स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/वेङ्कटाचलमाहात्म्यम्/अध्यायः १८

विकिस्रोतः तः
Jump to navigation Jump to search

।। अथ श्रीवेंकटेश्वरवैभववर्णनम् ।।
।। श्रीसूत उवाच ।। ।।
अथेदानीं प्रवक्ष्यामि वेंकटेश्वरवैभवम् ।।
यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ।। १ ।।
श्रीवेंकटेश्वरं देवं यः पश्यति सकृन्नरः ।।
स नरो मुक्तिमाप्नोति विष्णुसायुज्यमाप्नुयात् ।। २ ।।
दशवर्षैस्तु यत्पुण्यं क्रियते तु कृते युगे ।।
त्रेतायामेकवर्षेण तत्पुण्यं साध्यते नृभिः ।। ३ ।।
द्वापरे पञ्चमासेन तद्दिनेन कलौ युगे ।।
तत्फलं कोटिगुणितं निमिषेनिमिषे नृणाम् ।। ४ ।।
निःसंदेहं भवेदेवं श्रीनिवासविलोकिनाम्।।
श्रीवेंकटेश्वरे देवे तीर्थानि सकलान्यपि ।। ५ ।।
विद्यन्ते सर्वदेवाश्च मुनयः पितरस्तथा ।।
एककालं द्विकालं वा त्रिकालं सर्वदैव वा ।। ६ ।।
ये स्मरन्ति महादेवं श्रीनिवासं विमुक्तिदम् ।।
कीर्तयन्त्यथवा विप्रास्ते मुक्ताः पापपञ्जरात् ।। ७ ।।
नारायणं परं देवं वेंकटेशं प्रयान्ति वै ।।
पूजितं शङ्खराजेन सच्चिदानंदविग्रहम् ।। ८ ।।
तस्य स्मरणमात्रेण यमपीडाऽपि नो भवेत् ।।
श्रीनिवासं महादेवं येऽर्चयंति सकृन्नराः।। ।। ९ ।।
किं दानैः किं व्रतैस्तेषां किं तपोभिः किमध्वरैः ।।
वेंकटेशं परं देवं यो न चिन्तयति क्षणम् ।। 2.1.18.१० ।।
अज्ञानी स च पापी स्यात्स मूको बधिरस्तथा ।।
स जडोऽन्धश्च विज्ञेयश्छिद्रं तस्य सदा भवेत् ।। ११ ।।
श्रीनिवासे महादेवे सकृद्दृष्टे मुनीश्वराः ।।
किं काश्या गयया चैव प्रयागेनापि किं फलम्।। १२ ।।
दुर्लभं प्राप्य मानुष्यं मानवा इह भूतले ।।
वेंकटेशं परं देवं ये पश्यन्त्यर्चयन्ति वा ।। १३ ।।
जन्म तेषां हि सफलं ते कृतार्थाश्च नेतरे ।।
वेंकटेशे परे देवे दृष्टे वा पूजितेऽपि वा ।। १४ ।।
शम्भुना ब्रह्मणा किं वा शक्रेणाप्यखिलामरैः ।।
वेंकटेशे महादेवे भक्तियुक्ताश्च ये नराः ।। १५ ।।
तेषां प्रणामस्मरणपूजायुक्तास्तु ये नराः ।।
न ते पश्यंति दुःखानि नैव यांति यमालयम् ।। १६ ।।
ब्रह्महत्यासहस्राणि सुरापानायुतानि च ।।
दृष्टे नारायणे देवे विलयं यांति कृत्स्नशः ।। १७ ।।
ये वाञ्छंति सदा भोगं राज्यं च त्रिदशालये ।।
वेंकटाद्रिनिवासं ते प्रणमन्तु सकृन्मुदा ।। १८ ।।
यानि कानि च पापानि जन्मकोटिकृतानि च ।।
तानि सर्वाणि नश्यन्ति वेंकटेश्वरदर्शनात् ।। १९ ।।
संपर्कात्कौतुकाल्लोभाद्भयाद्वापि च संस्मरन् ।।
वेंकटेशं महादेवं नेहामुत्र च दुःखभाक् ।। 2.1.18.२० ।।
वेंकटाचलदेवेशं कीर्तयन्नर्चयन्नपि ।।
अवश्यं विष्णुसारूप्यं लभते नात्र संशयः ।। २१ ।।
यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुते क्षणात् ।।
तथा पापानि सर्वाणि वेंकटेश्वरदर्शनम् ।। २२ ।।
वेंकटेश्वरदेवस्य भक्तिरष्टविधा स्मृता ।।
तद्भक्तजनवात्सल्यं तत्पूजापरितोषणम् ।। २३ ।।
स्वयं तत्पूजनं भक्त्या तदर्थे देहचेष्टितम् ।।
तन्माहात्म्यकथावांछाश्रवणेष्वादरस्तथा ।। २४ ।।
स्वरनेत्रशरीरेषु विकारस्फुरणं तथा ।।
श्रीनिवासस्य देवस्य स्मरणं सततं तथा ।। २५ ।।
वेंकटाद्रिनिवासं तमाश्रित्यैवोपजीवनम्।।
एवमष्टविधा भक्तिर्यस्मिन्म्लेच्छेऽपि वर्तते।।२६।।
स एव मुक्तिमाप्नोति शौनकाद्या महौजसः।।
भक्त्या त्वनन्यया मुक्तिर्ब्रह्मज्ञानेन निश्चिता।। २७।।
वेदान्तशास्त्रश्रवणाद्यतीनामूर्ध्वरेतसाम् ।।
सा च मुक्तिर्विना ज्ञानं वेदान्तश्रवणोद्भवम्।।
यत्याश्रमं विना विप्रा विरक्तिं च विना तथा ।। २८ ।।
सर्वेषां चैव वर्णानामखिलाश्रमिणामपि ।।
वेकटेश्वरदेवस्य दर्शनादेव केवलम् ।। २९ ।।
अपुनर्भवदा मुक्तिर्भविष्यत्यविलंबितम् ।।
कृमिकीटाश्च देवाश्च मुनयश्च तपोधनाः ।। 2.1.18.३० ।।
तुल्या वेंकटशैलेन्द्रे श्रीनिवासप्रसादतः ।।
पापं कृतं मयानेकमिति मा क्रियतां भयम् ।। ३१ ।।
मा गर्वः क्रियतां पुण्यं मयाऽकारीति वा जनैः ।।
वेंकटेशे महादेवे श्रीनिवासे विलोकिते ।। ३२ ।।
न न्यूना नाधिकाश्च स्युः किन्तु सर्वे महाजनाः।।
वेंकटाख्ये महापुण्ये सर्वपातकनाशने।।३३।।
श्रीनिवासं परं देवं यः पश्यति सभक्तिकम्।।
न तेन तुल्यतामेति चतुर्वेद्यापि भूतले।।३४।।
वेंकटेश्वरदेवेशं यः पूजयति भक्तितः।।
स कोटिकुलसंयुक्तः प्रयाति हरिमंदिरम्।।३५।।
श्रीनिवासाच्च न समं नाधिकं पुण्यमस्ति वै ।।
वेंकटाद्रिनिवासं तं द्वेष्टि यो मोहमास्थितः ।। ३६ ।।
ब्रह्महत्यायुतं तेन कृतं नरककारणम् ।।
तत्संभाषणमात्रेण मानवो नरकं व्रजेत् ।। ३७ ।।
श्रीनिवासपरा वेदाः श्रीनिवासपरा मखाः ।।
श्रीनिवासपराः सर्वे तस्मादन्यन्न विद्यते ।। ३८ ।।
अन्यत्सर्वं परित्यज्य श्रीनिवासं समाश्रयेत् ।।
सर्वयज्ञतपोदानतीर्थस्नाने तु यत्फलम् ।। ३९ ।।
तत्फलं कोटिगुणितं श्रीनिवासस्य सेवया ।।
वेंकटाद्रिनिवासं तं चिंतयन्घटिकाद्वयम् ।। 2.1.18.४० ।।
कुलैकविंशतिं धृत्वा विष्णुलोके महीयते ।।
स्वामिपुष्करिणीतीर्थे स्नानं देवस्य दर्शनम् ।। ४१ ।।
यदि लभ्येत वै पुंसां किं गङ्गाजलसेवया ।।
वेकटेशं परं देवं यः कदापि न पश्यति ।। ४२ ।।
संकरः स तु विज्ञेयो न पितुर्बीजसंभवः ।।
तस्मात्सर्वप्रयत्नेन वेंकटेशो दयानिधिः ।। ४३ ।।
द्रष्टव्योऽतिप्रयत्नेन परलोकेच्छया द्विजाः ।।
एवं वः कथितं विप्रा वेंकटेशस्य वैभवम् ।। ४४ ।।
यस्त्वेतच्छृणुयान्नित्यं पठते च सभक्तिकम् ।।
स वै वेंकटनाथस्य सेवाफलमवाप्नुयात् ।। ४५ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहात्म्ये वेंकटेश्वरवैभवानुवर्णनं नामाष्टादशोऽध्यायः ।। १८ ।। ।।