स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/वेङ्कटाचलमाहात्म्यम्/अध्यायः २०

विकिस्रोतः तः
Jump to navigation Jump to search

।। अथ पापविनाशनतीर्थमाहात्म्यवर्णनम् ।।
।। ।। श्रीसूत उवाच ।। ।।
पुनश्चाहं प्रवक्ष्यामि पापनाशनवैभवम् ।।
भगवद्भक्तिभावेन शृणुध्वं सुसमाहिताः ।। १ ।।
इतिहासं प्रवक्ष्यामि सर्वपापविनाशनम् ।।
यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ।। २ ।।
।। अथ भद्रमत्याख्यदरिद्रद्विजवृत्तान्तः ।। ।।
आसीत्पुरा द्विजवरो वेदवेदांगपारगः ।।
दरिद्रो वृत्तिहीनश्च नाम्ना भद्रमतिर्द्विजः ।। ३ ।।
श्रुतानि सर्वशास्त्राणि तेन विप्रेण धीमता ।।
श्रुतानि च पुराणानि धर्मशास्त्राणि सर्वशः ।। ४ ।।
अभवंस्तस्य षट् पत्न्यः कृता सिंधुर्यशोवती ।।
कामिनी मालिनी चैव शोभा चैव प्रकीर्तिताः ।। ५ ।।
तासु पत्नीषु तस्यासीत्पुत्राणां च शतद्वयम् ।।
ते सर्वे तस्य पुत्राद्याः क्षुधया परिपीडिताः ।। ६ ।।
अकिञ्चनो भद्रमतिः क्षुधार्तानात्मजान्प्रियान् ।।
पश्यन्प्रियाः क्षुधार्ताश्च विललापाकुलेन्द्रियः ।। ७ ।।
धिग्जन्म भाग्यरहितं धिग्जन्म धनवर्जितम् ।।
धिग्जन्म कीर्तिरहितं धिग्जन्मातिथ्यवर्जितम् ।। ८ ।।
धिग्जन्माचाररहितं धिग्जन्म ज्ञानवर्जितम् ।।
धिग्जन्म यत्नरहितं धिग्जन्म सुखवर्जितम् ।। ।। ९ ।।
धिग्जन्म बन्धुरहितं धिग्जन्म ख्यातिवर्जितम् ।।
नरस्य बह्वपत्यस्य धिग्जन्मैश्वर्यवर्जितम् ।। 2.1.20.१० ।।
अहो गुणाः सौम्यता च विद्वत्ता जन्म सत्कुले ।।
दारिद्र्याम्बुधिमग्नस्य सर्वमेतन्न शोभते ।। ११ ।।
विप्राः पुत्राश्च पौत्राश्च बान्धवा भ्रातरस्तथा ।।
शिष्याश्च सर्वे मनुजास्त्यजन्त्यैश्वर्यवर्जितम् ।। १२ ।।
इति निश्चित्य मतिमान्धीरो भद्रमतिर्द्विजः ।।
चण्डालो वा द्विजो वापि भाग्यवानेव पूज्यते ।। १३ ।।
दरिद्रः पुरुषो लोके शववल्लोकनिन्दितः ।।
अहो सम्पत्समायुक्तो निष्ठुरो वाप्यनिष्ठुरः ।। १४ ।।
गुणहीनोऽपि गुणवान्मूर्खो वापि स पण्डितः ।।
निष्ठुरो वा गुणी वापि धर्महीनोऽथ वा नरः ।। १५ ।।
ऐश्वर्यगुणयुक्तश्चेत्पूज्य एव न संशयः ।।
अहो दरिद्रता दुःखं तत्राप्याशातिदुःखदा ।। १६ ।।
आशाभिभूताः पुरुषा दुःखमश्नुवते क्षणात् ।। १७ ।।
आशाया ये दासा दासास्ते सर्वलोकस्य ।।
आशा दासी येषां तेषां दासायते लोकः ।। ।। १८ ।।
सर्वशास्त्रार्थवेत्तापि दरिद्रो भाति मूर्खवत् ।।
आकिञ्चन्यमहाग्राहग्रस्तानां नास्ति मोचकः ।। १९ ।।
अहो दुःखमहो दुःखमहो दुःखं दरिद्रता ।।
तत्रापि पुत्रदाराणां बाहुल्यमतिदुःखदम् ।। 2.1.20.२० ।।
एवमुक्त्वा भद्रमतिः सर्वशास्त्रार्थपारगः ।।
अत्यैश्वर्यप्रदं धर्मं मनसा चिन्तयंस्तदा ।।
तूष्णीं स्थितो भद्रमतिमहाक्लेशसमन्वितः ।। २१ ।।
।। अथ भद्रमतेः कामिनीकृतवेंकटाद्रिगमनप्रोत्साहनम् ।। ।।
तदानीं तासु भार्यासु कामिनी पतिदेवता ।। २२ ।।
भार्या साधुगुणैर्युक्ता पतिं तं प्रत्यभाषत ।। २३ ।।
।। कामिन्युवाच ।। ।।
भगवन्सर्वधर्मज्ञ सर्वशास्त्रार्थपारग ।।
मम नाथ महाभाग वाक्यं शृणु महामते ।। २४ ।।
सुवर्णमुखरीतीरे ऋषिसंघनिषेविते ।।
वर्तते दैवतैः सेव्यः पावनो वेंकटाचलः ।। २५ ।।
तस्मिन्वेंकटशैलेन्द्रे सुरासुरनमस्कृते ।।
वर्तते पावनं तीर्थं पापानां दाहकं शुभम् ।। २६ ।।
तत्र गत्वा महाभाग पापनाशे महामते ।।
कुरु स्नानं प्रयत्नेन भार्यापुत्रसमन्वितः ।। २७ ।।
तस्य तीर्थस्य माहात्म्यं नारदाच्च श्रुतं मया ।।
बालभावे मम पितुरंतिके प्रोक्तवान्मुनिः ।। २८ ।।
वेंकटाद्रौ महापुण्ये सर्वपातकनाशने ।।
सर्वदुःखप्रशमने सर्वसंपत्प्रदायके ।। २९ ।।
पापनाशे महातीर्थे स्नात्वा संकल्पपूर्वकम् ।।
अत्यैश्वर्यप्रदं धर्मं मनसा चिन्तयंस्तदा ।। 2.1.20.३० ।।
भूमिदानं विनिश्चित्य सर्वदानोत्तमोत्तमम् ।।
प्रापकं परलोकस्य सर्वकामफलप्रदम् ।। ३१ ।।
दानानामुत्तमं दानं भूदानं परिकीर्तितम्।।
तद्दत्त्वा समवाप्नोति यद्यदिष्टतमं नरः ।। ३२ ।।
इत्येवं नारदेनोक्तं श्रुत्वा मे जनको द्विजः ।।
संप्रहृष्टमना भूत्वा शेषाद्रिं प्राप्तवांस्तदा ।। ३३ ।।
तत्र गत्वा महाभागः सर्वसंपत्प्रदायकम् ।।
भूदानं विप्रवर्याय श्रोत्रियाय प्रदत्तवान् ।। ३४ ।।
ततो मे जनको विद्वन्सर्वभाग्यसमन्वितः ।।
इहलोके सुखं प्राप्य चान्ते विष्णुपुरं ययौ ।। ३५ ।।
त्वं च गत्वा महाभाग वेंकटाद्रिं नगोत्तमम् ।।
कुरु दानं प्रयत्नेन भूदानं सर्वकामदम् ।। ३६ ।।
।। अथ कामिनीकथितभूदानप्रशंसा ।। ।।
भूमिदानस्य माहात्म्यं शृणुष्व सुसमाहितः ।।
न कोऽपि गदितुं शक्तो लोकेऽस्मिन्भगवन्प्रभो ।। ३७ ।।
भूमिदानात्परं दानं न भूतं न भविष्यति ।।
परं निर्वाणमाप्नोति भूमिदो नात्र संशयः ।। ३८ ।।
स्वल्पामपि महीं दत्त्वा श्रोत्रियायाहिताग्नये ।।
ब्रह्मलोकमवाप्नोति पुनरावृत्तिवर्जितम् ।। ३९ ।।
भूमिदः सर्वदः प्रोक्तो भूमिदो मोक्षभाग्भवेत् ।।
भूभिदानं वृषाद्रौ च सर्वपापप्रणाशनम् ।। 2.1.20.४० ।।
महापातकयुक्तो वा युक्तो वा सर्वपातकैः ।।
दशहस्तां महीं दत्त्वा सर्वपापैः प्रमुच्यते ।। ४१ ।।
सत्पात्रे भूमिदाता यः सर्वदानफलं लभेत् ।।
भूमिदस्य समो नान्यस्त्रिषु लोकेषु विद्यते ।। ४२ ।।
द्विजस्य वृत्तिहीनस्य यः प्रदद्यान्महीं शुभाम्।।
तस्य पुण्यफलं वक्तुं शेषो नार्हः कदाचन ।। ४३ ।।
विप्रस्य वृत्तिहीनस्य सदाचारस्य कस्यचित् ।।
यो ऽल्पामपि महीं दद्यात्स विष्णुर्नात्र संशयः ।। ४४ ।।
इक्षुगोधूमकेदारपूगदृक्षादिसंयुता ।।
पृथ्वी प्रदीयते येन स विष्णुर्नात्र संशयः ।। ४५ ।।
वृत्तिहीनस्य विप्रस्य दरिद्रस्य कुटुम्बिनः ।।
स्वल्पामपि महीं दत्त्वा विष्णुसायुज्यमश्नुते ।। ४६ ।।
सक्तस्य देवपूजासु विप्रस्याटविका मही ।।
दत्ता भवति गंगायां त्रिरात्रस्नानजं फलम्।। ४७ ।।
विप्रस्य वृत्तिहीनस्य सदाचाररतस्य च ।।
द्रोणिकां पृथिवीं दत्त्वा यत्फलं लभते शृणु ।। ४८ ।।
गंगातीरेऽश्वमेधानां शतानि विधिवन्नरः ।।
कृत्वा यत्फलमाप्नोति तदाप्नोति महत्फलम् ।। ४९ ।।
ददाति भारिकां भूमिं दरिद्राय द्विजातये ।।
तस्य पुण्यं प्रवक्ष्यामि मन्नाथ भगवन्प्रभो ।। 2.1.20.५० ।।
अश्वमेधसहस्राणि वाजपेयशतानि च ।।
विधाय जाह्नवीतीरे यत्फलं तल्लभेत सः ।। ५१ ।।
भूमिदानं महादानमतिदानं प्रकीर्तितम् ।।
सर्वपापप्रशमनमपवर्गफलप्रदम् ।। ५२ ।।
यच्छ्रुत्वा श्रद्धया युक्तो भूमिदानफलं लभेत् ।।
भार्याया वचनं श्रुत्वा त्वितिहाससमन्वितम् ।। ५३ ।।
सन्तुष्टो मनसि ध्यात्वा शेषाचलनिवासिनम् ।। ५४ ।।
।। अथ भद्रमतये भूप्रदानात्सुघोषस्य सद्गतिः ।। ।।
गन्तुं प्रचक्रमे बुद्ध्या क्रीडाचलमनुत्तमम् ।।
ततो भद्रमतिः सौम्यः सर्वधर्मपरायणः ।। ५५ ।।
सुशालिंनाम नगरीं कलत्रसहितो ययौ ।।
सुघोषं नाम विप्रेन्द्रं सर्वैश्वर्यसमन्वितम् ।। ५६ ।।
गत्वा याचितवान्भूमिं पञ्चहस्तायतां द्विजः ।।
सुघोषो धर्मनिरतस्तं निरीक्ष्य कुटुम्बिनम् ।। ।। ५७ ।।
मनसा प्रीतिमापन्नं समभ्यर्च्यैनमब्रवीत् ।।
कृतार्थोऽहं भद्रमते सफलं मम जन्म च ।।
मत्कुलं चानघं जातं त्वं हि ग्राह्योऽसि मे यतः ।। ५८ ।।
इत्युक्त्वा तं समभ्यर्च्य सुघोषो धर्मतत्परः ।।
पञ्चहस्तप्रमाणां तां ददौ तस्मै महामतिः ।। ५९ ।।
पृथिवी वैष्णवी पुण्या पृथिवी विष्णुपालिता ।।
पृथिव्यास्तु प्रदानेन प्रीयतां मे जनार्दनः ।। 2.1.20.६० ।।
मन्त्रेणानेन विप्रेन्द्राः सुघोषस्तं द्विजेश्वरम् ।।
विष्णुबुद्ध्या समभ्यर्च्य तावतीं पृथिवीं ददौ ।। ६१ ।।
स भद्रमतये विप्रा धीमांस्तां याचितां भुवम् ।।
दत्तवान्हरिभक्ताय श्रोत्रियाय कुटुंबिने ।। ६२ ।।
सुघोषो भूमिदानेन कोटिवंशसमन्वितः ।।
प्रपेदे विष्णुभवनं यत्र गत्वा न शोचति ।। ६३ ।।
।। अथ भद्रमतेः पापनाशनतीरे भूदानार्थं वेंकटाद्रिगमनम्।। ।।
विप्रो भद्रमतिश्चापि पुत्रदारसमन्वितः ।।
गतो वेंकटशैलेन्द्रं सुरासुरनमस्कृतम् ।।६४।।
गन्धर्वयक्षशैलादिसेवितं मेरुपुत्रकम् ।।
वैकुण्ठादागतं दिव्यं क्रीडाचलमनुत्तमम् ।। ६५ ।।
तत्र स्वामिसरस्तोये निर्मले पावने शुभे ।।
दारपुत्रादिसंयुक्तः स्नात्वा संकल्पपूर्वकम् ।। ६६ ।।
तत्पश्चिमतटे श्वेतसूकरं वसुधाधरम् ।।
नत्वा तत्र विधानेन श्रीनिवासालयं गतः ।।६७।।
तत्र ब्रह्मादिदेवैश्च सेवितं वेंकटेश्वरम् ।।
दृष्टवान्सह पुत्राद्यैर्विष्णुभक्तो महामतिः।।६८।।
भक्त्या प्रणम्य देवेशं श्रीनिवासं कृपानिधिम् ।।
पुत्रदारादिसंयुक्तः पापनाशनमाययौ ।। ६९ ।।
तत्र स्नात्वा विधानेन कृतधर्मादिसत्क्रियः ।।
कस्मैचिद्विष्णुभक्ताय श्रोत्रियाय महामतिः ।।2.1.20.७०।।
विष्णुबुद्ध्या स प्रददौ भूदानं मोक्षदं शुभम्।।७१।।
।। अथ भूदानप्रभावेण भद्रमतेर्भगवत्साक्षात्कारः।।
तदा प्रादुरभूद्देवः शंखचक्रगदाधरः ।। ७२ ।।
विनतानन्दनारूढो वनमालाविभूषितः ।।
पापनाशस्य तीरे तु भूदानस्य प्रभावतः ।।७३।।
तदा भद्रमतिः सौम्यः स्तोतुं समुपचक्रमे ।। ७४ ।।
नमोनमस्तेऽखिलकारणाय नमोनमस्तेऽखिलपालकाय ।।
नमोनमस्तेऽमरनायकाय नमोनमो दैत्यविमर्दनाय ।। ७५ ।।
नमोनमो भक्तजनप्रियाय नमोनमः पापविदारणाय ।।
नमोनमो दुर्जननाशकाय नमोऽस्तु तस्मै जगदीश्वराय ।। ७६ ।।
नमो नमः कारणवामनाय नारायणायामितविक्रमाय ।।
श्रीशार्ङ्गचक्रासिगदाधराय नमोऽस्तु तस्मै पुरुषोत्तमाय ।। ७७ ।।
नमः पयोराशिनिवासकाय नमोऽस्तु लक्ष्मीपतयेऽव्ययाय ।।
 नमोऽस्तु सूर्याद्यमितप्रभाय नमोनमः पुण्यगतागताय ।। ७८ ।।
नमोनमोऽर्केन्दुविलोचनाय नमोऽस्तु ते यज्ञफलप्रदाय ।।
नमोस्तु यज्ञांगविराजिताय नमोऽस्तु ते सज्जनवल्लभाय ।। ७९ ।।
नमोनमः कारणकारणाय नमोऽस्तु शब्दादिविवर्जिताय ।।
नमोऽस्तु तेऽभीष्टसुखप्रदाय नमोनमो भक्तमनोरमाय ।। 2.1.20.८० ।।
नमोनमस्तेऽद्भुतकारणाय नमोऽस्तु ते मन्दरधारकाय ।।
नमोऽस्तु ते यज्ञवराहनाम्ने नमो हिरण्याक्षविदारकाय ।। ८१ ।।
नमोऽस्तु ते वामनरूपभाजे नमोऽस्तु ते क्षत्रकुलान्तकाय ।।
नमोऽस्तु ते रावणमर्दनाय नमोऽस्तु ते नन्दसुताग्रजाय ।। ८२ ।।
नमस्ते कमलाकान्त नमस्ते सुखदायिने ।।
श्रितार्तिनाशिने तुभ्यं भूयोभूयो नमोनमः ।। ८३ ।।
विप्रेण संस्तुतो देवो भगवान्भक्तवत्सलः ।।
वात्सल्येनाब्रवीद्वाक्यं श्रीनिवासो दयानिधिः ।। ८४ ।।
तात तुष्टोऽस्मि भद्रं ते स्तोत्रेण महता द्विज ।।
सर्वभोगसमायुक्तः पुत्रपौत्रादिभिर्युतः ।। ८५ ।।
इह लोके सुखं प्राप्य देहान्ते मुक्तिमाप्नुहि ।।
इत्युक्त्वा भगवान्विष्णुस्तत्रैवान्तरधीयत ।। ८६ ।।
एवं वः कथितं विप्राः पापनाशनवैभवम् ।।
तत्तीरे भूप्रदानस्य माहात्म्यं चापि वर्णितम् ।। ८७ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहात्म्ये पापविनाशनतीर्थे भूदानफलानुवर्णनंनाम विंशतितमोऽध्यायः ।। २० ।।