भानुवासरे ।। १८ ।।
उत्तराषाढयुक्तायां तथा पापविनाशनम् ।।
उत्तराभाद्रयुक्तायां द्वादश्यां वा समागतः ।। १९ ।।
शालग्रामशिलां दत्त्वा स्नात्वा च विधिपूर्वकम् ।।
मुच्यते सर्वपापैश्च जन्म कोटिशतोद्भवैः ।। 2.1.27.२० ।।
धनुर्मासे सिते पक्षे द्वादश्यामरुणोदये ।।
आयान्ति सर्वतीर्थानि स्वामिपुष्करिणीजले ।। २१ ।।
तत्र स्नात्वा नरः सद्यो मुक्तिमेति न संशयः ।।
यस्य जन्मसहस्रेषु पुण्यमेवार्जितं पुरा ।। २२ ।।
तस्य स्नानं भवेद्विप्रा नान्यस्य त्वकृतात्मनः ।।
विभवानुगुणं दानं कार्यं तत्र यथाविधि।। २३।।
शालिग्रामशिलादानं गां दद्याच्च विशेषतः।। २४।।
।। अथ पुराणश्रवणस्य विशेषतः प्राशस्त्यवर्णनम्।। ।।
ये शृण्वंति कथां विष्णोः सदा भुवनपावनीम् ।।
ते वै मनुष्यलोकेऽस्मिन्विष्णुभक्ता भवन्ति हि।।२५।।
यद्यशक्तः सदा श्रोतुं कथां भुवनपावनीम्।।
मुहूर्तं वा तदर्धं वा क्षणं वा विष्णुसत्कथाम्।।
यः शृणोति नरो भक्त्या दुर्गतिर्नास्ति तस्य हि।। २६।।
यत्फलं सर्वयज्ञेषु सर्वदानेषु यत्फलम् ।।
सकृतपुराणश्रवणात्तत्फलं विन्दते नरः।। २७।।
कलौ युगे विशेषेण पुराणश्रवणादृते।।
नास्ति धर्मः परः पुंसां नास्ति मुक्तिप्रदं परम्।।२८ ।।
पुराणश्रवणं विष्णोर्नामसंकीर्तनं परम्।।
उभे एव मनुष्याणां पुण्यद्रुममहाफले।। २९।।
पिबन्नेवामृतं यत्नादेकः स्यादजरामरः।।
विण्णोः कथामृतं कुर्यात्कुलमेवाजरामरम् ।। 2.1.27.३० ।।
।। अथ पुराणवक्तुः सर्वपूजनीयत्ववर्णनम् ।। ।।
बालो युवाथ वृद्धो वा दरिद्रो दुर्भगोऽपि वा ।।
पुराणज्ञः सदा वन्द्यः स पूज्यः सुकृतात्मभिः ।। ३१ ।।
नीचबुद्धिं न कुर्वीत पुराणज्ञे कदाचन ।।
यस्य वक्त्रोद्गता वाणी कामधेनुः शरीरिणाम् ।। ३२ ।।
भवकोटिसहस्रेषु भूत्वा भूत्वावसीदताम् ।।
यो ददात्यपुनर्वृत्तिं कोऽन्यस्तस्मात्परो गुरुः ।। ३३ ।।
व्यासासनसमारूढो यदा पौराणिको द्विजः ।।
आ समाप्तेः प्रसंगस्य नमस्कुर्यान्न कस्यचित् ।। ३४ ।।
न दुर्जनसमाकीर्णे न शूद्रश्वापदावृते ।।
देशे न द्यूतसदने वदेत्पुण्यकथां सुधीः ।। ३५ ।।
सुग्रामे सुजनाकीर्णे सुक्षेत्रे देवतालये ।।
पुण्ये वाथ नदीतीरे वदेत्पुण्यकथां सुधीः ।।३६।।
श्रद्धाभक्तिसमायुक्ता नान्यकार्येषु लालसा ।।
वाग्यताः शुचयोऽव्यग्राः श्रोतारः पुण्यभागिनः ।। ३७ ।।
अभक्त्या ये कथां पुण्यां शृण्वंति मनुजाधमाः ।।
तेषां पुण्यफलं नास्ति दुःखं जन्मनि जन्मनि ।। ३८ ।।
पुराणं ये तु संपूज्य ताम्बूलाद्यैरुपायनैः ।।
शृण्वंति च कथां भक्त्या न दरिद्रा न पापिनः ।। ३९ ।।
कथायां कथ्यमानायां ये गच्छन्त्यन्यतो नराः।।
भोगान्तरे प्रणश्यन्ति तेषां दाराश्च संपदः ।।2.1.27.४०।।
सोष्णीषमस्तका ये च कथां शृण्वंति पावनीम् ।।
ते बालकाः प्रजायन्ते पापिनो मनुजाधमाः।।४१।।
तांबूलं भक्षयन्तो ये कथां शृण्वंति पावनीम् ।।
श्वविष्ठां भक्षयन्त्येते नरके च पतंति हि।।४२।।
ये च तुंगासनारूढाः कथां शृण्वन्ति दांभिकाः ।।
अक्षय्यान्नरकान्भुक्त्वा ते भवन्त्येव वायसाः ।।४३।।
ये च वीरासनारूढा ये च सिंहासनस्थिता।।
शृण्वन्ति सत्कथां ते वै भवन्त्यर्जुनपादपाः ।।४४।।
असंप्रणम्य शृण्वन्तो विषवृक्षा भवन्ति हि ।।
तथा शयानाः शृण्वन्तो भवन्त्यजगरा हि ते ।। ४५ ।।
यः शृणोति कथां वक्तुः समानासनसंस्थितः।।
गुरुतल्पसमं पापं संप्राप्य नरकं व्रजेत् ।। ४६ ।।
ये निन्दंति पुराणज्ञं सत्कथां पापहारिणीम् ।।
ते वै जन्मशतं मर्त्याः शुनकाश्च भवंति हि ।। ४७ ।।
कथायां कीर्त्यमानायां ये वदंति दुरुत्तरम् ।।
ते गर्दभाः प्रजायन्ते कृकलासास्ततःपरम् ।। ४८ ।।
कदाचिदपि ये पुण्यां न शृण्वंति कथां नराः ।।
ते भुक्त्वा नरकान्घोरान्भवन्ति वनसूकराः ।। ४९ ।।
कथायां कीर्त्यमानायां विघ्नं कुर्वंति ये नराः ।।
कोट्यब्दं नरकान्भुक्त्वा भवंति ग्रामसूकराः ।। 2.1.27.५० ।।
ये कथामनुमोदन्ते कीर्त्यमानां नरोत्तमाः ।।
अशृण्वन्तोऽपि ते यान्ति शाश्वतं पदमव्ययम्।। ।। ५१ ।।
ये श्रावयन्ति मनुजाः पुण्यां पौराणिकीं कथाम् ।।
कल्पकोटिशतं साग्रं तिष्ठन्ति ब्रह्मणः पदे ।। ५२ ।।
आसनार्थं प्रयच्छन्ति पुराणज्ञस्य ये नराः ।।
कम्बलाजिनवासांसि तथा मंचकमेव वा ।। ५३ ।।
स्वर्गलोकं समासाद्य भुक्त्वा भोगान्यथेप्सितान् ।।
स्थित्वा ब्रह्मादिलोकेषु पदं यांति निरामयम् ।। ५४ ।।
पुराणस्य प्रयच्छन्ति ये च सूत्रं नवं वरम् ।।
भोगिनो ज्ञानसंपन्नास्ते भवंति भवे भवे ।। ५५ ।।
ये महापातकैर्युक्ता ह्युपपातकिनश्च ये ।।
पुराणश्रवणादेव ते यांति परमं पदम् ।। ५६ ।।
वेंकटाद्रेस्तु माहात्म्यं श्रुत्वा त ऋषयस्ततः ।।
व्यासप्रसादसंपन्नं सूतं पौराणिकोत्तमम् ।।
पूजयित्वा यथान्यायं प्रहर्षमतुलं गताः ।। ५७ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहात्म्ये सर्वतीर्थमहिमोपसंहारपूर्वकपुराणश्रवणप्रक्रियाद्यनुवर्णनंनाम सप्तविंशोऽध्यायः ।। २७ ।।