स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/वेङ्कटाचलमाहात्म्यम्/अध्यायः २२

विकिस्रोतः तः
Jump to navigation Jump to search

।। अथ दानार्हसत्पात्रनिर्णयः ।।
।। ऋषय ऊचुः ।। ।।
भगवन्सूत सर्वज्ञ वेदवेदान्तकोविद ।।
दानानि कस्मै देयानि दानकालश्च कीदृशः ।। १ ।।
कश्च तत्प्रतिगृह्णीयात्सर्वं नो वक्तुमर्हसि ।। २ ।।
।। श्रीसूत उवाच ।। ।।
महापुण्यप्रदे क्षेत्रे वेंकटाख्ये द्विजोत्तमाः ।।
सर्वेषामेव वर्णानां ब्राह्मणः परमो गुरुः ।। ३ ।।
तस्मै दानानि देयानि स तारयति पंडितः ।।
ब्राह्मणः प्रतिगृह्णीयाद्वर्जयित्वा त्ववर्णकम् ।। ४ ।।
षण्डस्य पुत्रहीनस्य दंभाचाररतस्य च ।।
वेदविद्वेषिणश्चैव द्विजविद्वेषिणस्तथा ।। ५ ।।
स्वकर्मत्यागिनश्चापि दत्तं भवति निष्फलम् ।।
परदाररतस्यापि परद्रव्यरतस्य च ।। ६ ।।
गायकस्यापि विप्रस्य दत्तं भवति निष्फलम् ।।
असूयाविष्टमनसः कृतघ्नस्य च मायिनः ।। ७ ।।
ज्ञानशून्यस्य विप्रस्य दत्तं भवति निष्फलम् ।।
नित्यं याञ्चापरस्यापि हिंसकस्याबलस्य च ।। ८ ।।
नामविक्रयिणश्चैव वेदविक्रयिणस्तथा ।।
स्मृतिविक्रयिणश्चैव धर्मविक्रयिणस्तथा ।। ९ ।।
परोपतापशीलस्य दत्तं भवति निष्फलम् ।।
ये केचित्पापनिरता निन्दिताः सुकृतैस्तथा ।। 2.1.22.१० ।।
न तेभ्यः प्रतिगृह्णीयान्न देयं वापि किञ्चन ।।
सत्कर्मनिरतायैव श्रोत्रियायाहिताग्नये ।। ११ ।।
वृत्तिहीनाय वै देयं दरिद्राय कुटुम्बिने ।।
देवपूजासु सक्ताय पुराणकथकाय च ।। १२ ।।
देयं प्रयत्नतो विप्रा दरिद्रस्य विशेषतः ।।
बहुना किमिहोक्तेन शृणुध्वं द्विजसत्तमाः ।। १३ ।।
सर्वेषां ब्राह्मणानां च प्रदातुं शक्यते सदा ।।
वन्ध्याभर्त्रे प्रदत्तञ्चेद्रासभो जायते नरः ।। १४ ।।
नास्तिकं भिन्नमर्यादं पुत्रहीनं जडं खलम् ।।
स्तेयिनं कितवं चैव कदाचिन्नाभिवादयेत् ।। १५ ।।
पाषण्डं पतितं व्रात्यं वेदविक्रयिणं तथा ।।
कृतघ्नं पापनिरतं कदाचिन्नाभिवादयेत् ।। १६ ।।
तथा स्नानं प्रकुर्वन्तं समित्पुष्पकरं तथा ।।
उदपात्रधरञ्चैव भुंजन्तं नाभिवादयेत् ।। १७ ।।
विवादशालिनं चण्डं वमन्तं जनमध्यगम् ।।
भिक्षान्नधारिणं चैव शयानं नाभिवादयेत् ।। १८ ।।
वन्ध्याञ्च पुष्पिणीं जारां सूतिकां गर्भपातिनीम् ।।
व्रतघ्नीञ्च तथा चण्डीं कदाचिन्नाभिवादयेत् ।। १९ ।।
सभायां यज्ञशालायां देवतायतनेष्वपि ।।
प्रत्येकं तु नमस्कारो हन्ति पुण्यं पुरातनम् ।। ।। 2.1.22.२० ।।
श्राद्धव्रते नियुक्तञ्च देवताभ्यर्चकं तथा ।।
यज्ञं च तर्पणञ्चैव कुर्वन्तं नाभिवादयेत् ।। २१ ।।
कुर्वते वन्दनं यस्तु न कुर्यात्प्रतिवन्दनम् ।।
नाभिवाद्यः स विज्ञेयो यथा शूद्रस्तथैव च ।। २२ ।।
तस्मात्सर्वेपु कालेषु बुद्धिमान्ब्राह्मणोत्तमः ।।
वन्ध्यापतिं द्विजं क्रूरं कदाचिन्नाभिवादयेत् ।। ।। २३ ।।
।। अथाकाशगंगामाहात्म्यम्।।
।। श्रीसूत उवाच ।। ।।
अत्रेतिहासं वक्ष्यामि पुण्यशीलस्य धीमतः ।।
सनत्कुमारमुनये नारदेन प्रभाषितम् ।। २४ ।।
तद्वक्ष्यामि मुनिश्रेष्ठाः शृणुध्वं सुसमाहिताः ।।
पुरा गोदावरीतीरे सर्वधर्मपरायणः ।। २५ ।।
पुण्यशीलो द्विजवरः सत्यवादी जितेन्द्रियः ।।
दयावान्सर्वभूतेषु देवाग्निद्विजपूजकः ।।२६।।
कर्मणा जन्मशुद्धश्च मातापितृहिते रतः ।।
गुरुभक्तिः सदाक्षिण्यो ब्रह्मण्यः साधुसंमतः ।। २७ ।।
एतादृशगुणैर्युक्तः पुण्यशीलस्य धीमतः ।। २८ ।।
।। अथ पुण्यशीलस्य वन्ध्यापतिनिमन्त्रणेन गर्दभमुखत्वप्राप्तिः ।। ।।
गृहं सम्प्राप्तवान्विप्रो वेदवेदांगपारगः ।।
प्रार्थितः पुण्यशीलेन पितृश्राद्धेऽतिवेगतः ।। २९ ।।
तं विप्रं श्रोत्रियं शान्तं पितृश्राद्धे नियोज्य वै ।।
श्राद्धं चकार धर्मात्मा प्रत्याब्दिकमनुत्तमम्।। 2.1.22.३० ।।
ततः कालान्तरे तस्य पुण्यशीलस्य चानने ।।
वैरूप्यं प्राप्तमत्युग्रं रासभाननवत्तदा ।। ३१ ।।
ततः खिन्नमना भूत्वा पुण्यशीलोऽतिधार्मिकः ।।
निःश्वस्य बहुधा खिन्नः प्रपेदेऽगस्त्ययोगिनः ।। ३२ ।।
सुवर्णमुखरीतीरे ऋषिसंघनिषेविते ।।
आश्रमं परमं दिव्यं सर्वकामफलप्रदम्।। ३३ ।।
तत्राश्रमे मुनिवरैः सेव्यमानमहर्निशम् ।।
दृष्ट्वागस्त्यं महात्मानं सर्वलोकहितैषिणम् ।। ३४ ।।
प्रणाममकरोत्तस्मै गार्दभास्योऽतिदुःखितः ।। ३५ ।।
।। पुण्यशील उवाच ।। ।।
तपोनिधे नमस्तुभ्यमगस्त्य मुनिसेवित ।।
कुत्सितास्यं महापापं रक्षरक्ष दयानिधे ।। ३६ ।।
केन दोषेण मे चात्र मुखस्यासीत्कुरूपता ।। ३७ ।।
मयि प्रीत्या महाभाग वदस्व मुनिसत्तम ।। ३८ ।।
अगस्त्य उवाच ।। ।।
विप्रवर्य महाभाग पुण्यशील महामते ।।
आननस्य विरूपं वै शृणु नान्यमना द्विज ।।३९।। ।।
अथ वन्ध्यापतेः श्राद्धनिमन्त्रणानर्हत्वकथनम् ।। ।।
कञ्चिद्विप्रं गुणनिधिं वेदवेदांगपारगम् ।।
श्रोत्रियं पुत्ररहितं श्राद्धे त्वं विनियुक्तवान् ।। 2.1.22.४० ।।
तेन दोषेण महता मुखे तव विरूपता ।।
ये लोके हव्यकव्यादौ वन्ध्यायाः स्वामिनं द्विजम्।। ४१ ।।
नियोजयन्ति ते यान्ति मुखे गर्दभरूपताम् ।।
शुभकर्मणि वा विप्र पैतृके वापि कर्मणि ।। ।। ४२ ।।
वन्ध्यापतिं महापापं कदाचिन्न निमन्त्रयेत् ।।
वन्ध्यापतिं महाक्रूरं वृषलीपतिमेव वा ।। ४३ ।।
श्रेयस्कामी हि विप्रेंद्र श्राद्धे तु न निमन्त्रयेत् ।।
वेदशास्त्रादियुक्तोऽपि कुलीनः कर्मठोऽपि वा ।। ४४ ।।
वन्ध्याभर्ता द्विजश्रेष्ठ श्राद्धे त्याज्यः कथञ्चन ।।
ज्योतिष्टोमादियज्ञेषु व्रतेषु च तपःसु च ।। ४५ ।।
समर्थोऽपि द्विजश्रेष्ठः श्राद्धे वन्ध्यापतिं त्यजेत् ।।
अलभ्ये तु द्विजे पात्रे तन्तुमात्रोपजीविनम् ।। ४६ ।।
पुत्रवन्तं सदाचारं श्राद्धार्थं तु निमन्त्रयेत् ।।
तदभावे द्विजश्रेष्ठ पुत्रं वाऽनुजमेव वा ।। ४७ ।।
आत्मानं वा नियुञ्जीत श्राद्धे वन्ध्यापतिं त्यजेत् ।।
पुण्यशील महाभाग चोद्धृत्य भुजमुच्यते ।। ४८ ।।
सर्वथा पुत्रहीनं तु श्राद्धार्थं न नियोजयेत् ।।
वन्ध्यापतिं द्विजं यस्तु श्राद्धकर्ता नियोक्ष्यति ।। ४९ ।।
तच्छ्राद्धमासुरं ज्ञेयं कर्ता च नरकं व्रजेत् ।। 2.1.22.५० ।।
।। अथाकाशगंगास्नानेन पुण्यशीलस्य तद्विकृतिनिवृत्तिः ।। ।।
बहुनात्र किमुक्तेन तद्दोषविनिवृत्तये ।।
उपायं ते प्रवक्ष्यामि स्वर्णमुख्यास्तटे शुभे ।। ५१ ।।
वर्तते देवसंघैश्च सेवितो वेंकटाचलः ।।
मेरुपुत्रो महापुण्यः सर्वकामफलप्रदः ।। ।। ५२ ।।
तस्मिन्वेंकटशैलेन्द्रे सुरासुरनमस्कृते ।।
वियद्गंगेति नाम्ना वै तीर्थमस्ति महत्तरम् ।। ५३ ।।
सर्वपापप्रशमनमायुरारोग्यवर्धनम् ।।
त्वं गत्वा वेंकटं शैलं स्वामिपुष्करिणीजले ।। ५४ ।।
स्नात्वा संकल्पपूर्वं तु गंगातीर्थमनन्तरम् ।।
गत्वा तीर्थविधानेन स्नानं कुरु महामते ।। ५५ ।।
स्नानमात्रात्ततः सद्यो मुखस्यास्य महामते ।।
वैरूप्यं तत्क्षणादेव नंक्ष्यत्येव न संशयः ।।५६।।
एवमुक्तः पुण्यशीलो ह्यगस्त्येन महात्मना ।।
तं प्रणम्य महात्मानं वेंकटाद्रिं ततो ययौ ।।५७ ।।
तत्र गत्वा महाभागः स्वामिपुष्करिणीजले ।।
स्नात्वा नियमपूर्वं तु वियद्गंगासमीपगः ।। ५८ ।।
तत्र स्नानेन धर्मात्मा कामवक्रोपमं मुखम् ।।
प्राप्तवान्पुण्यशीलस्तु अहो तीर्थस्य वैभवम् ।। ५९ ।।
।। श्रीसूत उवाच ।। ।।
एवं वः कथितं विप्रा नारदेन प्रभाषितम् ।।
सनत्कुमारमुनये शौनकाद्या महौजसः ।। 2.1.22.६० ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहात्म्य आकाशगंगामाहात्म्यवर्णनंनाम द्वाविंशतितमोऽध्यायः ।। २२ ।।